UK Board 10th Class Sanskrit – Chapter 1 शुचिपर्यावरणम्
UK Board 10th Class Sanskrit – Chapter 1 शुचिपर्यावरणम्
UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 1 शुचिपर्यावरणम्
[ पाठ-परिचय–पर्यावरण- प्रदूषण पर आधारित प्रस्तुत पाठ | आधुनिक संस्कृत-कवि हरिदत्त शर्मा के रचना – संग्रह ‘लसल्लतिका’ से संकलित है। इसमें कवि ने महानगरों की यान्त्रिक – बहुलता से बढ़ते प्रदूषण पर चिन्ता व्यक्त करते हुए कहा है कि यह लौहचक्र तन-मन का शोषक है। इससे वायुमण्डल और भूमण्डल दोनों मलिन हो रहे हैं। इस मलिनता से त्रस्त कवि महानगरीय जीवन से कहीं दूर नदी – निर्झर, वृक्षसमूह, लताकुञ्ज एवं पक्षियों से गुञ्जित वनप्रदेशों की ओर चलने की अभिलाषा व्यक्त करता है । ]
समस्त पाठ का हिन्दी- भावानुवाद
- यहाँ (नगरीय वातावरण में) दूभर (कठिन) हुए जीवन को शुद्ध (स्वच्छ) पर्यावरण (वाली) प्रकृति ही शरण है। (शुद्ध पर्यावरण होना चाहिए ) ।।
महानगरों के मध्य में रात-दिन चलता हुआ लौह-चक्र मन का शोषण करता, तन को पीसता हुआ सदैव ( निरन्तर) टेढ़ा घूम रहा है। इसके भयंकर दाँतों द्वारा मानव-भक्षण (मानवों का विनाश ) नहीं होना चाहिए। शुद्ध ॥
- सैकड़ों मोटरगाड़ियाँ काजल के समान काला धुँआ छोड़ती हैं। रेलगाड़ियों की पंक्ति कोलाहल (शोर, ध्वनि-प्रदूषण) फैलाती (देती) हुई द्रुतगति से दौड़ती है। वाहनों की अनन्त पंक्तियों का (यह) आवागमन (संसरण, सरककर चलना) निश्चय ही कठिन है । शुद्ध ……… ॥
- (यहाँ नगरों में) वायुमण्डल अत्यधिक दूषित है (और) न ही जल निर्मल है। खाद्य वस्तुएँ व्यर्थ वस्तुओं का मिश्रण (मिलावटी) हैं, धरती गन्दगी से युक्त है। बाह्य और अन्तः जगत् में तो (हमें) बहुत अधिक शुद्धीकरण करना चाहिए। शुद्ध ……..॥
- (कवि यहाँ नगरीय वातावरण से दुःखी होकर गाँव और वनों के शुद्ध वातावरण में जाना चाहता है। अपनी इच्छा व्यक्त करता हुआ वह कह रहा है — ) कुछ समय के लिए मुझे इस नगर से बहुत दूर ले जाओ। गाँवों की सीमा पर ‘जल’ से परिपूर्ण झरने (और) नदी को (जीभरकर ) देखना चाहता हूँ। एकान्त वनप्रान्त (जंगल) में क्षणभर को मेरा घूमना हो। शुद्ध ……… ॥
- (कवि किस प्रकार के सौन्दर्यपूर्ण वातावरण में घूमना चाहता है, इसी का वर्णन करता हुआ वह कहता है – ) हरे-भरे वृक्षों (तथा) कोमल और सुन्दर लताओं की रमण करने योग्य माला हो । वायु से हिलायी जाती हुई पुष्पों की श्रेष्ठ (सुन्दर) पंक्ति में – (जहाँ). आम के पेड़ से मिलती नवमालिका लता हो, मेरा रुचिपूर्ण (सुन्दर) संगमन होना चाहिए। शुद्ध ……… ॥
- नगर के कोलाहल से भयभीत लोगों के लिए, जीवनरस का हरण करनेवाली चकाचौंध भरे संसार में हमारे लिए (यह) सुख – सन्देश धारण करने योग्य है – अरे बन्धु ! पक्षियों के समूह के कलरव से गूँजते वनप्रदेश को चलें। शुद्ध ……… ॥
- पत्थर की शिला पर ( स्थित ) लता, वृक्ष और झाड़ियाँ हमें प्रवेश न हो, जीते-मरते मानव-जीवन के लिए हमारी (यही) कामना पीसनेवाली हों, (ऐसी) पाषाणकालीन सभ्यतावाली प्रकृति में (हमारा ) है। (यहाँ कवि का आशय यह है कि यदि इस पर्यावरण प्रदूषण पर नियन्त्रण न किया गया तो हम शीघ्र ही अपना सबकुछ गँवाकर पाषाणकालीन युग में पहुँच जाएँगे । भगवान् करे कभी ऐसी स्थिति उत्पन्न न हो। )
पाठावबोधन-कार्य
निर्देश: – अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत-
(1) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि- पर्यावरणम् ॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् । बढ़ाएँ शुचि ……॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कुत्र दुर्वहम् जीवितम् ?
(ख) अनिशम् किं चलत् ?
(ग) कालायसचक्रं सदा कीदृशम् भ्रमति ?
(घ) कैः जनग्रसनम् न स्यात् ?
उत्तरम्—(क) महानगरमध्ये,
(ख) कालायसचक्रम्
(ग) वक्रम्,
(घ) दुर्दान्तैर्दशनैः ।
2. पूर्णवाक्येन उत्तरत-
(क) कं प्रकृति एव शरणम् ?
(ख) किं कुर्वन् कालायसचक्रं भ्रमति ?
(ग) अत्र किं न स्यात् ?
उत्तरम् — (क) दुर्वहं जीवितं जातं प्रकृति एव शरणम् ।
(ख) मनः शोषयत् तनुः पेषयद् च कालायसचक्रं भ्रमति ।
(ग) अत्र कालायसचक्र : दुर्दान्तैः दशनै: जनग्रसनं न स्यात् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘सरलम्’ इति पदस्य विपरीतभावात्मकं शब्दं चित्वा लिखत ।
(ख) ‘पर्यावरणम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम् ?
(ग) ‘प्रकृतिरेव’ अस्य पदस्य सन्धिच्छेदं कुरुत ।
उत्तरम् — (क) वक्रम्, (ख) शुचि, (ग) प्रकृतिः + एव ।
(2) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम् ।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि ……॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) कज्जलमलिनं किम् अस्ति ?
(ख) वाष्पयानमाला किं वितरन्ती ?
(ग) केषां पङ्क्तयः अनन्ता: ?
(घ) का संधावति ?
उत्तरम् — (क) धमम्,
(ख) ध्वानम्,
(ग) यानानाम्,
(घ) वाष्पयानमाला ।
2. पूर्णवाक्येन उत्तरत-
(क) महानगरे शतशकटीयानं किं करोति ?
(ख) का ध्वानम् वितरन्ती संधावति ?
(ग) नगरे केषां संसरणम् कठिनम् अस्ति ?
उत्तरम् — (क) महानगरे शतशकटीयानं कज्जलमलिनं धूमं मुञ्चति ।
(ख) वाष्पयानमाला ध्वानम् वितरन्ती संधावति ।
(ग) नगरे यानानाम् अनन्ताः पङ्क्तयः संसरणं कठिनम् अस्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कोलाहलम्’ इति पदस्य समानार्थकपदं लिखत ।
(ख) ‘अनन्ताः’ अस्य पदस्य विशेष्यपदं किम् ?
(ग) अन्तिमपङ्क्त्यां प्रयुक्तम् अव्ययपदं किम् ?
(घ) ‘वाष्पयानमाला संधावति वितरन्ती ध्वानम्।’ अत्र किं क्रियापदम्?
उत्तरम्- (क) ध्वानम्,
(ख) पङ्क्तयः,
(ग) हि,
(घ) संधावति ।
(3) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम् । शुचि ……॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) किं भृशम् दूषितम् ?
(ख) नगरे निर्मलं किं न मिलति ?
(ग) अत्र समलं किम् ?
(घ) किं शुद्धीकरणं करणीयम् ?
उत्तरम्- (क) वायुमण्डलम्,
(ख) जलम्,
(घ) पर्यावरणम्।
(ग) धरातलम्,
2. पूर्णवाक्येन उत्तरत-
(क) कीदृशं भक्ष्यं नगरे मिलति ?
(ख) बहिरन्तर्जगति किं बहु करणीयम् ?
(ग) महानगरस्य समस्याः लिखत ।
उत्तरम् –(क) कुत्सितवस्तुमिश्रितं भक्ष्यं नगरे मिलति ।
(ख) बहिरन्तर्जगति बहु शुद्धीकरणं करणीयम् ।
(ग) दूषित वायुमण्डलं, निर्मलं जलं, कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलं च महानगरस्य समस्याः सन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘वायुमण्डलं भृशं दूषितम्’ अत्र किम् अव्ययपदम् ?
(ख) ‘भक्ष्यम्’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(ग) ‘अमलम्’ इत्यस्य किं विलोमपदं प्रयुक्तम् ?
(घ) ‘स्वच्छम्’ अस्य पर्यायवाचिपदं चित्वा लिखत ।
उत्तरम्- (क) भृशम्,
(ख) कुत्सितवस्तुमिश्रितम्,
(ग) समलम्,
(घ) निर्मलम् ।
(4) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम् ।
प्रपश्यामि ग्रामान्ते निर्झर – नदी – पयः पूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम् । शुचि ……॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) कविः कस्मात् दूरं गन्तुम् इच्छति ?
(ख) पयःपूरम् नदी कुत्र अस्ति ?
(ग) कुत्र क्षणमपि सञ्चरणं स्यात् ?
उत्तरम्- (क) नगरात्,
(ख) ग्रामान्ते,
(ग) कान्तारे।
2. पूर्णवाक्येन उत्तरत-
(क) कविः कुत्र नेतुं कथयति ?
(ख) ग्रामान्ते कविः किम् अपश्यत् ?
(ग) एकान्ते कान्तारे कविः किं कर्तुम् इच्छति ?
उत्तरम् – (क) कवि: नगराद् बहुदूरं कञ्चित् कालं नेतुं कथयति ।
(ख) ग्रामान्ते कविः निर्झर – नदी – पयःपूरम् अपश्यत् ।
(ग) एकान्ते कान्तारे कविः क्षणमपि सञ्चरतुम् इच्छति।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्’ अत्र क्रियापदं किम् ?
(ख) ‘समयम्’ अस्य पर्यायपदं लिखत ।
(ग) ‘कञ्चित् कालम्’ अत्र विशेषणपदं किम् ?
(घ) ‘मामस्मान्नगराद् बहुदूरं नय’ अत्र ‘अस्मात् सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् — (क) नय,
(ख) कालम्,
(ग) कञ्चित् ,
(घ) नगराय ।
(5) हरिततरूणां ललितलतानां माला रमणीया ।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया ॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि ……॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कीदृशी ललितलतानां माला?
(ख) समीरचालिता का ?
(ग) नवमालिका कं मिलिता ?
उत्तरम्- (क) रमणीया,
(ख) कुसुमावलिः,
(ग) रसालम्।
2. पूर्णवाक्येन उत्तरत-
(क) अत्र रमणीया का?
(ख) कोदृशी कुसुमावलिः कवये वरणीया ?
(ग) अत्र कविः कं रुचिरं संगमनम् कथयति ?
उत्तरम्- (क) अत्र हरिततरूणां ललितलतानां माला रमणीया ।
(ख) समीरचालिता कुसुमावलिः कवये वरणीया ।
(ग) अत्र कविः नवमालिका रसालं मिलिता रुचिरं संगमनम् कथयति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘संगमनम्’ अत्र कः उपसर्ग: प्रयुक्तः ?
(ख) ‘कुसुमावलिः समीरचालिता’ इत्यनयोः पदयोः विशेषणपदं किम्?
(ग) रुचिरम्’ इति शब्दस्य कोऽर्थ : ?
‘सुदीर्घम्, सुन्दरम्, क्षणिकं’ शुद्धम् उत्तरं लिख्यतम् ।।
(घ) ‘मिलिता’ अत्र प्रयुक्तः प्रत्ययः कः?
उत्तरम् — (क) सम्,
(ख) समीरचालिता,
(ग) सुन्दरम्,
(घ) क्त।
(6) अयि चल बन्द्यो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम् । शुचि ……॥
प्रश्ना: – 1. एकपदेन उत्तरत-
(क) वनदेशं केन गुञ्जितम् ?
(ख) अत्र केभ्यो सुखसन्देशम् ?
(ग) जना: केन सम्भ्रमिता : ?
(घ) जीवितरसहरणम् किम् ?
उत्तरम्— (क) खगकुलकलरवेण,
(ख) सम्भ्रमितजनेभ्यो,
(ग) पुर-कलरवेण,
(घ) चाकचिक्यजालम् ।
2. पूर्णवाक्येन उत्तरत-
(क) कविः कं सम्बोधयति ?
(ख) कवि किं सम्बोधयति ?
(ग) चाकचिक्यजालं धृतसुखसन्देशम् किम्?
उत्तरम् — (क) कविः बन्धुं सम्बोधयति ।
(ख) कविः बन्धुं सम्बोधयति – अयि बन्धो ! खगकुलकलरव गुञ्जितवनदेशं चल।
(ग) चाकचिक्यजालं धृतसुखसन्देशम् अस्ति — आगच्छ ! खगकुलकलरव गुञ्जितवनदेशम् चल ।
3. निर्देशानुसारम् उत्तरत—
(क) ‘चल’ इयं कस्य लकारस्य क्रिया अस्ति ?
(ख) ‘चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्’ अत्र क्रियापदं किम् ?
(ग) ‘नो’ इति शब्दस्य उचितम् अर्थं चिनुत — ‘अस्मभ्यम्, न हि, नवमः ।
उत्तरम् – (क) लोट्लकारस्य,
(ख) कुर्यात्,
(ग) अस्मभ्यम्।
(7) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ॥
मानवाय जीवनं कामये नो जीवन्मरणम् । शुचि ……॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) के नः भवन्तु पिष्टा: ?
