KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः
Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः
Introduction:
An essay is a piece of prose writing that gives a complete and clean picture of a particular subject. It will be divided into paragraphs. In each paragraph, a particular aspect of the subject is dealt with. An essay include with an introduction, presentation of the subject and conclusion.
पीठिका
प्रकृष्टो बन्धः प्रबन्धः इत्युच्यते । निबन्धः इति अस्य नामान्तरम् । नातिविस्तृतः नातिसंक्षिप्तरूपो प्रबन्धः लघुप्रबन्धः इति कथ्यते। प्रबन्धे सरलानि वाक्यानि अपेक्षितानि। मुख्यतया प्रबन्धाः वर्णनात्मकाः, विचारात्मकाः, आख्यानात्मकाः, व्याख्यानात्मकाः चेति चतुर्धा विभक्ताः। आभाणकादिभिः प्रबन्धाः आकर्षकाः भवन्ति । एतान् सर्वान् अंशान् मनसि निधाय छात्रैः प्रबन्धाः रचनीयाः ।
प्रबन्धे प्रस्तावना, विषयनिरूपणम्, उपसंहारश्चेति निरूपणक्रमः अपेक्षितः। प्रस्तावनायां प्रबन्धविषयस्य उपक्रमः, विषयानिरूपणभागे विषयस्य विस्तारः, उपसंहारभागे प्रबन्धविषयस्य सारांशः च भवेत् । प्रबन्धे वाक्यानां परस्परसम्बन्धः आवश्यकः । उदाहरणार्थम् अत्र केचन प्रबन्धाः प्रदत्ताः ।
परिसरः
अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समन्वयः एव परिसरशब्देन सूच्यते । अस्माकं जीवननिर्वहणे परिसरस्य अतीव आवश्यकता अस्ति। नगरीकरणस्य, उद्यमीकरणस्य, जनसंख्यास्फोटस्य च परिणामतः परिसरः दूषितः अस्ति । परिसरमालिन्यानि त्रिविधानि । वायुमालिन्यं जलमालिन्यं, शब्दमालिन्यं च।
वायुमालिन्यं – बृहद्यन्त्रागारेभ्यः सर्वदा निस्सरद्भ्यः कलुषितविषानिलेभ्यः सर्वदा सञ्चरद्भ्यः शतशोऽथसहस्रशः वाहनानां धूमेभ्यः अपि वायुः प्रदूषितः ।
जलमालिन्यम् – यन्त्रागारेभ्यः निष्कास्यमानानि रासायनिक वस्तुयुक्तानि दूषितजलानि, स्नानशौचालयानां मलिनजलानि च नलिकाभिः नदी प्रति प्रेषयन्ति। एतेन जलमालिन्यं भवति ।
शब्दमालिन्यम् – यन्त्रागाराणां कर्कशशब्दैः ध्वनिवर्धकानां, विविधकार्याणां, वाहनानां च शब्दैः नित्यं प्रदूषणं वर्धते एव ।
एवं परिसरप्रदूषणेन नानाविधाः रोगाः समुद्भवन्ति। प्रदुष्टेन परिसरेण न केवलं मानवाः अपि तु पशवः, पक्षिणः, कीटाः जलचराश्च महतीं हानिम् अनुभवन्ति। एतस्य प्रतिक्रिया अधुना अवश्यं विधातव्या । एतदर्थं सर्वेजनाः जागरिताः भवेयुः। प्रशासनानि उद्योगपतींश्च बोधयेयुः । परिसरसंरक्षणार्थम् आवश्यककर्माणि कुर्युः ।
सङ्गणकयन्त्रम्
‘कम्प्यूटर्’ यन्त्रस्य सङ्गणकम् इति नामधेयम् अस्ति। ‘चार्ल्स बाबेज्’ इति आङ्ग्लविज्ञानी इदं यन्त्रम् आविष्कृतवान्। अस्मिन् यन्त्रे आन्तरिकयन्त्रभागः, बाह्ययन्त्रभागः इति विभागाः सन्ति । सङ्गणकयन्त्रं बाह्ययन्त्रभागेन सूचनां स्वीकृत्य स्मरणविभागं प्रेषयति। तदा बाह्ययन्त्रभागेन सूचनां विषयं च प्रकटीकरोति ।
सङ्गणकयन्त्रं तु विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत् यन्त्रम् । सङ्गणकयन्त्रस्य आविष्कारेण विज्ञानक्षेत्रे महती क्रान्तिः अभवत् । आधुनिकशिक्षणे सङ्गणकयन्त्रज्ञानम् अनिवार्यम् । मुद्रणम्, सञ्चारः, सैन्यं, तन्त्रज्ञानम्, विज्ञानं, संस्कृतिः, चिकित्सालय इत्यादिक्षेत्रेषु अस्य व्यापकः प्रभावः अस्ति। अस्य गणनशक्तिः, स्मरणशक्तिः असाधारणमस्ति। गणकयन्त्रे नूतनमाविष्कारमेव अन्तर्जालम् । संस्कृतभाषा उत्तमसङ्गणकभाषा इति विश्वविद्यालयेन प्रयोगद्वारा प्रमाणीकृतमस्ति ।
सङ्गणकयन्त्रस्य प्रभावेण मानवाः अलसाः जाताः। सर्वाण्यपि कार्याणि कर्तुं सङ्गणकयन्त्रम् आश्रयन्ति। एतेन बुद्धिविकासः अवरुद्धः भवति। अतः अस्य उपयोगं जागरूकतया कुर्युः ।
समाचारपत्रम्
विश्वस्मिन् प्रतिक्षणं विविधाः घटनाः सम्भवन्ति। एतासां घटनानां विचारान् सर्वेभ्यः जनेभ्यः शीघ्रं प्रापयितुं समूहमाध्यमाः प्रयतन्ते। तेषु समाचारपत्रम् अन्यतमम् । आधुनिकयुगे अनेकाः पत्रिकाः अतीवजनप्रियाः सन्ति। एताः प्रतिदिनं भूतभविष्यद्वर्तमानविचारान् सर्वत्र प्रापयन्ति। दैनिक-पाक्षिक-मासिक-वार्षिकरूपेण वार्तापत्रिकाः भवन्ति। एताः प्रादेशिक-राष्ट्रिय-अन्तर्राष्ट्रियाः वार्ताः प्रकटीकुर्वन्ति।
राजकीय-सामाजिक-धार्मिक-शैक्षणिक-क्रीडा-मनोरञ्जनादि विविध विचाराः पत्रिकासु भवन्ति । पत्रिकाणां पठनेन ज्ञानाभिवृद्धिः भवति। सर्वासु भाषासु . पत्रिकाः प्रकटीकुर्वन्ति । संस्कृतेऽपि सुधर्माः, सम्भाषणसन्देशः, गीर्वाणवाणी इत्यादिपत्रिकाः सन्ति ।
अधुना पत्रिकारङ्गोऽपि कलुषितः इव प्रतिभाति। तत्र वार्ताः पक्षपातिन्यः इव दृश्यन्ते। वस्तुनिष्ठाः विश्वसनीयाः विषयाः विरलाः भवन्ति। तथा न भवेयुः। देशस्य समाजस्य च हितचिन्तकाः वार्तापत्रिकाः भवन्तु।
राष्ट्रियोत्सवाः पर्वाणि च अस्माकं देशः 1947 तमे वर्षे स्वतन्त्रम् अभवत् । जनाः पर्वरूपेण अस्य उत्सवस्य अनुष्ठानं कुर्वन्ति। अनेके वीराः देशस्य स्वातन्त्र्यप्राप्तसमये स्वप्राणान् अत्यजन् । अस्मिन् दिने तेषां संस्मरणं क्रियते। राजधान्याः देहल्याः रक्तदुर्गात् प्रधानमन्त्री भाषणं करोति। अस्माभिः स्वदेशस्य स्वतन्त्रता अखण्डता च रक्षणीया। अस्माकं विद्यालये अपि स्वातन्त्र्योत्सवः आचर्यते। प्रधानाचार्यः प्रातः ध्वजारोहणं करोति। छात्राः च मिलित्वा राष्ट्रगीतं गायन्ति। विद्यालये मधुरं अस्मभ्यं दीयन्ते ।