KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 2 त्यागधनः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 2 त्यागधनः
Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 2 त्यागधनः (नीतिकथा)
त्यागधनः Questions and Answers, Summary, Notes
अभ्यासः
I. एकवाक्येन उत्तरं लिखत।
प्रश्न 1.
दधीचिमहर्षेः आश्रमः कुत्र अस्ति?
उत्तरम्
सरस्वतीनद्याः तीरे दधीचि-महर्षेः आश्रमः अस्ति।
प्रश्न 2.
वृत्रासुरः स्वभावतः कथम् अवर्तत?
उत्तरम्
वृत्रासुरः स्वभावतः क्रूरः, दुष्टः, दयाहीनः च अवर्तत।]
प्रश्न 3.
इन्द्रः कस्य तपोवनं वव्राज?
उत्तरम्
इन्द्रः दधीचेः तपोवनं वव्राज।
प्रश्न 4.
वज्रायुधेन वृत्रं कः जघान?
उत्तरम्
वज्रायुधेन वृत्रं इन्द्रः जघान।
प्रश्न 5.
तपोधनः दधीचिः किमिति प्रसिद्धि प्राप?
उत्तरम्
तपोधनः दधीचिः त्यागधनः इति प्रसिद्धि प्राप।
II. रिक्तस्थानं पूरयत।
- दधीचिः जनसेवायां महान्तम् आनन्दम् अनुभवति स्म।
- वृत्रासुरः बलात्कारेण प्रजानां धनम् अपहरति स्म।
- इन्द्रः दधीचेः अस्थीनि स्वीकृत्य स्वर्ग जगाम।
- दधीचिना जगतः कल्याणार्थं स्व शरीरस्य त्यागः कृतः।
III. घटनानुसारं वाक्यानि रचयत।
- इन्द्रः वृत्रेन सह युयुधे।
- कृतयुगे दधीचिनामा महर्षिः बभूव।
- दधीचिः प्राणायामेन श्वासं निरुरोध।
- इन्द्रः सादरं मुनिः ववन्दे।
उत्तरम्
2, 4, 3, 1
IV. रेखाङ्कितपदम् अवलम्ब्य प्रश्नवाक्यं कुरुत।
प्रश्न 1.
वृत्रासुरः जनान् पीडयति स्म ।
उत्तरम्
कः जनान् पीडयति स्म ?
प्रश्न 2.
देवदानवयोः घोरं युद्धं प्रावर्तत ।
उत्तरम्
देवदानवयोः कथं युद्धं प्रावर्तत ?
प्रश्न 3.
दधीचिना स्वदेहः इन्द्राय अर्पितः।
उत्तरम्
दधीचिना स्वदेहः कस्मै अर्पितः ?
V. विरुद्धार्थकं पदं लिखत।
- सफलम् × विफलम्
- शिष्टः × दुष्टः
- उपायम् × निरुपायम्
- स्वाधीनः × अस्वाधीनः
VI. लकार-पुरुष-वचनानि लिखत।
- ययौ = लिट्लकारः – प्रथमपुरुषः – एकवचनम् ।
- बभूवुः = लिट्लकारः – प्रथमपुरुषः – बहुवचनम् ।
- बभासे = लिट्लकारः – प्रथमपुरुषः – एकवचनम् ।
- प्रावर्तत = लड्लकारः – प्रथमपुरुषः – एकवचनम् ।
VII. विग्रहवाक्यं विलिख्य समासनाम लिखत।
- जनसेवा = जनानां सेवा → षष्ठीतत्पुरुषसमासः।
- मार्गान्तरम् = अन्यं मार्गः → अव्ययीभावसमासः।
- त्यागधनः = त्यागः एव धनं यस्य सः → बहुव्रीहिसमासः।
- स्वर्गतुल्यः = स्वर्गेन तुल्यः → तत्पुरुषसमासः।
VIII. लघूत्तरं लिखत।
प्रश्न 1.
दधीचेः तपोवनं कथम् आसीत् ?
उत्तरम्
दधीचेः तपोवनं हरिणांनां विहारैः, भ्रमराणां गुञ्जनैः, वानराणां क्रीडभिः, नानाविध पुष्पफलैश्च रमणीयम् आसीत् । बहवः मुनयश्च तपोनिरताः आसन्।
प्रश्न 2.
अस्थियाचकम् इन्द्रं दधीचिः सानन्दं किम् अवदत् ?
उत्तरम्
अस्थियाचकम् इन्द्रं दधीचिः सानन्दम् अवदत् – “भोः इन्द्र। अद्य मम जीवनं सफलं जातम्’। यतः अस्य शरीरस्य त्यागः लोकोपकाराय क्रियते’। इति
IX. यथानिर्देशम् उत्तरं लिखत।
1. सः महर्षिः धर्मात्मा उदारश्च।
कः पाठः? त्यागधनः इति पाठः।
कः अवदत् ? ब्रह्मदेवः अवदत्।
धर्मात्मा कः? धर्मात्मा दधीचिः।
2. याचको भूत्वा अत्र अहम् आगतः।
कः पाठः ? त्यागधनः इति पाठः।
कम् अवदत् ? दधीचिम् अवदत्।
याचकरूपेण कः आगतः? याचकरूपेण इन्द्रः आगतः।
3. किं भवेत् ? मम समीपे।
कः पाठः ? त्यागधनः इति पाठः।
कः अवदत् ? दधीचिः अवदत्।
कम् अवदत् ? इन्द्रम् अवदत्।
X. दशवाक्यैःउत्तरं कन्नडभाषया, आङ्ग्लभाषया संस्कृतभाषवा वा लिखत।
प्रश्न 1.
वृत्रवधोपायं ज्ञातुम् आगतान् देवान् ब्रह्मदेवः किम् अवदत् ?
उत्तरम्
आगतान् देवान् विलोक्य ब्रह्मदेवः अवदत् – वृत्रासरस्य वधार्थम् उपायमेकं ब्रवीमि। तस्य वधार्थं वज्रसदृशम् आवश्यकम् । तस्य अस्त्रस्य प्राप्तिः दधीचितः भवितुम् अर्हति। अतः तम् उपसृत्य वरमेकं यायान्ताम् । तदा तस्यैव शरीरस्य अस्थीनि दानरूपेण स्वीकृत्य वज्रायुधस्य निर्माणं कुर्वन्तु। तेन वज्रायुधेन वृत्रासुरं हन्तुं शक्यते इति।
Lord Brahma said to all celestial gods about Vrutrasura’s slay. Brahma also said Indra like this – Any destructive weapon like the thunderbolt is indispensable for Vrutrasura’s slay. So you should take shelter at the lotus feet of the sage Dadheechi. Then ask his bones to make the weapon by name Vaira. With that weapon only you can able to kill the Demon Vrutra.
प्रश्न 2.
तपोधनः दधीचिः त्यागधनः कथं संवृत्तः? सगृह्य लिखत।
उत्तरम्
ब्रह्मदेवस्य वचनम् अनुसृत्य देवराजः इन्द्रः दधीचेः तपोवनं वव्राज। तत्र महर्षिं दृष्ट्वा सादरं ववन्दे। देवेन्द्रं दृष्ट्वा मुनिः पृष्टवान्-देवेन्द्र। किमर्थं आगतोऽसि? इति। तदा इन्द्रः कथयामास – दुष्टस्य वृत्रासुरस्य वधार्थं भवतः अस्थीनाम् आवश्यकता विद्यते। तेन आयुधेनैव वृत्रासुरस्य वधः कर्तुं शक्यः इति। तदा दधीचिः सानन्दं पद्मासने उपविश्य योगेन प्राणत्यागं कृत्वा देहः इन्द्रस्य अधीनः कृतः । इन्द्रदेवः तस्य अस्थीनि स्वीकृत्य वज्रायुधस्य निर्माणं चकार। तेन वज्रायुधेन युद्धे वृत्रम् इन्द्रः जधान। अनेन अपूर्वेण त्यागेन तपोधनः दधीचिः त्यागधनः इति प्रसिद्धो बभूव।
According to the advice of Brahma Indra went to the ashram (hermitage) of Dadheechi, seeking refuge He asked Dadheechi’s bones for the welfare of the world. Then Dadheechi a celebrated sage who became ready to die and offered his bones to the gods. With these bones the architect of the gods made a thunderbolt weapon by name Vairayudha. With this Indra killed Vrutra and aother demons. By this charity Dadheechi acquired fame as त्यागधन (generous donor)
इतरप्रश्नाः
I. सूक्तम् उत्तरं चित्वा लिखत।
प्रश्न 1.
सरस्वती नद्याः तीरे अस्य आश्रमः आसीत्।
(a) दधीचि महर्षेः
(b) गौतमस्य
(c) व्यासस्य
(d) वाल्मीके:
प्रश्न 2.
दधीचिः ईदृशः आसीत् ।
(a) तपोधनः
(b) महाधनः
(c) मानधनः
(d) निर्धनः
प्रश्न 3.
अस्य पीडया जनाः त्रस्ताः बभूवुः।
(a) रावणस्य
(b) वृत्रासुरस्य
(c) महिषासुरस्य
(d) घण्टाकर्णस्य
प्रश्न 4.
वृत्रासुरस्य वधार्थम् इदम् आवश्यकम्।
(a) अस्त्रम्
(b) शस्त्रम्
(c) वज्रायुधम्
(d) युद्धम्
प्रश्न 5.
एषः देवराजः इति प्रथितः।
(a) वायुः
(b) यमः
(c) अग्निः
(d) इन्द्रः
प्रश्न 6.
‘त्रस्तः’ शब्दस्य एषः अर्थः।
(a) भीरुः
(b) भीमः
(c) शिष्टः
(d) तुष्टः
प्रश्न 7.
वज्रायुधस्य निर्माणम् एतैः कृतम् ।
(a) आयुधैः
(b) अस्तिभिः
(c) लोहैः
(d) दारुभिः
प्रश्न 8.
दधीचिना अस्य कल्याणार्थं स्वशरीरस्य त्यागः कृतः।
(a) स्वस्य
(b) देशस्य
(c) ग्रामस्य
(d) जगतः
प्रश्न 9.
दुष्टः, विनष्टः : : सन्तुष्टः – अत्र चतुर्थं पदम्।
(a) लोकः
(b) राजा
(c) इन्द्रः
(d) ब्रह्मा
प्रश्न 10.
एषः याचको भूत्वा आगतः।
(a) वरुणः
(b) सोमः
(c) इन्द्रः
(d) चन्द्रः
प्रश्न 11.
अत्र समूहेतरपदं इदं भवति।
(a) मदः
(b) मोक्षः
(c) मत्सरः
(d) मोहः
II. पर्यायपदम् लिखत।
- पाषाणः = शिला
- सुराः = देवाः
- असुरः = राक्षसः
- तुष्टः = सन्तुष्टः
- अस्थि = कुल्यम्
III. अन्यलिङ्गपदं लिखत।
- देवः – देवी
- तस्य – तस्याः
- राक्षसः – राक्षसी
- देवराजः – देवराज्ञी
- दुष्टः – दुष्टा
IV. त्रिषुपुरुषेषु वचनेषु च लिखत।
1. ययुः – ‘लिट्’ लकारः – या प्रापणे – परस्मैपदी
2. ‘लट् लकारः – कृञ् करणे – परस्मैपदी
V. लिङ्ग-विभक्ति-वचनानि लिखत।
- नद्याः – स्त्रीलिङ्गः – षष्ठीविभक्तिः – एकवचनम् ।
- आश्रमः – पुंलिङ्गः – प्रथमाविभक्तिः – एकवचनम् ।
- सः – पुंलिङ्गः – प्रथमाविभक्तिः – एकवचनम् (त्रिलिङ्गः)
- वृत्रेण – पुंलिङ्गः – तृतीयाविभक्तिः – एकवचनम्
Introduction:
India is popularly regarded as the land of penance’. Here, we come across the life history of renowned personalities. Some of them are eminent in spirituality and some other in truth, mercy, helpingnature and tenderness.
पीठिका
अस्माकं भारतदेशः तपोभूमिः इति विख्यातः। तत्र चकारणं भूभागेऽस्मिन् प्राप्तजन्मानः नैके महापुरुषाः। ते हिन केवलं तपसा परं सत्यत्यागदयादाक्षिण्यादि गुणविशेषैः जनमानसे स्थिरं स्थानं अलभन्त। तादृशेषु गुणविशिष्टेषु पुरुषेषु दधीचिः अपि अन्यतमः।
त्यागधनः Summary in English
In Kruthayuga, a sage lived on the banks of river Saraswathi by name Dadheechi. He earned an extraordinary power by doing penance. A demon by name Vrutra also lived during the same time. He was very cruel and merciless. He used to torment greatly the gods, Brahmans and all the living beings. All the celestial gods were not able to find out an idea to kill Vrutrasura. So they went Satyaloka to meet the Lord Brahma.
Lord Brahma said to all celestial gods about Vrutrasura’s slay. Brahma also said Indra like this – Any destructive weapon like the thunderbolt is indispensable for Vrutrasura’s slay. So you should take shelter at the lotus feet of the sage Dadheechi. Then ask his bones to make the weapon by name Vajra. With that weapon, only you can able to kill the Demon Vritra.
According to the advice of Brahma, Indra went to the ashram (hermitage) of Dadheechi, seeking refuge, he asked Dadheechi’s bones for the welfare of the world. Then Dadheechi a celebrated sage who became ready to die and offered his bones to the gods. With these bones the architect of the gods made a thunderbolt weapon by name Vajrayudha. With this Indra killed Vrutra and aother demons. By this charity Dadheechi acquired fame as त्यागधन (generous donor)
त्यागधनः Summary in Sanskrit
सारांशः
कृतयुगे दधीचिनामा महर्षिः उवास। सः महता तपसा अपूर्वां शक्तिं प्राप। तदानीन्तनकाले वृत्रासुरो नाम राक्षसः अवर्तत। सः स्वभावतः दुष्टः आसीत्। सर्वदा जनान् बहु पीडयति स्म। अतः देवाः अपि चिन्तामग्नाः जाताः। तस्य वधार्थम् उपायं देवाः चिन्तयामासुः । परं मार्गान्तरम् अलभमानाः सुराः ब्रह्मदेवस्य समीपं ययुः।
आगतान् देवान् विलोक्य ब्रह्मदेवः अवदत् – वृत्रासुरस्य वधार्थम् उपायमेकं ब्रवीमि। तस्य वधार्थं वज्रसदृशम् अस्त्रम् आवश्यकम् । तस्य अस्त्रस्य प्राप्तिः दधीचितः भवितुम् अर्हति। अतः तम् उपसृत्य वरमेकं याचन्ताम्। तदा तस्यैव शरीरस्य अस्थीनि दानरूपेण स्वीकृत्य वज्रायुधस्य निर्माणं कुर्वन्तु। तेन वज्रायुधेन वृत्रासुरं हन्तुं शक्यते इति।
ब्रह्मदेवस्य वचनम् अनुसृत्य देवराजः इन्द्रः दधीचेः तपोवनं वव्राज । तत्र महर्षि दृष्ट्वा सादरं ववन्दे। देवेन्द्रं दृष्ट्वा मुनिः पृष्टवान्-देवेन्द्र किमर्थं आयतोऽसि ? इति। तदा इन्द्रः कथयामास – दुष्टस्य वृत्रासुरस्य वधार्थं भवतः अस्थीनाम् आवश्यकता विद्यते। तेन आयुधेनैव वृत्रासुरस्य वधः कर्तुं शक्यः इति।
तदा दधीचिः सानन्दं पद्मासने उपविश्य योगेन प्राणत्यागं कृत्वा देहः इन्द्रस्य अधीनः कृतः। इन्द्रदेवः तस्य अस्थीनि स्वीकृत्य वज्रायुधस्य निर्माणं चकार। तेन वज्रायुधेन युद्धे वृत्रम् इन्द्रः जघान। अनेन अपूर्वेण त्यागेन तपोधनः दधीचिः त्यागधनः इति प्रसिद्धो बभूव।