RB 10 Sanskrit

RBSE Class 10 Sanskrit अपठित-अवबोधनम् अपठित गद्यांशः

RBSE Class 10 Sanskrit अपठित-अवबोधनम् अपठित गद्यांशः

RBSE Class 10 Sanskrit अपठित-अवबोधनम् अपठित गद्यांशः

(80-100 शब्दपरिमिताः सरल गद्यांशाः)

ध्यान देने योग्य बिन्दु-अपठित अवबोधन के अन्तर्गत दिये गये गद्यांश के प्रश्नों का उत्तर लिखने से पूर्व निम्नलिखित बातों का ध्यान रखना चाहिए –

  1. सर्वप्रथम दिए गए गद्यांश को ध्यानपूर्वक पढ़ना चाहिए।
  2. गद्यांश के भावार्थ को समझ लेना चाहिए।
  3. पूछे गये प्रश्नों के उत्तर लिखते समय सम्बन्धित वाक्य को गद्यांश में पुनः पढ़ना चाहिए तथा उस प्रश्न को सही ढंग से समझकर उत्तर खोजना चाहिए।
  4. व्याकरणात्मक प्रश्नों को हल करने से पूर्व सम्बन्धित वाक्य के प्रत्येक शब्द को ध्यानपूर्वक पढ़ना चाहिए। सर्वनाम के स्थान पर संज्ञा अथवा संज्ञा के स्थान पर सर्वनाम पदों के लिए सम्पूर्ण गद्यांश को ध्यानपूर्वक देखना चाहिए।
  5. इसी प्रकार कर्ता, क्रिया, विशेषण-विशेष आदि की पहचान भी सावधानी से करनी चाहिए।
  6. विभक्ति से सम्बन्धित प्रश्न के उत्तर के लिए सम्बन्धित वाक्य को पूरा पढ़ना चाहिए। यथा-‘रामः सीतायाः पतिरासीत्।’ यदि यहाँ पर ‘सीतायाः’ पद में विभक्ति से सम्बन्धित प्रश्न पूछा जाता है, तो षष्ठी विभक्ति ही लिखनी चाहिए पंचमी नहीं, क्योंकि दिये गये वाक्य का अर्थ षष्ठी विभक्ति में है, पंचमी में नहीं।

निर्देश: – अधोलिखितं गद्यांशं पठित्वा एतधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखत –

1. मातृभूमि प्रति प्रेम्णः त्यागस्य, आत्मोत्सर्गस्य, सर्वस्वार्पणस्य च नैके समुज्ज्वलाः पृष्ठाः राजस्थानस्य इतिहासे मिलन्ति परन्तु ‘रातीघाटी’ नामकस्य युद्धस्य उल्लेखः राजस्थानस्य इतिहासे लुप्तप्रायः वर्तते। बादशाह बाबर इत्यस्य पुत्रः (हुमायूँ: इत्यस्य अनुजः) कामरानः बीकानेरस्य राजा राव जैतसी च- इत्यनयोः द्वयोः मध्ये बीकानेरे घटितं महत्युद्धं भारतीय-शौर्यस्य गौरवशालिनी कथा अस्ति।

अस्य युद्धस्य तिथि: 26 ओक्टोबर् 1534 ए.डी. इत्यस्ति। भारतं जेतुम् लाहोरात् आगतः कामरानः पलायितः। तस्य शिरस्त्राणं (मुकुटम्) मध्येमार्ग ‘छोटड़िया’ ग्रामे पतितम्। अद्यापि तन्मुकुटम् तद्ग्रामे सुरक्षितम् अस्ति। अस्य रातीघाटी-युद्धस्य किञ्चिद् विस्तृतं वर्णनं ‘बीठू सूजा’ इत्यनेन रचिते ‘छन्द राव जैतसी रो’ इत्यस्मिन् ग्रन्थे वर्तते। अस्य च ग्रन्थस्य उद्धारं डॉ. एल. पी. टैस्सीटोरी अकरोत्।

[हिन्दी अनुवाद – मातृभूमि के प्रति प्रेम, त्याग, बलिदान और सर्वस्व न्यौछावर के अनेक उज्ज्वल पृष्ठ (लेख) राजस्थान के इतिहास में मिलते हैं, परन्तु ‘रातीघाटी’ नामक युद्ध का उल्लेख राजस्थान के इतिहास में लुप्त-प्रायः है। बादशाह बाबर का पुत्र (हुमायूँ का छोटा भाई) कामरान और बीकानेर के राजा राव जैतसी-इन दोनों के मध्य बीकानेर में हुए महायुद्ध की भारतीय-शौर्य की गौरवशाली कथा है।

इस युद्ध की तिथि 26 अक्टूबर, सन् 1534 ई. है। भारत को जीतने के लिए लाहोर से आया हुआ कामरान भाग गया। उसका मुकुट रास्ते के बीच ‘छोटड़िया’ गाँव में गिर गया था। आज भी वह मुकुट उस गाँव में सुरक्षित है। इस रातीघाटी के युद्ध का कुछ विस्तृत वर्णन ‘बीठू सूजा’ के द्वारा रचित ‘छन्द राव जैतसी रो’ नामक ग्रन्थ में है। और इस ग्रन्थ का उद्धार डॉ. एल.पी. टैस्सीटोरी ने किया था।]

एकपदेन उत्तरत –

प्रश्न 1.

(i) कामरानः कस्य पुत्रः आसीत् ?
(ii) राजा राव जैतसी कंस्य प्रदेशस्य राजा आसीत् ?
(iii) ‘रातीघाटी’ इति युद्धं कुत्र घटितम् ?
(iv) ‘छन्द राव जैतसी रो’ इत्यस्य ग्रन्थस्य रचयिता कः?
उत्तरम् :
(i) ‘बाबर’ इत्यस्य।
(ii) बीकानेरस्य।
(iii) बीकानेरे।
(iv) बीठू सूजा।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) राजस्थानस्य इतिहासे कस्य युद्धस्य उल्लेख: लुप्तप्रायः वर्तते?
(ii) ‘रातीघाटी’ इति महत्युद्धं कस्य गौरवशालिनी कथा अस्ति?
(iii) कामरानः किमर्थं लाहोरात् आगतः?
उत्तरम् :
(i) राजस्थानस्य इतिहासे ‘रातीघाटी’ नामकस्य युद्धस्य उल्लेखः लुप्तप्रायः वर्तते।
(ii) ‘रातीघाटी’ इति महत्युद्धं भारतीय-शौर्यस्य गौरवशालिनी कथा अस्ति।
(iii) कामरानः भारतं जेतुं लाहोरात् आगतः।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
‘रातीघाटी-युद्धम्।

प्रश्न 3.
उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – राजस्थानस्य इतिहासे मातृभूमिं प्रति प्रेम्णः, त्यागदीनां च वर्णनं तु बहुधा प्राप्यते, किन्तु भारतीयशौर्यस्य प्रतीकभूतस्य ‘रातीघाटी’ इति महत्युद्धस्य वर्णनं लुप्तप्रायः वर्तते। बाबरपुत्रः कामरानः बीकानेरस्य राजा राव जैतसी च-इत्यनयोः मध्ये घटितं युद्धमिदम्। युद्धेऽस्मिन् कामरानः पलायितः। अस्य युद्धस्य गौरवगाथायाः वर्णनं ‘छन्द राव जैतसी रो’ इति ग्रन्थे प्राप्यते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘पलायितः’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) हुमायूँ:
(ख) कामरानः
(ग) अकबरः
(घ) राव जैतसी
उत्तरम् :
(ख) कामरानः

प्रश्न 2.
‘पृष्ठाः’ इति विशेष्यपदस्य गद्यांशे विशेषणपदं किं प्रयुक्तम् ?
(क) प्रेम्णः
(ख) इतिहासे
(ग) विस्तृताः
(घ) समुज्ज्व ला:
उत्तरम् :
(घ) समुज्ज्व ला:

प्रश्न 3.
‘तस्य शिरस्त्राणम् ……’ इत्यत्र ‘तस्य’ इति सर्वनामपदस्थाने संज्ञापदं किम् ?
(क) कामरानस्य
(ख) बाबरस्य
(ग) हुमायोः
(घ) युद्धस्य
उत्तरम् :
(क) कामरानस्य

प्रश्न 4.
‘शिरस्त्राणम्” इत्यस्य पर्यायपदं किम्?
(क) उपवस्त्रम्
(ख) छत्रम्
(ग) मुकुटम्
(घ) खड्गम्
उत्तरम् :
(ग) मुकुटम्

2. डॉ. भीमराव-आम्बेडकरः संस्कृतं पठितुम् इष्टवान् आसीत्, परन्तु सः अस्पृश्यः इति कारणतः कश्चन संस्कृतज्ञः आम्बेडकरं संस्कृतं पाठयितुं निराकृतवान्-इति विषयः तु आम्बेडकर-महोदयस्य जीवनसम्बन्धि-पुस्तकेषु लिखितः अस्ति; सः विषयः तु प्रचारे अपि अस्ति। ‘भारतस्य राजभाषा संस्कृतं भवेत्’ इति संविधानसभायां संशोधन-प्रस्तावः आनीतः आसीत्, यस्य प्रस्तावस्य हस्ताक्षर-कर्तृषु प्रस्तावोपस्थापकेषु च डॉ. आम्बेडकरः अपि अन्यतमः आसीत्।

अयं विषयः अपि कतिपयवर्षेभ्यः पूर्वं ज्ञातः आसीत्। परम् इदानीं कश्चन नूतनः विषयः प्रकाशम् आगतः अस्ति। नवप्राप्त-प्रमाणैः ज्ञायते यत् डॉ. अम्बेडकरः न केवलं संस्कृतस्य राजभाषात्वं समर्थितवान्, न केवलं सः संस्कृतं जानाति स्म, अपितु सः संस्कृतेन भाषते स्म इति! यतः संविधानसभायां यदा राजभाषा-सम्बन्धे चर्चा प्रवर्तते स्म तदा डॉ. आम्बेडकरः पण्डितलक्ष्मीकान्त-मैत्रेण सह संस्कृतेन वार्तालापं कृतवान्। तत्सम्बन्धे तत्कालीनेषु वार्तापत्रेषु प्रमुखतया वार्ताः प्रकाशिताः आसन्।

[हिन्दी अनुवाद-डॉ. भीमराव अम्बेडकर संस्कृत पढ़ना चाहते थे, किन्तु वह अछूत (अस्पृश्य) है, इस कारण से किसी संस्कृत के ज्ञाता ने अम्बेडकर को संस्कृत पढ़ाने से मना कर दिया यह विषय अम्बेडकर-महोदय के जीवन से सम्बन्धित पुस्तकों में लिखा हुआ है और वह विषय प्रचार में भी है। भारत की राजभाषा संस्कृत होनी चाहिए’ यह संविधान सभा में संशोधन प्रस्ताव लाया गया था, जिस प्रस्ताव के हस्ताक्षर करने वालों में और प्रस्ताव के उपस्थापकों में डॉ. अम्बेडकर भी प्रमुख थे। यह विषय भी कुछ वर्षों पहले ही ज्ञात था।

किन्तु इस समय कोई नया विषय प्रकाश में आया है। नवीन प्राप्त प्रमाणों से ज्ञात हुआ है कि डॉ. अम्बेडकर ने न केवल संस्कृत का राजभाषा के रूप में समर्थन किया और न केवल वे संस्कृत जानते थे, अपितु वे संस्कृत में बोलते भी थे। क्योंकि संविधान सभा में जब राजभाषा के सम्बन्ध में चर्चा हुई थी, तब डॉ. अम्बेडकर ने पण्डित लक्ष्मीकान्त मैत्र के साथ संस्कृत में वार्तालाप किया था। उस सम्बन्ध में तत्कालीन समाचार-पत्रों में प्रमुख रूप से वार्ताएँ प्रकाशित हुई थीं।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) डॉ. आम्बेडकर: केन सह संस्कृतेन वार्तालापं कृतवान् ?
(ii) कः संस्कृतस्य राजभाषात्वं समर्थितवान् ?
(iii) डॉ. आम्बेडकरः किं पठितुम् इष्टवान् आसीत् ?
(iv) कुत्र संशोधन प्रस्तावः आनीतः?
उत्तरम् :
(i) पण्डितलक्ष्मीकान्तमैत्रेण सह।
(ii) डॉ. आम्बेडकरः।
(iii) संस्कृतम्।
(iv) संविधानसभायाम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) कः आम्बेडकरं संस्कृतं पाठयितुं निराकृतवान् ?
(ii) संविधानसभायां कः संशोधनप्रस्तावः आनीतः?
(iii) कः न केवलं संस्कृतं जानाति स्म, अपितु संस्कृतेन भाषते स्म?
उत्तरम् :
(i) कश्चन संस्कृतज्ञः आम्बेडकरं संस्कृतं पाठयितुं निराकृतवान्।
(ii) ‘भारतस्य राजभाषा संस्कतं भवेत’ इति संविधानसभायां संशोधनप्रस्तावः आनीतः।
(iii) डॉ. आम्बेडकर: न केवलं संस्कृतं जानाति स्म, अपितु संस्कृतेन भाषते स्म।

प्रश्न 2.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
डॉ. भीमराव-आम्बेडकरस्य संस्कृतनिष्ठा।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम्-डॉ. भीमराव-आम्बेडकरः संस्कृतनिष्ठः आसीत्। तस्यैव प्रयासेण भारतीयसंविधानसभायां ‘भारतस्यराजभाषा संस्कृतं भवेत्’ इति संशोधनप्रस्ताव: आनीतः। डॉ. आम्बेडकर: संस्कृतस्य राजभाषात्वं समर्थितवान्। सः न केवलं संस्कृतं जानाति, अपितु संस्कृतभाषायां भाषते स्म।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘भाषते स्म’ इति क्रियापदस्य कर्तृपदं किम्?
(क) डॉ. अम्बेडकरः
(ख) पं. लक्ष्मीकान्तः
(ग) संस्कृतभाषा
(घ) भीमरावः
उत्तरम् :
(क) डॉ. अम्बेडकरः

प्रश्न 2.
‘नूतनः’ इति विशेषणपदस्य गद्यांशे विशेष्यपदं किमस्ति?
(क) प्रस्तावः
(ख) कश्चन
(ग) विषयः
(घ) आगतः
उत्तरम् :
(ग) विषयः

प्रश्न 3.
‘सः संस्कृतं जानाति स्म’-इत्यत्र ‘सः’ इति सर्वनामस्थाने संज्ञापदं किम् ?
(क) डॉ. भीमरावः
(ख) डॉ. अम्बेडकरः
(ग) लक्ष्मीकान्तः
(घ) महात्मागाँधी
उत्तरम् :
(ख) डॉ. अम्बेडकरः

प्रश्न 4.
‘प्राचीनः’ इत्यस्य गद्यांशे विलोमपदं किम्?
(क) नवीनः
(ख) अर्वाचीनः
(ग) पुरातनः
(घ) नूतनः
उत्तरम् :
(घ) नूतनः

3. एकमुद्देश्य लक्ष्यीकृत्य बहूनां जनानाम् ऐक्यभावनया कार्यकरणमेव संहतिः संगठनं वाऽभिधीयते। एकता मनुष्ये शक्तिमादधाति। एकतयैव देशः समाजो लोकश्च उन्नतिपथं प्राप्नुवन्ति। यस्मिन् देशे समाजे वा एकताऽस्ति, स एव देशः सकललोकसम्माननीयो भवति।

संसारे एकतायाः अतीवावश्यकता वर्तते। विशेषतः कलियुगेऽस्मिन् संहतिः कार्यसाधिका। यतो हि वर्तमाने काले यादृशं सामाजिकं राष्ट्रियं च जीवनमस्ति, तस्य निर्माणाय रक्षणाय च संगठनं परमावश्यकम्। अद्यत्वे संसारे यस्मिन् राष्ट्र एकतायाः अभावोऽस्ति, तत् राष्ट्रं सद्य एव परतन्त्रतापाशबद्धं भवति। अस्माकं देशस्य पारतन्त्र्यम् अनया एव एकतया सहयोगेन वा विच्छिन्नं जातम्। महात्मना गान्धिमहोदयेन तथैवान्यैश्च देशभक्तैः भारतीयसमाजे सर्वत्र एकत्वभावनोदयेन पराधीनतापाशस्य छेदनं विहितम्। अधुना लोकतन्त्रात्मकमस्माकं राष्ट्र संघटनबलेनैव स्वोन्नतिं विदधाति।

[हिन्दी-अनुवाद – एक उद्देश्य को लक्ष्य में करके बहुत से लोगों का एकता की भावना से कार्य करना ही समूह अथवा संगठन कहा जाता है। एकता मनुष्य में शक्ति प्रदान करती है। एकता से ही देश, समाज और संसार उन्नति के पथ पर अग्रसर होते हैं। जिस देश में अथवा समाज में एकता है, वही देश सम्पूर्ण संसार में सम्माननीय होता है।

कता की अत्यधिक आवश्यकता है। विशेष रूप से इस कलियुग में संगठन ही कार्य को सिद्ध करने वाला है। क्योंकि वर्तमान समय में जिस प्रकार का सामाजिक और राष्ट्रीय जीवन है, उसके निर्माण के लिए और रक्षा के लिए संगठन परम आवश्यक है। आज के संसार में जिस राष्ट्र में एकता का अभाव है, वह राष्ट्र शीघ्र ही गुलामी की जंजीरों में बँध जाता है। हमारे देश की परतन्त्रता इसी एकता अथवा सहयोग के कारण नष्ट हुई। महात्मा गाँधी महोदय के द्वारा और उसी प्रकार अन्य देश-भक्तों के द्वारा भारतीय समाज में सभी जगह एकता की भावना उत्पन्न करने से पराधीनता के बन्धन को नष्ट किया गया। इस समय लोकतन्त्रात्मक हमारा राष्ट्र संघटन के बल से ही अपनी उन्नति करता है।

एकपदेन उत्तरत –

प्रश्न 1.
(i) एकता मनुष्ये किम् आदधाति?
(ii) संसारे कस्याः अतीव आवश्यकता वर्तते?
(iii) एकतया अस्माकं देशस्य किं विच्छिन्नं जातम्?
(iv) कया एव देशः समाजो वा उन्नतिपथं प्राप्नुवन्ति?
उत्तरम् :
(i) शक्तिम्।
(ii) एकतायाः।
(iii) पारतन्त्र्यम्।
(iv) एकतया।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) राष्ट्रस्य निर्माणाय रक्षणाय च किं परमावश्यकम् ?
(ii) अस्माकं देशस्य पारतन्त्र्यं केन विच्छिन्नं जातम्?
(iii) कीदृशः देशः सकललोकसम्माननीयो भवति?
उत्तरम् :
(i) राष्ट्रस्य निर्माणाय रक्षणाय च संघटनं परमावश्यकम्।
(ii) अस्माकं देशस्य पारतन्त्र्यम् एकतया सहयोगेन वा विच्छिन्नं जातम्।
(iii) यस्मिन् देशे एकताऽस्ति, सः देशः संकललोकसम्माननीयो भवति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
एकतायाः महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम्-ऐक्यभावनया जनानां कार्यकरणमेव संहतिः संघटनं वा कथ्यते। एकतया एव देशः समाजश्च उन्नतिं प्राप्नुतः। अस्मिन् काले यस्मिन् देशे सुसंगठनं वर्तते सैव विश्वे प्रतिष्ठामर्हति। ऐक्यभावेनैव अस्माकं महापुरुषैः भारतदेशस्य पराधीनता विनाशिता।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘आदधाति’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) देशः
(ख) एकता
(ग) संहतिः
(घ) संघटनम्
उत्तरम् :
(ख) एकता

प्रश्न 2.
‘बहूनाम्’ इति विशेषणस्य गद्यांशे विशेष्यपदं किम्?
(क) देशानाम्
(ख) राष्ट्राणाम्
(ग) देशभक्तानाम्
(घ) जनानाम्
उत्तरम् :
(घ) जनानाम्

प्रश्न 3.
‘अनया’ इति सर्वनामपदस्य स्थाने संज्ञापदं किमस्ति?
(क) एकतया
(ख) सहयोगेन
(ग) लोकेन
(घ) संहत्यया
उत्तरम् :
(क) एकतया

प्रश्न 4.
‘स्वतन्त्रता’ इत्यस्य विलोमपदं गद्यांशे किम् प्रयुक्तम् ?
(क) आधीनता
(ख) स्वाधीनता
(ग) परतन्त्रता
(घ) पराधीनम्
उत्तरम् :
(ग) परतन्त्रता

4. इदं हि विज्ञानप्रधानं युगम्। ‘विशिष्टं ज्ञानं विज्ञानम्’ इति कथ्यते। अस्यां शताब्द्यां सर्वत्र विज्ञानस्यैव प्रभावो दरीदृश्यते। अधुना नहि तादृशं किमपि कार्यं यत्र विज्ञानस्य साहाय्यं नापेक्ष्यते। आवागमने, समाचारप्रेषणे, दूरदर्शने, सम्भाषणे, शिक्षणे, चिकित्साक्षेत्रे, मनोरंजनकार्ये, अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि तथैवान्यकार्यकलापेषु विज्ञानस्य प्रभावस्तदपेक्षा च सर्वत्रैवानुभूयते।

सम्प्रति मानवः प्रकृतिं वशीकृत्य तां स्वेच्छया कार्येषु नियुक्ते। तथाहि वैज्ञानिकैरनेके आविष्काराः विहिताः। मानवजातेः हिताहितम् अपश्यद्भिः वैज्ञानिकैः राजनीतिविज्ञैर्वा परमाणुशक्तेः अस्त्रनिर्माणे एव विशेषतः उपयोगो विहितः। तदुत्पादितं च लोकध्वंसकार्यम् अतिघोरं निघृणं च। अयं च न विज्ञानस्य ‘ दोषः न वा परमाणुशक्तेरपराधः, पुरुषापराधः खलु एषः। अतोऽस्य मानवकल्याणार्थमेव प्रयोगः करणीयः।

[हिन्दी अनुवाद – यह विज्ञान-प्रधान युग है। ‘विशेष ज्ञान ही विज्ञान है’-ऐसा कहा जाता है। इस शताब्दी में सभी जगह विज्ञान का ही प्रभाव दिखलाई देता है। इस समय ऐसा कोई भी कार्य नहीं है जिसमें विज्ञान की सहायता की आवश्यकता नहीं हो। आवागमन में, समाचार भेजने में, दूरदर्शन में, सम्भाषण में, शिक्षण में, चिकित्सा के क्षेत्र में, मनोरंजन-कार्य में, अन्न उत्पादन में, वस्त्र-निर्माण में, कृषि-कार्य में तथा उसी प्रकार अन्य क्रिया-कलापों में विज्ञान का प्रभाव और उसकी आवश्यकता का सभी जगह अनुभव किया जाता है।

इस समय मानव प्रकृति को वश में करके उसका स्वेच्छा से कार्यों में उपयोग करता है। जैसे कि वैज्ञानिकों वष्कार किए गए हैं। मानव-जाति का हित अथवा अहित न देखते हुए वैज्ञानिकों के द्वारा अथवा राजनैतिकों के द्वारा परमाणु-शक्ति का अस्त्र निर्माण में विशेष रूप से उपयोग किया गया है और उनसे उत्पन्न किए गए लोक-विनाशक कार्य अत्यन्त घोर (भयानक) और निर्दयतायुक्त हैं। यह न तो विज्ञान का दोष है अथवा न ही परमाणु-शक्ति का अपराध है, यह तो मनुष्यों का अपराध है।

इसलिए मानव-कल्याण के लिए ही इसका उपयोग करना चाहिए।

एकपदेन उत्तरत –

प्रश्न 1.
(i) विशिष्टं ज्ञानं किं कथ्यते?
(ii) अधुना सर्वत्र कस्य प्रभावो दृश्यते?
(iii) कैः अनेके आविष्काराः विहिताः?
(iv) विज्ञानस्य प्रयोगः कुत्र करणीयः?
उत्तरम् :
(i) विज्ञानम्।
(ii) विज्ञानस्य।
(iii) वैज्ञानिकैः।
(iv) मानवकल्याणार्थम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) अधुना समस्तकार्यकलापेषु कस्य प्रभावः अनुभूयते?
(ii) सम्प्रति मानवः कां वशीकृत्य तां स्वेच्छया कार्येषु नियुक्ते?
(iii) अद्य वैज्ञानिकैः परमाणुशक्तेः विशेषतः कुत्र उपयोगो विहितः?
उत्तरम् :
(i) अधुना समस्तकार्यकलापेषु विज्ञानस्य प्रभावः अनुभूयते।
(ii) सम्प्रति मानवः प्रकृतिं वशीकृत्य तां स्वेच्छया कार्येषु नियुक्ते।
(iii) अद्य वैज्ञानिकैः परमाणुशक्तेः विशेषतः अस्त्रनिर्माणे एव उपयोगो विहितः।

प्रश्न 2.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
विज्ञानस्य प्रभावः।

प्रश्न 3.
अस्य गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम्-अस्मिन् युगे विज्ञानस्य प्रभावं सर्वत्र दृश्यते। विशिष्टं ज्ञानमेव विज्ञानम्। जीवनस्य सर्वेषु क्षेत्रेषु कार्यकलापेषु च विज्ञानस्य महत्त्वं वर्तते। सम्प्रति वैज्ञानिकैः अनेके आविष्काराः विहिताः, किन्तु विज्ञानस्य प्रयोगः मानवविनाशाय न कृत्वा मानवकल्याणाय एव करणीयः।

निर्देशानुसारं प्रदत्तविकल्पेभ्य: उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘दरीदृश्यते’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) प्रभावः
(ख) विज्ञानस्य
(ग) साहाय्यम्
(घ) सर्वत्र
उत्तरम् :
(क) प्रभावः

प्रश्न 2.
‘विज्ञानप्रधानम्’ इति विशेषणस्य गद्यांशे विशेष्यपदं किम् ?
(क) ज्ञानम्
(ख) इदम्
(ग) युगम्
(घ) विशिष्टम्
उत्तरम् :
(ग) युगम्

प्रश्न 3.
‘अस्याम्’ इति सर्वनामपदस्य संज्ञापदं किमस्ति?
(क) शिक्षायाम्
(ख) शताब्द्याम्
(ग) प्रकृत्याम्
(घ) शक्त्याम्
उत्तरम् :
(ख) शताब्द्याम्

प्रश्न 4.
‘हितम्’ इत्यस्य गद्यांशे विलोमपदं किं प्रयुक्तम्?
(क) विहितम्
(ख) दोषः
(ग) अपराधः
(घ) अहितम
उत्तरम् :
(घ) अहितम

5. स्त्रियों हि मातृशक्तेः प्रतीकभूताः भवन्ति। निसर्गादेव तासु गृहस्थजीवनस्योत्तरदायित्वं बालकानां भरण-पोषणादिकस्य च दायित्वं समापतति। शिशौ संस्काराधानस्य, सदाचरणशिक्षणस्य, भर्तुः सहयोगस्य, पारिवारिकजनानां सेवायाः, समागतानामभ्यागतानां शुश्रूषायाः, लोकहितसम्पादनस्य च समग्रमपि कर्तव्यजातं स्त्रीषु निपतति। अतः स्त्रीणां कृते शिक्षायाः परमावश्यकता वर्तते। सुगृहिणी तदैव सा सम्भवति तदा सुशिक्षिता स्यात्, सुशिक्षयैव परिवारस्य समाजस्य राष्ट्रस्य च हितं सम्पादयितुं सा समर्था भवति।

गृहस्य सुशिक्षिता स्त्री सद्गृहिणी गृहलक्ष्मी: गृहस्वामिनी वा भवति, सैव मातृभूता सवंशं सन्नागरिकं च निर्मातुं प्रभवति। स्त्री एव समाजे धार्मिकसंस्काराणां सद्गुणादिकानां स्थापनां करोति। अतः समाजे राष्ट्रे वा स्त्रीणां समादरो मातृशक्तेश्च गौरवरक्षणं तदैव सम्भवति यदा ताः सुशिक्षिताः स्युः। ‘मातृदेवो भव’ इति कथनमपि तदैव सुसङ्गतं भवति। स्त्रीसमाजस्योन्नतिमेव विचिन्त्य मनुनापि कथितम् – ‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।’

[हिन्दी अनुवाद-स्त्रियाँ मातशक्ति की प्रतीक स्वरूप होती हैं। स्वभाव से ही उनमें गृहस्थ जीवन का उत्तरदायित्व और बालकों के भरण-पोषण का दायित्व होता है। बालक में संस्कारों को प्रदान करने का, सदाचार की दिशा देने का, पति के सहयोग का, परिवार के लोगों की सेवा का, आगन्तुक अतिथियों की सेवा का और लोक कल्याण को सम्पादित करने का सम्पूर्ण कर्त्तव्य स्त्रियों पर ही है। इसलिए स्त्रियों के लिए शिक्षा की अत्यन्त आवश्यकता है। सुगृहिणी तभी वह हो सकती है, जब वह सुशिक्षित होगी। सुशिक्षा से ही वह परिवार, समाज और राष्ट्र का कल्याण करने में समर्थ होती है।

घर की सुशिक्षित स्त्री सद्गृहिणी, गृहलक्ष्मी अथवा गृह-स्वामिनी होती है, वही माता के रूप में श्रेष्ठ वंश और श्रेष्ठ नागरिक का निर्माण करने में समर्थ होती है। स्त्री ही समाज में धार्मिक संस्कारों और सद्गुणों की स्थापना करती है। इसलिए समाज में अथवा राष्ट्र में स्त्रियों का आदर और मातृशक्ति के गौरव की रक्षा तभी सम्भव है जब वे सुशिक्षित होवें। मातृदेवो भव’-यह कथन भी तभी सुसंगत होता है। स्त्री-समाज की उन्नति का विचार करके ही मनु ने भी कहा है – ‘जहाँ स्त्रियों का सम्मान होता है, वहाँ देवता रमण करते हैं।’]

एकपदेन उत्तरत –

प्रश्न 1.
(i) स्त्रीणां कृते कस्याः परमावश्यकता वर्तते?
(ii) स्त्रियो हि कस्याः प्रतीकभूताः भवन्ति?
(iii) गृहस्थजीवनस्य उत्तरदायित्वं कासु समापतति?
(iv) कीदृशी स्त्री सद्गृहिणी गृहलक्ष्मीः वा भवति?
उत्तरम् :
(i) शिक्षायाः।
(ii) मातृशक्तेः।
(iii) स्त्रीषु।
(iv) सुशिक्षिता।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) स्त्री एव समाजे केषां स्थापनां करोति?
(ii) मातृशक्ते गौरवरक्षणं कदा सम्भवति?
(iii) देवताः कुत्र रमन्ते?
उत्तरम् :
(i) स्त्री एव समाजे धार्मिक संस्काराणां सद्गुणादिकानां च स्थापनां करोति।
(ii) मातृशक्तेः गौरवरक्षणं तदैव सम्भवति यदा सा सुशिक्षिता स्यात्।
(iii) यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
स्त्री-शिक्षायाः महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम्-संसारे स्त्रीणां महत्त्वं सर्वाधिकं वर्तते। तासु न केवलं गृहस्थजीवनस्य अपितु लोकहितसम्पादनस्य समग्रमपि कार्यजातं निपतति। अतः स्त्रीणां कृते शिक्षायाः अतीव आवश्यकता वर्तते। सुशिक्षिता स्त्री एव परिवारस्य,  समाजस्य, राष्ट्रस्य च हितं सम्पादयितुं समर्था भवति। सा एव सुगृहिणी, मातृशक्तिरूपेण च पूज्या भवति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘पूज्यन्ते’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) देवताः
(ख) स्त्री
(ग) नार्यः
(घ) मानवाः
उत्तरम् :
(ग) नार्यः

प्रश्न 2.
‘समग्रमपि’ इति विशेषणस्य विशेष्यपदं किम्?
(क) कर्त्तव्यजातम्
(ख) लोकहितम्
(ग) शुश्रूषायाः
(घ) सदाचरणम्
उत्तरम् :
(क) कर्त्तव्यजातम्

प्रश्न 3.
‘ताः सुशिक्षिताः स्युः’ इत्यत्र ‘ताः’ सर्वनामपदस्थाने संज्ञापदं किम् ?
(क) मातृशक्तिः
(ख) बालिकाः
(ग) गृहलक्ष्मी:
(घ) स्त्रियः
उत्तरम् :
(घ) स्त्रियः

प्रश्न 4.
‘निरादरः’ इत्यस्य गद्यांशे विलोमपदं किं प्रयुक्तम् ?
(क) अभ्यागतः।
(ख) समादरः
(ग) गौरवम्
(घ) सदाचरणम्
उत्तरम् :
(ख) समादरः

6. अस्माकं देशे षड् ऋतवः नवचेतना सञ्चरणाय समायान्ति। तत्रापि वर्षा कालं दृष्ट्वा सर्वे नन्दन्ति। अयं ग्रीष्मानन्तरं समायाति। वर्षाकाले आकाशे मेघाः आयान्ति। ते गर्जन्ति वर्षन्ति च। सौदामिन्यः स्फुरन्ति। सर्वत्र जलं भवति। वर्षाजलैः स्नाता वसुन्धरा मोदते। सर्वत्र हरीतिमा विभाति। वर्षाकाले मण्डूकाः रटन्ति। मयूराः नृत्यन्ति। वृक्षाः पल्लविताः भवन्ति। निर्झराः मधुरं नदन्ति, नद्यः वेगेन वहन्ति। वर्षाकाले ग्रामे मार्गाः पङ्कमयाः भवन्ति। जलाशयाः कूपाः अपि पूर्णाः भवन्ति। कृषकाणां कृते वृष्टिः एव जीवनम् अस्ति।

[हिन्दी-अनुवाद – हमारे देश में छः ऋतुएँ नवीन चेतना का सञ्चार करने के लिए आती हैं। उनमें भी वर्षाकाल को देखकर सभी प्रसन्न होते हैं। यह ग्रीष्म ऋतु के बाद आता है। वर्षाकाल में आकाश में बादल आते हैं। वे गर्जते हैं और वर्षा करते हैं। बिजलियाँ चमकती हैं। सभी जगह जल हो जाता है। वर्षा के जल से स्नान की हुई भूमि सुशोभित होती है। सभी जगह हरियाली सुशोभित होती है। वर्षाकाल में मेंढक टर्राते हैं। मयूर नृत्य करते हैं। वृक्ष नवीन पत्तों से युक्त होते हैं। झरने मधुर ध्वनि करते हैं, नदियाँ वेग से बहती हैं। वर्षा के समय गाँव में मार्ग कीचड़ युक्त हो जाते हैं। जलाशय (तालाब आदि) और कुएँ जल से पूर्ण हो जाते हैं। किसानों के लिए वर्षा ही जीवन है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) वर्षाकाले काः स्फुरन्ति?
(ii) वर्षाकाले के रटन्ति?
(iii) का: वेगेन वहन्ति?
(iv) केषां कृते वृष्टिः एव जीवनम् अस्ति?
उत्तरम् :
(i) सौदामिन्यः।
(ii) मण्डूकाः।
(iii) नद्यः।
(iv) कृषकाणां कृते।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) अस्माकं देशे षड् ऋतवः किमर्थं समायान्ति?
(ii) कैः स्नाता वसुन्धरा मोदते?
(iii) वर्षाकाले कुत्र मार्गाः पङ्कमयाः भवन्ति?
उत्तरम् :
(i) अस्माकं देशे षड् ऋतवः नवचेतना सञ्चरणाय समायान्ति।
(ii) वर्षाजलैः स्नाता वसुन्धरा मोदते।
(iii) वर्षाकाले ग्रामे मार्गाः पङ्कमयाः भवन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
वर्षाकालः।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम्-भारतदेशे षड्ऋतवः नवचेतना सञ्चरणाय समायान्ति। तासु वर्षाकालस्य अत्यधिकं महत्त्वं वर्तते। वर्षाकाले सर्वे जनाः प्रसन्नाः भवन्ति। सर्वत्र हरीतिमा भवति। नद्यः, निर्झराः, कूपाः, सरोवराश्च जलपूर्णाः भवन्ति। सर्वे पशु-पक्षिणः आनन्दमग्नाः दृश्यन्ते। कृषकाणां कृते तु वृष्टिः एव जीवनमस्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘निर्झराः’ इति कर्तृपदस्य क्रियापदं किमस्ति?
(क) नदन्ति
(ख) वहन्ति
(ग) रटन्ति
(घ) भवन्ति
उत्तरम् :
(क) नदन्ति