(ख) का निसर्गे न समाविष्टा ?
(ग) कस्मै कामये अत्र ?
उत्तरम् – (क) लतातरुगुल्माः
(ख) पाषाणी सभ्यता,
(ग) मानवाय।
2. पूर्णवाक्येन उत्तरत-
(क) अत्र कवि: कां कामना करोति ?
(ख) कुत्र लतातरुगुल्मा न पिष्टाः भवन्तु अस्मभ्यम् ?
उत्तरम् – (क) ‘पाषाणी सभ्यता निसर्गे न समाविष्टा स्यात्’ इति कामनाम् अत्र कविः करोति ।
(ख) प्रस्तरतले लतातरुगुल्मा न पिष्टाः भवन्तु अस्मभ्यम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘पाषाणी सभ्यता’ अनयोः पदयोः विशेषणं किम् ?
(ख) ‘प्रस्तर’ अस्य किं पर्यायवाचिपदं पद्यांशे चित्वा लिखत ।
(ग) मरणम्’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(घ) ‘निसर्गे’ इति पदे का विभक्तिः प्रयुक्ता ?
उत्तरम् — (क) पाषाणी,
(ख) पाषाण,
(ग) जीवनम्,
(घ) सप्तमी ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम् — कविः महानगरस्य दुर्वहं जीवनं जातं प्रकृतेः शरणम् इच्छति ।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
उत्तरम् – महानगरेषु यानानाम् अनन्ताः पङ्क्तयः भवन्ति; अतः तत्र संसरणं कठिनं वर्तते ।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तरम् – अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं धरातलं च दूषितम् अस्ति ।
(घ) कविः कुत्र संचरणं कर्त्तुम् इच्छति?
उत्तरम् – कवि : ग्रामान्ते एकान्ते कान्तारे संचरणं कर्तुम् इच्छति ।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उत्तरम् – स्वस्थजीवनाय शुचि – वातावरणे भ्रमणीयम् ।
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम् – अन्तिमे पद्यांशे कवेः कामना अस्ति यत् निसर्गे पाषाणी सभ्यता समाविष्टा न स्यात् ।
2. सन्धिं / सन्धिविच्छेदं कुरुत-
(क) प्रकृति: + ………….. = प्रकृतिरेव
(ख) स्यात् + ………….. + ………….. = स्यान्नैव
(ग) ………….. + अनन्ता: = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = …………..
(ङ) ………….. + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = …………..
(छ) धूमम् + मुञ्चति = …………..
उत्तरम् —
(क) प्रकृतिः + एव = प्रकृतिरेव
(ख) स्यात् + न + एव = स्यान्नैव
(ग) हि + अनन्ता: = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = सञ्चरणम्
(छ) धूमम् + मुञ्चति = धूमं मुञ्चति
3. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहि:
(क) इदानीं वायुमण्डलं …………… प्रदूषितमस्ति ।
(ख) ……………… जीवनं दुर्वहम् अस्ति ।
(ग) प्राकृतिक – वातावरणे क्षणं सञ्चरणम् ……….. लाभदायकं भवति ।
(घ) पर्यावरणस्य संरक्षणम् ………. प्रकृतेः आराधना।
(ङ) ……….. समयस्य सदुपयोगः करणीयः ।
(च) भूकम्पित-समये ………. गमनमेव उचितं भवति ।
(छ) ……… हरीतिमा ………. शुचि पर्यावरणम् ।
उत्तरम् –
(क) इदानीं वायुमण्डलं भृशं प्रदूषितमस्ति ।
(ख) अत्र जीवनं दुर्वहम् अस्ति ।
(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति ।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना ।
(ङ) सदा समयस्य सदुपयोगः करणीयः ।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति ।
(छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम् ।
4. (अ) अधोलिखितानां पदानां पर्यायपदं लिखत-
(क) सलिलम् ……………………
(ख) आम्रम् ……………………
(ग) वनम् ……………………
(घ) शरीरम् ……………………
(ङ) कुटिलम् ……………………
(च) पाषाण: ……………………
उत्तरम् —
(क) सलिलम् जलम्
(ख) आम्रम् रसालम्
(ग) वनम् कान्तारम्
(घ) शरीरम् तनुः
(ङ) कुटिलम् वक्रम्
(च) पाषाण: प्रस्तर:
(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) सुकरम् ……………………
(ख) दूषिताम् ……………………
(ग) गृहणन्ती ……………………
(घ) निर्मलम् ……………………
(ङ) दानवाय …………………..
(च) सान्ता: ……………………
उत्तरम् —
(क) सुकरम् दुष्करम्
(ख) दूषिताम् शुद्धीकरणम्
(ग) गृहणन्ती वितरन्ती
(घ) निर्मलम् मलिनम्/समलम्
(ङ) दानवाय मानवाय
(च) सान्ता: बाह्या: