MP 9th Sanskrit

MP Board Class 9th Sanskrit पत्रलेखनम्

MP Board Class 9th Sanskrit पत्रलेखनम्

MP Board Class 9th Sanskrit पत्रलेखनम्

अवकाशार्थं प्रार्थना-पत्रम

आदरणीयताः प्राचार्यमहोदयाः!
शासकीयउत्कृष्टविद्यालयः
बड़ामलहरा-छतरपुर मण्डलम्
मध्यप्रदेशः

श्रीमन्तः!
सेवायां सविनयं निवेदनम् इदं यद् अद्य अकस्माद् ज्वरपीड़ितः अस्मि। अत एव विद्यालयम् आगन्तुं सर्वथा असमर्थः अस्मि। कृपया पञ्चदशाद् आरभ्य नवदर्श-दिनाङ्क–पर्यन्तम्) अवकाशं स्वीकृत्य मां अनुग्रहीतुम् अर्हन्ति भवन्तः।

दिनाङ्कः 15.2.2007

भवदीया शिष्या
दिव्या
दशम-कक्षायां ‘अ’ वर्गः

प्रकाशकाय पत्रम्

सेवायाम्
चौखम्भा ओरियण्टालिया
पत्रालयः -चौखम्भा,
मत्रमञ्जूषा-सङ्ख्या 32
वारणसी (पिन : 2221001)

महोदयाः
भवप्रकाशिता ‘नूतन-अनुवादचन्द्रिका’ मया दृष्टा। एतत्पुस्तकं सर्वविध–छात्रोपयोगि वर्तते इति मे मतम्। कृपया पुस्तकास्यास्य एका प्रतिं वी. पी. पी. द्वारा अधोलिखित स्थाने शीध्र प्रेषणीया।

भवदीयः
दुचे ओमप्रकाशः
मण्डीमार्गः जावर, सीहोरमण्डलम्
मध्यप्रदेश : (पिन : 466221)

मित्रं प्रति पत्रम्

प्रिय निरेन्द्रः!
भवता गमनकाले कथित यत् गृहं गत्वा अहं शीघ्रमेव पत्रं प्रेषयिष्यामि, परन्तु अद्य मासाधिकः कालों व्यतीतः परं भवतः पत्रं न समायातम्। इदं मदीयं पत्रं पठित्वा देयम्। गृहस्य कीदृशः समाचारो वर्तते, स्वास्थ्यं च भवतः कीदृशं, कदा च अत्र आगमिष्यति? इति सर्वमपि शीघ्रतया पत्रद्वारा सूचनीयम्।

निजपितृपादेभयो मम सादरं प्रणतयः सूचनीयः। आशासे, भवान् अस्मिन् वारे शीघ्रमेव पत्रं प्रदास्यतीति।

सस्नेहम्
भवतः अभ्युदयाकांक्षी
द्विवेदी प्रणवकुमारः
23 ब्राहमणबावड़ी रतलामः
मध्यप्रदेशः (पिन : 457001)

निमन्त्रणपत्रम्
श्री मङ्गलमूर्तये नमः

श्रीमन्महोदये!
परमात्मनः महती अनुकम्पया ज्येष्ठमासस्य आगामिन्यां नवम्यां तिथों तदनुसारं जूनमासस्य अष्टाविंशाति-दिनाङ्के रविवासरे मम पुत्रस्य चिरञ्जीवी अनिकेत-कुमारस्य शुभयज्ञोपवीतसंस्कारः सम्पत्स्यते। एतस्मिन् मङ्गलकार्ये सपरिवारं समागत्य श्रीमन्तः शुभाशीर्वादप्रदानेन वटुकम् अनुग्रहीष्यनित-इत्याशास्महे।

दर्शनाभिलाषी
महेशव्यासः
तिलकनगरम्, इन्दौरम,
(मध्यप्रदेशः)

शुल्क मुक्तये प्रार्थना-पत्रम्
(शुल्क मुक्ति के लिए प्रार्थना-पत्र)

सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीयः विद्यालयः
भोपालनगरम्

मान्याः!
अहम् भवतां विद्यालये अष्टकक्षायाम् अध्ययनं करोमि। मम पिता एकः साधारणः कर्मकरः अस्ति। तस्य श्रमेण परिवारस्य पालनमपि कठिनम् अस्ति। अतः अतः अहम् शिक्षणशुल्कं दातुम् असमर्थोऽस्मि। निवेदनम् अस्ति यत् शुल्कात् मुक्ति प्रदाय मयि कृपां करिष्यन्ति भवन्तः।

दिनाङ्कः 10-07-2007

भवताम् आज्ञाकारी शिष्यः
मनोजः
कथा-अष्टम्

Flipkart

Leave a Reply

Your email address will not be published. Required fields are marked *