UK 9th Sanskrit

UK Board 9th Class Sanskrit – Chapter 4 कल्पतरुः

UK Board 9th Class Sanskrit – Chapter 4 कल्पतरुः

UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 4 कल्पतरुः

कल्पतरुः (कल्पवृक्ष)

[ पाठ – परिचय – प्रस्तुत पाठ अत्यन्त प्रसिद्ध कथा – संग्रह ‘वेतालपञ्चविंशतिः’ से संगृहीत है। जीमूतवाहन अपने पूर्वजों के द्वारा लगाई गई गृहवाटिका में स्थित कल्पवृक्ष से अपने लिए समस्त सांसारिक द्रव्यों को न माँगकर सम्पूर्ण संसार के दुःख दूर करने का वरदान माँगता है; क्योंकि परोपकार ही संसार का सबसे उपयोगी, सर्वश्रेष्ठ और स्थायी तत्त्व है। इसी से प्राणिमात्र का कल्याण सम्भव है । ]
समस्त पाठ का हिन्दी अनुवाद
सब रत्नों का (उत्पत्ति) स्थान हिमवान् (हिमालय) नामक पर्वतराज है। उसके शिखर के ऊपर कञ्चनपुर नामक नगर सुशोभित है। वहाँ जीमूतकेतु इस नाम का श्रीसम्पन्न विद्याधरों का स्वामी (राजा) रहता था। उसकी गृहवाटिका में कुल परम्परा से प्राप्त एक कल्पवृक्ष स्थित था। उस राजा जीमूतकेतु ने उस कल्पवृक्ष की आराधना करके और उसके कृपाप्रसाद से बोधिसत्त्व के अंश से उत्पन्न जीमूतवाहन नामक पुत्र प्राप्त किया। वह महान् दानवीर और सभी प्राणियों पर दया करनेवाला था। उसके गुणों से प्रसन्न और अपने मन्त्रियों से प्रेरित हुए उस राजा ने समय बीतने के साथ युवावस्था को प्राप्त करने पर उसको युवराज के पद पर अभिषिक्त कर दिया। युवराज पद पर स्थित उस जीमूतवाहन से कभी हितैषी पिता के मन्त्रियों ने कहा – “युवराज ! यह जो सभी कामनाओं को प्रदान करनेवाला कल्पवृक्ष आपके बगीचे में स्थित है, वही आपका सदा पूज्य रहा है। इसके अनुकूल रहने पर इन्द्र भी हमारे लिए बाधा नहीं बन सकता है।”
यह सुनकर जीमूतवाहन ने अपने मन में विचार किया – “ अरे आश्चर्य है ! ऐसे अमरवृक्ष को प्राप्त करके भी हमारे पूर्वजों द्वारा वैसा कुछ भी फल प्राप्त नहीं किया गया, बल्कि केवल कुछ कंजूसों द्वारा धन अवश्य माँगा गया। तो मैं इससे अपने मन की इच्छित कामना सिद्ध करता हूँ।” इस प्रकार से विचार करके वह पिता के पास आया। आकर और सुखपूर्वक बैठे पिता से एकान्त में निवेदन किया — “हे पिताजी! तुम तो जानते ही हो कि इस संसार सागर में शरीर तक सभी जल की तरंग के समान चञ्चल हैं। एक परोपकार ही इस संसार में अनश्वर (कभी न नष्ट होनेवाला) है, जो युगों के रहने तक यश को उत्पन्न करता है। तब हमारे द्वारा ऐसे कल्पवृक्ष की रक्षा किसलिए की जाती है और जिन पूर्वजों द्वारा यह ( कल्पवृक्ष) ‘मेरा मेरा’ ऐसा (कहकर ) आग्रहपवूक रक्षा किया गया, वे इस समय कहाँ चले गए? यह (कल्पवृक्ष) उनमें से किसका है? अथवा इसका ( उनमें से कौन है ? इस (कारण) से परोपकाररूपी एकमात्र फल की प्राप्ति के लिए आपकी आज्ञा से इस कल्पवृक्ष की आराधना करता हूँ।”
इसके पश्चात् पिता द्वारा वैसी अनुमति प्राप्त किया हुआ वह जीमूतवाहन कल्पवृक्ष के समीप जाकर बोला – “हे देव! आपके द्वारा . पूर्वजों की इच्छित कामनाएँ पूर्ण की गई हैं; तब मेरी भी एक कामना पूर्ण करो। जिस (किसी भी ) प्रकार मैं पृथ्वी को दरिद्रों से रहित देखना चाहता हूँ, हे देव तुम वैसा ही करो।” जीमूतवाहन के ऐसा कहने पर, “तुम्हारे द्वारा त्यागा हुआ यह मैं जा रहा हूँ ऐसी वाणी उस वृक्ष से उत्पन्न हुई।
और उसी क्षण उस कल्पवृक्ष ने स्वर्ग की ओर उड़कर धन-ऐश्वर्य की इतनी वर्षा की, जिससे कोई भी निर्धन न रहा। तब से सब जीवों पर दया करने से उस जीमूतवाहन का सब जगह यश फैल गया।
पाठाधारित अवबोधन-कार्य
(1) अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः । तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम् । तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म । तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्त्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत् । स महान् दानवीरः सर्वभूतानुकम्पी च अभवत् । तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्येऽभिषिक्तवान् । यौवराज्ये स्थितः स जीमूतवाहनः कदाचित् हितैषिभिः पितृमन्त्रिभिः उक्तः – “युवराज ! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः । अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात्” इति।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कः नाम नगेन्द्रः अस्ति ?
(ख) जीमूतकेतुः इति नाम कः वसति स्म ?
(ग) कल्पतरोः प्रसादात् जीमूतकेतुः कं प्राप्नोत् ?
(घ) सर्वकामदः कः कथ्यते ?
(ङ) कल्पतरौ अनुकूले स्थिते कः बाधितुं शक्नुयात् ?
उत्तरम् — (क) हिमवान् ।
(ख) विद्याधरपतिः ।
(ग) पुत्रम्।
(घ) कल्पतरु: ।
(ङ) शक्रः ।
2. पूर्णवाक्येन उत्तरत-
(क) कञ्चनपुरं नाम नगरं कुत्र विभाति ?
(ख) जीमूतकेतोः गृहोद्याने कः स्थित: ?
(ग) जीमूतवाहनः कीदृशः आसीत्?
(घ) स्वसचिवैः प्रेरित: राजा किं कृतवान् ?
(ङ) स जीमूतवाहनः पितृमन्त्रिभिः कः उक्तः ?
उत्तरम् – (क) हिमवतः सानोरुपरि कञ्चनपुरं नाम नगरं विभाति।
(ख) जीमूतकेतोः गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः ।
(ग) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
(घ) स्वसचिवैः प्रेरित: राजा कालेन सम्प्राप्तयौवनं जीमूतवाहनं यौवराज्येऽभिषिक्तवान्?
(ङ) स जीमूतवाहनः पितृमन्त्रिभिः उक्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः । अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात्” इति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अध:’ इत्यस्य किं विलोमपदमत्र प्रयुक्तम् ?
(ख) ‘अभवत्’ इति क्रियापदस्य कर्त्ता क: ?
(ग) स तव सदा पूज्यः’ अत्र ‘स’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) अत्र ‘महान्’ इति कस्य पदस्य विशेषणम् ?
(ङ) ‘सानोः उपरि’ अस्य सन्धियुक्तं किं रूपम् ?
उत्तरम् — (क) उपरि ।
(ख) स: ( जीमूतवाहनः) ।
(ग) कल्पतरवे।
(घ) दानवीरः।
(ङ) सानोरुपरि ।
(2) आकर्ण्यतत् जीमूतवाहनः अन्तरचिन्तयत्- ‘अहो बत! ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं ‘ किमपि नासादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थोऽर्थितः । तदहमस्मात् मनोरथमभीष्टं साधयामि ” इति। एवमालोच्य स पितुरन्तिकमागच्छत् । आगत्य च सुखमासीनं पितरमेकान्ते न्यवेदयत् — “ तात ! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरमिदं सर्वं धनं वीचिवच्चञ्चलम् । एकः परोपकार एवास्मिन् ‘संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते। तदस्माभिरीदृशः कल्पतरुः किमर्थं रक्ष्यते ? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षितः, ते इदानीं कुत्र गताः ? तेषां कस्यायम् ? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कै: तादृशं फलं किमपि नासादितम् ?
(ख) कीदृशं पितरमेकान्ते न्यवेदयत् ?
(ग) सर्वं धनं किमिव चञ्चलम् ?
(घ) संसारे अनश्वरः कः ?
उत्तरम् – (क) पूर्वैः पुरुषैः ।
(ख) सुखमासीनम् ।
(ग) वीचिवत् ।
(घ) परोपकारः ।
2. पूर्णवाक्येन उत्तरत-
(क) कैः कश्चिदपि अर्थोऽर्थितः ।
(ख) संसारसागरे किं चञ्चलम् ?
(ग) कः युगान्तपर्यन्तं यशः प्रसूते ?
(घ) जीमूतवाहनः किमर्थं कल्पपादपम् आराधयितुम् ऐच्छत् ?
उत्तरम् – (क) जीमूतवाहनस्य कृपणैः पूर्वैः पुरुषैः कश्चिदपि अर्थोऽर्थितः ।
(ख) संसारसागरे आशरीरमिदं सर्वं धनं वीचिवच्चञ्चलम् ।
(ग) एक: परोपकार एवास्मिन् संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते ।
(घ) जीमूतवाहनः परोपकारैकफलसिद्धये आराधयितुम् ऐच्छत्। कल्पपादपम्
3. निर्देशानुसारम् उत्तरत-
(क) कल्पतरवे कः अन्य नाम अत्र प्रयुक्तः ?
(ख) ‘नश्वर:’ अस्य पदस्य विलोमपदम् गद्यांशात् चित्वा लिखत ।
(ग) ‘ते इदानीं कुत्र गता:’ अत्र ‘ते’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) ‘वीचिवच्चञ्चलम् अस्य पदस्य सन्धिच्छेदं कुरुत ।
उत्तरम् — (क) अमरपादपः ।
(ख) अनश्वरः ।
(ग) जीमूतवाहनस्य पूर्वपुरुषेभ्यः ।
(घ) वीचिवच्चञ्चलम् = वीचिवत् + चञ्चलम्।
(3) अथ पित्रा ‘ तथा ‘ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच – ” दैव ! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय । यथा पृथ्वीमदरिद्रां पश्यामि तथा करोतु देव” इति । एवंवादिनि जीमूतवाहने ” त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोरुदभूत्।
क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत् । ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम् ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) जीमूतवाहनः पित्रा किम् अभ्यनुज्ञात: ?
(ख) जीमूतवाहन: पृथ्वीं कीदृशीं द्रष्टुम् ऐच्छत् ?
(ग) कल्पतरुः कानि अवर्षत् ?
(घ) कस्य यशः प्रथितम् ?
उत्तरम् – (क) ‘ तथा ‘।
(ख) अदरिद्राम् ।
(ग) वसूनि ।
(घ) जीमूतवाहनस्य ।
2. पूर्णवाक्येन उत्तरत-
(क) कल्पतरुम् उपगम्य जीमूतवाहनः किम् उवाच ?
(ख) कल्पतरु: जीमूतवाहनं प्रति किम् कथयति ?
(ग) किं कृत्य कल्पतरुः वसूनि अवर्षत् ?
(घ) कया जीमूतवाहनस्य यशः प्रथितम् ?
उत्तरम् — (क) कल्पतरुम् उपगम्य जीमूतवाहनः उवाच – “देव ! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय । यथा पृथ्वीमदरिद्रां पश्यामि तथा करोतु देव” इति ।
(ख) कल्पतरु: जीमूतवाहनं प्रति कथयति – ” त्यक्तस्त्वया एषोऽहं यातोऽस्मि । “
(ग) क्षणेन स कल्पतरु: दिवं समुत्पत्य भूवि वसूनि अवर्षत् ।
(घ) सर्वजीवानुकम्पया जीमूतवाहनस्य यशः सर्वत्र प्रथितम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अभीष्टा:’ अस्य विशेष्यपदं लिखत ।
(ख) ‘अभ्यनुज्ञातः’ अत्र कः प्रत्ययः ?
(ग) ‘दरिद्राम्’ अस्य विलोमपदं लिखत ।
(घ) अनुच्छेदे प्रयुक्तम् ‘यथा’ अव्ययपदस्य पूरक अव्ययपदं किम् ?
उत्तरम् – (क) कामा: ।
(ख) क्त।
(ग) अदरिद्राम्।
(घ) तथा ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म ?
उत्तरम् — हिमवतः सानोरुपरि कञ्चनपुरं नाम ग्रामं विभाति स्म ?
(ख) जीमूतकेतुः किं विचार्य जीमूतवाहनं यौवराज्ये अभिषिक्तवान्?
उत्तरम् – जीमूतकेतुः जीमूतवाहनस्य गुणान् प्राप्तयौवनञ्च विचार्य तं यौवराज्ये अभिषिक्तवान्।
(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत् ?
उत्तरम् — कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत्— “ अहो बत! ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि नासादितं, किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थोऽर्थितः । तदहमस्मात् मनोरथमभीष्टं साधयामि इति ।
(घ) पाठानुसारं संसारेऽस्मिन् किं किं नश्वरम् किञ्च अनश्वरम् ?
उत्तरम् — पाठानुसारं संसारेऽस्मिन् आशरीरमिदं सर्वं धनं वीचिवत् नश्वरम् एकः परोपकार एव अनश्वरम् च।
(ङ) जीमूतवाहनस्य यशः सर्वत्र कथं प्रथितम् ?
उत्तरम् – सर्वजीवानुकम्पया जीमूतवाहनस्य यशः सर्वत्र प्रथितम् ।
2. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि ?
(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम् ।
(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान् ?
(ग) अयं तव सदा पूज्यः ।
(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम् ।
उत्तरम् – (क) भगवते ।
(ख) जीमूतवाहनाय ।
(ग) कल्पतरवे ।
(घ) जीमूतकेतवे ।
3. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि । तानि समुचितं योजयत—
‘क’ स्तम्भ                   ‘ख’ स्तम्भ 
कुलक्रमागतः                  परोपकार:
दानवीर :                         मन्त्रिभिः
हितैषिभिः                        जीमूतवाहनः
वीचिवच्चञ्चलम्                कल्पतरुः
अनश्वरः                           धनम्
उत्तरम् —
‘क’ स्तम्भ                   ‘ख’ स्तम्भ 
कुलक्रमागतः                  कल्पतरुः
दानवीर :                        जीमूतवाहनः
हितैषिभिः                        मन्त्रिभिः
वीचिवच्चञ्चलम्                धनम्
अनश्वरः                           परोपकार:
4. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) तरोः कृपया सः पुत्रम् अप्राप्नोत् ।
उत्तरम् — कस्य कृपया सः पुत्रम् अप्राप्नोत् ?
(ख) सः कल्पतरवे न्यवेदयत् ।
उत्तरम् – सः कस्मै न्यवेदयत् ?
(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत् ।
उत्तरम् – कया कोऽपि दरिद्रः नातिष्ठत् ?
(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत् ।
उत्तरम्— कल्पतरुः कस्याम् धनानि अवर्षत् ?
(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत् ।
उत्तरम् – कया जीमूतवाहनस्य यशः प्रासरत् ?

Leave a Reply

Your email address will not be published. Required fields are marked *