RB 6 Sanskrit

RBSE Class 6 Sanskrit रचना लघु रचना/कहानी लेखनम्

RBSE Class 6 Sanskrit रचना लघु रचना/कहानी लेखनम्

Rajasthan Board RBSE Class 6 Sanskrit रचना लघु रचना/कहानी लेखनम्

प्रश्न-मञ्जूषा में दिए गए शब्दों की सहायता से संस्कृत में लघु कहानी लेखन कीजिएमञ्जूषा

प्रश्न 1.
विशाल वृक्षे: अन्वेषणे, लतायाम् द्राक्षाफलानि, लम्बितानि, प्रायतत, व्यर्थमेव, उत्प्लुतः अतिश्रान्तः, द्राक्षास्तवकम्, फलानि।
उत्तर:
एकस्मिन् उद्याने विशालवृक्षे द्राक्षालता आरूढा आसीत्। एकः जम्बुक: भोजनस्य अन्वेषणे इतस्ततः अभ्रमत्। लतायाम् द्राक्षाफलानि उच्चतरे स्थाने लम्बितानि आसन्। शृगालः अनेकशः प्रायतत परञ्च सर्व व्यर्थमेव अभवत्। पुन: पुन: उत्पलुतः अपि स द्राक्षाफलानि न प्राप्नोत्। सः अतिश्रान्त; अभवत्। निराशः शृगालः द्राक्षास्तवकम् अप्राप्यं मत्वा द्राक्षाफलानि अनिन्दत्। अवदत्-“अम्लानि सन्ति द्राक्षा फलानि नैतानि मह्यं रोचते।” इत्युक्त्वा शृगालः वने अगच्छत् मञ्जूषा

प्रश्न 2.
पिपासितः, अन्वेषणे, घटम्, तत्र, उपरि, अपश्यत्, अल्पम्, उपायम्, खण्डानि, घटे।
उत्तर:
एकः काकः पिपासितः आसीत्। जलस्य अन्वेषणे सः इतस्तत: अभ्रमत्। सः दूरे एक घटम् अपश्यत्। काकः तत्र अगच्छत्। सः घटस्य उपरि अतिष्ठत् घटे च अपश्यत्। घटे अल्पम् जलम् आसीत्। सः उपायम् अचिन्तयत् पाषाण खण्डानि च आनयत्। तानि पाषाणखण्डानि घटे अक्षिपत्। जलम् उपरि आगच्छत्। जलं पीत्वा सन्तुष्टः स उद्डीयत अचिन्तयत् च उद्यमेन हि कार्याणि सिद्ध्यन्ति। मञ्जूषा

प्रश्न 3.
नृपः, बहवः पशवः, वानरः, नृपः सुप्तः, अवीजयत्, मक्षिका, खगेन प्रहारम्, उड्डीय, प्रहारेण, नासिका।
उत्तर:
एकस्मिन् नगरे एकः नृपः आसीत्। तस्य भवने बहवः पशव: आसन्। तेषु पशुषु एक: वानर: तस्य (नृपस्य) प्रियः अभवत्। एकदा नृपः सुप्तः आसीत्। तदा सः वानरः व्यजनेन तम् अवीजयत्। तस्मिन् काले एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। तस्मात् कारणात् सः वानरः क्रुद्धः अभवत्। तां मक्षिका हन्तुं सः खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् अगच्छत् किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्। मञ्जूषा

प्रश्न 4.
वृद्धः व्याघ्रः, पथिकान्, सुवर्णकङ्कणं, | लोभेन, चिन्तितो, श्रावयित्वा, विश्वास, सरोवरे, महापङ्के, मारयित्वा।
उत्तर:
एक वृद्धः व्याघ्रः सरोवरस्य तटम् आगत्य पथिकान् कथयति यत् सः एक सुवर्णकङ्कणं दातुम् इच्छति। ततः लोभेन आकृष्टः एकः पथिकः तं ग्रहीतुम् इच्छति। किन्तु सः तस्य हिंसकप्रवृत्तेः विषये चिन्तितो भवति। तदा सः व्याघ्र: मिथ्या कथां श्रावयित्वा तस्य हृदये स्वकीयं प्रति विश्वासं उत्पन्नं करोति। यदा सः पथिकः स्नातुं सरोवरे प्रविशति, स: महापड़े निमग्नः भवति। तदा सः तं मारयित्वा खादति। मञ्जूषा

प्रश्न 5.
स्वर्णाण्डे, कुक्कुटेषु, लुब्धः, प्रतिवसति, ग्रामे, पश्चात्तापम्, दु:खम्, सर्वाणि, व्यादारयत्, एकमापि।
उत्तर:
एकस्मिन् ग्रामे एक: कृषक: प्रतिवसति स्म। सः कुक्कुट पालनं करोति स्म। तस्य कुक्कुटेषु एका कुक्कुटी नित्यम् एकं स्वर्णाण्डं ददाति स्म। कृषक: अति लुब्धः।
आसीत्। सः एकदा एवं सर्वाणि अण्डानि ग्रहीतुमैच्छत्। सः तस्याः उदरं व्यादारयत्। परञ्च तत्र एकमपि अण्डम् न आसीत्। कुक्कुटी हता। कृषकोऽपि महद् दुःखम् अनुभवन् पश्चात्तापम् अकरोत। मञ्जूषा

प्रश्न 6.
नीत्वा, रोटिका, गायति, श्लाघां, श्रुतम् अधस्तात्, ग्रहीतुमैच्छतः, उपायेन, रोटिकाम्, लोमशः, वसति, वृक्षे।
उत्तर:
एकस्मिन् वृक्षे एकः काकः वसति स्म। एकदा स: एकां रोटिकाम् आनयत् एकः लोमशः तं दृष्ट्वा केनापि उपायेन तां रोटिकांग्रहीतुमैच्छत। सःवृक्षस्य अधस्तात् अतिष्ठत् काकं च न्यवेदयत् ‘तात ! मया श्रुतम् यत्वमति मधुरं गायसि। काक: आत्मनः श्लाघां श्रुत्वा प्रसन्नोऽभवत्। सगर्वोऽयं मूर्खः काक; यावत् गायति तावत् मुख विवृतात् रोटिका भूमौ अपतत्। लोमश: तां नीत्वा ततः पलायनं अकरोत् मूर्खः काकः तं पश्यन्नेव स्वमूर्खतायाः पश्चातापं करोति स्म।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *