UK 10th Sanskrit

UK Board 10th Class Sanskrit – Chapter 3 व्यायामः सर्वदा पथ्यः

UK Board 10th Class Sanskrit – Chapter 3 व्यायामः सर्वदा पथ्यः

UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 3 व्यायामः सर्वदा पथ्यः

[ पाठ-परिचय — प्रस्तुत पाठ आयुर्वेद के प्रसिद्ध ग्रन्थ ‘सुश्रुतसंहिता’ के चौबीसवें अध्याय से संकलित है। पाठ में संकलित श्लोकों में आचार्य सुश्रुत ने व्यायाम से सम्बन्धित विभिन्न तथ्यों पर प्रकाश डाला है। इनमें व्यायाम की परिभाषा, उससे होनेवाले शारीरिक सुगठन, कान्ति, स्फूर्ति, नीरोगिता, जठराग्नि की दीप्तिता, व्यायाम की मात्रा तथा उसके समाधानों का वर्णन किया गया है । ]
समस्त पाठ का हिन्दी- भावानुवाद
  1. शरीर में थकावट करनेवाला अर्थात् परिश्रमवाला कार्य व्यायाम नामवाला होता है। उसको करने के बाद सभी प्रकार से सुखपूर्वक (उसे ) मलना चाहिए।
    पश्चात् आशय यह है कि परिश्रमवाले कार्य को व्यायाम कहते हैं। इसके शरीर की आराम से भली-भाँति मालिश करनी चाहिए ।
  2. (व्यायाम से) शरीर की वृद्धि, चमक, सुडौलता, दीप्ति, अग्नि की वृद्धि, आलस्यहीनता, स्थिरता, फुर्ती, स्वच्छता (उत्पन्न होती है)।
  3. व्यायाम से परिश्रम, थकान, प्यास, गर्मी- सर्दी आदि को सहन करने की क्षमता और महान् स्वस्थता (नीरोगिता ) भी उत्पन्न होती है।
  4. उस (व्यायाम) के समान मोटापे को खींचकर दूर करनेवाला और कोई ( साधन) नहीं है। शत्रु भी व्यायाम करनेवाले व्यक्ति को (अपने) बल से पीड़ित नहीं करते हैं।
  5. ( व्यायाम करनेवाले व्यक्ति पर ) सहसा आक्रमण करनेवाला बुढ़ापा सवार नहीं होता है। व्यायाम में लगे रहनेवाले व्यक्ति का मांस भी स्थिर हो जाता है।
  6. व्यायाम द्वारा पसीने से लथपथ और पैरों से रौंदे हुए (शरीरवाले) व्यक्ति के समीप रोग गरुड़ के समीप सर्पों के समान नहीं जाते हैं। (व्यायाम) आयु, रूप और अन्य गुणों से हीन भी व्यक्ति को देखने योग्य (सुन्दर) बना देता है।
  7. नित्य – प्रति व्यायाम करते हुए ( व्यक्ति का ) भली-भाँति पका अथवा बिना पका (स्वास्थ्य के) विपरीत भोजन भी बिना किसी दोष के पच जाता है।
  8. चिकनाईयुक्त भोजन खानेवाले बलवान् व्यक्तियों के लिए वह व्यायाम निश्चय ही सदैव हितकर होता है, किन्तु शीत और वसन्त (ऋतुओं) में वह (व्यायाम) सबसे अधिक हितकारी कहा गया है।
  9. अपना हित चाहनेवाले मनुष्यों को सब ऋतुओं में प्रतिदिन (अपने शरीर के) आधे बल का व्यायाम करना चाहिए; इससे भिन्न होने पर (अर्थात् आधे बल से अधिक व्यायाम करने पर व्यायाम) मार डालता है।
  10. व्यायाम को करते हुए व्यक्ति के हृदय में उचित स्थान पर स्थित (श्वास) वायु जब मुख तक पहुँचने लगती है, तब आधे बल.. का लक्षण (होता) है। अर्थात् जब हृदय में स्थित वायु मुख में पहुँचने लगती है, तब उसे आधा बल कहते हैं।
  11. वातावरण (देश), शरीर, अवस्था, शरीर के बल और भोजन का सोच-विचार करके व्यायाम करना चाहिए, नहीं तो (व्यक्ति) रोगों को प्राप्त होता है।
पाठावबोधन-कार्य
(1) शरीरायासजननं कर्म व्यायामसंज्ञितम् ।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) शरीरायासजननं कर्म किं संज्ञितम् ?
(ख) समन्ततः देहं किं कुर्यात् ?
(ग) कं विमृद्नीयात् समन्तत: ?
उत्तरम् —
(क) व्यायाम:,
(ख) विमृद्नीयात्,
(ग) देहम्।
2. पूर्णवाक्येन उत्तरत—
(क) व्यायामः किं भवति ?
(ख) व्यायामं कृत्वा किं कुर्यात् ?
(ग) कथं देहं विमृद्नीयात् ?
उत्तरम्-
(क) शरीरायासजननं कर्म व्यायामः भवति ।
(ख) व्यायामं कृत्वा देहं विमृद्नीयात् ।
(ग) समन्ततः सुखं देहं विमृद्नीयात् ।
3. निर्देशानुसारम् उत्तरत—
(क) ‘देहम्’ अस्य पर्यायवाचिपदं लिखत ।
(ख) ‘दुःखम्’ अस्य विलोमपदं लिखत ।
(ग) ‘देहं विमृद्नीयात् समन्ततः’ अत्र क्रियापदं किम् ?
उत्तरम् —
(क) शरीरम्,
(ख) सुखम्,
(ग) विमृद्नीयात्।
(2) शरीरोपचयः कान्तिर्गात्राणं सुविभक्तता |
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ॥ 
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र केषाम् सुविभक्तता कथिता ?
(ख) अनालस्यं कस्मात् जायते ?
उत्तरम् —
(क) गात्राणाम्,
(ख) व्यायामात्।
2. पूर्णवाक्येन उत्तरत-
(क) व्यायामात् किम् उपजायते ?
उत्तरम् –
(क) व्यायामात् शरीरोपचयः, कान्तिः, गात्राणां सुविभक्तता, दीप्ताग्नित्वम्, अनालस्यं, स्थिरत्वं लाघवं मृजा उपजायते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘शरीरोपचय:’ इत्यस्य पदस्य सन्धिच्छेदं कुरुत |
(ख) ‘आलस्यम्’ अस्य विलोमपदं लिखत ।
(ग) ‘स्थिरत्वम्’ इति पदे प्रयुक्तः प्रत्ययः कः ?
उत्तरम्-
(क) शरीर + उपचयः,
(ख) अनालस्यम्,
(ग) त्वल् ।
(3) श्रमक्लेमपिपासोष्ण-शीतादीनां सहिष्णुता ।
आरोग्यं चापि परमं व्यायामादुपजायते ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) आरोग्यं कस्मात् उपजायते ?
(ख) शीतादीनां का व्यायामात् उपजायते?
उत्तरम् —
(क) व्यायामात्,
(ख) सहिष्णुता ।
2. पूर्णवाक्येन उत्तरत- 
(क) केषां सहिष्णुता व्यायामात् उपजायते ?
(ख) व्यायामात् उपजायते किं परमम् ?
उत्तरम्-
(क) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता व्यायामात् उपजायते ।
(ख) व्यायामात् उपजायते आरोग्यं परमम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘आरोग्यं परमम्’ इति पदयोः किं विशेषणपदम् अस्ति ?
(ख) अस्मिन् श्लोके प्रयुक्तम् एकम् अव्ययपदम् लिखत ।
(ग) ‘सहिष्णुता’ अत्र प्रयुक्तः प्रत्ययः कः ?
उत्तरम् —
(क) परमम्,
(ख) अपि,
(ग) तल् ।
(4) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम् ।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) स्थौल्यापकर्षणम् किम् अस्ति ?
(ख) कं न अरयः अर्दयन्ति ?
(ग) अरयः कस्मात् अर्दयन्ति ?
उत्तरम् –
(क) व्यायामः,
(ख) व्यायामिनम्,
(ग) बलात्।
2. पूर्णवाक्येन उत्तरत-
(क) केन सदृशं किञ्चित्स्थौल्यापकर्षणं न अस्ति ?
(ख) कः न अर्दयन्ति व्यायामिनम् ?
उत्तरम् —
(क) व्यायामेन सदृशं किञ्चित्स्थौल्यापकर्षणं न अस्ति।
(ख) अरयः न अर्दयन्ति व्यायामिनम् ।
3. निर्देशानुसारम् उत्तर-
(क) अस्मिन् श्लोके ‘तद्’ इति सर्वनामपदस्य किं रूपं प्रयुक्तम् अस्ति ?
