RB 10 Sanskrit

RBSE Class 10 Sanskrit श्लोक लेखनम्

RBSE Class 10 Sanskrit श्लोक लेखनम्

Rajasthan Board RBSE Class 10 Sanskrit श्लोक लेखनम्

कक्षा X की परीक्षा में 2 ऐसे श्लोक लिखने के लिए आते हैं, जो प्रश्न पत्र में न आये हों । यहाँ पाठ्यपुस्तक के कतिपय सरल, सरस श्लोक दिए जा रहे हैं । छात्र कण्ठाग्र कर शुद्ध एवं सुपाठ्य लिखने का अभ्यास कर लें ।

संस्कृत श्लोक 10 वीं कक्षा 1. उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।

2. हिमालयात् समारभ्य यावदिन्दुसरोवरम् ।
तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते ।।

10th Class Sanskrit Shlok 3. गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूय: पुरुषाः सुरत्वात् ।।

4. सम्प्राप्य भारते जन्म सत्कर्मसु पराङ्मुखः।
पीयूष-कलशं हित्वा विषभाण्डमुपाश्रित:।।

Sanskrit Shlok 10th Class 5. एतद्देश-प्रसूतस्य सकाशादग्रजन्मनः।।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।।

6. अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।

10th Sanskrit Shlok 7. राष्ट्रदृष्टिं नमस्यामो राष्ट्रमङ्गलकारिणीम् ।
यया विना न पश्यन्ति राष्ट्र स्वनिकटस्थितम् ।।

8. समानसंस्कृतिमतां यावती पितृ-पुण्यभूः।
तवर्ती भुवमावृत्य राष्ट्रमेकं निगद्यते।।

सुभाषितानि श्लोक अर्थ सहित Class 10 9. पितृभूत्वं पुण्यभूत्वं द्वयं यस्य न विद्यते ।
तस्य स्वत्वं तंत्र राष्ट्रे भवितुं न किलार्हति ।।

10. राष्ट्रस्योत्थानपतने राष्ट्रियानवलम्ब्य हि।
भवतस्सर्वदा तस्माच्छिक्षणीयास्तु राष्ट्रियाः ।।

Class 10 Hindi Shlok 11. विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये।
शस्त्रेण रक्षिते राष्ट्र शास्त्रचर्चा प्रवर्तते ।

12. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढ: पाषाण-खण्डेषु रत्नसंज्ञा विधीयते ।।

Shlok In Sanskrit Class 10 13. प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ।।

14. गुणै: गौरवमायाति नोच्चैः आसनमास्थितः।
प्रासादशिखरस्थोऽपि काको न गरुडायते।।

Shlok In Sanskrit For Class 10 15. पात्रापात्र-विवेकोऽस्ति धेनुपन्नगयो: इव।
तृणात्संजायते क्षीरं क्षीरात्संजायते विषम् ।।

16. यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।।

Shlok 10th Class 17. अजरामवरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।।

18. धन-धान्य-प्रयोगेषु विद्याया: संग्रहेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।।

Class 10 Sanskrit Slokas With Meaning In Hindi 19. विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय।
खलस्य साधेर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय।।

20. खल: सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।।

21. शोकाराति-परित्राणां प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्।।

10th Class Hindi Shlok 22. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ।।

23. मरु: सुवर्णो न हि येन दृष्ट: किं तेन दृष्टं कुहचित् सुदृश्यम् ।
स्फुटं मरौ भान्ति सुमेरुशृङ्गाः शिलासु कृष्णासुन ते हि मृग्याः।।

Shlok Class 10 24. रम्ये क्वचित् सैकत-वप्र-सानौ सुकोमले भास्वति हैमवर्णे।
प्रात: प्रदोषे च सुखं स्थितानां केषां न चेतांसि विकासवन्ति ।।

25. स शीतलो गन्धवहः समीरः स तित्तिराणां मधुरो विरावः।।
तन्नर्तनं बर्हविभूषणानां समुत्प्लुति: सा च कुरङ्गमाणाम्।।

26. ते तुन्दिला: स्वादुरसाः कलिङ्गाः सा शारदी चञ्चलचन्द्रिका च।
स्फूर्तिः स्फुरन्ती स्फुरगावलीषु क्रमेलकानां गतयश्च तास्ताः ।।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *