RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्
Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्
(चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा वाक्यनिर्माणं कुरुत)
प्रश्न 1.
विद्यालयः (अस्माकं, छात्र-छात्राश्च, अध्यापकाः, द्वादश कक्षाः, पञ्चशतं – छात्राः)
उत्तर:
- अयम् अस्माकं विद्यालयः अस्ति।
- अस्माकं विद्यालये पञ्चशतं छात्राः सन्ति।
- विद्यालये छात्र-छात्राश्च सहैव पठन्ति।
- अस्मिन् विद्यालय द्वादशकक्षाः सन्ति।
- विद्यालये निपुणाः अध्यापकाः सन्ति।
प्रश्न 2.
उद्यानम्।
(विद्यालयस्य समीपे, वृक्षाः, खगाः, पुष्पाणि, भ्रमणाय)
उत्तर:
- विद्यालयस्य समीपे एकम् उद्यानमस्ति।
- उद्याने अनेके वृक्षाः सन्ति।
- उद्याने विविधपुष्पाणि सन्ति।
- उद्याने खगाः कलरवं कुर्वन्ति।
- जना: अत्र भ्रमणाय आगच्छन्ति।
प्रश्न 3.
मेलापकः (जनसम्मः, मिष्ठान्नानि, क्रीडनकाः, दोलनानि, आपणाः)
उत्तर:
- मेलापके विविधदोलनानि सन्ति।
- मेलापके जनसम्मर्द: भवति।
- मेलापके अनेके आपणा: सन्ति।
- अत्र जनाः मिष्टान्नानि खादन्ति।
- बालका: क्रीडनका: क्रीणन्ति।
प्रश्न 4.
पुस्तकालयः
(विद्यालये, सार्वजनिक स्थाने, पुस्तकालयः, जना :, दैनिकसमाचारपत्राणि, विविध विषयानाम् पुस्तकानि)
उत्तर:
- अयं पुस्तकालयः अस्ति।
- अस्माकं विद्यालये एक; पुस्तकालयः अस्ति।
- सार्वजनिकस्थानेऽपि पुस्तकालयः अस्ति।
- अत्र जना: प्रतिदिनम् आगच्छन्ति।
- अत्र विविधविषयाणां पुस्तकानि सन्ति।
- केचन दैनिकसमाचारपत्राणि पठन्ति।