UK 9th Sanskrit

UK Board 9th Class Sanskrit – Chapter 12 वाङ्मनःप्राणस्वरूपम्

UK Board 9th Class Sanskrit – Chapter 12 वाङ्मनःप्राणस्वरूपम्

UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 12 वाङ्मनःप्राणस्वरूपम्

वाङ्मनःप्राणस्वरूपम् (वाणी-मन-प्राण का स्वरूप)

[ पाठ – परिचय – छान्दोग्योपनिषद् सामवेदीय तलवकार ब्राह्मण के अन्तर्गत आता है। इसमें तत्त्वज्ञान और तदुपयोगी कर्म तथा उपासनाओं का अत्यन्त विशद एवं युक्तियुक्त वर्णन है। उपासना और ज्ञान को सुगमता से समझाने के लिए स्थान-स्थान पर आख्यायिकाओं का आश्रय लिया गया है। इसमें आठ अध्याय हैं। इसी उपनिषद् के छठें अध्याय के पञ्चम खण्ड पर यह पाठ आधृत है। इसमें मन, प्राण तथा वाक् के सन्दर्भ में रोचक विवरण प्रस्तुत किया गया है। उपनिषद् के गूढ़ प्रसंग को बोधगम्य बनाने के उद्देश्य से इसे आरुणि एवं श्वेतक्रेतु के संवादरूप में प्रस्तुत किया गया है। मुनि परम्परा में ज्ञान -प्राप्ति के तीन उपाय बताए गए हैं, उनमें परिप्रश्न भी एक है। यहाँ श्वेतकेतु, वाणी, मन तथा प्राण के विषय में प्रश्न पूछता है और वत्सल आचार्य आरुणि उन प्रश्नों के उत्तर देते हैं। ]
समस्त पाठ का हिन्दी-अनुवाद
श्वेतकेतु – भगवन्! मैं श्वेतकेतु प्रणाम करता हूँ ।
आरुणि – दीर्घायु हो पुत्र !
श्वेतकेतु – भगवन्! कुछ पूछने की इच्छा करता ( रखता ) हूँ।
आरुणि – पुत्र! तुम आज क्या पूछना चाहते हो?
श्वेतकेतु – भगवन्! मैं यह पूछना चाहता हूँ कि यह मन क्या है?
आरुणि – पुत्र! खाए गए अन्न का जो सबसे छोटा (सूक्ष्म) भाग होता है, वह मन है।
श्वेतकेतु – और प्राण क्या है ?
आरुणि – पीए गए जलों का जो अत्यन्त सूक्ष्म भाग है, वह प्राण है।
श्वेतकेतु – भगवन्! यह वाक् (वाणी) क्या है?
आरुणि – पुत्र! खाए गए तेज (अग्नि) का जो अत्यन्त सूक्ष्म भाग है, वह वाणी है। हे सौम्य ! मन अन्नमय, प्राण जलमय और वाणी तेजमयी होती है, यह भी समझने योग्य है।
श्वेतकेतु – भगवन्! एक बार मुझे फिर से समझाइए ।
आरुणि – सौम्य! मैं उपदेश देता हूँ। सावधान होकर सुनो। मथी जाती हुई दही में जो अणिमा ऊपर आ जाती है, वह घी (मक्खन) होता है।
श्वेतकेतु – भगवन्! आपने तो घी की उत्पत्ति के रहस्य की व्याख्या कर दी। (इसे मैं ) एक बार फिर से सुनना चाहता हूँ।
आरुणि – ( ठीक है वह ) इस प्रकार है। हे सौम्य ! खाए जाते हुए अन्न की जो अणिमा है, वह ऊपर आ जाती है। वह मन होती ( बन जाती है। समझ गए अथवा नहीं?
श्वेतकेतु – भली-भाँति समझ गया भगवन्!
आरुणि – पुत्र ! पीए जाते हुए जलों की जो अणिमा ऊपर आ जाती है, वही प्राण होती (बन जाती) है।
श्वेतकेतु – भगवन्! वाणी के विषय में भी समझाइए ।
आरुणि – सौम्य ! खाए जाते हुए तेज की जो अणिमा ऊपर आ जाती है, वह ही वाणी होती (बन जाती) है। पुत्र ! उपदेशों के अन्त में एक बार फिर तुमको समझाना चाहता हूँ कि मन अन्नमय होता है। प्राण जलमय और वाणी तेजमयी होती है। इसके अतिरिक्त मनुष्य जिस प्रकार का अन्न आदि (भोजन) ग्रहण करता है उसका मन (चित्त) आदि वैसा ही होता है, यही मेरे उपदेशों का सार है। पुत्र! इस सबको हृदय से धारण करो ।
श्वेतकेतु – जैसी आप आज्ञा देते हैं भगवन्! यह मैं आपको प्रणाम करता हूँ ।
आरुणि – वत्स! दीर्घायु हो, तुम्हारा अध्ययन पढ़ा हुआ) तेजस्विता से युक्त हो ।
पाठाधारित अवबोधन-कार्य
(1) श्वेतकेतुः – भगवन् ! श्वेतकेतुरहं वन्दे ।
आरुणि: – वत्स! चिरञ्जीव ।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि ।
आरुणि: – वत्स! किमद्य त्वया प्रष्टव्यमस्ति ?
श्वेतकेतुः – भगवन् ! प्रष्टुमिच्छामि किमिदं मनः ?
आरुणि: – वत्स! अशितस्यान्नस्य योऽणिष्ठः तन्मनः ।
श्वेतकेतुः – कश्च प्राण: ?
आरुणि: – पीतानाम् अपां योऽणिष्ठः स प्राणः ।
श्वेतकेतुः – भगवन् ! केयं वाक्?
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र आचार्यः कः ?
(ख) कः किञ्चित् प्रष्टुम् इच्छति ।
(ग) प्रथमे प्रश्नरूपे श्वेतकेतुः कस्मिन् विषये पृच्छति ?
(घ) पीतानाम् अपां योऽणिष्ठः स कः ?
उत्तरम् — (क) आरुणिः ।
(ख) श्वेतकेतुः ।
(ग) मनसि ।
(घ) प्राणः ।
2. पूर्णवाक्येन उत्तरत-
(क) मनः कः अस्ति ?
(ख) कः प्राणः ?
(ग) अत्र कः कम् पृच्छति ?
उत्तरम् — (क) अशितस्यान्नस्य योऽणिष्ठः तन्मनः ।
(ख) पीतानाम् अपां योऽणिष्ठः स प्राणः ।
(ग) अत्र श्वेतकेतुः आरुणिं पृच्छति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘श्वेतकेतुरहम्’ इत्यस्य पदस्य सन्धिच्छेदं कुरुत ?
(ख) ‘प्रष्टुम् ‘ अत्र प्रयुक्ताः प्रत्ययः कः ?
(ग) किमद्य त्वया प्रष्टव्यमस्ति अत्र प्रयुक्तः अव्ययः कः ?
(घ) ‘भक्षितस्य’ अस्य स्थाने प्रयुक्तं पदं किम् ?
उत्तरम् – (क) श्वेतकेतुः + अहम् ।
(ख) तुमुन्।
(ग) अद्य ।
(घ) अशितस्य ।
(2) आरुणि: – वत्स ! अशितस्य तेजसा योऽणिष्ठः सा वाक् । सौम्य ! मनः अन्नमयं प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम् ।
श्वेतकेतुः – भगवन् ! भूय एव मां विज्ञापयतु ।
आरुणि: – सौम्य ! सावधानं शृणु । मथ्यमानस्य दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति । तत्सर्पिः भवति ।
श्वेतकेतुः – भगवन् ! व्याख्यातं भवता घृतोत्पत्तिरहस्यम् । भूयोऽपि श्रोतुमिच्छामि ।
आरुणि: – एवमेव सौम्य ! अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति । तन्मनो भवति । अवगतं न वा ?
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अन्नमयम् कः ?
(ख) वाक् कीदृशी भवति ?
(ग) मथ्यमानस्य कस्य अणिमा ऊर्ध्वः समुदीषति ?
(घ) श्वेतकेतुः कस्योत्पत्तिरहस्यम् पृच्छति?
उत्तरम् – (क) मनः ।
(ख) तेजोमयी ।
(ग) दध्नः ।
(घ) घृतोत्पत्तिः ।
2. पूर्णवाक्येन उत्तरत-
(क) अत्र किम् अवधार्यताम् ?
(ख) तत्सर्पिः कः भवति ?
(ग) श्वेतकेतुः भूयोऽपि किं श्रोतुम् इच्छति ?
(घ) क: अणिमा मनः भवति?”.
उत्तरम्- (क) मनः अन्नमयं, प्राणः आपोमयः वाक् च तेजोमयी भवति इति अपि अवधार्यताम् ।
(ख) मथ्यमानस्यं दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति तत्सर्पिः भवति ।
(ग) श्वेतकेतुः भूयोऽपि घृतोत्पत्तिरहस्यम् श्रोतुम् इच्छति।
(घ) अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति, तन्मनः भवति।
3. निर्देशानुसारम् उत्तरत-
(क) ‘तेजसा ‘ इति पदस्य किं विशेषणम् ?
(ख) ‘अध:’ इत्यस्य विलोमपदं किम् ?
(ग) ‘व्याख्यातं ‘ भवता ‘घृतोत्पत्तिरहस्यम्’ अत्र क्रियापदं किम् ?
(घ) ‘शृणु’ इति क्रियायाः कः कर्त्ता ?
उत्तरम् – (क) अशितस्य ।
(ख) ऊर्ध्वः ।
(ग) व्याख्यातम् ।
(घ) सौम्य / श्वेतकेतुः ।
(3) श्वेतकेतुः – सम्यगवगतं भगवन् !
आरुणिः – वत्स! पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीति स एव प्राणो भवति ।
श्वेतकेतुः – भगवन्! वाचमपि विज्ञापयतु ।
आरुणि: – सौम्य ! अश्यमानस्य तेजसो योऽणिमा, स ऊर्ध्वः समुदीषति । सा खलु वाग्भवति । वत्स ! उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यदन्नमयं भवति मनः, आपोमयो भवति प्राणस्तेजोमयी च भवति वागिति । किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति मदुपदेशसारः । वत्स ! एतत्सर्वं हृदयेन अवधारय ।
श्वेतकेतुः – यदाज्ञापयति भगवन् । एष प्रणमामि ।
आरुणिः – वत्स! चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) केषाम् अणिमा प्राणः भवति ?
(ख) कीदृशी तेजसो अणिमा वाग्भवति ?
(ग) प्राणाः कीदृशाः भवन्ति ?
(घ) तेजोमयी का भवति ?
उत्तरम्— (क) अपाम्।
(ख) अश्यमानस्य।
(ग) आपोमयः।
(घ) वाक्।
2. पूर्णवाक्येन उत्तरत-
(क) पीयमानानाम् अपाम् अणिमा किं भवति ?
(ख) तेजसो अणिमा कदा वाग्भवति ?
(ग) उपदेशान्ते आरुणिः श्वेतकेतुं किं विज्ञापयितुमिच्छति ?
(घ) आरुणे: उपदेशसारः कः ?
उत्तरम्— (क) पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणो भवति।
(ख) अश्यमानस्य तेजसो य: अणिमा ऊर्ध्वः समुदीषति, सा खलु वाग्भवति।
(ग) उपदेशान्ते आरुणिः श्वेतकेतुं विज्ञापयितुम् इच्छति यत् अन्नमयं भवति मनः, आपोमयो भवति प्राणास्तेजोमयी च भवति वागिति ।
(घ) आरुणेः उपदेशसारः अस्ति — यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति।
3. निर्देशानुसारम् उत्तरत—
(क) ‘लघिमा’ इति पदस्य पर्यायवाचिपदं चित्वा लिखत ।
(ख) ‘वाक्’ इत्यस्य पदस्य लिङ्गम् किम् ?
(ग) ‘अन्नमयम्’ इत्यस्य पदस्य विशेष्यपदं किम् ?
(घ) ‘सा खलु’ अत्र ‘सा’ पदं कस्यै प्रयुक्तम् ?
उत्तरम् — (क) अणिमा ।
(ख) स्त्रीलिङ्ग ।
(ग) मनः।
(घ) वाचे।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
उत्तरम् — श्वेतकेतुः सर्वप्रथमम् आरुणि मनस्य स्वरूपस्य विषये पृच्छति।
(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति ?
उत्तरम् – आरुणि: प्राणस्वरूपं निरूपयति – पीतानाम् अपां योऽणिष्ठ: स प्राणः ।
(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
उत्तरम् — यादृशमन्नादिकं गृह्णन्ति तादृशमेव मानवानां चेतांसि भवन्ति ।
(घ) सर्पिः किं भवति ?
उत्तरम्— मथ्यमानस्य दध्नः योऽणिमा, स ऊर्ध्वः समुदीषति, तत्सर्पिः भवति ।
(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति ?
उत्तरम् — आरुणेः मतानुसारम् अशितस्यान्नस्य योऽणिष्ठः तन्मनः भवति ।
2. (क) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत-
 अ                  ब
मनः             अन्नमयम्
प्राणः,           तेजोमयी
वाक्            आपोमय:
उत्तरम्—
अ                  ब
मनः             अन्नमयम्
प्राणः,          आपोमय:
वाक्            तेजोमयी
(ख) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
(i) गरिष्ठ:               ………………..
(ii) अधः                ………………..
(iii) एकवारम्        ………………..
(iv) अनवधीतम्     ………………..
(v) किञ्चित्            ………………..
उत्तरम्—
(i) गरिष्ठ:                 अणिष्ठः
(ii) अधः                   ऊर्ध्वः
(iii) एकवारम्           भूयः
(iv) अनवधीतम्       अधीम्
(v) किञ्चित्               सर्वम्।
3. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत-
यथा— प्रच्छ् + तुमुन् = प्रष्टुम्
(क) श्रु + तुमुन् = …………
(ख) वन्द् + तुमुन् = …………
(ग) पठ् + तुमुन् = …………
(घ) कृ + तुमुन् = …………
(ङ) वि + तुमुन् = …………
(च) वि + तुमुन् = …………
उत्तरम् —
(क) श्रु + तुमुन् = श्रोतुम्
(ख) वन्द् + तुमुन् = वन्दितुम्
(ग) पठ् + तुमुन् = पठितुम्
(घ) कृ + तुमुन् = कर्तुम्
(ङ) वि + तुमुन् = विज्ञातुम्
(च) वि + तुमुन् = व्याख्यातुम्
4. निर्देशानुसारं रिक्तस्थानानि पूरयत-
(क) अहं किञ्चित् प्रष्टुम् …………….। (इच्छ् – लट्लकारे)
(ख) मनः अन्नमयं …………….। (भू— लट्लकारे)
(ग) सावधानं …………….। (श्रु-लोट्लकारे)
(घ) तेजस्विनावधीतम् …………….। (अस् – लोट्लकारे)
(ङ) श्वेतकेतुः आरुणेः शिष्यः …………….। (अस्—लङ्लकारे)
उत्तरम् – (क) अहं किञ्चित् प्रष्टुम् इच्छामि ।
(ख) मनः अन्नमयं भवति ?
(ग) सावधानं शृणु ।
(घ) तेजस्विनावधीतम् अस्तु ।
(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत् ।
5. उदाहरणमनुसृत्य वाक्यानि रचयत-
यथा – अहं स्वदेशं सेवितुम् इच्छामि ।
(क) ……………. उपदिशामि ।
(ख) ……………. प्रणमामि ।
(ग) ……………. आज्ञापयामि।
(घ) ……………. पृच्छामि।
(ङ) ……………. अवगच्छामि।
उत्तरम् – (क) अहं शिष्यम् उपदिशामि ।
(ख) अहं गुरुं प्रणमामि ।
(ग) अहं बालकं फलम् आनेतुम् आज्ञापयामि।
(घ) अहं छात्रं प्रश्नं पृच्छामि ।
(ङ) अहं सर्वापि अवगच्छामि।
6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(i) मथ्यमानस्य दध्नः अणिमा ऊर्ध्वं समुदीषति ।
उत्तरम् – कीदृशः दध्नः अणिमा ऊर्ध्वं समुदीषति ?
(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
उत्तरम् – केन घृतोत्पत्तिरहस्यं व्याख्यातम् ?
(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति ।
उत्तरम् — आरुणिम् उपगम्य कः अभिवादयति ?
(iv) श्वेतकेतुः वाग्विषये पृच्छति ।
उत्तरम् – श्वेतकेतुः कस्य विषये पृच्छति?
7. पाठस्य सारांशं पञ्चवाक्यैः लिखत ।
उत्तरम् – (1) अशितस्यान्नस्य योऽणिष्ठः तन्मनः ।
(2) पीतानाम् अपां योऽणिष्ठः सः प्राणः ।
(3) अशितस्य तेजसा योऽणिष्ठः सा. वाक् ।
(4) अन्नमयं भवति मनः, आपोमयो भवनि प्राणास्तेजोमयी च भवति वागिति ।
(5) यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति ।

Leave a Reply

Your email address will not be published. Required fields are marked *