(ख) अस्मिन् श्लोके ‘मानवम्’ इत्यर्थे किं पदं प्रयुक्तम् ?
(ग) ‘शत्रवः’ इत्यस्य पर्यायवाचिपदं प्रयुक्तं किम् ?
उत्तरम्—
(क) तेन,
(ख) मर्त्यम्,
(ग) अरयः ।
(5) न चैनं सहसाक्रम्य जरा समधिरोहति ।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) अत्र सहसाक्रम्य क: ?
(ख) कं स्थिरीभवति ?
(ग) कस्य मांसं स्थिरीभवति ?
उत्तरम् —
(क) जरा,
(ख) मांसम्,
(ग) व्यायामाभिरतस्य ।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृशं जरा न समधिरोहति ?
(ख) व्यायामाभिरतस्य किं स्थिरीभवति ?
उत्तरम्-
(क) एनं सहसाक्रम्य जरा न समधिरोहति ।
(ख) व्यायामाभिरतस्य मांसं स्थिरीभवति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अकस्मात्’ इत्यर्थे किं अव्ययपदं प्रयुक्तम् ?
(ख) ‘चैनम्’ अस्य पदस्य सन्धिविच्छेदं कुरुत ?
(ग) स्थिरीभवति मांसं च व्यायामाभिरतस्य च’ अत्र प्रयुक्तं क्रियापदं किम् ?
उत्तरम् –
(क) सहसा,
(ख) च + एनम्,
(ग) स्थिरी भवति ।
(6) व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणैर्हीनमपि कुर्यात्सुदर्शनम्॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) व्यायामस्विन्नगात्रस्य के नोपसर्पन्ति ?
(ख) व्याधय: कमिव नोपसर्पन्ति ?
(ग) व्यायामः कं कुर्यात् सुदर्शनम् ?.
उत्तरम् —
(क) व्याधय:,
(ख) वैनतेयमिवोरगा:,
(ग) गुणैर्हीनम् ।
2. पूर्णवाक्येन उत्तरत-
(क) व्याधयः कस्य नोपसर्पन्ति ?
(ख) व्याधीनां तुलना केन सह क्रियते ?
(ग) वयोरूपगुणैर्हीनमपि व्यायामः किं कुर्यात् ?
उत्तरम्-
(क) व्याधयः व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य नोपसर्पन्ति ।
(ख) व्याधीनाम् तुलना उरगेभ्यः सह क्रियते ।
(ग) वयोरूपगुणैर्हीनमपि व्यायामः सुदर्शनं कुर्यात् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगा:’ अत्र क्रियापदं किम् ?
(ख) ‘सर्पाः’ इत्यर्थे अत्र किं पदं प्रयुक्तम् अस्ति ?
(ग) ‘उपसर्पन्ति ‘ अत्र प्रयुक्तः उपसर्गः कः ?
उत्तरम् —
(क) उपसर्पन्ति,
(ख) उरगाः,
(ग) उप ।
(7) व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) किं कुर्वतः भोजनं परिपच्यते ?
(ख) व्यायामेन विरुद्धमपि भोजनं किं भवति ?
उत्तरम्-
(कं) व्यायामम्,
(ख) परिपच्यते ।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृशं भोजनं नित्यं व्यायामं कुर्वतः अपि परिपच्यते ?
(ख) विदग्धमविदग्धं वा भोजनं किं रूपं परिपच्यते ?
उत्तरम् —
(क) विरुद्धम् अपि भोजनं नित्यं व्यायामं कुर्वतः अपि परिपच्यते।
(ख) विदग्धमविदग्धं वा भोजनं निर्दोष- रूपं परिपच्यते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘विदग्धम्’ अस्य विलोमपदं लिखत ।
(ख) ‘विरुद्धं भोजनम्’ अत्र विशेष्यपदं किम् ?
(ग) ‘विपरीतम्’ इत्यर्थे किं पदं श्लोके प्रयुक्तम् ?
उत्तरम् —
(क) अविदग्धम्,
(ख) भोजनम्,
(ग) विरुद्धम्।
(8) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) सदा पथ्यः कः ?
(ख) केषां बलिनां व्यायामः सदा पथ्यः ?
(ग) व्यायामः शीते कीदृशः स्मृतः ?
उत्तरम्-
(क) व्यायाम:,
(ख) स्निग्धभोजिनाम्,
(ग) पथ्यतमः ।
2. पूर्णवाक्येन उत्तरत-
(क) सः व्यायामः सदा केषां पथ्यः ?
(ख) कदा व्यायामः पथ्यतमः स्मृतः ?
उत्तरम्-
(क) सः व्यायामः सदा बलिनां स्निग्धभोजिनां पथ्यः ।
(ख) शीते वसन्ते च व्यायामः पथ्यतमः स्मृतः ।
3. निर्देशानुसारम् उत्तरत-
(क) अस्मिन् श्लोके ‘स’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ख) ‘पथ्यतमः’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) ‘अपथ्यः’ अस्य पदस्य विलोमपदं किम् अत्र प्रयुक्तम् ?
उत्तरम् —
(क) व्यायामाय,
(ख) तमप्,
(ग) पथ्यः ।
(9) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) कै: व्यायामः कर्त्तव्यः ?
(ख) केन व्यायामः कर्त्तव्यः ?
(ग) अन्यथा किं कृत: ?
उत्तरम् —
(क) आत्महितैषिभि:,
(ख) बलस्यार्धेन,
(ग) हन्त्यतः ।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृशैः पुम्भिः बलस्यार्धेन व्यायामः कर्त्तव्यः ?
(ख) बलस्यार्धेन व्यायामः कदा कर्त्तव्यः ?
उत्तरम् –
(क) आत्महितैषिभिः पुम्भिः बलस्यार्धेन व्यायामः कर्त्तव्यः ।
(ख) बलस्यार्धेन व्यायामः सर्वेषु ऋतुषु अहरहः कर्त्तव्यः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘सर्वेषु ऋतुषु अहरहः’ अत्र सन्धिं कृत्वा लिखत |
(खं) ‘प्रतिदिनम्’ इत्यर्थे अस्मिन् श्लोके किं पदं प्रयुक्तम् ?
(ग) तव्यत्’ प्रत्ययनिर्मितम् एकं शब्दं श्लोकात् चित्वा लिखत ।
उत्तरम् —
(क) सर्वेष्वृतुष्वहरहः,
(ख) अहरहः,
(ग) कर्त्तव्यः ।
(10) हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपद्यते ।
व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) वायुः कं प्रपद्यते ?
(ख) तदा कस्य लक्षणं भवति ?
उत्तरम् —
(क) वक्त्रम्,
(ख) बलार्धस्य ।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृश: जन्तो: हृदिस्थानास्थितो वायुः वक्त्रं प्रपद्यते ?
(ख) बलार्धस्य लक्षणं किम् ?
(ग) कुत्र स्थितः वायुः वक्त्रं प्रपद्यते ?
उत्तरम्-
(क) व्यायामं कुर्वतः जन्तो: हृदिस्थानास्थितो वायुः वक्त्रं प्रपद्यते।
(ख) यदा व्यायामं कुर्वतः जन्तोः हृदिस्थानास्थितो वायुः वक्त्रं प्रपद्यते, तद् बलार्धस्य लक्षणम्।
(ग) हृदिस्थानास्थितो वायुः वक्त्रं प्रपद्यते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कुर्वतः’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ख) ‘मुखम्’ इत्यस्य पर्यायवाचिपदम् अत्र प्रयुक्तम् किम् ?
(ग) ‘वायुः’ अस्य विशेषणपतं किम् ?.
(घ) ‘जन्तो:’ अत्र का विभक्तिः प्रयुक्ता ?
उत्तरम् –
(क) क्त,
(ख) वक्त्रम्,
(ग) हरिस्थानास्थितो,
(घ) षष्ठी।
(11) वयोबलशरीराणि देशकालाशनानि च ।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अशनानि समीक्ष्य किं कुर्यात् ?
(ख) अन्यथा किम् आप्नुयात् ?
उत्तरम् —
(क) व्यायामम्,
(ख) रोगम्।
2. पूर्णवाक्येन उत्तरत-
(क) कानि समीक्ष्य व्यायामं कुर्यात् ?
(ख) समीक्ष्य एव कर्त्तव्यं किम् ?
उत्तरम्-
(क) वयोबलशरीराणि देशकाल – अशनानि च समीक्ष्य व्यायामं कुर्यात् ।
(ख) समीक्ष्य एव कर्त्तव्यं व्यायामम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अन्यथा रोगमाप्नुयात्’ अत्र क्रियापदं किम् ?
