UK Board 9 Class Hindi – (संस्कृत व्याकरण) – श्लोक-लेखनम् अथवा वाक्य-रचना
UK Board 9 Class Hindi – (संस्कृत व्याकरण) – श्लोक-लेखनम् अथवा वाक्य-रचना
UK Board Solutions for Class 9th Hindi – (संस्कृत व्याकरण और अनुवाद) – श्लोक-लेखनम् अथवा वाक्य-रचना
प्रश्न – अपनी पाठ्यपुस्तक से कोई एक श्लोक लिखिए, जो प्रश्न-पत्र में न आया हो ?
(1) या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्दे वैः सदा वन्दिता,
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
(2) शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं,
वीणा-पुस्तक – धारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्,
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
(3) अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥
(4) एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः ।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः ॥
(5) वृक्षाग्रवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥
(6) कं संजघान कृष्णः का शीतलवाहिनी गंगा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥
अथवा
प्रश्न – अग्रांकित शब्दानाम् आधारेण चतुर्णाम् (4) वाक्यानां निर्माणं कुरुत (निम्नांकित शब्दों में से किन्हीं 4 का वाक्यों में प्रयोग कीजिए ) –
| प्रश्न- खण्ड | उत्तर- खण्ड |
| पद | वाक्य-प्रयोग |
| अम्भोदाः | गगने बहवः अम्भोदाः सन्ति । |
| वाक्पटुता | वाक्पटुता पण्डितानां प्रमुखः गुणः अस्ति । |
| वसुधा | नृपः वसुधां पालयति । |
| क्षमया | क्षमया सर्वे जनाः प्रसन्नाः भवन्ति । |
| भाषसे | कोकिलः भाषसे मधुरः भवति । |
| यस्य | सर्वे जनाः यस्य प्रशंसां कुर्वन्ति, सः उत्तमपुरुष: भवति । |
| तिष्ठन्ति | छात्राः कार्यालये तिष्ठन्ति । |
| कदाचित् | सः कदाचित् कोऽपि दुष्कार्यं न करिष्यति । |
| स्पर्धा | द्रौपदी स्वयंवरे एका स्पर्धा आयोजिता । |
| आरोहणप्रयत्नः | निरन्तर: आरोहणप्रयत्नः एव पर्वतारोहिणः साफल्यस्य कारणं भवति । |
| लक्ष्यैकदृष्टिः | लक्ष्यैकदृष्टिः सफलतायाः मूलमन्त्रम् अस्ति। |
| एकाग्रता | लक्ष्य प्राप्तो एकाग्रता अनिवार्या । |
| न्यायालयः | देशस्य उच्चतम न्यायालयः दिल्लीनगरे अस्ति । |
| बालकः | बालकः कन्दुकेन क्रीडति । |
| छात्रः | छात्रः परिश्रमशीलः भवति । |
| नगरम् | अहं नगरं द्रष्टुम् इच्छामि। |
| जिघ्रति | पुरुष: पुष्पं जिघ्रति । |
| पिबति | शोभना जलं पिबति । |
| पश्यति | छात्रः मनोहरं चित्रं पश्यति । |
| क्रीडति | क्रीडकः कन्दुकेन क्रीडति । |
| वदति | शुकः रामः रामः इति वदति । |
| खेलति | क्रीडाक्षेत्रे कोऽपि बालकः न खेलति । |
| सिञ्चति | मालाकारः पादपान् सिञ्चति । |
| गच्छति | माता आपणं गच्छति । |
| हसति | अयं नेपथ्ये कः हसति ? |
| ददाति | जनकः भिक्षुकाय वस्त्रं ददाति । |
| कदा | त्वं तत्र कदा गच्छसि ? |
| सह/साकम् | मया सह/साकं मम भ्राता अपि पठति । |
| विद्वद्भिः | विद्वद्भिः सह विवादं न कुर्यात् । |
| मह्यम् | मह्यं भ्रमणं रोचते । |
| विना | त्वया विना अहं न गमिष्यामि । |
| श्रोतुम् | भक्तः भगवतः कथां श्रोतुं मन्दिरं गच्छति । |
| ह्यः | नद्यां ह्यः एकः नक्रः आसीत् । |
| कृत्वा | उमा कार्यं कृत्वा एवं तत्र गमिष्यति । |
| पीत्वा | सः दुग्धं पीत्वा पठति । |
| मया | मया सह चन्द्रचूडः अपि पठति । |
| सर्वेषाम् | सर्वेषां सम्मानः कार्यः । |
| श्वः | श्वः अहम् अपि गमिष्यामि। |
| यूयम् | यूयं गृहं गच्छत । |
| पठनाय विद्यालयम् | छात्रः पठनाय विद्यालयं गमिष्यति । |
| अपरेद्युः | सुस्मिता अपरेद्युः तत्र अगच्छत्। |
| अद्यैव | बालक: अद्यैव गमिष्यति। |
| अस्माभिः | अस्माभिः किं कर्त्तव्यम् ? |
| गन्तुम् | सः गृहं गन्तुम् इच्छति। |
| इतस्ततः | अकारणमेव इतस्ततः मा भ्रम। |
| विद्यमानः | अत्र रामः अपि विद्यमानः अस्ति । |
| अत्र | अत्र छात्राः पठन्ति । |
| कुत्र | त्वं कुत्र पठसि ? |
| इतः | अहं कदापि इतः न आगमिष्यामि । |
| तत्र | तत्र कोऽपि न अस्ति । |
| यत्र | यत्र नार्यः पूज्यन्ते, तत्र देवता रमन्ते । |
| किम् | इदं किम् अस्ति ? |
| इदानीम् | सः इदानीम् अट्टहासं करोति । |
| कस्मिन् | त्वं कस्मिन् नगरे निवससि ? |
