UK Board 9th Class Sanskrit – Chapter 9 सिकतासेतुः
UK Board 9th Class Sanskrit – Chapter 9 सिकतासेतुः
UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 9 सिकतासेतुः
सिकतासेतुः (बालू का पुल)
[ पाठ – परिचय – प्रस्तुत पाठ इसी कथासरित्सागर के ‘रत्नप्रभा’ नामक सातवें लम्बक से अवतरित है। इस कथा में बताया गया है कि बिना पढ़े-लिखे और अभ्यास किए, जप-तप से विद्या प्राप्त नहीं की जा सकती। विद्या प्राप्त करने के लिए गुरु से विधिवत् शिक्षा प्राप्त की जाती है और इसके पश्चात् उसका परिश्रमपूर्वक अध्ययन-मनन और अभ्यास किया जाता है। पाठ में सङ्कलित कथा में तपोदत्त नामक एक ब्राह्मण बिना पढ़े-लिखे तपस्या द्वारा विद्या प्राप्त करने का प्रयत्न करता है। तब इन्द्र ब्राह्मण का रूप धारणकर गंगा में बालू से पुल बनाने लगते हैं। इस पर तपोदत्त उनसे कहता है कि रेत से गंगा में पुल कैसे बन सकता है, तब इन्द्र उससे कहते हैं कि यदि तुम बिना अक्षर ज्ञान के विद्या प्राप्त कर सकते हो तो मैं भी गंगा पर बालू का पुल बना सकता हूँ। तपोदत्त इन्द्र का आशय समझकर, तपस्या करना छोड़ गुरु के पास विद्याध्ययन के लिए चला जाता है ।]
समस्त पाठ का हिन्दी-अनुवाद
हिन्दी-अनुवाद –
(तदन्तर अर्थात् पर्दा उठने पर तपस्या करता हुआ तपोदत्त प्रवेश करता है।)
तपोदत्त – मैं तपोदत्त हूँ। बचपन में पूजनीय पिताजी द्वारा पीड़ित किए जाते हुए भी मैंने विद्या नहीं पढ़ी। तब से सब परिवारजनों, मित्रों और सम्बन्धियों द्वारा (मैं) अपमानित किया गया।
(ऊपर को श्वास छोड़कर)
हे प्रभु! यह मेरे द्वारा क्या किया गया? तब मेरी बुद्धि कैसी दुष्ट हो गई थी! जो कि मैंने यह भी नहीं सोचा-
वस्त्रों, आभूषणों से सुसज्जित होने पर भी व्यक्ति मणिहीन सर्प की भाँति सभा में अथवा घर में सुशोभित नहीं होता है, यदि वह विद्याहीन है। (कुछ सोचकर )
अच्छा, इससे क्या ? दिन में मार्ग से भटका हुआ यदि शाम तक घर लौट आता है तो भी श्रेष्ठ (अच्छा ) है। उसको (मार्ग से) भटका हुआ नहीं माना जाता है। यह मैं इस समय तप द्वारा विद्या प्राप्त करने के लिए प्रवृत्त होता हूँ अर्थात् विद्या प्राप्ति के लिए तप करने में लगता हूँ।
(जल के उछलने की ध्वनि सुनाई पड़ती है।)
अरे यह जल की तरंगों के उछलने की ध्वनि कहाँ से आ रही है? बड़ी मछली अथवा मगरमच्छ होगा। तो देखता हूँ।
( एक पुरुष को बालू द्वारा पुल निर्माण का प्रयास करता हुआ देखकर हँसी के साथ)
हाय ! संसार में मूर्खों की कमी नहीं है! नदी के तेज प्रवाह में यह मूर्ख रेत ( बालू) द्वारा पुल निर्माण का प्रयत्न कर रहा है !
(जोर से हँसता हुआ पास जाकर )
हे महाशय ! (आप) यह क्या कर रहे हैं! बस अब मेहनत (करने से) बस करें । देखो –
श्रीराम ने जिस पुल को समुद्र पर पत्थरों द्वारा बनाया था, रेत के द्वारा बनाते हुए तुम उस (राम-कार्य) का अतिक्रमण कर रहे हो ।
तो सोचो, कहीं रेत के द्वारा पुल बनाया जा सकता है?
पुरुष – हे तपस्वी! तुम मुझे क्यों रोकते हो! प्रयत्न के द्वारा क्या सिद्ध नहीं होता? शिलाओं (पत्थरों) की क्या आवश्यकता है? मैं अपने दृढ़ संकल्प द्वारा रेत से ही पुल का निर्माण करूँगा।
तपोदत्त – आश्चर्य है! तुम रेत से पुल बनाओगे? क्या रेत (के कण ) जल के प्रवाह में रुक पाएँगे? क्या आपने यह सोचा है अथवा नहीं?