(ख) ‘आयुः’ अस्य पर्यायपदं श्लोकात् चित्वा लिखत ।
(ग) ‘असमीक्ष्य’ अस्य विलोमपदं पद्यात् चित्वा लिखत ।
उत्तरम् –
(क) आप्नुयात्,
(ख) वय:,
(ग) समीक्ष्य ।
सर्वेषां श्लोकानाम् अन्वयाः
  1. शरीरायासजननं कर्म व्यायामसंज्ञितम् (भवति), तत् कृत्वा तु देहं समन्ततः सुखं विमृद्नीयात्।
  2. (व्यायामात्) शरीरोपचयः, कान्तिः गात्राणां सुविभक्तता, दीप्ताग्नित्वम्, अनालस्यं, स्थिरत्वं, लाघवं मृजा (उपजायते)।
  3. व्यायामात् श्रमक्लमपिपासोष्णशीतादीनाम् सहिष्णुता, परमम् आरोग्यं च अपि उपजायते ।
  4. तेन सदृशं स्थौल्यापकर्षणं च किञ्चित् न अस्ति। अरयः च व्यायामिनम् मर्त्यं बलात् न अर्दयन्ति ।
  5. जरा च सहसा आक्रम्य एनं न समधिरोहति । व्यायामाभिरतस्य हि मांसं च स्थिरीभवति ।
  6. व्यायामस्विन्नगात्रस्य पद्भ्याम् उद्वर्तितस्य च व्याधयः वैनतेयम् उरगाः इव न उपसर्पन्ति । वयोरूपगुणैर्हीनम् अपि (नरम् ) (व्यायाम) सुदर्शनं कुर्यात् ।
  7. नित्यं व्यायामं कुर्वतः विदग्धं अविदग्धम् वा विरुद्धम् अपि भोजनं निर्दोषं परिपच्यते ।
  8. स्निग्धभोजिनां बलिनां सः हि सदा पथ्यः, किन्तु शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।
  9. आत्महितैषिभिः पुम्भिः सर्वेषु ऋतुषु अहरहः बलस्य अर्धेन व्यायामः कर्त्तव्यः; अतः अन्यथा हन्ति ।
  10. व्यायामं कुर्वतः जन्तोः हृदि स्थानास्थितो वायुः यदा वक्त्रं प्रपद्यते तद् बलार्धस्य लक्षणम्।
  11. देश – काया-वयः बलशरीराणि अशनानि च समीक्ष्य व्यायामं कुर्यात् अन्यथा रोगम् आप्नुयात्।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कीदृशं कर्म व्यायामसंज्ञितं कथ्यते?
उत्तरम् — शरीरायासजननं कर्म व्यायामसंज्ञितं कथ्यते ।
(ख) व्यायामात् किं किमुपजायते?
उत्तरम् — शरीरोपचयः, कान्तिः, गात्राणां सुविभक्ता, दीप्ताग्नित्वम्, अनालस्यं, स्थिरत्वं लाघवं, मृजा, श्रम-क्लम-पिपासोष्ण-शीतादीनां सहिष्णुता आरोग्यं च व्यायामात् उपजायते ।
(ग) जरा कस्य सकाशं सहसा न समधिरोहति ?
उत्तरम् – जरा व्यायामाभिरतस्य सकाशं सहसा न समधिरोहति ।
(घ) कस्य विरुद्धमपि भोजनं परिपच्यते ?
उत्तरम् — स्वास्थ्यस्य विरुद्धमपि भोजनं परिपच्यते ।
(ङ) कियता बलेन व्यायामः कर्त्तव्यः ?
उत्तरम् — अर्धेन बलेन व्यायामः कर्त्तव्यः ।
(च) अर्धबलस्य लक्षणं किम् ?
उत्तरम् —यदा व्यायामं कुर्वतः यदा हृदिस्थानास्थितो वायुः वक्त्रं प्रपद्यते, तद् बलार्धस्य लक्षणम् ।
2. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
यथा – व्यायामः ……….. हीनमपि सुदर्शनं करोति । (गुण)
व्यायामः गुणै हीनमपि सुदर्शनं करोति ।
(क) …………. व्यायामः कर्त्तव्यः । (बलस्यार्ध)
(ख) ………… सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति । (व्यायाम)
(ग) …………. विना जीवनं नास्ति । (विद्या)
(घ) सः …………. खञ्जः अस्ति । (चरण)
(ङ) सूपकारः ………. भोजनं जिघ्रति । (नासिका)
उत्तरम्—
(क) बलस्यार्धेन व्यायामः कर्त्तव्यः ।
(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति ।
(ग) विद्यया विना जीवनं नास्ति ।
(घ) सः चरणेन खञ्जः अस्ति ।
(ङ) सूपकारः नासिकया भोजनं जिघ्रति ।
3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते ।
उत्तरम् — कस्य आयासजननं कर्म व्यायामः इति कथ्यते ?
