UK Board 9th Class Sanskrit – Chapter 10 जटायोः शौर्यम्
UK Board 9th Class Sanskrit – Chapter 10 जटायोः शौर्यम्
UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 10 जटायोः शौर्यम्
जटायोः शौर्यम् (जटायु की वीरता)
[पाठ – परिचय – आदिकवि वाल्मीकिकृत रामायण के वनकाण्ड से प्रस्तुत पाठ उद्धृत है, जिसमें जटायु-रावण युद्ध का वर्णन है। सीता का करुण विलाप सुनकर पक्षिश्रेष्ठ जटायु उनकी रक्षा के लिए दौड़ पड़ते हैं और रावण को परदाराभिमर्शनरूप निन्द्य दुष्कर्म से विरत होने का उपदेश देते हैं, परन्तु रावण के न मानने पर वह उस पर भयावह आक्रमण भी करते हैं। अपने तीखे नखों तथा पञ्जों से महाबली जटायु रावण को घायल करके उसके धनुष को भी चरणों के प्रहार से खण्डित कर देते हैं। टूटे धनुषवाला, मारे गए अश्वों तथा सारथीवाला रावण विरथ होकर पृथ्वी पर गिर पड़ता है। कुछ देर बाद क्रोधान्ध रावण जटायु पर प्राणघातक प्रहार करता है, इस पर पक्षिश्रेष्ठ जटायु भी चञ्चु – प्रहार करके उसकी बायें भाग की दशों भुजाओं को बुरी तरह घायल कर देते हैं।]
समस्त पाठ का हिन्दी-अनुवाद
तब करुण वाणी में बिलखती हुई अत्यधिक दु:खी, विशाल नेत्रोंवाली उन सीताजी ने विशाल वृक्ष पर बैठे गिद्धराज जटायु को देखा ॥ १ ॥
हे आर्य जटायु ! पाप कर्म करनेवाले इस राक्षसराज रावण के द्वारा अनाथों की भाँति अपहृत करके ले जाई जाती हुई मुझको देखो ॥२॥
तदन्तर सोए जाते हुए जटायु ने (सीताजी के) उस शब्द को सुना और रावण को देखकर शीघ्र ही उसने सीताजी को देखा ॥ ३ ॥
तत्पश्चात् पर्वत-शिखर की आभा के समान आभावाले, अत्यन्त तीक्ष्ण चोंचवाले, वृक्ष पर बैठे पक्षियों में श्रेष्ठ शोभायुक्त उस जटायु ने सुन्दर वाणी में कहा — ॥४॥
दूसरे की स्त्री के स्पर्श के दोष से अपनी नीच बुद्धि को हटाओ। धैर्यवान् धीर- गम्भीर व्यक्ति को वह आचरण नहीं करना चाहिए, जो कि दूसरे इसकी निन्दा करें ॥ ५ ॥
( हे रावण ! ) मैं तो बूढ़ा हूँ, तुम जवान (युवा), धनुर्धारी, रथसहित, (सुरक्षा के लिए) कवचयुक्त और बाण धारण किए हो, किन्तु मेरे रहते तुम सीताजी को लेकर कुशलतापूर्वक नहीं जाओगे ॥ ६ ॥
तब उस श्रेष्ठ पक्षी महान् शक्तिशाली ( जटायु) ने (अपने) दोनों पैरों के तीक्ष्ण नाखूनों द्वारा उस रावण के शरीर में बहुत प्रकार से घाव कर दिए ॥ ७ ॥
इसके पश्चात् महान् तेजस्वी (जटायु) ने मुक्तामणियों से सुसज्जित इसके बाणसहित चाप और विशाल धनुष को (अपने) पैरों (के प्रहार ) से तोड़ दिया | ८ ||
वह रथहीन, टूटे हुए धनुषवाला, मारे गए घोड़ोंवाला (और) मारे गए सारथिवाला रावण सीताजी को गोद में लेकर पृथ्वी पर गिर गया॥९॥
अत्यधिक क्रोधित रावण ने सीताजी को अपनी बायीं गोद (काँख) में भली-भाँति रखकर तलवार की मूठ से शीघ्र ही जटायु को मार डाला ॥ १०॥
तब उस रावण का अतिक्रमण करके पक्षियों के राजा और शत्रुनाशक जटायु ने अपनी चोंच से रावण की बायीं ओर की दस भुजाओं को काट ( नष्ट कर दिया ॥११॥
पाठाधारित अवबोधन-कार्य
(1) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्शायतलोचना॥ १ ॥
अन्वयः— तदा करुणा वाच: विलपन्ती सुदुःखिता आयतलोचना सा वनस्पतिगतं गृध्रं ददर्श ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) का गृध्रं ददर्श ?
(ख) सीता कं ददर्श ?
(ग) अत्र किं कुर्वन्ती सीतायाः वर्णनम् अस्ति ?
उत्तरम्— (क) सीता ।
(ख) गृध्रम्।
(ग) विलपन्ती ।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृशी सीता गृध्रं ददर्श ?
(ख) किं कुर्वन्ती चित्रिता ं सीता ?
(ग) सा कीदृशं गृध्रं ददर्श ?
उत्तरम्— (क) सुदुःखिता. आयतलोचना सीता गृध्रं ददर्श ।
(ख) करुणा वाच: विलपन्ती चित्रिता सीता ।
(ग) सा वनस्पतिगतं गृध्रं ददर्श ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘सा’ इति पदं कस्यै प्रयुक्तम् ?
(ख) ‘गृध्रं’ इति पदस्य विशेषणं चित्वा लिखत ।
(ग) वनस्पतिगतं गृध्रं ददर्शायतलोचना’ अत्र क्रियापदं किम्?
(घ) श्लोकात् एकम् अव्ययपदं चित्वा लिखत ।
उत्तरम् — (क) सीतायै ।
(ख) वनस्पतिगतम् ।
(ग) ददर्श ।
(घ) तदा ।
(2) जय पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥ २ ॥
अन्वयः – (हे) आर्य जटायो ! पापकर्मणा अनेन राक्षसेन्द्रेण अनाथवत् ह्रियमाणां मां करुणं पश्य ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) केन अपहृता सीता ?
(ख) अनाथवत् का कथिता ?
(ग) राक्षसेन्द्रः कीदृशः आसीत् ?
उत्तरम् — (क) राक्षसेन्द्रेण ।
(ख) सीता ।
(ग) पापकर्मण।
2. पूर्णवाक्येन उत्तरत-
(क) सीता कं सम्बोधिता ?
(ख) सीता जटायुम् किम् अकथयत् ?
उत्तरम् — (क) सीता जटायुम् सम्बोधिता ।
(ख) सीता जटायुम् अकथयत् — आर्य जटायो ! पापकर्मणा अनेन राक्षसेन्द्रेण अनाथवत् ह्रियमाणां मां करुणं पश्य ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अनेन राक्षसेन्द्रेण’ अनयोः विशेष्यपदं किम् ?
(ख) ‘सनाथ’ अस्य विलोमपदं लिखत ।
(ग) ‘पश्य मामार्य’ अत्र ‘माम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् — (क) राक्षसेन्द्रेण ।
(ख) अनाथ।
(ग) सीतायै ।
(3) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ ३ ॥
अन्वयः— अथ अवसुप्तः जटायुः तं शब्दं शुश्रुवेतु रावणं निरीक्ष्य क्षिप्रं सः वैदेहीं ददर्श च ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) किं कृतः जटायुः वैदेहीं ददर्श ?
(ख) जटायुः कं निरीक्ष्य वैदेहीं ददर्श ?
(ग) कः ददर्श वैदेहीम् ?
उत्तरम् – (क) अवसुप्तः ।
(ख) रावणम् ।
(ग) जटायुः ।
2. पूर्णवाक्येन उत्तरत-
(क) अवसुप्तः जटायुः कं शब्दं शुश्रुवे ?
(ख) किं कृत्वा जटायुः वैदेहीं ददर्श ?
(ग) जटायुः क्षिप्रं किम् अकरोत् ?
उत्तरम् – (क) अवसुप्तः जटायुः सीतायाः करुणं शब्दं शुश्रुवे ।
(ख) रावणं निरीक्ष्य जटायुः वैदेहीं ददर्श ।
(ग) जटायुः क्षिप्रं वैदेहीं ददर्श ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अवसुप्तः’ इति पदस्य विशेष्यपदं लिखत ।
(ख) ‘निरीक्ष्य’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) ‘शीघ्रं’ इत्यर्थे किं पदम् अत्र प्रयुक्तम् ?
(घ) ‘दृष्ट्वा’ इत्यस्य पर्यायवाचिपदं चित्वा लिखत ।
उत्तरम् — (क) जटायुः ।
(ख) ल्यप् ।
(ग) क्षिप्रम्।
(घ) निरीक्ष्य |
(4) ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः ।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् ॥४॥
अन्वयः – ततः पर्वतशृङ्गाभ: तीक्ष्णतुण्डः वनस्पतिगतः खगोत्तमः श्रीमान् (सः जटायुः) शुभां गिरं व्याजहार ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) पर्वतशृङ्गाभः कः अस्ति ?
(ख) कां गिरं जटायुः व्याजहार ?
(ग) श्रीमान् कः कथित: ?
उत्तरम् – (क) जटायुः ।
(ख) शुभाम् ।
(ग) खगोत्तमः ।
2. पूर्णवाक्येन उत्तरत-
(क) खगोत्तमः कीदृशं आसीत्?
(ख) कुत्र स्थितः खगोत्तम: ?
(ग) खगोत्तमः कीदृशं व्याजहार ?
उत्तरम् — (क) खगोत्तमः पर्वतशृङ्गाभः तीक्ष्णतुण्डः आसीत्।
(ख) वनस्पतिगतः खगोत्तमः ।
(ग) खगोत्तमः शुभां गिरं व्याजहार ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘तीक्ष्णतुण्डः खगोत्तमः’ अनयोः पदयोः विशेषणपदं किम् ?
(ख) ‘वनस्पतिगत:’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) अस्मिन् श्लोके कर्त्ता क: ?
(घ) ‘वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरं व्याजहार ।’ अत्र क्रियापदं किम् ?
उत्तरम् – (क) तीक्ष्णतुण्डः ।
(ख) क्त।
(ग) खगोत्तमः ( जटायुः) ।
(घ) व्याजहार ।
(5) निवर्तय मतिं नीचां परदाराभिमर्शनात् ।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ॥५॥
अन्वयः – परदाराभिमर्शनात् नीचां मतिं निवर्तय, धीरः तत् न समाचरेत् यत् परः अस्यं विगर्हयेत्।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कस्मात् मतिं निवर्तय?
(ख) कः तत् न समाचरेत् ?
(ग) कीदृशीं मतिं निवर्तयितुम् अत्र कथितः ?
(घ) अत्र किं दोषं कथनं कृतः ?
उत्तरम्— (क) परदाराभिमर्शनात्।
(ख)धीरः ।
(ग) नीचाम्,
(घ) परदाराभिमर्शनम्।
2. पूर्णवाक्येन उत्तरत-
(क) धीरः किं न समाचरेत् ?
(ख) जटायुः रावणं किं कर्तुं वदति ?
उत्तरम् — (क) धीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत्।
(ख) जटायुः रावणं परदाराभिमर्शनात् नीचां मतिं निवर्तयितुम् वदति।
3. निर्देशानुसारम् उत्तर-
(क) ‘निवर्तय मतिं नीचां परदाराभिमर्शनात्’ अत्र क्रियापदं किम् ?
(ख) ‘मति नीचाम्’ अनयोः विशेषणपदं किम् ?
(ग) न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्’ अत्र प्रयुक्तम् कर्तृपदं चित्वा लिखत ।
उत्तरम्— (क) निवर्तयतः ।
(ख) नीचाम्।
(ग) धीरः ।
(6) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥६॥
अन्वयः— अहं वृद्धंः (अस्मि), त्वं युवा, धन्वी, सरथ:, कवची शरी च ( किन्तु ) मे (स्थितः त्वं) अपि वैदेहीम् आदाय कुशली न गमिष्यसि।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) वृद्धः कः अस्ति ?
(ख) युवा कः अस्ति ?
(ग) रावणः काम् आदाय न गमिष्यति ?
(घ) वैदेहीम् आदाय रावणः कीदृशः न गमिष्यति ?
उत्तरम् – (क) जटायुः ।
(ख) रावणः ।
(ग) वैदेहीम् ।
(घ) कुशली।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृश: वर्णितः रावण: ?
(ख) रावणः कदा कुशली न गमिष्यति ?
(ग) किं कृत्वा रावणः कुशली न गमिष्यति ?
उत्तरम् – (क) युवा, धन्वी, सरथ:, कवची शरी च वर्णितः रावणः ।
(ख) जटायो : स्थितः रावणः कुशली न गमिष्यति ।
(ग) वैदेहीम् आदाय रावणः कुशली न गमिष्यति।
3. निर्देशानुसारम् उत्तरत-
(क) ‘धन्वी’ अस्य शुद्धम् अर्थम् चिनुत — बाणधरः, धनुर्धरः, धैर्यशीलः ।
(ख) वृद्धः’ अस्य विलोमपदं किमत्र प्रयुक्तम् ?
(ग) ‘त्वम्’ इति सर्वनामपदं अत्र कस्मै प्रयुक्तम् ?
(घ) न चाप्यादाय …….. वैदेहीं मे गमिष्यसि । रिक्तस्थानं पूरयत ।
उत्तरम् — (क) धनुर्धरः ।
(ख) युवा ।
(ग) रावणाय ।
(घ) कुशली ।
(7) तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।
चकार बहुधा गात्रे व्रणान्पतगसत्तमः ॥७॥
अन्वयः – (तदा) पतगसत्तमः महाबल: तीक्ष्णनखाभ्यां तु चरणाभ्यां तस्य गात्रे बहुधा व्रणान् चकार ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कः तस्य गात्रे व्रणान् चकार ?
(ख) पतगसत्तम: काभ्याम् व्रणान् चकार ?
(ग) पतगसत्तम: चरणाभ्यां नखाभ्यां किम् अकरोत् ?
(घ) अत्र महाबलः कः अस्ति ?
उत्तरम् — (क) पतगसत्तमः ।
(ख) तीक्ष्णनखाभ्याम् ।
(ग) व्रणान्।
(घ) जटायुः / पतगसत्तमः ।
2. पूर्णवाक्येन उत्तरत-
(क) कस्य गात्रे पतगसत्तमः व्रणान् चकार?
(ख) पतगसत्तम: केन प्रकारेण रावणस्य गात्रे बहुधा व्रणान् चकार ।
उत्तरम् — (क) रावणस्य गात्रे पतगसत्तमः व्रणान् चकार ।
(ख) पतगसत्तम: तीक्ष्णनखाभ्यां तु चरणाभ्यां रावणस्य गात्रे बहुधा व्रणान् चकार ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘महाबल:’ इत्यस्य विशेष्यपदं किम् ?
(ख) ‘बहुधा ‘ अस्य शुद्धम् अर्थं चिनुत- बहव: रीत्य:, प्रायः, अत्यधिकः ।
(ग) अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) अस्मिन् श्लोके क्रियापदं किम् ?
उत्तरम् — (क) पतगसत्तमः ।
(ख) बहव: रीत्य: ।
(ग) रावणाय ।
(घ) चकार ।
(8) ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।
चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥८ ॥
अन्वयः— ततः महातेजा मुक्तामणिविभूषितम् अस्य सशरं चापम् अस्य महद्धनुः चरणाभ्यां बभञ्ज ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) मुक्तामणिविभूषितम् किम् ?
(ख) महातेजा कः कथ्यते ?
(ग) महातेजा कः बभञ्ज ?
(घ) महातेजा महद्धनुः काभ्यां बभञ्ज ?
उत्तरम् – (क) चापम्।
(ख) जटायुः ।
(ग) महद्धनुः ।
(घ) चरणाभ्याम् ।
2. पूर्णवाक्येन उत्तरत-
(क) महातेजा किं बभञ्ज ?
(ख) चापः कीदृशः आसीत्?
(ग) महद्धनुः केन बभञ्ज ?
उत्तरम् – (क) महातेजा महद्धनुः बभञ्ज ।
(ख) चाप: मुक्तामणिविभूषितः सशरः आसीत् ।
(ग) महद्धनुः महातेजा चरणाभ्यां बभञ्ज।
3. निर्देशानुसारम् उत्तरत-
(क) ‘सशरं चापम्’ अत्र विशेषणपदं किम् ?
(ख) ‘चरणाभ्याम्’ इति पदे प्रयुक्ता विभक्ति: का?
(ग) ‘बभञ्जास्य महद्धनुः’ अत्र ‘अस्य’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) अस्मिन् श्लोके कर्तृपदं किम् ?
उत्तरम् — (क) सशरम् ।
(ख) तृतीया ।
(ग) महद्धनवे ।
(घ) महातेजा ।
(9)स भग्नधन्वा विरथो हताश्वो हतसारथिः ।
अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥९॥
अन्वयः – सः विरथः भग्नधन्वा हताश्वः हतसारथिः रावणः वैदेहीम् अङ्केन आदाय भुवि पपात ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र विरथः भग्नधन्वा क: ?
(ख) रावण: कम् आदाय पपात ?
(ग) कुत्र पपात रावण: ?
(घ) केन आदाय रावणः भुवि पपात ?
उत्तरम् – (क) रावणः।
(ख) वैदेहीम् ।
(ग) भुवि।
(घ) अङ्केन।
2. पूर्णवाक्येन उत्तरत-
(क) अत्र वर्णितः रावणः कीदृशः अस्ति ?
(ख) भग्नधन्वा रावणः किम् अकरोत् ?
उत्तरम् – (क) अत्र वर्णितः रावणः विरथ, भग्नधन्वा, हताश्वः हतसारथिः च अस्ति ।
(ख) भग्नधन्वा रावणः वैदेहीम् अङ्केन आदाय भुवि पपात ।
3. निर्देशानुसारम् उत्तरत-
(क.) ‘हताश्व:’ इति पदस्य सन्धिच्छेदं कुरुत ?
(ख) ‘विरथः’ अस्य शुद्धम् अर्थं चिनुत — रथसहितः, मनोरथहीनः, रथहीनः ।
(ग) ‘आदाय’ अत्र प्रयुक्तः प्रत्ययः कः ?
(घ) ‘पृथ्व्याम्’ इत्यस्य स्थाने प्रयुक्तम् पदम् अत्र किम् ?
उत्तरम् — (क) हताश्वः = हत + अश्वः ।
(ख) रथहीनः ।
(ग) ल्यप् ।
(घ) भुवि ।
(10) संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः ।
तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः ॥१०॥
अन्वयः – क्रोधमूर्च्छितः रावण: वैदेहीं वामेनाङ्केन संपरिष्वज्य तलेन आशु जटायुम् अभिजघान ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) क्रोधमूर्च्छितः कः कथितः ?
(ख) रावणः कम् अभिजघान ?
(ग) वैदेहीं केन संपरिष्वज्य जटायुम् अभिजघान ?
उत्तरम् — (क) रावणः।
(ख) जटायुम् ।
(ग) वामेनाङ्केन।
2. पूर्णवाक्येन उत्तरत-
(क) किं कृत्वा रावण: जटायुम् अभिजधान?
(ख) रावणः केन जटायुम् अभिजधान?
उत्तरम् — (क) वैदेहीं वामेनाङ्केन संपरिष्वज्य रावणः जटायुम् अभिजघान ।
(ख) रावणः तलेन आशु जटायुम् अभिजघान ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘तलेनाभिजघानाशु’ अत्र प्रयुक्तः अव्ययः कः ?
(ख) ‘क्रोधमूर्च्छितः’ इत्यस्य विशेष्यपदं किम् ?
(ग) रिक्तस्थानं पूरयत — संपरिष्वज्य वैदेहीं रावणः ।
(घ) ‘तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः’ अत्र प्रयुक्त -क्रियापदं लिखत ।
उत्तरम् — (क) आशु ।
(ख) रावणः ।
(ग) वामेनाङ्केन।
(घ) अभिजघान ।
(11) जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः ।
वामबाहून्दश तदा व्यपाहरदरिन्दमः ॥११॥
अन्वयः – तदा तम् अतिक्रम्य खगाधिपः अरिन्दमः जटायुः अस्य तुण्डेन (तम्) दशवामबाहून् व्यपाहरत्।
प्रश्ना:- 1. एकपदेन उत्तरत—
(क) जटायुः कान् व्यपाहरत् ?
(ख) अरिन्दमः कः अस्ति ?
(ग) केन दशवामबाहून् व्यपाहरत् ?
(घ) अत्र जटायुः कम् अतिक्रमति ?
उत्तरम् — (क) दशवामबाहून् ।
(ख) जटायुः।
(ग) तुण्डेन ।
(घ) रावणम्।
2. पूर्णवाक्येन उत्तरत-
(क) अत्र कः कम् अतिक्रमति ?
(ख) कीदृश: जटायुः रावणम् अतिक्रमति ?
(ग) जटायुः केन कान् व्यपाहरत् ?
उत्तरम् – (क) अत्र जटायुः रावणम् अतिक्रमति ।
(ख) खगाधिपः अरिन्दमः जटायुः रावणम् अतिक्रमति ।
(ग) जटायुः तुण्डेन दशवामबाहून् व्यपाहरत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘चञ्च्वा’ अस्य पर्यायवाचिपदं किमत्र प्रयुक्तम् ?
(ख) ‘दक्षिण’ इति अस्य विलोमपदं श्लोकात् चित्वा लिखत ।
(ग) ‘जटायुस्तमतिक्रम्य’ अत्र ‘तम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) ‘जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः ‘ अत्र ‘जटायु: ‘ पदस्य विशेषणपदं लिखत ।
उत्तरम् – (क) तुण्डेन।
(ख) वाम ।
(ग) रावणाय ।
(घ) खगाधिपः ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) “जटायो ! पश्य” इति का वदति ?
उत्तरम् — “जटायो ! पश्य” इति सीता वदति ।
(ख) जटायुः रावणं किं कथयति?
उत्तरम्— जटायुः रावणं कथयति – “परदाराभिमर्शनात् नीचां मति निवर्तय, धीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत् । “
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
उत्तरम् — क्रोधवशात् रावणः जटायुं हन्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज ?
उत्तरम् — पतगेश्वरः रावणस्य मुक्तामणिविभूषितं सशरं चापं बभञ्ज ।
(ङ) हताश्वो हतसारथिः रावणः कुत्र अपतत् ?
उत्तरम् – हताश्वो हतसारथिः रावणः भुवि अपतत्।
2. उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत-
यथा— गुण + णिनि — गुणिन् (गुणी )
दान + णिनि — दानिन् (दानी)
(क) कवच + णिनि — …………..
(ख) शर + णिनि — …………..
(ग) कुशल + णिनि — …………..
(घ) धन + णिनि — …………..
(ङ) दण्ड + णिनि — …………..
उत्तरम् —
(क) कवच + णिनि — कवचिन् (कवची)
(ख) शर + णिनि — शरिन् (शरी)
(ग) कुशल + णिनि — कुशलिन् (कुशली)
(घ) धन + णिनि — धनिन् (धनी)
(ङ) दण्ड + णिनि — दण्डिन् (दण्डी)
3. सन्धि / सन्धिविच्छेदं वा कुरुत-
यथा- च + आदाय= चादाय
(क) हत + अश्वः = …………..
(ख) तुण्डेन + अस्य = …………..
(ग) ………….. + ………….. = बभञ्जास्य
(घ) ………….. + ………….. = अङ्केनादाय
(ङ) ………….. + ………….. = खगाधिपः
उत्तरम् —
(क) हत + अश्वः = हताश्वः
(ख) तुण्डेन + अस्य = तुण्डेनास्य
(ग) बभञ्ज + अस्य = बभञ्जास्य
(घ) अङ्केन + आदाय = अङ्केनादाय
(ङ) खग + अधिपः = खगाधिपः
4. ‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः । तान् यथासमक्षं योजयत –
क ख
कवची अपतत्
आशु पक्षिश्रेष्ठ:
विरथ: पृथिव्याम्
पपात कवचधारी
भुवि शीघ्रम्
पतगसत्तमः रथविहीनः
उत्तरम् —
क ख
कवची कवचधारी
आशु शीघ्रम्
विरथ: रथविहीनः
पपात अपतत्
भुवि पृथिव्याम्
पतगसत्तमः पक्षिश्रेष्ठ:
5. अधोलिखितानां पदानां / विलोमपदानि मज्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत-
मन्दम् पुण्यकर्मणा हसन्ती अनार्य अनतिक्रम्य प्रदाय देवेन्द्रेण प्रशंसेत् दक्षिणेन युवा |
पदानि विलोमशब्दाः
(क) विलपन्ती ………………..
(ख) आर्य ………………..
(ग) राक्षसेन्द्रेण ………………..
(घ) पापकर्मणा ………………..
(ङ) क्षिप्रम् ………………..
(च) विगर्हयेत् ………………..
(छ) वृद्धः ………………..
(ज) आदाय ………………..
(झ) वोमेन ………………..
(ञ) अतिक्रम्य ………………..
उत्तरम् – पदानि विलोमशब्दाः
(क) विलपन्ती हसन्ती
(ख) आर्य अनार्य
(ग) राक्षसेन्द्रेण देवेन्द्रेण
(घ) पापकर्मणा पुण्यकर्मणा
(ङ) क्षिप्रम् मन्दम्
(च) विगर्हयेत् प्रशंसेत्
(छ) वृद्धः युवा
(ज) आदाय प्रदाय
(झ) वोमेन दक्षिणेन
(ञ) अतिक्रम्य अनतिक्रम्य
6. (क) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत-
(i) शुभाम् ………………..
(ii) हतसारथिः ………………..
(iii) कवची ………………..
(iv) खगाधिप: ………………..
(v) वामेन ………………..
उत्तरम् —
(i) शुभाम् = शुभां गिरं कोऽपि न अतिक्रमति ।
(ii) हतसारथिः = हतसारथिः कर्णः भूमौ आगच्छत् ।
(iii) कवची = कर्णः कवची आसीत् ।
(iv) खगाधिपः = जटायुः खगाधिपः कथ्यते ।
(v) वामेन = सुरेश: वामेन हस्तेन खादति ।
(ख) उदाहरणमनुसृत्य समस्तं पदं रचयत-
यथा— त्रयाणां लोकानां समाहारः — त्रिलोकी
(i) पञ्चानां वटानां समाहारः — ………………..
(ii) सप्तानां पदानां समाहारः — ………………..
(iii) अष्टानां भुजानां समाहारः — ………………..
(iv) चतुर्णां मुखानां समाहारः — ………………..
उत्तरम् —
(i) पञ्चानां वटानां समाहार: — पञ्चवटी
(ii) सप्तानां पदानां समाहारः — सप्तपदी
(iii) अष्टानां भुजानां समाहारः — अष्टभुजी
(iv) चतुर्णां मुखानां समाहारः — चतुर्मुखी