RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

संस्कृत कथा-साहित्य अत्यधिक समृद्ध है। इनमें अनेक नीतिकथाओं का संग्रह है। उनमें से कुछ प्रसिद्ध कथाएँ यहाँ क्रमरहित वाक्यों में अति संक्षेप में दी गई हैं। उन कथा-वाक्यों को क्रमपूर्वक जोड़कर घटनाक्रम संयोजन का पाठ्यक्रम के अनुसार रचनात्मक कौशल के विकास के लिए अभ्यास करना चाहिए। यहाँ छात्रों के अभ्यासार्थ कुछ महत्त्वपूर्ण घटनाक्रम-संयोजन दिये जा रहे हैं।
घटनाक्रम-संयोजन :
प्रश्न 1.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत –
- घटे जलम् अल्पम् आसीत्।
- तस्य मस्तिष्के एकः विचारः समागतः।
- एकः पिपासितः काकः आसीत्।
- सः पाषाणखण्डानि घटे अक्षिपत्, जलं च उपरि आगतम्।
- सः वने एकं घटम् अपश्यत्।
- जलं पीत्वा काकः ततः अगच्छत्।
उत्तरम् :
कथाक्रम-संयोजनम्
- एकः पिपासितः काकः आसीत्।
- सः वने एकं घटम् अपश्यत्।
- घटे जलम् अल्पम् आसीत्।
- तस्य मस्तिष्के एकः विचारः समागतः।
- सः पाषाणखण्डानि घटे अक्षिपत, जलं च उपरि आगतम्।
- जलं पीत्वा काकः ततः अगच्छत्।
प्रश्न 2.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत –
- मूषकः परिश्रमेण जालम् अकृन्तत्।
- एकदा स: जाले बद्धः।
- सिंहः जालात्-मुक्तः भूत्वा मूषकं प्रशंसन् गतवान्।
- एकस्मिन् वने एकः सिंह: वसति स्म।
- सः सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः।
- तदा तस्य स्वरं श्रुत्वा एकः मूषकः तत्र आगच्छत्।
उत्तरम् :
क्रम-संयोजनम्
- एकस्मिन् वने एकः सिंह: वसति स्म।
- एकदा सः जाले बद्धः।
- सः सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः।
- तंदा तस्य स्वरं श्रुत्वा एकः मूषकः तत्र आगच्छत्।
- मूषकः परिश्रमेण जालम् अकृन्तत्।
- सिंह: जालात्-मुक्तः भूत्वा मूषकं प्रशंसन् गतवान्।
प्रश्न 3.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत –
- तदा तस्य मुखस्था रोटिका अपि जले पतति।
- एकदा कश्चित् कुक्कुरः एकां रोटिकां प्राप्नोत्।
- तदाः सः नदीजले स्वप्रतिबिम्बम् अपश्यत्।
- सः कुक्कुरः रोटिकां प्राप्तुं तेन सह युद्धार्थ मुखम् उद्घाटयति।
- सः रोटिकां मुखे गृहीत्वा गच्छन् आसीत्।
- स्वप्रतिबिम्बम् अन्यं कुक्कुरं मत्वा सः तस्य रोटिकां प्राप्तुम् अचिन्तयत्।
- अत एव कथ्यते ‘लोभः न करणीयः।’
उत्तरम् :
कथाक्रमस्य-संयोजनम्
- एकदा कश्चित् कुक्कुरः एकां रोटिकां प्राप्नोत्।
- सः रोटिकां मुखे गृहीत्वा गच्छन् आसीत्।
- तदाः सः नदीजले स्वप्रतिबिम्बम् अपश्यत्।
- स्वप्रतिबिम्बम् अन्यं कुक्कुरं मत्वा सः तस्य रोटिकां प्राप्तुम् अचिन्तयत्।
