RB 6 Sanskrit

RBSE Class 6 Sanskrit रचना वाक्यक्रम-संयोजनम्

RBSE Class 6 Sanskrit रचना वाक्यक्रम-संयोजनम्

Rajasthan Board RBSE Class 6 Sanskrit रचना वाक्यक्रम-संयोजनम्

अधोलिखितवाक्यानां क्रमसंयोजनं कुरुत (निम्नलिखित वाक्यों का क्रम संयोजन कीजिए)

प्रश्न 1.
1. रामेण सह सीता लक्ष्मण: चापि वनम् अगच्छताम्।
2. राम: वनम् अगच्छत्।।
3. राम: दशरथस्य पुत्रः आसीत्।
4. रावण: सीताम् अपहरत्।।
5. राम: रावणं ससैन्यम् हतवान्।
उत्तर:

  1. राम: दशरथस्य पुत्रः आसीत्।
  2. राम: वनम् अगच्छत्।
  3. रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम्।
  4. रावण: सीताम् अपहरत्।
  5. रामः रावणं ससैन्यम् हतवान्

प्रश्न 2.
1. वासुदेव: कञ्चित् देवालयम् अपश्यत्।।
2,तत: वासुदेव: रामनाथपुरं प्राप्य रामदेवस्य गृहम् आगच्छत्।
3. वासुदेवः तस्य प्रियशिष्यः आसीत्।।
4. अत्रान्तरे स: रामनाथपुरं प्रति प्रस्थितवान्।
5. गङ्गातीरे मार्कण्डेयः नाम कश्चन-मुनि: वसति स्म।
उत्तर:

  1. गङ्गातीरे मार्कण्डेयः नाम कश्चन मुनिः वसति स्म।
  2. वासुदेवः तस्य प्रियशिष्यः आसीत्।
  3. वासुदेवः कञ्चित् देवलियम् अपश्यत्।
  4. अत्रान्तरे सः रामनाथपुरं प्रति प्रस्थितवान्।
  5. तत: वासुदेवः रामनाथपुरं प्राप्य रामदेवस्य गृहम् आगच्छत्।।

प्रश्न 3.
1. कुण्डलस्य पुत्र: सुकर्मा महान् पितृभक्तः।
2. स: वेदशास्त्रज्ञः आसीत्।।
3. कुण्डलः कश्चन सदाचारी वृद्धः ब्राह्मणः आसीत्।
4. तस्य एकः पुत्रः सुकर्मा आसीत्।।
5. सुकर्मा मातृदेवो भव, पितृदेवो भव इति वचनम् अवधानेन पालयति स्म।
उत्तर:

  1. कुण्डलः कश्चन सदाचारी वृद्धः ब्राह्मणः आसीत्।
  2. सः वेदशास्त्रज्ञः आसीत्।
  3. तस्य एकः पुत्रः सुकर्मा आसीत्।
  4. कुण्डलस्य पुत्र सुकर्मा महान् पितृभक्तः।
  5. सुकर्मा मातृ देवो भव पितृदेवो भव इति वचनम् अवधानेन पालयति स्म।

प्रश्न 4.
1, अथ कदाचित दीर्घकर्ण नामा मार्जार: पक्षिशावकान् भक्षितुं तत्रागतः।
2. मार्जारोऽवदत्-श्रूयतां तावदस्मदवचनम्।
3. अस्ति भगीरथी तीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः।
4. तस्य कोटरे जरद्वनामा गृध्रः प्रतिवसति।
5. तमायान्तं दृष्ट्वां पक्षिशावकैर्भयार्ते: कोलाहलं कृतम्।
उत्तर:

  1. अस्ति भागीरथी तीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः।
  2. तस्य कोटरे जरगवनामा गृध्र: प्रतिवसति।
  3. अथ कदाचित दीर्घकर्ण नामा मार्जारः पक्षिशावकान् भक्षितुं तत्रागतः।
  4. तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्ते: कोलाहलं कृतम्।
  5. मार्जारोऽवदत्-श्रूयतां तावदस्मदवचनम्।

प्रश्न 5.
1. एकदा महाराज: निद्रां कुर्वन् आसीत्।।
2. कश्चित् महाराजस्य राजभवने एक; वानरः सेवकः आसीत्।
3.वानरः कुपितः सन् खड्गेन मक्षिकायाः उपरि प्रहार कृतवान्।
4. मूर्खण वानरेण महाराज: मारितः।
5. तदा महाराजस्य नासिकायां एका मक्षिका उपविष्टा।
उत्तर:

  1. कश्चित् महाराजस्य राजभवने एक; वानरः सेवकः आसीत्।
  2. एकदा महाराज: निद्रां कुर्वन् आसीत्।
  3. तदा महाराजस्य नासिकायां एका मक्षिका उपविष्टा।
  4. वानरः कुपितः सन् खड्गेन मक्षिकायाः उपरि प्रहारं कृतवान्।
  5. मूर्खः वानरेण महाराज: मारित:।।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *