MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers
MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers
Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the जननी तुल्यवत्सला Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these जननी तुल्यवत्सला objective questions.
जननी तुल्यवत्सला Class 10 MCQs Questions with Answers
Practicing the Class 10 Sanskrit Chapter 5 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of जननी तुल्यवत्सला Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.
Here are the links available online for Free Download of Class 10 Sanskrit जननी तुल्यवत्सला MCQ Multiple Choice Questions with Answers PDF.
अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तरत
कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः।
Question 1.
‘तीव्रगत्या’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) तोदनेन
(ख) नुद्यमानः
(ग) अशक्तः
(घ) जवेन
Answer
Answer: (घ) जवेन
Question 2.
‘कृषकः’ इति पदस्य विशेषणपदं किम्?
(क) कश्चित्
(ख) क्रुद्धः
(ग) एकः
(घ) अतः
Answer
Answer: (क) कश्चित्
Question 3.
‘उत्थितः’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) तथा
(ख) वृषः
(ग) अपि
(घ) तथापि
Answer
Answer: (ख) वृषः
Question 4.
‘तं दुर्बलं …..।’ अत्र ‘तं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) कृषकाय
(ख) वृषभाय
(ग) कृषक:
(घ) बलीवर्दः
Answer
Answer: (ख) वृषभाय
Question 5.
कः क्षेत्रे पपात?
Answer
Answer: वृषभः
Question 6.
क्षेत्रकर्षणं कः अकरोत्?
Answer
Answer: कृषक:
Question 7.
क्रुद्धः कृषीवलः किम् अकरोत्?
Answer
Answer: क्रुद्धः कृषीवलः पतितं वृषभं उत्थापयितुम् बहुवारम् प्रयत्नम् अकरोत्।
भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामणि आविरासन्। सुरभेरिमामवस्था दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च
Question 1.
‘क्षितौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) शुभे
(ख) सुरभेः
(ग) भूमौ
(घ) पतिते
Answer
Answer: (ग) भूमौ
Question 2.
‘ताम् अपृच्छत्’ अत्र ‘ताम्’ सर्वनामपदं कस्याः कृते प्रयुक्तम्?
(क) सुरभेः
(ख) सुरभिः
(ग) इन्द्रस्य
(घ) वृषभस्य
Answer
Answer: (क) सुरभेः
Question 3.
‘अपृच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुरभिः
(ख) वृषभः
(ग) सुराधिपः
(घ) शुभे
Answer
Answer: (ग) सुराधिपः
Question 4.
‘अवस्था’ इति पदस्य विशेषणपदं किम्?
(क) इमाम्
(ख) रिमाम्
(ग) सुरभिः
(घ) माम्
Answer
Answer: (क) इमाम्
Question 5.
‘किम् एवं रोदिषि?’ इति कः अपृच्छत्?
Answer
Answer: इन्द्रः
Question 6.
सुरभिः केषाम् जननी अस्ति?
Answer
Answer: सर्वधेनूनां
Question 7.
माता सुरभिः किमर्थं अश्रूणि मुञ्चति स्म?
Answer
Answer: भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
ग विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।।
Question 1.
‘शोचामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुरभिः
(ख) माता
(ग) अहम्
(घ) वः
Answer
Answer: (ग) अहम्
Question 2.
‘अहम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) सुरभेः
(ख) सुरभ्यै
(ग) इन्द्राय
(घ) इन्द्रः
Answer
Answer: (ख) सुरभ्यै
Question 3.
‘देवानां राजः’ इति पदस्य पर्यायपदं किम्?
(क) कश्चित्
(ख) वः।
(ग) तेन
(घ) त्रिदशाधिपः
Answer
Answer: (घ) त्रिदशाधिपः
Question 4.
इदम् श्लोकं का कथयति?
(क) वृषः
(ख) इन्दः
(ग) सुरभिः
(घ) बलीवर्दः
Answer
Answer: (ग) सुरभिः
Question 5.
का पुत्राय शोचति?
Answer
Answer: सुरभि माता
Question 6.
त्रिदशाधिपः कः अस्ति?
Answer
Answer: इन्द्रः
Question 7.
माता किमर्थं रोदति?
Answer
Answer: पीडितं पुत्रं दृष्ट्वा माता रोदति।
“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छेण भारमुगृहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्
Question 1.
‘सुरभिः’ इति पदस्य विशेषणपदं किम्?
(क) पृष्टा
(ख) वात्सल्यं
(ग) इति
(घ) इन्द्रेण
Answer
Answer: (क) पृष्टा
Question 2.
‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) इन्द्रः
(ख) वृषभः
(ग) सुरभिः
(घ) इन्द्राय
Answer
Answer: (घ) इन्द्राय
Question 3.
‘सरलतया’ इति पदस्य विपरीतार्थकं पदम् किम्?
(क) दैन्यं
(ख) कृच्छ्रेण
(ग) वोढुं
(घ) बहुधा
Answer
Answer: (ख) कृच्छ्रेण
Question 4.
‘पीडयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) कृषकः
(ख) सः
(ग) दीन:
(घ) बहुधा
Answer
Answer: (क) कृषकः
Question 5.
कः कृच्छ्रेण भारम् उद्वहति?
Answer
Answer: वृषभः
Question 6.
पुत्रस्य दैन्यं दृष्ट्वा का रोदिति?
Answer
Answer: सुरभिः माता
Question 7.
इन्द्रः सुरभि किम् अपृच्छत्?
Answer
Answer: “सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रः सुरभिम् अपृच्छत्।
यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥
Question 1.
‘मे’ इति सर्वनाम पदम् कस्यै प्रयुक्तम्?
(क) पुत्राय
(ख) वृषभाय
(ग) इन्द्राय
(घ) सुरभ्यै
Answer
Answer: (घ) सुरभ्यै
Question 2.
‘मम’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) मे
(ख) पुत्र।
(ग) तु
(घ) सतः
Answer
Answer: (क) मे
Question 3.
‘पुत्रस्य’ इति पदस्य विशेषणपदं किम्?
(क) कृपा
(ख) सहस्रं
(ग) दीनस्य
(घ) मे
Answer
Answer: (ग) दीनस्य
Question 4.
‘भिन्नं’ इति पदस्य विलोमपदं किम?
(क) सतः
(ख) समम्
(ग) सममेव
(घ) अधिका
Answer
Answer: (ख) समम्
Question 5.
कस्याः पुत्रसहसं अस्ति?
Answer
Answer: सुरभेः
Question 6.
श्लोके सम्बोधन पदम् किम् अस्ति?
Answer
Answer: शक्र!
Question 7.
मातुः अधिका कृपा कस्मिन् भवति?
Answer
Answer: दीने पुत्रे मातुः अधिका कृपा भवति।
अधोलिखितेषु वाक्येषु रेखाङिकतपदानि अधिकृत्य प्रश्ननिर्माणं कुरुतउत्तराणि
(i) सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(ii) इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।
(iii) जननी तुल्यवत्सला भवति।
(iv) तयोः एकः वृषभः दुर्बलः आसीत्।
(v) धेनूनाम् माता सुरभिः आसीत्।
(vi) कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणम् करोति स्मः।
Answer
Answer:
(i) कस्याः नेत्राभ्याम् अश्रूणि आविरासन्?
(ii) केन पृष्टा सुरभिः प्रत्यवोचत्?
(iii) जननी कीदृशी भवति?
(iv) कयोः एकः वृषभः दुर्बलः आसीत्?
(v) धेनूनाम् माता का आसीत्?
(vi) कृषकः काभ्याम् क्षेत्रकर्षणम् करोति स्म?
अधोलिखितानाम् श्लोकानाम् अन्वयेषु समुचित पदैः रिक्तपूर्ति कुरुत
(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।
अन्वयः- व: (i) …………… कश्चित् (ii) …………….. न दृश्यते (iii) …………….. अहम् तु (iv) ………………. शोचामि तेन रोदिमि।
Answer
Answer:
वः विनिपातो कश्चित् त्रिदशाधिपः न दृश्यते कौशिक! अहम् तु पुत्रम् शोचामि तेन रोदिमि।
(ख) यदि पुत्रसहस्र मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा।।
अन्वयः-यदि (i) …………….. पुत्रसहस्रं, सर्वत्र मे (ii) …………… एव। (iii) …………….. दीनस्य (iv) …………….. सतः तु अभ्यधिका कृपा।
Answer
Answer:
यदि मे पुत्रसहस्त्रं, सर्वत्र मे समम् एव। शक्रः! दीनस्य पुत्रस्य सतः तु अभ्यधिका कृपा।
(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।
अन्वयः- सर्वेषु (i) ……………… जननी तुल्यवत्सला। दीने (ii) ………………. तु (iii) ……………… माता (iv) …………… कृपा भवेत्।
Answer
Answer:
सर्वेषु अपत्येषु जननी तुल्यवत्सला। दीने पुत्रे तु सा माता आहृदया कृपा भवेत्।
अधोलिखिते श्लोके भावं उपयुक्तपदैः पूरयत
(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोविमि कौशिक!!
भावार्थ:- अस्य श्लोकस्य भावः अस्ति यत् दुःखिता सुरभिः माता इन्द्रं कथयति यत् (i) ……………. निर्दयतया पीडितः पुत्रः (ii) ……………. दृष्ट्वा (iii) …………… रोदिति। कथम् इन्द्रेण तस्याः (iv) ……………. न दृश्यते।
Answer
Answer: (i) कृषकेण, (ii) वृषभं, (iii) सा, (iv) विनाशः
(ख) यदि पुत्रसहस्त्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥
भावार्थ:- अस्य श्लोकस्य भावः अस्ति यत् यद्यपि प्रकृतेः मातः (i) ……………….. अपत्यानि सन्ति तथापि (ii) …………….. पुत्रे मातुः (iii) ……………. कृपा (iv) …………. भवति।
Answer
Answer: (i) बहुनि, (ii) दुर्बले, (iii) अधिका, (iv) सहजैव
घटनाक्रमानुसार अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(ii) कश्चित् कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणं करोति स्म।
(iii) सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि?”
(iv) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(v) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुम् अशक्तः च आसीत्।
(vi) सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात।
(vii) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत्।
(viii) सुरभिवचनं श्रुत्वा भृषं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।
Answer
Answer:
(i) कश्चित् कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणं करोति स्म।
(ii) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुम् अशक्तः च आसीत्।
(iii) सः वृषभः हलमूवा गन्तुमशक्तः क्षेत्रे पपात।।
(iv) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(v) सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि?”
(vi) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(vii) सुरभिवचनं श्रुत्वा भृषं विस्मितस्याआखण्डलस्यापि हृदयमद्रवत्।
(viii) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।
अधोलिखित वाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थ चित्वा लिखत
Question 1.
दुर्बलः बलीवर्दः जवेन गन्तुम् अशक्तः आसीत्।
(क) शीघ्रन
(ख) तीव्रगत्या
(ग) सुखेन
(घ) दुःखेन
Answer
Answer: (ख) तीव्रगत्या
Question 2.
क्रुद्धः कृषीवलः तम् उत्थापयितुम् बहुवारम् यत्नम् अकरोत्।
(क) कृषकः
(ख) कृषिक्षेत्र
(ग) वृषभः
(घ) कृष्णः
Answer
Answer: (क) कृषकः
Question 3.
कृषक: वृषभौ नीत्वा गृहम् अगात्।
(क) अवदत्
(ख) गच्छति
(ग) अगच्छत्
(घ) आगच्छत्
Answer
Answer: (ग) अगच्छत्
Question 4.
सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(क) आगताः
(ख) विराजते
(ग) शोभन्ते
(घ) अविराम
Answer
Answer: (क) आगताः
अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
सरलतया, आगतवान्, दुर्बलः सुता, चिरात्।
पदानि – विलोमपदानि
(i) कृच्छ्रेण – …………….
(ii) सबलः – ……………..
(it) सुतः – ………………
(iv) अचिरात् – …………….
(v) गतवान् – ………………
Answer
Answer:
पदानि – विलोमपदानि
(i) कृच्छ्रेण – सरलतया
(ii) सबलः – दुर्बलः
(iii) सुतः – सुता
(iv) अचिरात् – चिरात्
(v) गतवान् – आगतवान्