RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्
RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्
Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्य-निर्माणम्
प्रश्न 1.
मजूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा
अस्माकं, विद्यालये, अध्यापकाः, छात्र-छात्राश्च, पुस्तकालयः क्रीडाक्षेत्रे। |
उत्तर:
वाक्यानि
- अस्माकं विद्यालयः ग्रामस्य मध्ये अस्ति।
- अस्मिन् विद्यालये विंशतिः अध्यापकाः सन्ति।
- अस्माकं विद्यालये छात्र-छात्राश्च सहैव पठन्ति।
- अस्मिन् विद्यालये एकः पुस्तकालयः अपि अस्ति।
- मध्याह्ने सर्वे छात्राः क्रीडाक्षेत्रे क्रीडन्ति।
- अस्माकं विद्यालयस्य भवनं सुन्दरम् अस्ति।प्रश्न
प्रश्न 2.
सड़कसुरक्षार्थं किं करणीयम् ? षट्वाक्यानि लिखते।
अथवा
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखते।
मंजूषा
सड़कसुरक्षार्थम्, यातायातस्य नियमाः, ‘दुर्घटना न भवेत्’, मद्यपानं, नियन्त्रिता, पालनं। |
उत्तर:
वाक्यानि
- सड़कसुरक्षार्थं नियमानां अधिकाधिकं प्रचार-प्रसारं करणीयम्।
- वाहनस्य गतिनियमानां पालनं करणीयम्।
- वाहनस्य गतिः नियन्त्रिता भवेत्।
- मद्यपानं कृत्वा वाहनचालनं न स्यात्।
- सड़क सुरक्षार्थं यातायातस्य नियमाः पालनीयाः।
- ‘दुर्घटना न भवेत्’ इत्यस्य प्रसारः भवेत्।
प्रश्न 3.
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा
पर्यावरणम्, संरक्षणम्, वायु-जल-ध्वनिप्रदूषणेन, मनः स्वास्थ्यं च, उत्तरोत्तरं प्रवर्धमाना, सन्तुलनम् |
उत्तर:
वाक्यानि-
- यत् परितः अस्मान् आवृणोति तत् पर्यावरणम्।
- पर्यावरणेन अस्माकं मनः स्वास्थ्यं च प्रभावितानि भवन्ति।
- अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दु:खमयं सञ्जातम्।
- पर्यावरणप्रदूषणस्य समस्या उत्तरोत्तरं प्रवर्धमाना अस्ति।
- अद्य पर्यावरणस्य सन्तुलनं सर्वेषां कृते अनिवार्यमस्ति।
- पर्यावरणस्य संरक्षणं सर्वेषां कर्त्तव्यमस्ति।
प्रश्न 4.
मजूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा
अनुशासनम्, प्रकृतिरपि, सर्वेभ्यः प्रियः, उन्नतिपथं, किमपि कार्य, महत्त्वम्। |
उत्तर:
वाक्यानि
- समाजे नियमानां पालनम् अनुशासनं भवति।
- जीवने अनुशासनस्य विशेष महत्त्वं भवति।
- अनुशासनं विना किमपि कार्य सफलं न भवति।
- अनुशासितः जनः सर्वेभ्यः प्रियः भवति।
- शिक्षकस्य अनुशासने छात्राः सततं उन्नतिपथं गच्छन्ति।
- प्रकृतिरपि ईश्वरस्य अनुशासने तिष्ठति।
प्रश्न 5.
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा
सड़कसुरक्षायाः, चतुष्पथेषु, अल्पवयस्का:, सुरक्षाकवचस्योपयोगः, दण्डं दातव्यम्, यातायातनिरीक्षकाणाम् |
अथवा
‘सड़कसुरक्षायाः उपायाः”-इति विषये घट्वाक्यानि लिखत।
उत्तर:
सड़कसुरक्षायाः उपायाः/वाक्यानि
- सड़कसुरक्षायाः नियमानां पालनं सर्वे: करणीयम्।
- यातायातनिरीक्षकाणां पर्याप्तव्यवस्था स्यात्।
- ये जना: यातायातनियमानां पालनं न कुर्वन्ति तेभ्य: दण्डं दातव्यम्।
- अल्पवयस्का: बालका: वाहनं न चालयेयुः।
- वाहनचालनसमये सुरक्षाकवचस्योपयोग: कर्त्तव्यः।
- चतुष्पथेषु सावधानतया गन्तव्यम्।
प्रश्न 6.
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा
असावधानतया, यातायातनियमानाम्, चलदूरभाषयन्त्रेण, प्रवेश-निषेधमार्गे, तीव्रगत्या, दुर्घटना |
अथवा
सड़क-दुर्घटनायाः कारणविषये घट्वाक्यानि लिखत।
उत्तर:
सड़कदुर्घटनायाः कारणानि/वाक्यानि
- असावधानतया वाहनचालनेन दुर्घटना भवति।
- प्रवेश-निषेधमार्गे प्रवेशत् सड़कदुर्घटना जायते।
- तीव्रगत्या वाहनचालनेन दुर्घटना भवति।
- वाहनचालनसमये चलदूरभाषयन्त्रेण वार्तया दुर्घटना जायते।
- वाहनस्य समुचितनियन्त्रणाभावेन दुर्घटना भवति।
- यातायातनियमानाम् अपालनेन दुर्घटना भवति।
प्रश्न 7.
चित्रं दृष्ट्वा चत्वारि वाक्यानि रचयतः
उत्तर:
- चित्रे राजमार्गस्य दृश्यं वर्तते।
- राजमार्ग विविधानि वाहनानि गच्छन्ति।
- वाहनानां धूमेन वातावरण प्रदूषितं भवति।
- वाहनस्य गतिनियमानां पालनं करणीयम्।
प्रश्न 8.
चित्रं दृष्ट्वा चत्वारि वाक्यानि रचयत– चरी धाम
उत्तर:
- अस्मिन् चित्रे छात्रा: स्वच्छताकार्यं कुर्वन्ति।
- चित्रे एक: अध्यापकः स्वच्छताकार्ये छात्राणां सहायतां करोति।
- एक: छात्र: अवकरम् अवकरपात्रे निक्षिपति।
- अधुना भारदेशे सर्वत्र स्वच्छताभियानं प्रचलति।
प्रश्न 9.
चित्रम दृष्ट्वा षट् वाक्यानि लिखत।
उत्तर:
- अस्मिन् चित्रे छात्रा: स्वच्छताकार्यं कुर्वन्ति।
- ते सार्वजनिकस्थलस्य स्वच्छताभियाने तत्परा: सन्ति।
- कतिपयेषु छात्रेषु हस्ते स्वच्छता-सन्देशपट्टिकाः सन्ति।
- स्वच्छताभियानं सम्पूर्णभारते प्रचलति।
- अस्मिन् कार्ये बालकाः सर्वान् प्रेरयन्ति।
- वस्तुतः अस्माभिः सर्वैः स्वपरिवेशं स्वच्छं कर्त्तव्यम्।
प्रश्न 10.
चित्रम दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत।
सड़कदुर्घटनाया:, सुरक्षार्थं, गतिनियमानां, नियन्त्रिता, मद्यपानं, पालनीया: |
उत्तर:
- इदं चित्रं सड़कदुर्घटनाया: वर्तते।
- राजमार्गे जनानां सुरक्षार्थं सावधानतया वाहनं चालयेत्।
- वाहनचालनसमये गतिनियमानां पालनं करणीयम्।
- चतुष्पथेषु वाहनस्य गति: नियन्त्रिता भवेत्।
- मद्यपानं कृत्वा कदापि वाहनं न चालयेत्।
- सर्वेषां जीवनस्य सुरक्षार्थं यातायातस्य नियमाः पालनीयाः।
प्रश्न 11.
स्वच्छताविषये षट्वाक्यानि लिखत।
अथवा
मञ्जूषातः पदं चित्वा षड्वाक्यानि लिखत।
मंजूषा
स्वच्छताभियानम्, सार्वजनिकस्थानस्य, स्वच्छताकार्य, शौचालयानां अवकरपात्रेषु, अस्माकं दायित्वम् |
उत्तर:
- अधुना अस्माकं देशे ‘स्वच्छताभियानं’ प्रचलति।
- अस्माभिः गृहस्य सार्वजनिकस्थलस्य च स्वच्छता करणीया।
- सर्वत्र स्वच्छतायाः अस्माकं दायित्वम् अस्ति।
- अस्माभिः अवकरपात्रेषु अवकरं स्थापनीयम्।
- स्वगृहे शौचालयानां निर्माणं करणीयम्।
- सर्वैः स्वच्छताकार्य स्वयमेव करणीयम्।
प्रश्न 12.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा घट्वाक्यानि। लिखत।
अथवा
पर्यावरणप्रदूषणविषये षटवाक्यानि लिखत।
पर्यावरण-प्रदूषणम्, धूमंमुञ्चन्ति, वाहनानां, वायुमण्डलं, जीवनं, असन्तुलनं। |
उत्तर:
- अद्य अस्माकं पर्यावरणम् अतीव दूषितं वर्तते।
- महानगरमध्ये बहूनि वाहनानि सततं धूमं मुञ्चन्ति।
- वाहनानां कोलाहलेनापि ध्वनि-प्रदूषणं भवति।
- तेषां धूमेन वायुमण्डलं भृशं प्रदूषितं भवति।
