RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 7 स्वागतं ते राजस्थाने
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 7 स्वागतं ते राजस्थाने
Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 स्वागतं ते राजस्थाने
Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 पाठ्यपुस्तक के प्रश्नोत्तर
RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 मौखिक प्रश्न:
प्रश्न 1.
उच्चारणं कुरुत
बृहत्तमम्
दृष्ट्या
अत्रत्याः
वीराङ्गनानाम्
सर्वेषाम्
वैदेशिकाः
शिरोमणिः
स्तम्भानाम्
स्थापत्यम् उत्कृष्ट्रानि
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए]
प्रश्न 2.
एकपदेन उत्तरत
(क) कस्मिन् समये मारवाडक्षेत्रस्य भ्रमणम् आनन्देन भवितुं शक्नोति?
उत्तरम्:
दीपोत्सवस्य अवकाशे
(ख) पुस्तकालयेषु बृहत्तमः पुस्तकालयः कुत्र स्थितः वर्तते?
उत्तरम्:
भादरियास्थाने
(ग) जोधपुरनगरे किं दुर्गम्?
उत्तरम्:
मेहरानगढ़दुर्गम्
(घ) प्रतापस्य मातुलगृहं कुत्रास्ति?
उत्तरम्:
पालीनगरे
(ङ) के अपि गौरवशाली राजस्थानं नमन्ति?
उत्तरम्:
वैदेशिका: अपि लिखितप्रश्नाः
प्रश्न 1.
एकपदेन उत्तरत-:
(क) विश्वस्य प्राचीनतम पर्वतमाला का?
उत्तरम्:
अरावली
(ख) दीपावलीसमये कस्मिन् क्षेत्रे भ्रमणम् आनन्ददायकम्?
उत्तरम्:
मारवाडक्षेत्रे
(ग) स्थापत्यदृष्ट्या विश्वप्रसिद्धं किं मन्दिरम्?
उत्तरम्:
रणकपुरजैनमन्दिरम्
(घ) किं मंदिरम् भारतीयानां मनसि देशं प्रति गौरवभावमुत्पादयति?
उत्तरम्:
तनोटमातुः मन्दिरम्
(ङ) कः राजस्थानस्य भ्रमणार्थम् आगन्तुम् इच्छति?
उत्तरम्:
मृदुलः
प्रश्न 2.
एकवाक्येन उत्तरत
(क) राजस्थानं केषां भूमिः अस्ति?
उत्तरम्:
राजस्थानं वीराणां वीराङ्गनानां च भूमिः अस्ति
(ख) प्रतापगौरवकेन्द्र कुत्र वर्तते?
उत्तरम्:
प्रतापगौरवकेन्द्रं उदयपुरनगरे वर्तते
(ग) विश्वस्य प्राचीनतमा पर्वतमाला का?
उत्तरम्:
विश्वस्य प्राचीनतमा अरावलीपर्वतमाला अस्ति
(घ) सूर्यनगरीरूपेण प्रसिद्धं किं नगरम्?
उत्तरम्:
सूर्यनगरीरूपेण प्रसिद्धं जोधपुरनगरम् अस्ति
(ङ) रमेश: कस्मै पत्रम् लिखितवान्?
उत्तरम्:
रमेश: स्वमित्राय मृदुलाय पत्रं लिखितवान्
प्रश्न 3.
उचितं मेलनं कुरुत
उत्तरम:
प्रश्न 4.
कोष्ठके दत्तपदैः रिक्तस्थानानि पूरयत
(राजस्थानं, प्रत्येकस्मिन्, थारमरुस्थलम् सूर्यनगरी, सप्त)
उत्तरम्:
(क) जोधपुरनगरं सूर्यनगरी रूपेण प्रसिद्धमस्ति
(ख) थारमरुस्थलम् जैसलमेरुजनपदे स्थितमस्ति
(ग) राजस्थानस्य प्रत्येकस्मिन् भागे दर्शनीयानि स्थलानि सन्ति
(घ) राजस्थाने सप्त सम्भागाः सन्ति
(ङ) अरावलीपर्वतमाला राजस्थानं द्विभागयोः विभक्तं करोति
प्रश्न 5.
रेखाङ्कितपदान् स्वीकृत्य प्रश्ननिर्माणं कुर्वन्तु
(क) प्रशासनिकदृष्ट्र राजस्थानं त्रयस्त्रिंशत् जनपदेषु विभक्तं वर्तते
(ख) जोधपुरनगरे कायलानाकासारः वर्तते
(ग) अरावलीपर्वतमाला राजस्थाने स्थितास्ति
(घ) महाकविः माघः राजस्थाने अभवत्
(ङ) प्रतापस्य गौरवगानं प्रतापगौरवकेन्द्रं करोति
उत्तरम्:
प्रश्ननिर्माणम्
(क) प्रशासनिकदृष्ट्या राजस्थानं कति जनपदेषु विभक्तं वर्तते?
(ख) कुत्र कायलानाकासारः वर्तते?
(ग) अरावलीपर्वतमाली कुत्र स्थितास्ति?
(घ) क; राजस्थाने अभवत्?
(ङ) कस्य गौरवगानं प्रतापगौरवकेन्द्रं करोति?
प्रश्न 6.
दत्तानां पदानां साहाय्येन स्वरचित-वाक्यानां लेखनं कुरुत
उत्तरम्:
योग्यता-विस्तारः
(क) भाषा-विस्तार:
विशेष्य-विशेषणम्
जिस शब्द से संज्ञा पद की विशेषता प्रकट होती है, वह शब्द विशेषण कहलाता है। जिस शब्द की विशेषता प्रकट होती है, वह विशेष्य होता है। विशेषण विशेष्य के अनुसार ही गुणों वाला होता है। अर्थात् विशेष्य का जो लिंग, वचन और विभक्ति होती है, विशेषण का भी वही लिंग, वचन और विभक्ति होती है। कहा भी हैयल्लिङ्ग यद्वचनं या च विभक्तिः विशेष्यस्य।
तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य॥
यथा
प्रश्न 7.
अन्यानि विशेषण-विशेष्यपदानि स्वीकृत्य पञ्चवाक्यानां रचना करणीयो
उत्तरम्:
(i) अयम् आदर्श विद्यालयः अस्ति
(ii) तत्र अनेके बालकाः क्रीडन्ति
(iii) अहं मधुरं फलं खादामि
(iv) सा ज्येष्ठा महिला अस्ति
(v) मम विशालं भवनम् अत
(ख) कारक-प्रकरणम्
[ नोट-यहाँ पाठ्य-पुस्तक में दिये गये कारक एवं विभक्तियों का सोदाहरण परिचय संस्कृत भाषा में ही दिया जा रहा है। हिन्दी भाषा में आगे व्याकरण-ज्ञान के अन्तर्गत कारकों का परिचय सोदाहरण दिया गया है।] परिचय-कारकाणि षट् सन्ति–कर्ता, कर्म, करणं, सम्प्रदानम्, अपादानम्, अधिकरणं च कारकोणां बोधकारी विभक्तिः उच्यते
१.प्रातिपदिकः ( शब्दः )
लिङ्गम् (पुंल्लिङ्गम्,स्त्रीलिङ्गम्, नपुंसकलिङ्गम्)
परिमाण (द्रोणम्, व्रीहिः)
वचनं (एकवचनं, द्विवचनं, बहुवचनं)
बोधयितुं प्रथमा विभक्तिः प्रयुज्यते
यथा
कृष्णः,श्रीः,ज्ञानम्,द्रोणः,व्रीहिः,एकः,एकम्,एका,द्वे,त्रयः
२. कर्तायाः सर्वाधिकम् इप्सितं कर्मकारकम् उच्यते
कर्मकारके द्वितीया विभक्तिः प्रयुज्यत
यथा
मासेषु अश्वं बध्नाति
२. कर्तायाः सर्वाधिकम् इप्सितं कर्मकारकम् उच्यते
कर्मकारके द्वितीया विभक्तिः प्रयुज्यते
यथ
मासेषु अश्वं बध्नाति
३. क्रि यायाः सिद्धयर्थे सर्वाधिक सहायक साधनः
करणमुच्यते करणकारके तृतीया विभक्तिः प्रयुज्यते
यथा
सः कलमेन लिखति पादाभ्यां चलति
४. दानादि कर्मणा यं उपक्रियते सः सम्प्रदानसंज्ञकं
स्यात् सम्प्रदाने चतुर्थीविभक्तिः प्रयुज्यते
यथा
विप्राय गां ददाति
५. यस्मात् अपाय/विश्लेष/पृथक्करणं भवति सः
अपादानसंज्ञकं स्याद्। अपादने पञ्चमीविभक्तिः प्रयुज्यते
यथा
ग्रामाद् नगरं गच्छति वृक्षात् पत्राणि पतन्ति
६. स्व-स्वामीभावसम्बन्धं प्रदर्शयितुं षष्ठी विभक्तेः
प्रयोगः भवति
यथा
राज्ञः पुरुषः राजस्थानस्य गौरवम्
बालिकानांक्रीडनकानि
७. व्यक्तीनां वस्तूनां वा आधारः अधिकरणसंज्ञकं स्यात्
अधिकरणे सप्तमीविभक्तिः प्रयुज्यते
यथा
कटे आस्ते स्थाल्यां पचति
८. अभितः परितः, समया, निकषा, हा, धिक्, प्रति योगे
द्वितीयाविभक्तिः भवति
यथा
ग्रामम् अभितः उद्यानम् अस्ति अस्माकं विद्यालयं परितः स्वच्छता भवेत्। ग्रामं निकषा तडागः अस्ति
स: नगरं प्रति गच्छति
९. विना, नाना, पृथक् शब्दानां योगे द्वितीया, तृतीया
पञ्चमी च विभक्तयः भवन्ति
यथा
धनं, धनेन, धनात्, वा विना शून्यं जीवनम् रामं, रामेण, रामात्, वा पृथक् नाहं जीवामि। संस्कृतिं संस्कृत्या
संस्कृत्याः वा विना राष्ट्रस्य गौरवं विनश्यति
१०. साकं, सार्धम् समम् सहयोगेऽप्रधानकर्त्तरि,
तृतीयाविभक्तिः भवति
यथा
सीता रामेण सह गच्छति वनम् भगतसिंहेन
सह रामगुरुसुखदेवयोः बलिदानमभवत्
११. अङ्गविकारयोगे अङ्गवाचकशब्दे तृतीयाविभक्तिःभवति
यथा
सः नेत्रेण काण: बालकः पादेन खञ्जः
१२ .नमः स्वस्ति, स्वाहा, स्वधा, अलं, वषड्योगे
चतुर्थीविभक्तिः भवति
यथा
गवे नमः देशभक्तेभ्यः नमः प्रजाभ्यः स्वस्ति
अग्नये स्वाहा पितृभ्यः स्वधा अलं विवादाय इन्द्राय वषट्
१३. कुथु, दुह, ईर्ष्या, असूय शब्दानां योगे ये प्रति एषः
प्रयुज्यते तत्र सम्प्रदानकारकं भवति
यथा
पिता पुत्राय क्रुध्यति रामः मोहनाय ईर्थ्यति सा
लतायै असूयति
१४. भी, त्रा रक्षु धातुयोगे यस्मात्, भयादि भवति तत्र
पञ्चमीविभक्तिः भवति
यथा
चौरात् बिभेति सिंहात् जायते पापेभ्यः रक्षति
१५. जन्, भू धातुयोगे उत्पत्तिस्थाने पञ्चमी विभक्तिः
भवति
यथा
गोमयात् वृश्चिकाः प्रजायन्ते गङ्गा हिमालयात्
प्रभवति
१६. तरप् प्रत्यययोगे पञ्चमी विभक्तिः भवति
यथा
निम्बवृक्षात् पिप्पलवृक्ष: पवित्रतरः ज्ञानात् ध्यानं
श्रेष्ठतरम्
१७. तमप् प्रत्यय योगे षष्ठी वा सप्तमी विभक्तिः भवति
यथा
गवां गोषु वा कृष्णा बहुक्षीरा कवीनां कविषु वा कालिदासः श्रेष्ठतमः
RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 अन्य महत्त्वपूर्ण प्रश्नोत्तर
RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 वस्तुनिष्ठ
प्रश्नाः1.
‘स्वागतं ते राजस्थाने’ पाठस्य क्रमः अस्ति
(क) पञ्चमः
(ख) सप्तमः
(ग) नवमः
(घ) एकादशः
2.’भवतः पत्रम् अद्यैव प्राप्तम्’-रेखांकितपदे उपसर्गः अस्ति
(क) अप्
(ख) क्त
(ग) आ
(घ) प्र
3.‘वैदेशिकाः पर्यटका: अपि नमन्ति’–अत्र अव्ययपदम् अस्ति
(क) नमन्ति
(ख) पर्यटकाः
(ग) अपि
(घ) वैदेशिकाः
4.’भारतीयैः साकं वैदेशिकाः अत्रागत्य प्रसन्नाः भवन्ति” रेखाङ्कित पदे की विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) पंचमी
(घ) सप्तमी
5.जैसलमेरुनगरे स्वर्णमयपीतपाषाणैः निर्मितं दुर्ग किम्?
(क) रक्तदुर्गम्
(ख) मेहरानगढदुर्गम्
(ग) आबूदुर्गम्
(घ) सोनारदुर्गम्
6.राजस्थाने सूर्यनगरी रूपेण प्रसिद्ध नगरं किम्?
(क) जयपुरम्
(ख) जोधपुरम्
(ग) उदयपुरम्
(घ) भरतपुरम्
7.राजस्थानस्य ताजमहलरूपेण प्रसिद्धं स्थानं किम्?
(क) रामदेवरा
(ख) रणकपुरम्
(ग) जसवन्तथडा
(घ) आमेरदुर्गम्
8.प्रतापगौरवकेन्द्रं कुत्र वर्तते?
(क) उदयपुरनगरे
(ख) जयपुरनगरे
(ग) जोधपरनगरे
(घ) बीकानेरनगरे
उत्तराणि
1. (ख)
2. (घ)
3. (ग)
4. (क)
5. (घ)
6. (ख)
7. (ग)
8. (क)
मञ्जूषात् उचितपदं चित्वा रिक्त-स्थानानि पूरयत
अस्मिन्
तत्र
भवान्
पाली
1. अत्र कुशलं……..अस्तु
2. …….समये उष्णता न भवति
3. प्रतापस्य मातुलगृहं…….नगरमेवास्ति
4. अतः…..::राजस्थानम् आगच्छतु
उत्तराणि
1. तत्र,
2. अस्मिन्,
3. पाली,
4, भवान्
RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 अतिलघूत्तरात्मकप्रश्नाः
(एकपदेन उत्तरत)
प्रश्न 1.
पत्रं कुतः लिखितम्?
उत्तरम्:
पालीनगरतः
प्रश्न 2.
मृदुलस्य कुत्र आगमनस्य योजना अस्ति?
उत्तरम्:
राजस्थाने
प्रश्न 3.
विश्वविख्यातम् आणविकपरीक्षणनगरं किम्?
उत्तरम्:
पोकरणम्
प्रश्न 4.
मण्डोरोद्यानं कुत्र अस्ति?
उत्तरम्:
जोधपुरनगरे
RBSE Class 8 Sanskrit रञ्जिनी Chapter 7 लघूत्तरात्मकप्रश्नाः
(पूर्णवाक्येन उत्तरत)
प्रश्न 1.
राजस्थाने सूर्यनगरीरूपेण किं प्रसिद्धम्?
उत्तरम्:
राजस्थाने सूर्यनगरीरूपेण जोधपुरनगरं प्रसिद्धम्
प्रश्न 2.
सोनारदुर्गं कैः निर्मितमस्ति?
उत्तरम्:
सोनारदुर्गं स्वर्णमयीपीतपाषाणैः निर्मितमस्ति
प्रश्न 3.
राजस्थानस्य ताजमहलरूपेण प्रसिद्ध स्थानम् किम्?
उत्तरम्:
राजस्थानस्य ताजमहलरूपेण प्रसिद्ध स्थान जसवन्तथड़ा नामकं स्थानमस्ति
प्रश्न 4.
रणकपुरजैनमन्दिरं कया दृष्ट्या विश्वप्रसिद्धमस्ति?
उत्तरम्:
रणकपुरजैनमन्दिरं स्थापत्यदृष्ट्या विश्वप्रसिद्धमस्ति
प्रश्न
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्न-निर्माणं कुरुत
(i) राजस्थानं वीराणां वीराङ्गनानां च भूमिः अस्ति। (केषां/कस्य)
(ii) जैसलमेरुनगरे सोनारदुर्ग स्थितमस्ति । (कुत्र/कुतः)
(iii) जोधपुरनगरं सूर्यनगरीरूपेण प्रसिद्धमस्ति। (कः/किम्)
(iv) प्रतापस्य मातुलगृहं पालीनगरम् अस्ति। (कस्य/केन)
(v) राजस्थानस्य ताजमहलरूपेण जसवन्तथड़ा प्रसिद्धम्।।(कम्/किम्)
(vi) अरावलीपर्वतमाला राजस्थानं द्विभागयोः विभक्तं करोति ।(का/काम्)
(vii) परिवारे ज्येष्ठेभ्यः प्रणामाः निवेदयतु । (केभ्य:/काभ्याम्)
उत्तरम्:
प्रश्न-निर्माणम्
(i) राजस्थानं केषां भूमिः अस्ति?
(ii) कुत्र सोनारदुर्गं स्थितमस्ति?
(iii) किम् सूर्यनगरीरूपेण प्रसिद्धमस्ति?
(iv) कस्य मातुलगृहं पालीनगरम् अस्ति?
(v) राजस्थानस्य ताजमहलरूपेण किम् प्रसिद्धम्?
(vi) का राजस्थानं द्विभागयो: विभक्तं करोति?
(vii) परिवारे केभ्यः प्रणामाः निवेदयतु?
प्रश्न:-अधोलिखितेषु रेखांकितपदयोः विशेषणविशेष्य-पदं पृथक्कुरुत
(i) बृहत्तमं पुस्तकालयं रामदेवरास्थानं च प्रतिवर्ष पश्यन्ति
(ii) उत्कृष्टानि मन्दिराणि दर्शनीयानि सन्ति
(iii) अस्मिन् समये अधिका उष्णता न भवति
(iv) जोधपुरनगरमपि ऐतिहासिक महत्त्वं धारयति
(v) जनपदे अस्मिन् तनोटमातुः मन्दिरं वर्तते
उत्तरम्:
पाठ-परिचय
[प्रस्तुत पाठ में मित्र के प्रति लिखे गये पत्र में राजस्थान-प्रदेश का पर्यटन की दृष्टि से महत्त्व बतलाते हुए यहाँ के विविध दर्शनीय स्थलों का, ऋतुओं के अनुकूल भ्रमण योग्य स्थानों को तथा यहाँ की अन्य विशेषताओं का वर्णन किया गया है, इससे राजस्थान प्रदेश की विभिन्न जानकारी प्राप्त होती है।]
पाठ के कठिन
शब्दार्थ- श्रेष्ठतमम् (सर्वोत्तमम्) सर्वश्रेष्ठ। जनपदेषु (जिलासु)जिलों में। चिरकालात् (दीर्घकालात्) लम्बे समय से। प्रासादम् (भवनम्) हवेली। कासारः (सरोवरः) झील। शिरोमणिः (प्रमुख:) प्रमुख। उत्कृष्टानि (विशिष्टानि) विशेष। द्रष्टव्यम् (दर्शनीयम्) देखने योग्य।
पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्
(1)
पालीनगरतः
१४.१०.२०१५, बुधवासरः
प्रियमित्र मृदुल!
सेहेन नमस्कारः! अत्र कुशलं तत्रास्त। भवतः पत्रम् अद्यैव प्राप्तम्। ज्ञात्वा प्रसन्नता जाता यद भवतः सपरिवार भ्रमणार्थं राजस्थानम् आगमनस्य योजना अस्ति। भवान् राजस्थानस्य दर्शनीयस्थलाना विषये पृष्टवान् तद् विषये लिखामि। राजस्थानस्य प्रत्येकस्मिन् भागे। दर्शनीयानि स्थलानि सन्ति किन्तु दीपोत्सवस्य अवकाशे मारवाडक्षेत्रस्य भ्रमणम् आनन्देन भवति। यतो हि अस्मिन् समये अधिका उष्णता न भवति।
हिन्दी-अनुवाद
पालीनगर से
14.10.2015, बुधवार
प्रिय मित्र मृदुल !
स्नेहपूर्वक नमस्कार। यहाँ सब कुशल है, वहाँ भी सब कुशल होंगे। आपका पत्र आज ही प्राप्त हुआ। यह जानकर प्रसन्नता हुई कि आपकी परिवार सहित भ्रमण के लिए राजस्थान में आने की योजना है। आपने राजस्थान के दर्शनीय स्थानों के बारे में पूछा था, उस विषय में लिख रहा हूँ। राजस्थान के प्रत्येक भाग में दर्शनीय स्थान हैं, किन्तु दीपावली के अवकाश में मारवाड़ के क्षेत्र में भ्रमण करना आनन्ददायक होता है। क्योंकि इस समय में अधिक गर्मी नहीं होती है।
♦ पठितावबोधनम्
निर्देश:-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) मृदुलस्य का योजना अस्ति?
(ग) मृदुल: कस्मिन् विषये पृष्टवान्?
(घ) राजस्थानस्य प्रत्येकस्मिन् भागे कानि सन्ति?
(ङ) कदा मारवाडक्षेत्रस्य भ्रमणम् आनन्देन भवति?
(च) ‘अधिका उष्णता’-अत्र विशेषणं किम्?
(छ) ‘तत्रास्तु’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) राजस्थानस्य दर्शनीयस्थलानि।
(ख) मृदुलस्य सपरिवारं भ्रमणार्थं राजस्थानम् आगमनस्य योजना अस्ति।
(ग) मृदुलः राजस्थानस्य दर्शनीयस्थलानां विषये पृष्ट्वान्।
(घ) राजस्थानस्य प्रत्येकस्मिन् भागे दर्शनीयानि स्थलानि सन्ति।
(ङ) दीपोत्सवस्य अवकाशे मारवाड़क्षेत्रस्य भ्रमणम् आनन्देन भवति।
(च) अधिका।
(छ) तत्र। अस्तु।
(2)
राजस्थानं वीराणां वीराङ्गनानां च भूमिः अस्ति। अत्र विविधानि ऐतिहासिकस्थलानि अस्मभ्यं गौरवशालीतिहासस्य परिचयं कारयन्ति। जैसलमेरुनगरे स्थितं सोनारदुर्ग स्वर्णमयपीतपाषाणैः निर्मितम् अद्भुतं दुर्गम् अस्ति। जनपदे अस्मिन सीमावर्ति तनोटमातुः मन्दिरं तु सर्वेषां भारतीयानां मनसि देशं प्रति गौरवभावमुत्पादयति। भारतीयैः साकं वैदेशिकाः अत्रागत्य पटवाप्रासादान्, थारमरुस्थलं, भादरियास्थाने स्थितं बृहत्तमं पुस्तकालयं रामदेवरास्थानं च प्रतिवर्ष पश्यन्ति। विश्वविख्यातम् आणविकपरीक्षणनगरं पोकरणस्य समीपस्थं खेतोलाईस्थानमपि जैसलमेरुजनपदे दर्शनीयमेव अस्ति।
हिन्दी-अनुवाद-राजस्थान वीरों और वीराङ्गनाओं की भूमि है। यहाँ के विभिन्न ऐतिहासिक स्थल हमें। गौरवशाली इतिहास का परिचय कराते हैं। जैसलमेर नगर में स्थित सोनार दुर्ग (किला) सोने के सम्मान पीले पत्थरों से निर्मित अद्भुत दुर्ग (किला) है। इस जिले। में सीमा पर स्थित तनोट माता का मन्दिर तो सभी भारतीय लोगों के मन में देश के प्रति गौरव का भाव उत्पन्न करता है। भारतीय लोगों के साथ ही विदेशी लोग भी यहाँ आकर पटवाओं की हवेलियों (भवनों) को, थार के रेगिस्तान को, भादरिया नामक स्थान पर स्थित विशाल पुस्तकालय को और रामदेवरा स्थान को प्रतिवर्ष देखते हैं। विश्वविख्यात अणु बम के परीक्षण नगर भोकरण के समीप स्थित खेतोलाई नामक स्थान भी जैसलमेर जिले में दर्शनीय ही है।
♦ पठितावबोधनम्
निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) कानि अस्मभ्यं गौरवशालीतिहासस्य परिचयं कारयन्ति?
(ग) सोनारदुर्ग कैः निर्मितम् कीदृशञ्चास्ति?।
(घ) तनोटमातुः मन्दिरं भारतीयानां मनसि किम् उत्पादयति?
(ङ) पोकरणस्य समीपस्थं किम् दर्शनीयमेव अस्ति?
(च) ‘भारतीयैः साकम्’–रेखाङ्कितपदे का विभक्तिः? किं वचनम्?
(छ) “पश्यन्ति’ पदे क: लकार:? किं वचनम्?