पुरुष – ( उपहास करते हुए) सोचा है, सोचा है। भली प्रकार सोचा है। मैं सीढ़ियों के मार्ग से अट्टालिका पर चढ़ने में विश्वास नहीं करता हूँ। मैं छलाँग मारकर ही ऊपर जाने में समर्थ हूँ।
तपोदत्त – (व्यंग्यपूर्वक)
शाबाश! शाबाश! तुम अंजनि पुत्र हनुमानजी का भी अतिक्रमण कर रहे हो!
पुरुष – (सोच-विचारकर)
इसमें सन्देह है क्या ? और भी- ( जिस प्रकार ) लिपि (और) अक्षर ज्ञान के बिना केवल तप के द्वारा यदि विद्याएँ तुम्हारे वश में हो सकेंगी, उसी प्रकार मेरा यह पुल ( भी बन जाएगा ) ।
तपोदत्त – (लज्जापूर्वक अपने मन में ही )
अरे! यह सज्जन तो मुझको ही लक्ष्य करके आक्षेप कर रहा है! निश्चय ही मैं यहाँ ( इसकी बात में) सत्य देखता हूँ। अक्षर ज्ञान के बिना ही मैं विद्वत्ता प्राप्त करने की अभिलाषा कर रहा हूँ। तब तो यह भगवती सरस्वती का अपमान है। मेरे द्वारा गुरु के घर जाकर ही विद्या का अभ्यास किया जाना चाहिए। पुरुषार्थ से ही लक्ष्य प्राप्त होता है।
(प्रकट रूप में)
हे मनुष्य-श्रेष्ठ ! मैं नहीं जानता कि आप कौन हैं, परन्तु आपके द्वारा मेरे नेत्र – युगल (दोनों आँखें) खोल दिए गए हैं। तपस्यामात्र से विद्या प्राप्त करने का प्रयत्न करता हुआ मैं भी रेत के द्वारा पुल – निर्माण का प्रयास कर रहा हूँ, तो इसी समय मैं विद्या अध्ययन के लिए गुरुकुल ही जा रहा हूँ।
(प्रणाम करने के साथ जाता है।)
पाठाधारित अवबोधन-कार्य
(ततः प्रविशति तपस्यारतः तपोदत्त:)
(1) तपोदत्त:- अहमस्मि तपोदत्तः । बाल्ये पितृचरणै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि । तस्मात् सर्वैः कुटुम्बिभि: मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।
(ऊर्ध्वं निःश्वस्य)
हा विधे ! किमिदम्मया कृतम् ? कीदृशी दुर्बुद्धिरासीत्तदा ! एतदपि न चिन्तितं यत्
परिधानैरलङ्कारैर्भूषितोऽपि न शोभते । नरो निर्मणिभोगीव सभायां यदि वा गृहे ॥ १॥
(किञ्चिद् विमृश्य)
भवतु, किमेतेन ? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते । एष इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि ।
(जलोच्छलनध्वनिः श्रूयते)
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र कः स्वपरिचयं ददाति ?
(ख) क्लेश्यमानः तपोदत्तः कां न अधीतवान् ?
(ग) किमिव नरः सभायां न शोभते ?
(घ) तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तः ?
उत्तरम् — (क) तपोदत्तः ।
(ख) विद्याम् ।
(ग) निर्मणिभोगीव ।
(घ) तपश्चर्यया ।
2. पूर्णवाक्येन उत्तरत-
(क) तपोदत्तः कथं विद्यां न अधीतवान् ?
(ख) तपोदत्तः केन गर्हित: ?
(ग) कै: भूषितः किमिव नरः गृहे न शोभते ?
(घ) कः भ्रान्तः न मन्यते ?
उत्तरम्— (क) तपोदत्त: बाल्ये पितृचरणैः क्लेश्यमानः विद्यां न अधीतवान् ।
(ख) तपोदत्तः सर्वै: कुटुम्बिभिः मित्रैः ज्ञानिजनैः गर्हितः ।
(ग) परिधानैरलङ्कारैर्भूषितः अपि नरः निर्मणिभोगीव गृहे न शोभते।
(घ) दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अलङ्कारैः भूषितः’ अनयोः पदयोः विशेष्यपदं किम् ?
(ख) ‘भूषणैः’ अस्य पदस्य पर्यायवाचिपदं लिखत ?
(ग) किमिदम्मया कृतम् ?’ अत्र ‘मया’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) ‘भ्रान्त:’ इति पदे प्रयुक्तः प्रत्ययः कः ?
उत्तरम्— (क) भूषितः ।
(ख) अलङ्कारैः।
(ग) जीर्णधनाय ।
(घ) क्त।
(2) अये कुतोऽयं कल्लोलोच्छलनध्वनिः ? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत् ।
(पुरुषमेकं सिकताभिः सेतुनिर्माण- प्रयासं कुर्वाणं दृष्ट्वा सहासम् )
हन्त! नास्त्यभावो जगति मूर्खाणाम् ! तीव्रप्रवाहायां तपोदत्तः नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते!
(साट्टहासं पार्श्वमुपेत्य)
भो महाशय ! किमिदं विधीयते ! अलमलं तव श्रमेण । पश्य,
रामो बबन्ध यं सेतुं शिलाभिर्मकरालये ।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम् ॥ २॥
चिन्तय तावत्। सिकताभिः क्वचित्सेतुः कर्तुं युज्यते ?
पुरुष: – भोस्तपस्विन्! कथं मामुपरुणत्सि । प्रयत्नेन किं न सिद्धं भवति ? कावश्यकता शिलानाम् ? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया ।
तपोदत्तः – आश्चर्यम्! सिकताभिरेव सेतुं करिष्यसि ? सिकता जलप्रवाहे स्थास्यन्ति किम् ? भवता चिन्तितं न वा ?
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) पुरुषमेकं काभिः सेतुनिर्माण- प्रयासं करोति ?
(ख) जगति केषाम् अभावः नास्ति ?
(ग) क: मकरालये सेतुं बबन्ध ?
(घ) पुरुष: कया सिकताभिरेव सेतुः करिष्यामि ?
उत्तरम् — (क) सिकताभिः ।
(ख) मूर्खाणाम्।
(ग) रामः।
(घ) स्वसंकल्पदृढतया ।
2. पूर्णवाक्येन उत्तरत-
(क) कल्लोलोच्छलनध्वनिं तपोदत्तः कस्य ध्वनिः मन्यते ?
(ख) पुरुषः कस्यां सेतुं निर्मातुं प्रयतते ?
(ग) रामः काभिः कं बबन्ध ?
(घ) कं बालुकाभिः विदधत् तपोदत्तः अतिरामतां याति ?
उत्तरम् — (क) कल्लोलोच्छलनध्वनिं तपोदत्त: महामत्स्यस्य वा मकरस्य ध्वनिः मन्यते ।
(ख) पुरुषः तीव्रप्रवाहायां नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते !
(ग) रामः शिलाभिः सेतुं बबन्ध ।
(घ) ‘शिलाभिः मकरालये बबन्ध सेतुम् इमं बालुकाभिः विदधत् तपोदत्तः अतिरामतां याति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अये कुतोऽयम्’ अत्र ‘अयम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(ख) ‘बालुकाभि:’ अस्य पर्यायवाचिपदं चित्वा लिखत ?
(ग) ‘तीव्रप्रवाहायां नद्याम् अनयोः किं विशेष्यपदम् ?
(घ) ‘विद्वान्’ अस्य विलोमपदं लिखत ।
उत्तरम् — (क) कल्लोलोच्छलनध्वन्यै ।
(ख) सिकताभिः ।
(ग) नद्याम् ।
(घ) मूढः ।
(3) पुरुषः – (सोत्प्रासम् ) चिन्तितं चिन्तितम् । सम्यक् चिन्तितम् । नाहं सोपानमार्गैरट्टमधिरोढुं विश्वसिमि । समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि ।
तपोदत्तः – (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि !
पुरुष: – (सविमर्शम्)
कोऽत्र सन्देह : ? किञ्च,
विना लिप्यक्षरज्ञानं तपोभिरेव केवलम् ।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम || ३ ||
तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति ! नूनं सत्यमत्र पश्यामि । अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि ! तदियं भगवत्याः 1 शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थैरेव लक्ष्यं प्राप्यते ।
(प्रकाशम्)
भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान् । परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम् । तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माण प्रयासं करोमि । तदिदानीं विद्याध्ययनाय गुरुकुलमेव गच्छामि ।
(सप्रणामं गच्छति )
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) पुरुष: कै: अट्टम् अधिरोढुं विश्वसिति ?
(ख) आञ्जनेयम् कः अतिक्रामति ?
(ग) तपोदत्तः कं विनैव वैदुष्यमवाप्तुम् अभिलषति ?
(घ) कुत्र गत्वा विद्याभ्यासः करणीयः ?
उत्तरम् — (क) सोपानमार्गैः ।
(ख) पुरुषः ।
(ग) अक्षरज्ञानम् ।
(घ) गुरुगृहम् ।
2. पूर्णवाक्येन उत्तरत-
(क) पुरुषः किं कर्तुम् क्षमः अस्ति ?
(ख) पुरुषस्य सेतुः कथं स्यात् ?
(ग) किम् भगवत्या: शारदायाः अवमानना ?
(घ) कै: लक्ष्यं प्राप्यते ?
(ङ) पुरुषैः तपोदत्तस्य किं कृतम् ?
(च) अन्ततः तपोदत्तः विद्याध्ययनाय कुत्र अगच्छत् ?
उत्तरम् – (क) पुरुषः समुत्प्लुत्यैव गन्तुं क्षमः अस्ति।
(ख) लिप्यक्षरं विना केवलं तपोभिः एव तपोदत्तस्य वशे विद्या स्युः तथा पुरुषस्य सेतुः स्यात् ।
(ग) ‘अक्षरज्ञानं विना वैदुष्यम् अवाप्तुम् अभिलाषा’ इति भगवत्या: शारदायाः अवमानना ।
(घ) पुरुषार्थै: लक्ष्यं प्राप्यते ।
(ङ) पुरुषैः तपोदत्तस्य उन्मीलितं नयनयुगलम्।
(च) अन्ततः तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अक्षम:’ अस्य विलोमपदं लिखत ।
(ख) ‘भगवत्याः शारदाया’ अनयोः पदयोः विशेषणपदं किम् ?
(ग) ‘चक्षुः’ अस्य पदस्य पर्यायवाचिपदं चिनुत ।
(घ) ‘नाऽहं जाने यत् कोऽस्ति भवान्।’ अत्र क्रियापदं किम् ?
उत्तरम् – (क) क्षमः ।
(ख) भगवत्या: ।
(ग) नयनम् ।
(घ) अस्ति ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
उत्तरम् — अनधीतः तपोदत्तः सर्वै: कुटुम्बिभिः मित्रैः ज्ञातिजनै: च गर्हितः अभवत्।
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
उत्तरम् — तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽभवत् ।
(ग) तपोदत्त: पुरुषस्य कां चेष्टां दृष्ट्वा अहसत् ?
उत्तरम् – तपोदत्त: पुरुषस्य सिकताभिः सेतुनिर्माण चेष्टां दृष्ट्वा अहसत् ।
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः ?
उत्तरम् – तपोमात्रेण विद्यां प्राप्तुं प्रयतते तस्य प्रयासः सिकताभि: सेतुनिर्माणप्रयासेव कथितः ।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः ?
उत्तरम् – अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलम् गतः ।
2. भिन्नवर्गीयं पदं चिनुत-
यथा – अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम् ।
(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य ।
(ख) विश्वसिमि पश्यामि करिष्यामि, अभिलषामि ।
(ग) तपोभि:, दुर्बुद्धिः सिकताभिः, कुटुम्बिभिः ।
उत्तरम् – (क) चिन्तय ।
(ख) करिष्यामि ।
(ग) दुर्बुद्धिः ।
3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति ।
उत्तरम्— तपोदत्त: कया विद्यामवाप्तुं प्रवृत्तोऽस्ति ?
(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ।
उत्तरम् — कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्?
(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते ।
उत्तरम् — पुरुषः कस्यां सिकताभिः सेतुं निर्मातुं प्रयतते ?
(घ) तपोदत्त: अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति ।
उत्तरम् — तपोदत्तः कं विनैव वैदुष्यमवाप्तुम् अभिलषति ?
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
उत्तरम् — तपोदत्तः किमर्थं गुरुकुलम् अगच्छत्?
(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः ।
उत्तरम् – कुत्र गत्वैव विद्याभ्यासः करणीयः ?
4. उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत-
विग्रहपदानि समस्तपदानि
यथा – संकल्पस्य सातत्येन संकल्पसातत्येन
(क) अक्षराणां ज्ञानम् …………….
(ख) सिकतायाः सेतुः …………….
(ग) पितुः चरणैः …………….
(घ) गुरो: गृहम् …………….
(ङ) विद्यायाः अभ्यासः …………….
उत्तरम् – विग्रहपदानि समस्तपदानि
यथा— संकल्पस्य सातत्येन संकल्पसातत्येन
(क) अक्षराणां ज्ञानम् अक्षरज्ञानम्
(ख) सिकतायाः सेतुः सिकतासेतुः
(ग) पितुः चरणैः पितृचरणैः
(घ) गुरो: गृहम् गुरुगृहम्
(ङ) विद्यायाः अभ्यासः विद्याभ्यासः
5. उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत—
समस्तपदानि विग्रहः
यथा – नयनयुगलम् नयनयोः युगलम्
(क) जलप्रवाहे …………….
(ख) तपश्चर्यया …………….
(ग) जलोच्छलनध्वनिः …………….
(घ) सेतुनिर्माणप्रयास: …………….
उत्तरम् – समस्तपदानि विग्रहः
(क) जलप्रवाहे जलस्य प्रवाहे
(ख) तपश्चर्यया तपस: चर्यया
(ग) जलोच्छलनध्वनिः जलोच्छलनस्य ध्वनिः
(घ) सेतुनिर्माणप्रयास: सेतुनिर्माणस्य प्रयासः ।