- पर्यावरण प्रदूषणेन जीवनं कठिनं भवति।
- पर्यावरण प्रदूषणेन प्राकृतिकम् असन्तुलनं भवति।
प्रश्न 13.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत-
सड़कदुर्घटना, कारयानम्, चलदूरभाषयन्त्रेण, नियन्त्रणाभावेन, तीव्रगत्या, असावधानतया। |
उत्तर:
- इदं चित्रं सड़कदुर्घटनायाः अस्ति।
- कास्यानचालकः चलदूरभाषयन्त्रेण वार्ता करोति।
- सः तीव्रगत्या वाहनचालनं करोति।
- अनेन वाहने नियन्त्रणाभावेन बालिका दुर्घटनाग्रस्ता जाता।
- वाहनचालकः असावधानतया वाहनं चालयति।
- यातायातनियमानाम् अपालनेन दुर्घटना भवति।
प्रश्न 14.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत-
वर्ण-विद्युतस्तम्भः, राजमार्गम्, स्वस्य पंक्तौ,। आवागमनस्य, रक्तवर्ण:, हरितवर्ण: |
उत्तर:
- इदं चित्र राजमार्गे चतुष्पथस्य वर्तते।
- चित्रे वर्ण-विद्युतस्तम्भः, राजमार्गश्च दृश्येते।
- रक्तवर्ण: अग्रे गमनात् निषेधयति।
- हरितवर्णस्य चिह्नानुसारेण अग्रे गन्तव्यम्।
- सड़कसुरक्षार्थं स्वस्व पंक्तौ एवं वाहनं चालयेत्।
- राजमार्गे आवागमनस्य पृथक्-पृथक् पंक्तयः सन्ति।
प्रश्न 15.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत।
यातायातनिरीक्षकः, नियमानां, दण्डं, गतिनियन्त्रणं चतुष्पथेषु, सुरक्षाकवचस्य |
उत्तर:
- अस्मिन् चित्रे यातायातनिरीक्षक: निरीक्षणं करोति।
- सड़कसुरक्षार्थं यातायातनियमानां पालनं आवश्यकम्।
- अत्र वाहनचालकाय निरीक्षकः दण्डं ददाति।
- राजमार्गे वाहनस्य गतिनियन्त्रणम् अनिवार्यम्।
- चतुष्पथेषु सावधानतया वाहनं चालयेत्।
- वाहनचालनसमये सुरक्षाकवचस्योपयोग: कर्त्तव्यः।
प्रश्न 16.
चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा षट् वाक्यानि लिखत।
यातायात-प्रदूषणम्, सड़क सुरक्षार्थम्, वाहनानां धूमेन, अन्धता, दुर्घटना, वाहन-सुरक्षा। |
उत्तर:
- अस्मिन् चित्रे यातायात-प्रदूषणं दृश्यते।
- सड़कसुरक्षार्थं यातायात-प्रदूषणस्य नियन्त्रणमनिवार्यम्।
- वाहनानां धूमेन राजमार्गस्य वातावरण प्रदूषितं भवति।
- धूमेन जनेषु अनेके रोगाः, अन्धता च भवति।
- वाहनधूमेन राजमार्गे दुर्घटनाऽपि भवति।
- यातायातप्रदूषणस्य निवारणोपाया: करणीयाः।
प्रश्न 17.
चित्रं दृष् मञ्जूषातः पदं चित्वा षवाक्यानि लिखत-
मञ्जूषा
वर्षा, मम, मेघः, छत्रम्, गर्ज, नीडे, पक्षिशावकः। |
उत्तर:
वाक्यानि
- अस्मिन् चित्रे वर्षा, मम विद्यालय: च दृश्यते।
- वर्षाकाले मेघः उच्चै : गर्जति।
- वर्षाकाले नीडे पक्षिशावकः तिष्ठति।
- एकः बालकः एका बालिका च छत्रं धृत्वा विद्यालयं प्रति गच्छतः।
- वर्षाकाले सर्वं जलमयं दृश्यते।
- वर्षाकाले आकाशे मेघाः गर्जन्ति।
प्रश्न 18.
चित्रं दृष्ट्वा मजूधातः पदं चित्वा षट् वाक्यानि लिखत-
मञ्जूषा
छात्रः, छात्रा, गवाक्षे, श्यामपटे, घटिकायन्त्रम्, कुरुतः, भित्तौ, परीक्षायाः, दृश्यते। |
उत्तर:
वाक्यानि
-
- अस्मिन् चित्रे परीक्षायाः दृश्यं दृश्यते।
- अत्र एकः छात्र: एका छात्रा च वार्ता कुरुतः।
- भित्तौ घटिकायन्त्रम् अस्ति।
- श्यामपटे ‘परीक्षा’ इति शब्द: लिखितः।
- गवाक्षे सूर्यः अपि दृश्यते।
- परीक्षाकक्षस्य भित्तौ भारतदेशस्य मानचित्रम् अस्ति।