KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 5 परोपकारः पुण्याय
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 5 परोपकारः पुण्याय
Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 5 परोपकारः पुण्याय
परोपकारः पुण्याय Questions and Answers, Summary, Notes
अभ्यासः
I. एक वाक्येन उत्तरं लिखत ।
प्रश्न 1.
प्रवाहात् ब्राह्मणं कोऽरक्षत् ?
उत्तरम्
प्रवाहात् ब्राह्मणं राजा विक्रमः अरक्षत् ।
प्रश्न 2.
ब्राह्मणः राज्ञे किं समर्पितवान् ?
उत्तरम्
‘ब्राह्मणः’ राज्ञे पुण्यं समर्पितवान् ।
प्रश्न 3.
कः राज्ञः समीपमाजगाम?
उत्तरम्
भीषणः कोऽपि ब्रह्मराक्षसः राज्ञः समीपमाजगाम ।
प्रश्न 4.
पापकर्मणः मुक्तः ब्रह्मराक्षसः कथं दिवं जगाम?
उत्तरम्
पापकर्मणः मुक्तः ब्रह्मराक्षसः दिव्यरूपधरः सन् दिवं जगाम ।
प्रश्न 5.
अनित्यानि कानि?
उत्तरम्
अनित्यानि शरीराणि।
II. रिक्तस्थान पूरयत :
- _________ सह ब्राह्मणो निजस्थानं जगाम । (पल्ल्या)
- अहं ___________ गर्वाद् बृद्धान् अदूषयम् । (विद्या)
- परोपकारः ___________ भवति । (पुण्याय)
- पापाय ________। (परपीडनम्)
- राजा तत्पुण्यं निर्विशङ्ख _________। (ददौ)
III. सम्यक् योजयत :
अ – आ
१. विभवो – 1. धर्मसङ्ग्रहः
२. कर्तव्यो – 2. द्वात्रिशत् पुत्थलिका
३. विक्रमार्कचरितम् – 3. तृतीयजन्म
४. गायत्र्या – 4. नैवशाश्वतः
– 5. द्वितीय जन्म ।
उत्तरम्
१ – 4, २ – 1, ३ – 2, ४ – 5
IV. रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत ।
प्रश्न 1.
द्वात्रिंशत् पुत्थलिकाः सन्ति ।
उत्तरम्
कति पुत्थलिकाः सन्ति ?
प्रश्न 2.
राजा सिंहासने उपविशति ।
उत्तरम्
राजा कुत्र उपविशति ?
प्रश्न 3.
भोजः तूष्णीं तिष्ठति ।
उत्तरम्
भोजः कथं तिष्ठति?
प्रश्न 4.
ब्राह्मणः पुत्रेण सह आगच्छति ।
उत्तरम्
ब्राह्मणः केन सह आगच्छति ?
V. वाक्यदोषं परिहरत :
प्रश्न 1.
अहं अत्रैव नगरे कश्चन ब्राह्मण: असीत्।
उत्तरम्
अहं अत्रैव नगरे कश्चन ब्राह्मणः आसम् ।
प्रश्न 2.
सर्वेऽपि जन: सदयम् अपश्यन् ।
उत्तरम्
सर्वेऽपि जनाः सदयम् अपश्यन् ।
प्रश्न 3.
राजाऽपि तत्रत्यान् जनान् अपृच्छन् ।
उत्तरम्
राजाऽपि तत्रत्यान् जनान् अपृच्छत् ।
प्रश्न 4.
पत्नीं सह ब्राह्मणः निजस्थानं जगाम ।
उत्तरम्
पत्न्या सह ब्राह्मणः निजस्थानं जगाम ।
VI. योग्यरूपाणि पूरयत :
- नद्याः (नदी) जले मम पिता (पितृ) स्नाति ।
- न गायत्र्याः (गायत्री) परं मन्त्रं अस्ति (अस्) ।
- राजा (राजन्) सभायां राज्या: (राज्ञी) समीपे च उपविशन्ति ।
- बालाः, यूयम् (युष्मद्) महापूरे स्नातुं मा गच्छत (गम्-लोट्)
VII. पर्यायपदानि लिखत ।
- भार्या – पत्नी, सहधर्मिणी
- राजा – नृपः, भूपालः
- पादपः – वृक्षः, तरुः
- शरीरम् – देहः, कायः
VIII. यथा निर्देशं लिखत ।
प्रश्न 1.
भोः महापुरुष, मम एतत् शरीरं पुरा पितृभ्याम् अजायत ।
कः पाठः ? सः महापुरुषः कः? कस्य शरीरं पितृभ्याम् अजायत?
उत्तरम्
परोपकारः पुण्याय इति पाठः । सः महापुरुष: विक्रमः । ब्राहम्णस्य शरीरं पितृभ्याम् अजायत ।
प्रश्न 2.
विद्यागर्वात् वृद्धान् अदूषयम् ।
कः पाठः ? स: अदूषयत् ? कस्य अदूषयत् ?
उत्तरम्
परोपकारः पुण्याय इति पाठः । ब्रहमराक्षसः अदूषयत् । तस्य पूर्वस्मिन् जन्मनि अदूषयत ।
IX. लघूत्तरं लिखत ।
प्रश्न 1.
स्वस्थ: ब्राहमण: राजानं प्रति किमब्रवीत् ?
उत्तरम्
स्वस्थः ब्राहमणः राजानं प्रति एवम् अब्रवीत् – भोः महापुरुष, ममौतच्छरीरं पुरा पितृभ्याम् अजायत । ततोऽस्त शरीरस्य गायत्र्या द्वितीयं जन्म । इदानीं भवतः तृतीयं जन्म प्राप्तम् । अतः प्राणादानात् महोपकारिणः तव प्रत्युपकरिष्यानि इति ।
प्रश्न 2.
ब्रह्मराक्षसः कथं शापविमुक्तः अभवत् ?
उत्तरम्
ब्रह्मराक्षसः विक्रमं ब्राह्मणेन दत्तं पुण्यं अचायता । राजापि तत्पुण्यं ददौ । सोऽपि तेन पुण्येन तस्मात्पापकर्मणो मुक्तो दिव्यरूपधरः सन् राजानं प्रशंस्य दिवं जगाम ।
X. दीर्घमुत्तरं लिखत ।
प्रश्न 1.
विक्रमादित्यस्य परोपकारं विवृणुत ।
उत्तरम्
This story has been edited by S. Venkataramanashastri. It is choosen from the book ‘Vikramarkacharitam’. There are no authentic records about the author and title of this story. This literary composition is also known as ‘Dwatrimshat Putthalika’. Bhojaraja wishes to climb (sit on) the throne of Vikramaditya. This throne is held by thirty two dolls. These dolls one after the other describe the virtues of Vikramaditya in the form of stories and in the end, they ask him to get seated on the throne if he possesses those virtues of Vikramaditya. Bhojaraja becomes speechless, after knowing this. This lesson is one of those thirty two stories of Vikramaditya.
