MP 9th Sanskrit

MP Board Class 9th Sanskrit निबन्ध लेखन

MP Board Class 9th Sanskrit निबन्ध लेखन

MP Board Class 9th Sanskrit निबन्ध लेखन

निबन्ध लेखन

1. मम पाठशाला
(1) एषा मम पाठशाला।
(2) मम पाठशाला प्राचीना ।
(3) मम पाठशालायाः नाम शासकीय बहुउद्देशीय उच्चतर माध्यमिक विद्यालयः अस्ति ।
(4) शालाय: पुरतः एकं उद्यानम अस्ति।
(5) तत्र बहवः पादपाः सन्ति, लता अपि सन्ति।
(6) वयम् उद्याने प्रतिदिनं श्रमदानम् कुर्मः ।
(7) पादपान् सिंचामः ।
(8) प्रार्थनां कृत्वा पाठान् पठामः ।
(9) शिक्षका: विविधान् विषयान पाठयन्ति ।
(10) शालायां बहवः प्रकोष्ठाः सन्ति ।
(11) एकस्मिन प्रकोष्ठे एका कक्षा लगति ।
(12) वयं सायंकाले क्रीडांगणे खेलामः ।
(13) अत्र एक पुस्तकालयं अपि भवति ।
(14) एकदा स्नेह सम्मेलनम् अपि भवति ।
(15) शोभना मे शाला।
(16) मम शाला अतीव प्रिया ।
2. उद्यानम्
(1) एतद् उद्यानम् । अत्र वृक्षाः रोहन्ति ।
(2) वृक्षा पर्णे: शोभन्ते ।
(3) पर्णानाम् वर्ण: हरितः ।
(4) पुष्पाणां वर्ण: विविधाः ।
(5) जना: वृक्षाणां फलानि खादन्ति ।
(6) उद्याने लताः अपि रोहन्ति।
(7) लता: वृक्षान् आश्रयन्ति ।
(8) लतानां कुसुमानि श्वेतानि, पीतानि रक्तानि वा सन्ति ।
(9) उद्याने तड़ागः अपि अस्ति ।
(10) मालाकार: जलम् आनयति ।
(11) सः जलेन वृक्षान् सिंचति ।
(12) वृक्षाणां क्षायासु जनाः विश्राम्यन्ति ।
(13) खगाः वृक्षेषु वसन्ति ।
(14) ते नीडान् रचयन्ति ।
(15) खगाः वृक्षाणां फलानि खादन्ति ।
(16) प्रभाते तेषां कलरवं मनोहरम् ।
(17) स्वागतम् वनशोभायां ।
3. पुस्तकम्
(1) एतद् मम पुस्तकम्।
(2) एतद् तव पुस्तकम् ।
(3) मम पुस्तके चित्राणि सन्ति।
(4) चित्राणि रुपाणि सन्ति ।
(5) सचित्रतम् पुस्तकम् मम प्रियम् ।
(6) अहं पाठशालां गच्छामि पुस्तकम् नवामि च ।
(7) पुस्तकै: गुरुम लभ्वते ।
(8) पुस्तकम् पठनेन ज्ञान लाभः भवन्ति।
(9) संस्कृत पुस्तकम् मम अति प्रियम् ।
(10) पुस्तकानि अस्माकम् मित्राणि ।
(11) एतेषाम् संगति अतीव लाभ प्रदा।
(12) अतः अस्माभिः पुस्तकानि गृहणीयान् ।
4. सरस्वती
(1) सरस्वती विद्यायाः देवता ।
(2) ऐषा शरीरे शुभ्रं वस्त्रं धारयति ।
(3) अस्याः कंठे रत्नहारा : विलसन्ति ।
(4) एषा मस्तके किरीटम् धारयति ।
(5) एषा वाम हस्तेन वीणायाः दण्डं धारयति दक्षिण हस्तेन वादयन्ति च ।
(6) सरस्वत्या: प्रसादेन कवयः सरस्वती काव्य कुसुमैः फूलन्ति।
(7) तेषा पूजया सा सन्तुष्टा भवति ।
(8) सरस्वत्या वस्त्राणि। चरित्रस्य निर्मलतायाः सूचकः सन्ति।
(9) सरस्वत्या वाहने: हंसः ।
(10) तस्याः हस्ते ज्ञानस्य चिन्हम्
(11) सरस्वती अस्माकं आराध्या पूजनीया च ।
5. शिक्षकः
(1) शिक्षयति शिक्षां ददाति यः स शिक्षकः इति कथ्यते ।
(2) शिक्षक छात्रेभ्य: शिक्षां ददाति ।
(3) सः तेषां जीवनस्य निर्माण करोति ।
(4) सफल शिक्षकः स्वविषये निपुणः भवन्ति ।
(5) शिक्षक: राष्ट्र निर्माता अपि कथ्यते ।
(6) शिक्षक: छात्राणाम् अज्ञानअन्धकार दूरी करोति ।
(7) शिक्षकस्य सर्वत्र सम्मानं भवितव्यम् ।
(8) अस्माकं देशे प्रतिवर्ष सितम्बर मासस्य पंचतारिकायं ‘शिक्षक दिवसः’ आयोज्यते ।
(9) कथ्यते – गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवोमहेश्वराः ।
(10) राष्ट्रस्य उन्नत्यै शिक्षकाणां भूमिका महती अस्ति ।
(11) शिक्षकाभ्याम् नमः ।
6. धेनुः
(1) घिनोति प्रीणयति इति धेनुः ।
(2) सा अस्माकं मधुरं दुग्धं यच्छति ।
(3) धेनु: स्वदुग्धेन जनान् प्रीणयति।
(4) धेनोः दुग्धं मधुरं पच्यं हितकारि च भवति ।
(5) धेनोः दुग्धेन दधि तक्रं नवनीतं घृतं च भवन्ति ।
(6) अस्याः चत्वारः पादाः द्वे श्रृंगे एकं लांगूलं च भवति।
(7) धेनु: तृणानि भक्षयति ।
(8) धेनु: वत्सा: बलीवर्दाः भवन्ति।
(9) जनाः धेनुं गौमाता अपि कथयन्ति ।
(10) धेनोः गोमयम् ईन्धने, भूमेः उर्वरा शक्तेश्च वर्धनाय उपयुज्यते।
(11) भारतीय संस्कृतौ धेनूनां महत्वं अधिक् अस्ति।
(12) धेनूनां सेवया श्रीकृष्ण: ‘गोपाल’ इति नाम्ना प्रसिद्धो अभवत्।
(13) धेन्वे नमः।
7. विद्याः
(1) यया जना विदन्ति जानन्ति वा सा विद्या।
(2) विद्या सर्वेषां धनानां श्रेष्ठं धनम् अस्ति।
(3) उच्यते विद्या धनं सर्वधनं प्रधानम् ।
(4) विद्याविहीनः नर पशु इव कथ्यते ।
(5) व्यये कृते इदम् धनं वर्धते एव ।
(6) विद्वांसः सर्वत्र पूज्यन्ते ।
(7) विदेशे गमने विद्या परम सहायिका भवति ।
(8) विद्या बलेन जनाः विविधानां आविष्कारान् कर्तुं समर्थां भवन्ति ।
(9) विद्या अस्माकं परोपकारिणी ।
(10) उच्यते किं किं न साधयति कल्पलनेव विद्या |
(11) विद्या ददाति विनयम् ।
(12) विद्या ‘माता’ इव रक्षति ।
(13) विद्या अस्माकं परोपकारिणी अस्ति ।
(14) विद्या गुरुणां गुरु अस्ति ।
8. अस्माकं देशः
(1) भारतो अस्माकं देशः ।
(2) भारतभूमि अस्माकं जननी ।
(3) वयम् अस्याः पुत्राः ।
(4) इयम् अस्माकं प्रियतरा ।
(5) भारतस्य उत्तरे हिमालयो नाम पर्वतो वर्तते ।
(6) अत्र प्रभूतं अन्नं उत्पन्नं भवति ।
(7) नाना विधानि फलानि जायन्ते।
(8) अस्माकं देश: अनेकेषु प्रदेशेषु विभक्तो अस्ति ।
(9) विजयताम् अस्माक देश:
(10) भारताय नमः ।
9. हिमालयः
(1) हिमालयः पर्वतेषु श्रेष्ठः अस्ति ।
(2) भारतवर्षस्य उत्तरतः सः तिष्ठति ।
(3) हिमालयः भारतवर्षं रक्षति ।
(4) एतस्यपर्वतस्य शिखराणि अतीवोच्चानि।
(5) तांनि सदा हिमेन आच्छादितानि सन्ति।
(6) अतः स हिमालयः कथ्यते ।
(7) हिमालयस्य तुङ्गानि शिखाणि मेघाः आश्रयन्ति ।
(8) तापसा: अपि तत्र वसन्ति स्थिरेण चितेन ईश्वरं ध्यायन्ति च ।
(9) एतस्य पर्वतस्य पावें निविडानि अरण्यानि ।
(10) तंत्र व्याघ्राः सिंहाः च हिंसाः सत्वा गुहासु निवसन्ति ।
(11) अतः अस्य वनेषु सञ्चारः अपि दुष्करः भवति ।
(12) हिमालयात् बहवो नद्यः प्रभवन्ति ।
(13) गंगा-यमुना ब्रह्मापुत्रादयो हिमालयादेव निर्गताः । (14) भारतस्यः अयं मुकुटमणिः । उक्तं च कालिदासेन अस्त्युत्तरस्यां दिशि देवत्पत्मा हिमालयो नाम नगाराधिराजः । पूर्वापरो तोयनिधि स्थितः पृथिव्या व मानदण्ड: ।
10. पुस्तकालयः
(1) यस्मिन् स्थाने विविध प्रकाराणि पुस्तकानि पठनाय प्राप्यन्ते तत् स्थानं पुस्तकालय कथ्यते
(2) व्यक्तिगत: विद्यालयीन सार्वजनिकश्च भवन्ति ।
(3) पुस्तकालयेन अस्माकं ज्ञानस्य वृद्धिः भवति।
(4) अस्मिन् विविधाः जनाः परस्परं मिलन्ति तेन सामाजिक भावना वृद्धि; भवति ।
(5) अस्मिन् सर्वे मनुष्या: स्वरुच्युनुकूलं पुस्तकानि पठन्ति लाभान्विताश्च भवन्ति ।
(6) पुस्तकालये दुर्लभानि पुस्तकानि अपि पठनार्थ लभ्यन्ते।
(7) पुस्तकेषु महापुरुषाणां विचारा: अनुभवाच्च सुरक्षिताः सन्ति।
(8) पुस्तकालये तानि पठित्वा वयं महापुरुषाणां विचाराः अनुभवेश्च प्रभाविता भूत्वा उन्नत्यै प्रयत्नशीलाः भवामः।
(9) अनेन देशस्य जाते: समाजस्य च उन्नति भवति।
(10) अतएव वयम् अवकाश समये पुस्तकायं गत्वा पुस्तकानाम् अध्ययनं कुर्मः।
11. महात्मा गाँधी
(1) महात्मा गाँधी अस्माकं देशस्य महापुरुषः महान् नेता च आसीत्।
(2) स: गांधिकुलोत्पन्न अभवत् ।
(3) श्री करमचंद गाँधी तस्य पिताश्री श्रीमती पुतलीबाई च तस्य मातासीत्। “
(4) सः पितुः अत्यन्त प्रियः आसीत् ।
(5) उच्छ शिक्षा हेतु सः आंग्लदेशं अगच्छत्।
(6) स्वदेशे आगत्य सः जनसेवाया: बहूनि कार्याणि अकुर्वन्।
(7) स्वतन्त्रतासंग्रामस्य सः नायक आसीत् ।
(8) परतन्त्रतापाशात् सः भारतवर्ष स्वतन्त्रमकरोत्।
(9) अयं महात्मा जगद्वन्द्योयऽभवत् ।
(10) विश्वस्मिन्न देशेऽस्य पाषाणप्रतिमाः स्थाने-स्थाने विराजन्ते।
12. सदाचारः
सताम् आचार: सदाचारः इति उच्यते। सज्जना: विद्वान्सश्च यथा आचरन्ति तथैवाचरणं सदाचारः भवति। सज्जनाः सर्वे: सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति । ते सत्यं वदन्ति असत्यभाषणाद् च विरमन्ति। ते मातुः पितुः गुरुजनानां वृद्धानां ज्येष्ठानां च आदरं कुर्वन्ति । तेषां च आज्ञां सर्वथा पालयन्त । ते सत्कर्मणि प्रवृत्ताः भवन्ति असत्यकर्मेभ्यश्च निवृत्ता भवन्ति । तद्वत् आचरणेन मनुष्य: सदाचारी धार्मिक: शिष्टो विनोती बुद्धिमान् च भवति। सदाचारेण एव संसारे जनाः उन्नति कुर्वन्ति राष्ट्रस्य समाजस्य जननस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते । सदाचारिणः बुद्धिः निर्मला शरीरं परिपुष्टम् च भवति। ये सदाचारिणः भवन्ति ते एव सर्वत्र आदरं लभन्ते सदाचारस्य गणना धनस्याङ्गेषु भवति। यस्मिन् देशे जनाः सदाचारिणो भवन्ति तेषां सर्वत्र उन्नतिर्भवति। सदाचारस्याभ्यासो बाल्यादेव भवति। अतएव अस्माभिः सदाचार पालनीयम्।
13. छात्र जीवनम्
छात्र जीवनं मानव जीवनस्य प्रभातकालः अस्ति। अस्मिन् काले बालकः विद्यां पठति । सः स्व शीरीरिक शक्तिमपि वर्धयति । छात्र जीवने सः अनेकासु प्रातियोगितासु सम्मिलितो भवति । प्रतियोगिता परिणामेन सः स्व मूल्यांकनं करोति । अस्मिन्नेव काले सः मानवीयान् गुणान् प्राप्यतुंयत्न छात्र जीवनं सर्वचिन्ता रहितं भवति। छात्र जीवने चरित्र निर्माणस्य अवसरो भवति । छात्र जीवनं सर्वचिन्ता रहितं भवति । छात्र जीवने चरित्र निर्माणस्य अवसरो भवति। छात्र जीवनं सर्वथा मनोरमं भवति । बाल्यकाले जाता मैत्री जीवनपर्यन्तं भवति ।

Leave a Reply

Your email address will not be published. Required fields are marked *