(ख) अरयः व्यायामिनं न अर्दयन्ति ।
उत्तरम् — के व्यायामिनं न अर्दयन्ति ?
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्त्तव्यः ।
उत्तरम् – काभिः सर्वदा व्यायामः कर्त्तव्यः ?
(घ) व्यायामं कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते ।
उत्तरम् – व्यायामं कुर्वतः कीदृशं भोजनम् अपि परिपच्यते ?
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति ।
उत्तरम् – केषां सुविभक्तता व्यायामेन संभवति ?
4. (अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- ……….. समीपे ठरगाः न ………. एवमेव व्यायामिनः जनस्य समीपं ……….. न गच्छन्ति । व्यायामः वयोरूपगुणहीनम् अपि जनम् करोति ।
उत्तरम् – वैनतेयस्य समीपे उरगाः न गच्छन्ति एवमेव व्यायामिनः जनस्य समीपं रोगाः न गच्छन्ति । व्यायामः वयोरूपगुणहीनम् अपि जनं सुदर्शनं करोति ।
(आ) ‘व्यायामस्य लाभा:’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेदं लिखत ।
उत्तरम्— व्यायामस्य लाभा:
(1) स्वास्थ्यरक्षाया: सर्वोत्तमः उपायः व्यायामः अस्ति ।
(2) व्यायामाः क्रीडनं, तरणं, कूर्दनं, धावनं, भ्रमणम् इत्यादयः अनेकविधाः भवन्ति ।
(3) व्यायामेन शरीरं बलवत् पुष्टं, स्वस्थं च भवति ।
(4) शरीरस्य सर्वांगीणविकासाय व्यायामः आवश्यकीयः ।
(5) स्वस्थ शरीरे एव स्वस्थं मनः वसति; अतः व्यायामशीलस्य मनः सदा प्रसन्नं भवति ।
5. यथानिर्देशमुत्तरत-
(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम् ?
(ख) ‘व्याध्यो नोपसर्पन्ति वैनतेयमिवोरगा:’ अस्मिन् वाक्ये क्रियापदं किम् ?
(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम् ?
(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत ।
(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् —
(क) अत्र विशेषपदं ‘सुखम्’ अस्ति।
(ख) अस्मिन् वाक्ये ‘उपसर्पन्ति’ इति क्रियापदम् अस्ति ।
(ग) अत्र ‘पुरुषैः’ इत्यर्थे ‘पुम्भिः’ इति पदं प्रयुक्तम्।
(घ) ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं ‘लाघवम्’ अस्ति।
(ङ) अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं ‘व्यायामै’ प्रयुक्तम् ।
6. निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं सर्वदा, यदा, सदा, अन्यथा
(क) ………. व्यायामः कर्त्तव्यः ।
(ख) ………. मनुष्यः सम्यक्रूपेण व्यायामं करोति तदा सः …………. स्वस्थः तिष्ठति ।
(ग) व्यायामेन असुन्दराः ………. सुन्दरा: भवन्ति ।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ……….. नायाति ।
(ङ) व्यायामेन ………. किञ्चित् स्थौल्यापकर्षणं नास्ति ।
(च) व्यायामं समीक्ष्य एव कर्त्तव्यम् ……… व्याधयः आयान्ति ।
उत्तरम् –
(क) सदा व्यायामः कर्त्तव्यः ।
(ख) यदा मनुष्यः सम्यक्रूपेण व्यायामं करोति, तदा सः सर्वदा स्वस्थः तिष्ठति ।
(ग) व्यायामेन असुन्दराः अपि सुन्दरा: भवन्ति ।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति ।
(ङ) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति ।
(च) व्यायामं समीक्ष्य एव कर्त्तव्यम् अन्यथा व्याधयः आयान्ति ।

Leave a Reply

Your email address will not be published. Required fields are marked *