UK 9th Sanskrit

UK Board 9th Class Sanskrit – Chapter 8 लौहतुला

UK Board 9th Class Sanskrit – Chapter 8 लौहतुला

UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 8 लौहतुला

लौहतुला (लोहे की तराजू)

[पाठ-परिचय – संसार को नीति की शिक्षा देनेवाले संस्कृत कथा-ग्रन्थों में ‘पञ्चतन्त्रम्’ का अत्यन्त महत्त्वपूर्ण स्थान है। इसकी रचना विष्णु शर्मा ने महिलारोप्य नामक नगर के राजा अमरसिंह के तीन मूर्ख पुत्रों को छह मास में राजनीति और व्यवहार में पटु बनाने के लिए की थी। इसके पाँच तन्त्र या खण्ड हैं – मित्रभेद, मित्रसम्प्राप्ति, काकोलूकीय, लब्धप्रणाश तथा अपरीक्षितकारक । प्रस्तुत कथा इसी ‘पञ्चतन्त्रम्’ के ‘मित्रभेद’ नामक तन्त्र से संगृहीत है। इस कथा में ‘जैसे को तैसा’ व्यवहार करने की सीख दी गई है । ]
समस्त पाठ का हिन्दी अनुवाद
किसी स्थान पर जीर्णधन नाम का व्यापारी – पुत्र ( रहता था। धन के नष्ट होने से अन्य (दूसरे ) देश को जाने के मनवाला वह सोचने लगा-
जिस देश अथवा स्थान में अपने पराक्रम से सुख-साधन ओर भोज्य पदार्थ का अभाव हो, उस धनहीन (स्थान में) जो निवास करता है, वह नीच – पुरुष है।
उसके घर में लोहे से निर्मित पूर्वजों द्वारा बनवायी गई एक तराजू (तुला). थी। उसको किसी बनिये (सेठ) के घर में धरोहर रूप (गिरवी) में रखकर दूसरे देश चला गया। इसके पश्चात् बहुत समय तक विदेश में अपनी इच्छानुसार घूमकर और फिर से अपने नगर में आकर उसने सेठ से कहा – ” हे सेठजी ! मेरी धरोहर रूप में रखी वह. तुला दे दीजिए।” वह बोला – ” अरे ! वह नहीं है, तुम्हारी तुला तो चूहों द्वारा खा ली गई।”
जीर्णधन ने कहा – “हे सेठजी ! आपका दोष नहीं है, यदि चूहों द्वारा (वह तुला ) खा ली गई है। यह संसार ऐसा ही है। यहाँ कुछ भी सम्भव है, परन्तु मैं नदी पर स्नान के लिए जाऊँगा । तो तुम अपने इस धनदेव नामक बालक को मेरे साथ स्नान के उपकरण लेकर भेज दो।”
वह सेठ अपने पुत्र से बोला – “बेटा ! यह तुम्हारे चाचा स्नान के लिए तुम्हें ले जा रहे हैं, तो इनके साथ चले जाओ।”
इसके पश्चात् वह व्यापारी – बालक, स्नान के उपकरण लेकर प्रसन्न मन से उस अतिथि के साथ प्रस्थान कर गया ( चला गया ) । जैसा कहा था, उसी प्रकार स्थित होकर अर्थात् नदी पर पहुँचकर वह व्यापारी स्नान करके उस बालक को पर्वत की गुफा में छिपाकर, उसके दरवाजे को महान् शिला से ढककर शीघ्र ही घर आ गया।
और उस सेठ द्वारा पूछा गया – “ अरे ! अतिथि ! कहो, तुम्हारे साथ नदी पर गया मेरा पुत्र कहाँ है ?”
उसने कहा- “नदी – किनारे से वह बाज के द्वारा चुरा लिया गया है ।” सेठ ने कहा – “झूठ बोलनेवाले ! क्या कहीं बाज के द्वारा बालक चुराया (उठाया) जा सकता है ? उस मेरे पुत्र को मुझे दो, नहीं तो मैं राजकुल में (राजा से) निवेदन करूंगा।”
उसने कहा – “ अरे सत्य बोलनेवाले ! जिस प्रकार बाज के द्वारा बालक नहीं ले जाया जाता है, उसी प्रकार चूहे भी लोहे से बनी तुला को नहीं खाते हैं। वह मेरी तुला दो, यदि पुत्र से प्रयोजन है।” अर्थात् यदि तुम अपना पुत्र चाहते हो तो मेरी तुला मुझे वापस कर दो।
इस प्रकार झगड़ते हुए वे दोनों ही राजकुल (राजदरबार) में गए। वह सेठ ऊँचे स्वर से बोला- “ अरे ! पापी ! दुष्ट ! इस चोर के द्वारा मेरा पुत्र चुरा लिया गया है । “
इसके पश्चात् धर्माधिकारी उससे बोले – “अरे ! समर्पित करो ! सेठ के पुत्र को ।”
उसने कहा – “ (मैं) क्या करूँ ? मैंने नदी किनारे से बाज के द्वारा ले जाए जाते हुए बालक को (अपनी आँखों से) देखा है।”
उसको सुनकर वे बोले – “अरे ! आपके द्वारा सत्य नहीं कहा गया है – क्या बाज बालक को ले जाने में समर्थ होता है?”
उसने कहा- अरे ! अरे ! मेरे वचन सुनो-
राजन् ! जहाँ लोहे की तुला को चूहे खाते हैं, वहाँ बाज बालक चुराए, यहाँ (इसमें) सन्देह नहीं है।
वे बोले – “यह कैसे?”
इसके पश्चात् उसने सेठ को सभा में आगे करके आरम्भ से सारा वृत्तान्त निवेदन किया। इसके पश्चात् उनके द्वारा हँसकर उन दोनों को भी आपस में समझा-बुझाकर तुला-बालक को दिलाने के द्वारा सन्तुष्ट किए। अर्थात् दोनों को तुला और पुत्र दिलाकर उनका न्याय करके इन्हें सन्तुष्ट किया ।
पाठाधारित अवबोधन-कार्य
(1) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः । स च विभवक्षयाद्देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्-
यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत् सं पुरुषाधमः ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) क: नाम वणिक्पुत्रः ?
(ख) कस्मात् कारणात् देशान्तरं गन्तुम् व्यचिन्तयत् ?
(ग) विभवहीन – स्थाने कः वसेत् ?
उत्तरम् — (क) जीर्णधनः ।
(ख) विभवक्षयात् ।
(ग) पुरुषाधमः ।
2. पूर्णवाक्येन उत्तरत-
(क) जीर्णधनः कः आसीत् ?
(ख) कुत्र गन्तुम् जीर्णधन: व्यचिन्तयत् ?
(ग) जीर्णधनः किम् व्यचिन्तयत् ?
(घ) पुरुषाधमः कः भवति ?
उत्तरम् — (क) कस्मिंश्चिद् अधिष्ठाने जीर्णधनः नाम एकः वणिक्पुत्रः आसीत्।
(ख) देशान्तरं गन्तुं जीर्णधनः व्यचिन्तयत्।
(ग) जीर्णधन: व्यचिन्तयत्—
यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ।
(घ) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् सः पुरुषाधमः भवति ?
3. निर्देशानुसारम् उत्तरत-
(क) ‘कस्मिश्चिद्’ इति पदं कस्य विशेषणम् ?
(ख) ‘स पुरुषाधमः’ अत्र ‘स’ इति सर्वनामपदं कस्य स्थाने प्रयुक्तम् ?
(ग) ‘आसीत्’ इति क्रियापदस्य कर्त्ता क: ?
(घ) ‘वा’ इति स्थाने किम् अव्ययपदमत्र प्रयुक्तम् ?
उत्तरम्- (क) अधिष्ठाने।
(ख) विभवहीनस्य पुरुषस्य ।
(ग) जीर्णधनः।
(घ) अथवा ।
(2) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत् । तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छा भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच – ” भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला । ” स आह – ” भोः ! नास्ति सा त्वदीया तुला मूषकैर्भक्षिता” इति।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कस्य गृहे लौहघटिता तुलासीत् ?
(ख) लौहतुला कस्य गृहे निक्षेपभूता कृता ?
(ग) कैः भक्षिता तुला ?
उत्तरम् – (क) जीर्णधनस्य।
(ख) श्रेष्ठिनः ।
(ग) मूषकैः ।
2. पूर्णवाक्येन उत्तरत- 
(क) जीर्णधनस्य गृहे कीदृशी तुला आसीत्?
(ख) किं कृत्वा जीर्णधन: देशान्तरं प्रस्थित: ?
(ग) स्वपुरम् आगत्य जीर्णधनः श्रेष्ठिनं किम् उवाच ?
(घ) जीर्णधनं प्रति श्रेष्ठ्याह किम् ?
उत्तरम् – (क) जीर्णधनस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्।
(ख) श्रेष्ठिनः गृहे तुलां निक्षेपभूतां कृत्वा जीर्णधन देशान्तरं प्रस्थितः ।
(ग) स्वपुरम् आगत्य जीर्णधनः श्रेष्ठिनम् उवाच — “भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला । “
(घ) जीर्णधनं प्रति श्रेष्ठ्याह – “भोः ! नास्ति सा त्वदीया तुला मूषकैर्भक्षिता ।”
3. निर्देशानुसारम् उत्तरत-
(क) ‘श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला।’ अत्र क्रियापदं किम् ?
(ख) ‘सुचिरं कालम्’ अत्र विशेषणपदं किम् ?
(ग) ‘प्रस्थित:’ अस्मिन् पदे प्रयुक्तः उपसर्गः किम् ?
(घ) ‘त्वदीया तुला मूषकैर्भक्षिता’ अत्र ‘त्वदीया’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् – (क) दीयताम्।
(ख) सुचिरम् ।
(ग) प्र।
(घ) जीर्णधनाय ।
(3) जीर्णधन आह— ” भोः श्रेष्ठिन् ! नास्ति दोषस्ते, यदि मूषकैर्भक्षितेति । ईदृगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय ” इति । 
स श्रेष्ठी स्वपुत्रमुवाच – ” वत्स ! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् गम्यतामनेन सार्धम् ” इति ।
अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः । तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) ईदृगेवायं किम्?
(ख) श्रेष्ठिनः पुत्रस्य नाम किम् आसीत् ?
(ग) कः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थित: ?
(घ) जीर्णधन: शिशुं कस्यां प्रक्षिप्य गृहमागत: ?
उत्तरम् — (क) संसारः ।
(ख) धनदेवः।
(ग) वणिक्शिशुः ।
(घ) गिरिगुहायाम्।
2. पूर्णवाक्येन उत्तरत—
(क) जीर्णधनः कुत्र गन्तुम् इच्छति ?
(ख) श्रेष्ठी स्वपुत्रं किम् उवाच ?
(ग) स वणिक् स्नात्वा किं कृतवान् ?
(घ) कम् केन आच्छाद्य जीर्णधनः गृहमागत: ?
उत्तरम् — (क) जीर्णधनः नद्यां स्नानार्थं गन्तुम् इच्छति ?
(ख) श्रेष्ठी स्वपुत्रम् उवाच – ” वत्स ! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् गम्यतामनेन सार्धम्’ इति ।
(ग) स वणिक् स्नात्वा श्रेष्ठीशिशुं गिरिगुहायां प्रक्षिप्तवान् ।
(घ) गिरिगुहाद्वारं बृहच्छिलयाच्छाद्य जीर्णधनः गृहमागतः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘बृहत्’ इति पदस्य विशेष्यं किम् ?
(ख) ‘क्षणभंगुरम्’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(ग) ‘आगतः’ इति क्रियापदस्य कर्त्ता क: ?
(घ) ‘परमहं नद्यां स्नानार्थं गमिष्यामि’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् – (क) शिला।
(ख) शाश्वतम् ।
(ग) जीर्णधनः ।
(घ) जीर्णधनाय ।
(4) पृष्टश्च तेन वणिजा – “भोः ! अभ्यागत! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः “? इति ।
स आह – “नदीतटात्स श्येनेन ” हृतः इति । श्रेष्ठ्याह — “मिथ्यावादिन् ! किं क्वचित् श्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि । ” इति ।
स आह—”भोः सत्यवादिन् ! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुलां न भक्षयन्ति । तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।” इति ।
एवं विवदमानौ तौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच – ” भोः ! अब्रह्मण्यम् ! अब्रह्मण्यम्! मम शिशुरनेन चौरेणापहृतः ” इति ।
अथ धर्माधिकारिणस्तमूचुः – ” भोः ! समर्प्यतां श्रेष्ठिसुतः । ”
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) शिशुः केन हृत: ?
(ख) अन्यथा श्रेष्ठी कुत्र निवेदयिष्यति ?