उत्तर:
(क) राजस्थानस्य जैसलमेरुनगरम्।
(ख) राजस्थानस्य विविधानि ऐतिहासिकस्थलानि अस्मभ्यं गौरवशालीतिहासस्य परिचयं कारयन्ति।
(ग) सोनारदुर्ग स्वर्णमयीपीतपाषाणै: निर्मितम्, अद्भुतं चास्ति।
(घ) तनोटमातु: मन्दिरं भारतीयानां मनसि देशं प्रति गौरवभावमुत्पादयति।
(ङ) पोकरणस्य समीपस्थं खेतोलाईस्थानम् दर्शनीयमेव अस्ति।
(च) तृतीया, बहुवचनम्।
(छ) लट्लकारः, बहुवचनम्।
(3)
सूर्यनगरीरूपेण प्रसिद्धं जोधपुरनगरमपि ऐतिहासिक महत्त्वं धारयति। मारवाडराज्यस्य राजधानीरूपेण प्रसिद्धेऽस्मिन् नगरे मेहरानगढ़दुर्ग, राजस्थानस्य ताजमहलरूपेण प्रसिद्धं जसवन्तथड़ा नामक स्थानं, कायलानाकासारः, मण्डोरोद्यानं च इत्यादीनि स्थलानि सन्ति। वीरशिरोमणेः प्रतापस्य मातुलगृहं पालीनगरमेवास्ति। पालीजनपदे परशुराममहादेवस्य मन्दिरं, स्थापत्यदृष्ट्या विश्वप्रसिद्धं रणकपुरजैनमन्दिरम् अपि विद्यते। एवमुच्यते यत् अस्मिन् जैनमन्दिरे निर्मितानां स्तम्भाना गणनापि दुष्करं वर्तते।
हिन्दी-अनुवाद-सूर्यनगरी के रूप में प्रसिद्ध जोधपुर नगर भी ऐतिहासिक महत्त्व को धारण करता है। मारवाड़। राज्य की राजधानी के रूप में प्रसिद्ध इस नगर में मेहरानगढ़ का किला, राजस्थान के ताजमहल के रूप में प्रसिद्ध जसवन्तधड़ा नामक स्थान, कायलाना झील और मण्डोर उद्यान आदि स्थान हैं। वीर शिरोमणि प्रताप के मामा का घर पाली नगर ही है। पाली जिले में परशुराम महादेव का मन्दिर और स्थापत्य की दृष्टि से विश्व-प्रसिद्ध रणकपुर का जैन मन्दिर भी है। ऐसा कहा जाता है कि इस जैन मन्दिर में निर्मित स्तम्भों (खम्भों) की गिनती करना भी कठिन है।
♦ पठितावबोधनम्।
निर्देशः–उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) जोधपुरनगरं कस्य राजधानीरूपेण प्रसिद्धम्?
(ग) राजस्थानस्य ताजमहलरूपेण प्रसिद्धं स्थानं किम्?
(घ) पालीनगरं कस्य मातुलगृहम् अस्ति?
(ङ) रणकपुरजैनमन्दिरे केषां गणनापि दुष्करं वर्तते?
(च) ‘मण्डोरोद्यानम्’ पदस्य सन्धिविच्छेदं कुरुत।
(छ) ‘इत्यादीनि स्थलानि’–अत्र विशेषणं किम्?
उत्तर:
(क) सूर्यनगरी जोधपुरम्।
(ख) जोधपुरनगरं मारवाडराज्यस्य राजधानीरूपेण प्रसिद्धम्।
(ग) राजस्थानस्य ताजमहलरूपेण प्रसिद्धं जसन्वतधड़ा नामकं स्थानं वर्तते।
(घ) पालीनगरं महाराणाप्रतापस्य मातुलगृहम् अस्ति।
(ङ) रणकपुरजैनमन्दिरे निर्मितानां स्तम्भानां गणनापि दुष्करं वर्तते।
(च) मण्डोर + उद्यानम्।
(छ) इत्यादीनि।
(4)
मारवाडतः अतिरिक्तं मेवाडक्षेत्रमपि भ्रमणार्थं गन्तुं शक्यते। उदयपुरनगरे दुर्गंः, स्तम्भैः, कासारैः च नवनिर्मितम् प्रतापगौरवकेन्द्र विशेषरूपेण द्रष्टव्यमस्ति। अनेन साधं आबूपर्वतः, जयप्रक्षेत्र, घानापक्षीविहारः, उत्कृष्टानि विभिन्नमन्दिराणि रणथम्भौरेत्यादीनि अभयारण्यानि च दर्शनीयानि सन्ति। एतेषां दर्शनादेव मनसि आनन्दः गौरवभावं च जायते।
हिन्दी-अनुवाद-मारवाड़ के अलावा मेवाड़ के क्षेत्र में भी भ्रमण के लिए जा सकते हैं। उदयपुर नगर में विभिन्न दुर्ग (किले), स्तम्भ, झीलें और नवनिर्मित प्रताप गौरव केन्द्र विशेष रूप से देखने योग्य हैं। इसी के साथ आबू पर्वत, जयपुर क्षेत्र, घाना पक्षी विहार, अत्यधिक श्रेष्ठ (प्रसिद्ध) विभिन्न मन्दिर और रणथम्भौर अभयारण्य आदि देखने योग्य हैं। इनको देखने से ही मन में आनन्द और गौरव का भाव उत्पन्न होता है।
♦ पठितावबोधनम्
निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) प्रतापगौरवकेन्द्र कुत्र वर्तते?
(ग) क; पक्षीविहारः दर्शनीयः?
(घ) जयपुरक्षेत्र पर्यटनदृष्ट्या कीदृशं वर्तते?
(ङ) कस्मात् मनसि आनन्दः गौरवभावं च जायते?
(च) ‘विभिन्नमन्दिराणि’–अत्र विशेषणं किम्?
(छ) ‘दर्शनादेव’ पदस्य सन्धिविच्छेदं कुरुते।
उत्तर:
(क) दर्शनीयं मेवाडक्षेत्रम्।
(ख) प्रतापगौरवकेन्द्रम् उदयपुरनगरे वर्तते।
(ग) घानापक्षीविहार: दर्शनीय: अस्ति।
(घ) जयपुरक्षेत्र पर्यटनदृष्ट्या दर्शनीयम् अस्ति।
(ङ) विविधदर्शनीयस्थलानां दर्शनादेव मनसि आनन्दः गौरवभावं च जायते।
(च) विभिन्न।
(छ) दर्शनात् + एव।
(5)
एवमेव विश्वस्य प्राचीनतमा अरावलीपर्वतमाला राजस्थानं द्विभागयोः विभक्तं करोति। अत्रत्या विशिष्टा लोकसंस्कृतिः सामाजिकरीतयः नृत्यानि च जनान् आकर्षयन्ति। वैदेशिकाः पर्यटकाः अपि गौरवशाली राजस्थानं नमन्ति।
अतः भवान् अवश्यमेव राजस्थानम् आगच्छतु। भवान् यस्मिन् भागे भ्रमितुमिच्छति तस्य योजनाविषये शीघ्रमेव सूचयतु। परिवारे ज्येष्ठेभ्यः प्रणामाः निवेदयतु।
भवतः आगमनस्य प्रतीक्षायाम्।
भवतः मित्रम्
अजयः
हिन्दी-अनुवाद-इसी प्रकार संसार की सबसे प्राचीन अरावली पर्वतमाला राजस्थान को दो भागों में विभाजित करती है। यहाँ की विशेष लोक-संस्कृति, सामाजिक रीतियाँ और नृत्य लोगों को आकर्षित करती हैं। विदेशी पर्यटक भी गौरवशाली राजस्थान को नमन करते हैं।
इसलिए आप अवश्य ही राजस्थान आइए। आप जिस भाग में भ्रमण करना चाहते हैं, उसकी योजना के विषय में शीघ्र ही सूचित करें। परिवार में बड़ों के लिए प्रणाम निवेदन करना।
आपके आने की प्रतीक्षा में।
आपका मित्र
अजय
♦ पठितावबोधनम्
निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) का राजस्थानं द्विभागयो: विभक्तं करोति?
(ग) वैदेशिका: पर्यटकाः अपि कम् नमन्ति?
(घ) अजय: केभ्य: प्रणामाः निवेदयति?
(ङ) प्रस्तुतपत्र केन कम् प्रति लिखितम्?
(च) ‘आगच्छतु’ पदे क: लकार:? किं वचनम्?
(छ) अत्रत्याः लोकसंस्कृति: कान् आकर्षयति?
उत्तर:
(क) गौरवशाली राजस्थानम्।
(ख) अरावलीपर्वतमाला राजस्थानं द्विभागयोः विभक्तं करोति।
(ग) वैदेशिका पर्यटका; अपि गौरवशालिं राजस्थानं नमन्ति।
(घ) अजय: ज्येष्ठेभ्यः प्रणामाः निवेदयति।
(ङ) प्रस्तुतपत्रं अजयेन स्वमित्रं मृदुलं प्रति लिखितम्।
(च) लोट्लकारः, एकवचनम्।
(छ) अत्रत्या: लोकसंस्कृति; जनान् आकर्षयति।