- सः कुक्कुरः रोटिकां प्राप्तुं तेन सह युद्धार्थं मुखम् उद्घाटयति।
- तदा तस्य मुखस्था रोटिका अपि जले पतति।
- अत एव कथ्यते ‘लोभः न करणीयः।’
प्रश्न 4.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत –
- एकः बुभुक्षितः शृगालः भोजनार्थं वने इतस्ततः भ्रमति स्म।
- लतायां बहूनि पक्वानि द्राक्षाफलानि आसन्।
- पर तथापि द्राक्षाफलानि न प्राप्नोत्।
- एकस्मिन् स्थाने सः द्राक्षालतां पश्यति।
- “एतानि द्राक्षाफलानि अम्लानि” इति उक्त्वा कुपितः शृगालः ततः गतः।
- तानि खादितुं सः नैकवारं प्रयासम् अकरोत्।
उत्तरम् :
कथाक्रमस्य-संयोजनम्।
- एकः बुभुक्षितः शृगालः भोजनार्थं वने इतस्ततः भ्रमति स्म।
- एकस्मिन् स्थाने स: द्राक्षालतां पश्यति।
- लतायां बहूनि पक्वानि द्राक्षाफलानि आसन्।
- तानि खादितुं स: नैकवारं प्रयासम् अकरोत्।
- परं तथापि द्राक्षाफलानि न प्राप्नोत्।
- “एतानि द्राक्षाफलानि अम्लानि” इति उक्त्वा कुपितः शृगालः ततः, गतः।
प्रश्न 5.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत –
- सः प्रतिदिनं बहन पशन हत्वा खादति स्म।
- एकदा यदा शशकस्य क्रमः आगतः, तस्य विलम्बागमनेन सिंहः कुपितः जातः।
- सिंहः जले स्वप्रतिबिम्बं दृष्ट्वा तस्मिन् कूपे अकूर्दत्।
- कस्मिंश्चित् वने एक: सिंहः वसति सम।
- तदा सर्वे पशवः विचारं कृत्वा प्रतिदिनं सिंहस्य पार्वे भोजनार्थम् एकं पशुं प्रेषयितुं निश्चितवन्तः।
- तदा चतुरः शशक: सिंह कूपस्य समीपम् अनयत्।
- अत: लोके प्रसिद्ध ‘बुद्धिर्यस्य बलं तस्य’ इति।
उत्तरम् :
कथाक्रमस्य-संयोजनम्।
- कस्मिंश्चित् वने एकः सिंहः वसति स्म।
- सः प्रतिदिनं बहून् पशून् हत्वा खादति स्म।
- तदा सर्वे पशवः विचारं कृत्वा प्रतिदिनं सिंहस्य पार्वे भोजनार्थम् एकं पशुं प्रेषयितुं निश्चितवन्तः।
- एकदा यदा शशकस्य क्रमः आगतः, तस्य विलम्बागमनेन सिंहः कुपितः जातः।
- तदा चतुरः शशकः सिंह कूपस्य समीपम् अनयत्।
- सिंहः जले स्वप्रतिबिम्बं दृष्ट्वा तस्मिन् कूपे अकूर्दत्।
- अत: लोके प्रसिद्ध ‘बुद्धिर्यस्य बलं तस्य’ इति।
प्रश्न 6.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत –
- वन्यजन्तुषु तस्य आधिपत्यम् अभवत्।
- सर्वे शृगाला: महाशब्दं कृतवन्तः।
- शृगालः वनात् नगरम् आगतः।
- शृगालः उत्थाय वनं प्रति पलायितः।
- शृगालः नीलीभाण्डे पतितः।
- सः अन्यान् शृगालान् दूरं कृतवान्।
उत्तरम् :
क्रमानुसारं वाक्यानि
- शृगालः वनात् नगरम् आगतः।
- शृगालः नीलीभाण्डे पतितः।
- वन्यजन्तुषु तस्य आधिपत्यम् अभवत्।
- स: अन्यान् शृगालान् दूरं कृतवान्।
- सर्व शृगाला; महाशब्दं कृतवन्तः।
- शृगालः उत्थाय वनं प्रति पलायितः।
प्रश्न 7.
अधोलिखितवाक्यानि क्रम रहितानि सन्ति। यथा क्रम संयोजनं कृत्वा लिखत। (कथा दृष्ट्या) –
- नद्याः तटे फलोपेतः जम्बूवृक्षः आसीत्।
- मकरः वानरेण पातितानि मधुरफलानि आस्वाद्य अचिन्तयत्।
- तस्य शाखायां वानरः वसति स्म।
- वानरः मकरस्य प्रयासं बुद्धि चातुर्येण विफलोकृतवान्।
- एकदा एकः मकरः नद्यां वसति स्म।
- “फलानि अतिमधुराणि” अतः वानर हृदयन्तु अतीव मधुरं स्यात् अतः वानर हृदयं खादामि।
उत्तरम् :
वाक्यानि
- एकदा एकः मकर: नद्यां वसति स्म।
- नद्याः तटे फलोपेत: जम्बूवृक्षः आसीत्।
- तस्य शाखायां वानरः वसति स्म।
- मकरः वानरेण पातितानि मधुरफलानि आस्वाद्य अचिन्तयत्।
- “फलानि अतिमधुराणि” अत: वानर हृदयन्तु अतीव मधुरं स्यात् अतः वानरहृदयं खादामि।
- वानरः मकरस्य प्रयासं बुद्धिचातुर्येण विफलीकृतवान्।
प्रश्न 8.
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत (कथा दृष्ट्या) –
- एकदा कश्चित् प्रमत्तः गजः तत्र आगतवान्।
- अथ सा चटका व्यलपत्।
- चटकायाः नीडं भुवि अपतत्, तेन अण्डानि विशीर्णानि।
- पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म।
- कालेन तस्याः सन्तति: जाता।
- वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्।
उत्तरम् :
वाक्यानि
- पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म।
- कालेन तस्याः सन्ततिः जाता।
- एकदा कश्चित् प्रमत्तः गजः तत्र आगतवान्।
- वक्षस्य अधः आगत्य तस्य शाखां शण्डेन अत्रोटयत।
- चटकाया: नीडं भुवि अपतत्, तेन अण्डानि विशीर्णानि।
- अथ सा चटका व्यलपत्।
प्रश्न 9.
अधोलिखितानि वाक्यानि क्रम रहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- एकदा प्रातः शृगालः वकम् अवदत्-श्वं त्वं मया सह भोजनं कुरु।
- कुटिलः शृगालः स्थाल्यां वकाय क्षीरोदनम् अयच्छत्।
- एकस्मिन् वने शृगालः वकः च निवसतः स्म।
- भोजनकाले वकस्य चञ्चः स्थालीतः भोजनग्रहणे समर्था न अभवत्।
- सः वक: भोजनाय अग्रिमदिने शृगालस्य निवासम् अगच्छत्।
- वकः केवलं क्षीरोदनम् अपश्यत् तु शृगालः सर्वम् अभक्षयत्।
उत्तरम् :
- एकस्मिन् वने शृगालः वकः च निवसतः स्म।
- एकदा प्रातः शृगालः वकम् अवदत्-श्वं त्वं मया सह भोजनं कुरु।
- सः वकः भोजनाय अग्रिमदिने शृगालस्य निवासम् अगच्छत्।
- कुटिलः शृगालः स्थाल्यां वकाय क्षीरोदनम् अयच्छत्।
- भोजनकाले वकस्य चञ्चुः स्थालीतः भोजनग्रहणे समर्था न अभवत्।
- वकः केवलं क्षीरोदनम् अपश्यत् तु शृगालः सर्वम् अभक्षयत्।
प्रश्न 10.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- औषधं खादित्वा पुत्रः नीरोग अभवत्।
- एकस्मिन् ग्रामे एका माता निवसति स्म।
- माता स्वपुत्रं माधवं चिकित्सालयं नीतवती।
- तस्याः माधव: नामकः पुत्रः आसीत्।
- चिकित्सक: माधवाय औषधं दत्तवान्।
- एकदा माधवः ज्वरपीडितः अभवत्।
उत्तरम् :
- एकस्मिन् ग्रामे एका माता निवसति स्म।
- तस्याः माधव: नामकः पुत्रः आसीत्।
- एकदा माधवः ज्वरपीडितः अभवत्।
- माता स्वपुत्रं माधवं चिकित्सालयं नीतवती।
- चिकित्सकः माधवाय औषधं दत्तवान्।
- औषधं खादित्वा पुत्रः नीरोग अभवत्।
प्रश्न 11.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- परं स: पूर्णशान्तिं नालभत्।
- अन्ततः एकस्मिन् वटवृक्षात् मूले सः महाबोधम् अलभत्।
- महात्मा बुद्ध: एकस्यां रात्रौं गृहं त्यक्त्वा निर्गतः।
- तदारभ्य स: बुद्धनाम्ना प्रख्यातः अभवत्।
- स इतस्ततः वने अभ्रमत्।
- एकदा सः पञ्चमित्रैः सह षड्वर्ष पर्यन्तम् अतपत्।
उत्तरम् :
- महात्मा बुद्धः एकस्यां रात्रौ गृहं त्यक्त्वा निर्गतः।
- स इतस्ततः वने अभ्रमत्।
- परं सः पूर्णशान्तिं नालभत्।
- एकदा सः पञ्चमित्रैः सह षड्वर्ष पर्यन्तम् अतपत्।
- अन्ततः एकस्मिन् वटवृक्षात् मूले सः महाबोधम् अलभत्।
- तदारभ्य स: बुद्धनाम्ना प्रख्यातः अभवत्।
प्रश्न 12.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- परन्तु सः अकथयत्-मम जीवनं तु दुःखिनामुपकाराय एवास्ति।
- इदं श्रुत्वा सर्वे अमात्याः अप्रसन्नाः अभवन्।
- शिविः नाम राजा दयालुः दानी चासीत्।
- तेन प्रसन्नो भूत्वा शक्रः तस्मै वरम् अयच्छत्।
- सः नेत्रद्वयं दातुम् उद्यतः अभवत्।
- एकदा शक्रः विप्ररूपेण तत्र आगत्य कथयति-एकस्य नेत्रस्य दानमिच्छामि।
उत्तरम् :
- शिविः नाम राजा दयालुः दानी चासीत्।
- एकदा शक्रः विप्ररूपेण तत्र आगत्य कथयति-एकस्य नेत्रस्य दानमिच्छामि।
- स नेत्रद्वयं दातुम् उद्यतः अभवत्।
- इदं श्रुत्वा सर्वे अमात्याः अप्रसन्नाः अभवन्।
- परन्तु सः अकथयत्-मम जीवनं तु दुःखिनामुपकाराय एवास्ति।
- तेन प्रसन्नो भूत्वा शक्रः तस्मै वरम् अयच्छत्।
प्रश्न 13.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- सः मित्रं मारयितुं सर्पयुक्तं कलशं तस्य गृहे अक्षिपत्।
- प्रच्छन्नभाग्यः कृषकस्य क्षेत्रे हलकार्यं कर्तुं आरभत्।
- सर्पः बहिः निर्गत्य दुष्टबुद्धिमेव दृष्टवान्।
- किन्तु दुष्टबुद्धिः तस्य गेहे चौरकर्म कर्तुम् आगच्छत्।
- तौ धनहरणार्थं ग्रामान्तरं गतौ।
- प्रच्छन्नभाग्यः दुष्टबुद्धिः च द्वे मित्रे आस्ताम्।

- प्रच्छन्नभाग्यः कृषकस्य क्षेत्रे हलकार्यं कर्तुम् आरभत।
- किन्तु दुष्टबुद्धिः तस्य गेहे चौरकर्म कर्तुम् आगच्छत्।
- स: मित्रं मारयितुं सर्पयुक्तं कलशं तस्य गृहे अक्षिपत्।
- सर्पः बहिः निर्गत्य दुष्टबुद्धिमेव दृष्टवान्।
प्रश्न 14.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- सः शिलाखण्डानि आदाय घटे शनैः शनैः निक्षिपति।
- पिपासया व्याकुलः सः जलम् अन्वेषयति।
- एकः चञ्चलः काकः आसीत्।
- जलम् उपरि आगच्छति, सः जलं पीत्वा गच्छति।
- सः एकं घटं पश्यति, किन्तु घटे अल्पं जलं आसीत्।
- एकदा ग्रीष्मे सः सुदूरं निर्गतः।

प्रश्न 15.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- सः गृहात् निर्गत्य वने कठिनं तपः अकरोत्।
- तत्र स एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्।
- राज्ञः शुद्धोदनस्य सुपुत्रः सिद्धार्थः आसीत्।
- तपसः प्रभावात् सः बुद्धः अभवत्।
- एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्।
- एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्।
उत्तरम् :
- राज्ञः शद्धोदनस्य सपत्रः सिद्धार्थः आसीत।
- एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्।
- तत्र सः एकं वृद्ध, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्।
- एतान् दृष्ट्वा तस्य.मनसि वैराग्य
- सः गृहात् निर्गत्य वने कठिनं तपः अकरोत्।
- तपसः प्रभावात् सः बुद्धः अभवत्।
प्रश्न 16.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।
- वृद्धः कृषकः स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
- अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्।
- ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्।
- एकस्य कृषकस्य चत्वारः पुत्राः अलसाः आसन्।
- ते निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्, परं सुगुप्तं धनं न लब्धम्।
उत्तरम् :
- एकस्य कृषकस्य चत्वारः पुत्राः अलसाः आसन्।
- ते कृषिकायें पितुः सहयोगं न अकुर्वन्।
- वृद्धः कृषक: स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
- ते निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्, परं सुमुप्तं धनं न लब्धम्।
- निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।
- अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्।
प्रश्न 17.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- श्रेष्ठी कथयति-त्वं नवीनं घटिकायन्त्रं क्रीणीष्व अहं वा नवीनं कर्मचारिणं नियोजयिष्यामि।
- एकदा सः विलम्बेन कार्यालयम् आगच्छत्। .
- कर्मचारी क्षमाम् अयाचत-अहं कदापि विलम्बेन न आयास्यामि।
- तस्य कर्मचारिषु एकः काल-पालनं प्रति उदासीनः आसीत्।
- विलम्बस्य कारणं पृष्टे सति सः कथयति यत्-मे घटिकायन्त्रं विलम्बेन चलति।
- एकः श्रेष्ठी नियमपालने दृढः आसीत्।

- एकदा सः विलम्बेन कार्यालयम् आगच्छत।
- विलम्बस्य कारणं पृष्टे सति सः कथयति यत्-मे घटिकायन्त्रं विलम्बेन चलति।
- श्रेष्ठी कथयति-त्वं नवीनं घटिकायन्त्रं क्रीणीष्व अहं वा नवीनं कर्मचारिणं नियोजयिष्यामि।
- कर्मचारी क्षमाम् अयाचत-अहं कदापि विलम्बेन न आयास्यामि।
प्रश्न 18.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- बकः कलशात् चञ्च्वा क्षीरोदनं खादति।
- बकः केवलं क्षीरोदनं पश्यति।
- शृगालः च केवलम् ईर्ष्णया पश्यति।
- कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति।
- एकस्मिन वने शृगालः बकः च निवसतः स्म।
- बकस्य निमन्त्रेण शृगालः प्रसन्नः अभवत्।
उत्तरम् :
- एकस्मिन् वने शृगालः बकः च निवसतः स्म।
- कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति।
- बकः केवलं क्षीरोदनं पश्यति।
- बकस्य निमन्त्रणेन शृगालः प्रसन्नः अभवत्।
- बकः कलशात चञ्च्वा क्षीरोदनं खादति।
- शृगालः च केवलम् ईय॑या पश्यति।
प्रश्न 19.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्।
- बाल्यबन्धुः वासुदेवः तस्य आलिङ्गनम् अकरोत्।
- दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्।
- श्रीकृष्णः सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्।
- द्वाररक्षकाः तं राजसभाम् अनयन्।
- सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्।

प्रश्न 20.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्।।
- वानरः व्यजनेन तम् अवीजयत्।
- एकस्य नृपस्य एकः प्रियः वानरः आसीत्।
- मक्षिका तु उड्डीय दूरं गता किन्तु खड्गेन नृपस्य नासिका छिन्ना अभवत्।
- तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्।
- एकदा नृपः सुप्तः आसीत्।

- स: मक्षिका हन्तुं खड्गेन प्रहारम् अकरोत्।
- मक्षिका तु उड्डीय दूरं गता किन्तु खड्गेन नृपस्य नासिका छिन्ना अभवत्।
प्रश्न 21.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- व्याघ्रः तं तुच्छजीवं मत्वा हसति।
- तत्र एकः मूषकः समागच्छत्।।
- मूषकः स्वस्य लघुदन्तैः तजालस्य कर्तनं कृत्वा व्याघ्र बहिः कृतवान्।
- एकदा व्याधेन विस्तारिते जाले एक: व्याघ्रः बद्धः अभवत्।
- मूषकः व्याघ्रस्य सहायतां कर्तुं कथयति।
- सः बहुप्रयत्नं कृत्वाऽपि जालात् मुक्तः नाभवत्।
उत्तरम् :
- एकदा व्याधेन विस्तारिते जाले एकः व्याघ्रः बद्धः अभवत्।
- सः बहुप्रयत्नं कृत्वाऽपि जालात् मुक्तः नाभवत्।
- तत्र एकः मूषकः समागच्छत्।
- मूषक: व्याघ्रस्य सहायतां कर्तुं कथयति।
- व्याघ्रः तं तुच्छजीवं मत्त्वा हसति।
- मूषकः स्वस्य लघुदन्तैः तजालस्य कर्तनं कृत्वा व्याघ्र बहिः कृतवान्।
प्रश्न 22.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- अनेन अन्येऽपि पशवः भयभीताः अभवन्।
- इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्।
- तदहम् अस्य आह्वानं करोमि।
- शृगालोऽपि ततः दूरं पलायितः।
- सिंहस्य उच्चगर्जनप्रतिध्वनिना सा गुहा शृगालम् आह्वयत्।
- एवं सः बिले प्रविश्य मे भोज्यं भविष्यति।

- अनेन अन्येऽपि पशव: भयभीताः अभवन्।
- शृगालोऽपि ततः दूरं पलायितः।
प्रश्न 23.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- न्यायाधीशः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
- समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।
- भोः! नास्ति सां, त्वदीया तुला मूषकैर्भक्षिता।
- तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।
- जीर्णधनः स्वस्य लौहतुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
- नदीतटात् सः पुत्रः श्येनेन हृतः।

- भोः! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता।
- नदीतटात् सः पुत्रः श्येनेन हृतः।
- समर्पय मे सुतम अन्यथा राजकुले निवेदयिष्यामि।
- तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।
- न्यायाधीशः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
प्रश्न 24.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- तेषां वचनं श्रुत्वा कूर्मः क्रुद्धः जातः।
- यदि त्वम् वदिष्यसि तदा तव मरणं निश्चितम्।
- अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।
- कूर्मः दण्डात् भूमौ पतितः। गोपालकैः सः मारितः।
- काष्ठदण्डे लम्बमानं कूर्म गोपालकाः अपश्यन्।
- किन्तु अत्र एकः अपायोऽपि वर्तते।
उत्तरम् :
- अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।
- किन्तु अत्र एकः अपायोऽपि वर्तते।
- यदि त्वम् वदिष्यसि तदा तव मरणं निश्चितम्।
- काष्ठदण्डे लम्बमानं कूर्म गोपालका: अपश्यन्।
- तेषां वचनं श्रुत्वा कूर्मः क्रुद्धः जातः।
- कूर्मः दण्डात् भूमौ पतितः। गोपालकैः सः मारितः।
प्रश्न 25.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- भीत: व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्।
- एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्।
- इत्थं व्याधः व्याघ्रात् स्वप्राणान् अरक्षत्।
- सः प्रतिदिनम् अरण्ये आखेटं करोति स्म।
- तदा अकस्मात् कश्चन् व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्।
- कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्।

प्रश्न 26.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः।
- एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरूढवान्।
- कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म।
- संन्यासी अकथयत्-तस्यां नौकायां कश्चित् दुष्टः आसीत् इति मन्ये।
- अकस्मात् नद्याम् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत्।
- नदीतीरे कश्चन् संन्यासी स्वशिष्यैः सह वसति स्म।

प्रश्न 27.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- तां मक्षिकां हन्तुं वानरः खड्गेन प्रहारम् अकरोत्।
- तस्मिन् काले एका मक्षिका नृपस्य नासिकायाम् उपाविशत्।
- एकस्मिन् नगरे एकस्य नृपस्य एकः वानरः अतीव प्रियः आसीत्।
- मक्षिका तु उड्डीय दूरम् अगच्छंत् किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्।
- तेन सः वानरः क्रुद्धः अभवत्।
- एकदा यदा नृपः सुप्तः आसीत् तदा वानरः व्यजनेन तम् अवीजयत्।
उत्तरम् :
- एकस्मिन् नगरे एकस्य नृपस्य एकः वानरः अतीव प्रियः आसीत्।
- एकदा यदा नृपः सुप्तः आसीत् तदा वानरः व्यजनेन तम् अवीजयत्।
- तस्मिन् काले एका मक्षिका नृपस्य नासिकायाम् उपाविशत्।
- तेन सः वानरः क्रुद्धः अभवत्।
- तां मक्षिकां हन्तुं वानरः खड्गेन प्रहारम् अकरोत्।
- मक्षिका तु उड्डीय दूरम् अगच्छत् किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्।
प्रश्न 28.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- तत्रागतः ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्, परन्तु सुरुचिः तं न्यवारयत्।
- सुनीतेः सूनुः ध्रुवः सुरुचेस्तु उत्तमः।
- पुरा उत्तानपादो नाम नृपः आसीत्।
- सा सगर्वम् अवदत्-“मम पुत्रः एव नृपतेः अङ्कम् आरोढुम् अर्हति।”
- तस्य द्वे भार्ये आस्ताम्-सुनीतिः सुरुचिः च।
- एकदा नृपः उत्तमम् अङ्के निधाय लालयन् आसीत्।
उत्तरम् :
- पुरा उत्तानपादो नाम नृपः आसीत्।
- तस्य द्वे भार्ये आस्ताम्-सुनीतिः सुरुचि: च।
- सुनीते: सूनुः ध्रुवः सुरुचेस्तु उत्तमः।
- एकदा नृपः उत्तमम् अङ्के निधाय लालयन् आसीत्।
- तत्रागतः ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्, परन्तु सुरुचिः तं न्यवारयत्।
- सा सगर्वम् अवदत्-“मम पुत्रः एव नृपतेः अङ्कम् आरोढुम् अर्हति।”
प्रश्न 29.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत –
- कश्चित् मकरः अपि तस्यां नद्यामवसत्।
- यः ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।
- एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म।
- एकदा तानि फलानि खादित्वा मकरस्य जाया अचिन्तयत्।
- सः नित्यं जम्बूफलानि खादति स्म।
- वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्।