(ग) रिक्तस्थानं पूरयत – यथा श्येनो बालं न नयति, तथा ……. अपि लौहघटितां तुलां न भक्षयन्ति ।
(घ) कीदृशौ तौ द्वावपि राजकुलं गतौ ?
उत्तरम् — (क) श्येनेन ।
(ख) राजकुले।
(ग) मूषकाः।
(घ) विवदमानौ ।
2. पूर्णवाक्येन उत्तरत—
(क) शिशुविषये जीर्णधनः श्रेष्ठिनं किमुवाच ?
(ख) यथा श्येनो बालं न नयति, तथा किं न भक्षयन्ति ?
(ग) श्रेष्ठी तारस्वरेण किं प्रोवाच ?
(घ) धर्माधिकारिण: जीर्णधनं किम् आदिशत् ?
उत्तरम् — (क) शिशुविषये जीर्णधनः श्रेष्ठिनम् उवाच – “नदीतटात् स ” श्येनेन हृतः” इति ।
(ख) यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुलां न भक्षयन्ति ।
(ग) श्रेष्ठी तारस्वरेण प्रोवाच — “भोः ! अब्रह्मण्यम्! अब्रह्मण्यम्! मम शिशुरनेन चौरेणापहृतः” इति।
(घ) धर्माधिकारिण: जीर्णधनम् आदिशत् — “भोः ! समर्प्यतां श्रेष्ठिसुतः।”
3. निर्देशानुसारम् उत्तरत-
(क) अत्र ‘तुलाम्’ इति पदस्य विशेषणम् किम् ?
(ख) ‘सत्य’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(ग) ‘हर्तुं शक्नोति’ इति क्रियापदस्य कर्त्ता क: ?
(घ) ‘अरे !’ इति अर्थे किम् अव्ययपदम् अत्र प्रयुक्तम् ?
उत्तरम् — (क) लौहघटिताम् ।
(ख) मिथ्या ।
(ग) श्येन: ।
(घ) भोः ।
(5) स आह-” किं करोमि? पश्यतो मे नदीतटाच्छ्येनेन अपहृतः शिशुः ” । इति । तच्छ्रुत्वा ते प्रोचुः – भोः ! न सत्यमभिहितं भवता – किं श्येनः शिशुं हर्तुं समर्थो भवति ? स आह- भो भोः ! श्रूयतां मद्वचः-
तुलां लौहसहस्त्रस्य यत्र खादन्ति मूषकाः ।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः ॥
ते प्रोचुः – ” कथमेतत् । “
ततः स श्रेष्ठी सभ्यानामग्रे आदितः सर्वं वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य तुला- शिशु-प्रदानेन सन्तोषितौ ।
प्रश्नाः – १. एकपदेन उत्तरत-
(क) लौहसहस्रस्य किमत्र?
(ख) जीर्णधनस्य मतानुसारम् अत्र किम् न अस्ति ?
(ग) केषाम् अग्रे श्रेष्ठी सर्ववृत्तान्तं निवेदयामास ?
(घ) सभ्यैः तौ द्वौ केन प्रदानेन सन्तोषितौ ?
उत्तरम् — (क) तुला ।
(ख) संशयः ।
(ग) सभ्यानाम्।
(घ) तुला-शिशु-प्रदानेन ।
2. पूर्णवाक्येन उत्तरत-
(क) शिशोः अपहरणे धर्माधिकारिणः जीर्णधनं किं प्रोचुः ?
(ख) धर्माधिकारिणः संशयं दूरीकर्तुम् जीर्णधनेन किमुक्तः ?
(ग) सभ्यानामग्रे श्रेष्ठी किं निवेदयामास ?
उत्तरम् — (क) शिशो: अपहरणे धर्माधिकारिणः जीर्णधनं प्रोचुः – भोः ! न सत्यमभिहितं भवता किं श्येनः शिशुं हर्तुं समर्थो भवति ?
(ख) धर्माधिकारिणः संशयं दूरीकर्तुम् जीर्णधनेन उक्त:-
तुलां लौहसहस्रस्य यत्र खादन्ति मूषकाः ।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः ।।
(ग) सभ्यानामग्रे श्रेष्ठी आदितः सर्ववृत्तान्तं निवेदयामास ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘चोरित:’ इत्यर्थे किं पदं गद्यांशे प्रयुक्तम् ?
(ख) ‘राजन्तत्र हरेच्छ्येनो बालकम्’ अत्र क्रियापदं किम् ?
(ग) ‘अपहृतः शिशुः’ अत्र विशेष्यपदं किम् ?
(घ) ‘अन्ततः’ अस्य विलोमपदं लिखत ।
उत्तरम् — (क) अपहृतः ।
(ख) हरेत् ।
(ग) शिशुः ।
(घ) आदितः ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?
उत्तरम् — देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत्-
यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः।।
(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत् ?
उत्तरम्— स्वतुलां याचमानं जीर्णधनं श्रेष्ठी अकथयत् – ” भोः ! नास्ति सा त्वदीया तुला मूषकैर्भक्षिता ।”
(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः ?
उत्तरम् – जीर्णधन: गिरिगुहाद्वारं बृहच्छिलयाच्छाद्य गृहमागतः ।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् उवाच ?
उत्तरम् – स्नानानन्तरं पुत्रविषये वणिक्पुत्रः श्रेष्ठिनम् उवाच— “नदीतटात् स श्येनेन हृतः” इति ।
(ङ) धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ कथं सन्तोषितौ ? 
उत्तरम् – धर्माधिकारिभिः जीर्णधनश्रेष्ठ तुला-शिशु-प्रदानेन सन्तोषितौ ।
2. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ।
उत्तर – कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः ।
उत्तर – श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थित: ?
(ग) श्रेष्ठी उच्चस्वरेण उवाच – भोः अब्रह्मण्यम् अब्रह्मण्यम् ।
उत्तर- श्रेष्ठी उच्चस्वरेण किमुवाच ?
(घ) सभ्यैः तौ परस्परं सम्बोध्य तुला- शिशु-प्रदानेन सन्तोषितौ । –
उत्तर – सभ्यैः तौ परस्परं सम्बोध्य केन प्रदानेन सन्तोषितौ ।
3. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत-
(क) यत्र देशे अथवा स्थाने ……… भोगाः भुक्ता …….. विभवहीनः यः ……… स पुरुषाधमः ।
(ख) राजन् ! यत्र लौहसहस्रस्य ……… मूषकाः ………. तत्र …….. श्येनः ……. हरेत् अत्र संशयः न।
उत्तरम् — (क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् सः पुरुषाधमः ।
(ख) राजन् ! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येन: बालकं हरेत् अत्र संशयः न।
4. यथापेक्षम् अधोलिखितानां शब्दानां सहायतया ‘“लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत —
वणिक्पुत्र:             स्नानार्थम्
लौहतुला              अयाचत्
वृत्तान्तं                 ज्ञात्वा
श्रेष्ठीनं                  प्रत्यागतः
गतः                     प्रदानम्
उत्तरम् – पुराकाले जीर्णधनः नाम वणिक्पुत्रः आसीत् । एकदा सः धनहीनः स्वलौहतुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपभूतां कृत्वा देशान्तरम् अगच्छत् । सुचिरेण कालेन स्वपुरमागत्य सः श्रेष्ठिनं स्वतुलाम् अयाचत्। श्रेष्ठी उवाच – तां तुलां मूषकाः अखादन् । जीर्णधनः तस्य लोभवृत्तिम् अजानीत् । जीर्णधन आह- यदि तुला मूषकैर्भक्षिता तु न कोऽपि वार्ता । अधुना अहं नद्यास्तटे स्नानार्थं गन्तुम् इच्छामि । त्वं स्वपुत्रं मया सह प्रेषय | जीर्णधनः श्रेष्ठीपुत्रेण सह नद्यास्तटे अगच्छत्।
तदनन्तरं जीर्णधनः श्रेष्ठीपुत्रं गिरिगुहायां प्रक्षिप्य प्रत्यागतः । सः श्रेष्ठिनम् आह— तव पुत्रः श्येनेन हृतः । इदं वृत्तान्तं ज्ञात्वा श्रेष्ठी क्रुद्धम् अभवत्। एवं द्वयोर्मध्ये विवादम् अजातम् । द्वावपि न्यायप्राप्तुं राजकुलं गतौ । धर्माधिकारिणः तौ विवादं धैर्यपूर्वकम् अशृणोत् । धर्माधिकारिभिः विहस्य द्वावेव तुला- शिशु-प्रदानेन सन्तोषितौ ।

Leave a Reply

Your email address will not be published. Required fields are marked *