इतरप्रश्नाः
I. अन्यलिङ्गरूपं लिखत ।
- राजा – राज्ञी
- ब्राहमणः – ब्राहमणी
- राक्षसः – राक्षसी
- पतिः – पत्नी
II. सन्धिं विभज्य नाम लिखत ।
- कोऽपि – कः + अपि – पूर्वरूपसन्धिः ।
- ममैतत् – मम + एतत् – बृद्धिसन्धिः ।
- पुण्येनाहम् – पुण्येन + अहम् – सवर्णदीर्घसन्धिः ।
पीठिका
इयं कथा एस् वेङ्कटरमणशास्त्रिमहाभागेन सम्पादितात् विक्रकार्म चरितात् स्वीकृता । अस्य कथासङ्ग्रहस्य रचनाकारविषये स्पष्टाभिप्राय: नास्ति। अस्य द्वात्रिंशत् पुत्थलिका” इति नामान्तरमस्ति । यदा राजा भोजः विक्रमस्य सिंहासनमारोढुम् इच्छति तदा सिंहासनं वहन्त्य: द्वात्रिंशत् पुत्थलिकाः एकैकश: विक्रमस्य सद्गुणान् वर्णयित्वा, एवं विधाः सद्गुणा: त्वयि विद्यन्ते तर्हि अस्मिन् सिंहासने उपविश इति कथयन्ति । भोज: तूष्णीं तिष्ठति । तासु द्वात्रिंशत् कथासु इयं कथा अन्यतमा ।
This story has been edited by S. Venkataramanashastri. It is choosen from the book ‘Vikramarkacharitam’. There are no authentic records about the author and title of this story. This literary composition is also known as ‘Dwatrimshat Putthalika’. Bhojaraja wishes to climb (sit on) the throne of Vikramaditya. This throne is held by thirty two dolls. These dolls one after the other describe the virtues of Vikramaditya in the form of stories and in the end, they ask him to get seated on the throne if he possesses those virtues of Vikramaditya. Bhojaraja becomes speechless, after knowing this. This lesson is one of those thirty two stories of Vikramaditya.
परोपकारः पुण्याय Summary in English
Once a brahmana along with his wife while travelling in the forest caught up in the floods and crying for help like this – “Somebody, save me, please be merciful”. Then the king Vikrama was there and said that brahmana like this – ‘Hey man, do not panic, do not worry, I will rescue you along with your wife’.
By saying this king Vikrama enters the flood and brought out the brahmin along with his wife from that flood. Then the brahmin said ‘Oh king! I am grateful to you. You risked your life to save me. This body I have is the gift of my parents, it is my first life. Second life is my upanayanam (investiture with the sacred thread). Now, this is the third life for me because, you risked (fruit of auspicious work) which was earned by him on the banks of the river Godavari by doing penance for the period of twelve years – to the king Vikramaditya and returned to his village along with his wife.
In the meanwhile, a Brahmaraakshasa (a brahmana changed into a demon) approached the king Vikrama and said like this – Oh King! I am a brahmin in my previous birth. But ignored every one of the old aged men. Because of that, I have fallen in the life of a Brahmarakshasa. So please grant me your Punya which was given to you from the Brahmana. Then Vikrama consoled him, gave him all the Punya which he received from that brahmana. By using that Punya celestial form. King Vikrama also returned to Ujjaini.
परोपकारः पुण्याय Summary in Sanskrit
सारांशः
एकदा कश्चिद् ब्राह्मणः पत्न्या सह गच्छन् नदीप्रवाहे पतितः – ‘कोऽपि करुणालुः मह्यम् सभार्याय प्राणान् ददातु’ इति आक्रन्दति । ततः विक्रमः नदीमध्यं प्रविश्य तं ब्राह्मणम् अरक्षत् । ब्राह्मणः स्वस्थः सन् राजानमवदत् – भोः, महासत्व, एतत् शरीरं पितृभ्यां अजायत, गायत्र्या, द्वितीयं जन्म, इदानीं भवतः तृतीयं जन्म प्राप्तम् । अतः मया गोदावरी तटे द्वादशवर्षाणि नामत्रयमन्त्रम् अजपम् । तत्पुण्यं तुभ्यं दीयते इति उक्त्वा, पुण्यं समर्प्य पत्न्या सह ब्राह्मणः निजस्थानं जगाम ।
अस्मिन्नेव समये कोऽपि ब्रह्ममराक्षसः तत्रागत्य नृपं अवदत् ‘हे राजन् अहं पूर्वस्मिन् जन्मनि ब्राह्मणः आसम् । तदा विद्या गर्वात् बृद्धान् अदूषयम् । अतः इदानीं ब्राह्मणेन दत्तं पुण्यं महादीयताम् । तेन उत्तीर्णो भविष्यमि’ इति । तदा राजा तत्पुण्यं तस्मै ददौ । सः ब्रह्मराक्षस; तेन पुण्येन पापकर्मणः मुक्तः दिव्यरूपधरः दिवं जगाम । राजापि स्वनगरं अगमत् ।