प्रश्न 2.
‘षड्’ इति विशेषणस्य गद्यांशे विशेष्यपदं किं प्रयुक्तम् ?
(क) देशे
(ख) चेतना
(ग) ऋतवः
(घ) मयूराः
उत्तरम् :
(ग) ऋतवः

प्रश्न 3.
‘ते गर्जन्ति वर्षन्ति च’-इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं किम् ?
(क) निर्झराः
(ख) मेघाः
(ग) मण्डूकाः
(घ) सौदामिन्यः
उत्तरम् :
(ख) मेघाः

प्रश्न 4.
‘पृथ्वी’ इति पदस्य गद्यांशे पर्यायपदं किमस्ति?
(क) स्नाता
(ख) हरीतिमा
(ग) भूमिः
(घ) वसुन्धरा
उत्तरम् :
(घ) वसुन्धरा

7. परेषाम् उपकारः परोपकारः उच्यते। “सर्वः स्वार्थं समीहते” इत्यपि कस्यचित् कवेः उक्तिः अस्ति। स्वार्थाय सर्वेऽपि प्राणिनः जीवन्ति। किन्तु यस्य जीवनम् अन्येभ्यः अस्ति, अपरेषां प्राणिनां सुखाय यः प्रयतते, कष्टं सहते च वस्तुतः तस्यैव जीवनं सार्थकम् अस्ति। पश्य, गावः अन्येभ्यः दुग्धं प्रयच्छन्ति, अतः जनाः “मातर” इति वदन्ति। नदी अपि स्वजलं स्वयं न पिबति, अन्येषां प्राणिनां कृते ददाति। मेघान् पश्यत। स्वजलं सर्वेभ्यः वितरन्ति। पुष्पाणि सर्वेभ्यः सुगन्धं वितरन्ति। वृक्षाः फलानि प्रयच्छन्ति। मातृसमा उपकारिणी का विद्यते जगति? अतः स्वार्थं विहाय अन्येभ्यः जीवनमेव वरम्।

[हिन्दी-अनुवाद – दूसरों का उपकार करना ही परोपकार कहा जाता है। “सभी अपना स्वार्थ करना चाहते हैं” यह भी किसी कवि की उक्ति है। स्वार्थ के लिए सभी प्राणी जीवित रहते हैं। किन्तु जिसका जीवन दूसरों के लिए है, दूसरे प्राणियों के सुख के लिए जो प्रयत्न करता है और कष्ट सहन करता है, वास्तव में उसी का जीवन सार्थक है। देखो, गायें दूसरों के लिए दूध देती हैं, इसलिए लोग उसे ‘माता’ कहते हैं। नदी भी अपना जल स्वयं नहीं पीती है, दूसरे प्राणियों के लिए देती है। बादलों को देखो, अपना जल सभी के लिए वितरित करते हैं। पुष्प सभी के लिए सुगन्ध फैलाते हैं। वृक्ष फल देते हैं। माता के समान उपकार करने वाली संसार में कौन है ? इसलिए स्वार्थ को छोड़कर दूसरों के लिए जीवन ही श्रेष्ठ है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) सर्वे किं समीहन्ते?
(ii) काः अन्येभ्यः दुग्धं प्रयच्छन्ति?
(iii) नदी किं न पिबति?
(iv) कानि सर्वेभ्य सुगन्धं वितरन्ति?
उत्तरम् :
(i) स्वार्थम्।
(ii) गावः।
(iii) स्वजलम्।
(iv) पुष्पाणि।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) कः परोपकारः कथ्यते?
(ii) सर्वेऽपि प्राणिनः कस्मै जीवन्ति?
(iii) किं वरं विद्यते?
उत्तरम् :
(i) परेषाम् उपकारः परोपकारः कथ्यते।
(ii) सर्वेऽपि प्राणिनः स्वार्थाय जीवन्ति।
(iii) स्वार्थं विहाय अन्येभ्यः जीवनमेव वरं विद्यते।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
परोपकारस्य महत्त्वम्।

प्रश्न 3.
प्रश्न उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम-परेषाम उपकारः परोपकारः कथ्यते। संसारे सर्वे जनाः स्वार्थम इच्छन्ति। किन्तु यस्य जीवनं परोपकाराय भवति, तस्यैव जीवनं सार्थकं श्रेष्ठं च मन्यते। गावः अन्येभ्यः दुग्धं प्रयच्छन्ति। नदी अपि स्वजलं स्वयं न पिबति। मेघाः स्वजलं सर्वेभ्यः वितरन्ति। वृक्षाः परोपकाराय फलन्ति। अतः स्वार्थं त्यक्त्वा परोपकारः करणीयः।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘गावः’ इति कर्तृपदस्य क्रियापदं किमस्ति?
(क) जीवन्ति
(ख) प्रयच्छन्ति
(ग) वदन्ति
(घ) वितरन्ति
उत्तरम् :
(ख) प्रयच्छन्ति

प्रश्न 2.
‘ते स्वजलं सर्वेभ्यः वितरन्ति’-इत्यत्र ‘ते’ इति सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) मेघाः
(ख) वृक्षाः
(ग) जनाः
(घ) नद्यः
उत्तरम् :
(क) मेघाः

प्रश्न 3.
‘प्राणिनाम्’ इति विशेष्यपदस्य गद्यांशे विशेषणपदं किम् ?
(क) तेषाम्
(ख) परोपकारिणाम्
(ग) सर्वेषाम्
(घ) अपरेषाम्
उत्तरम् :
(घ) अपरेषाम्

प्रश्न 4.
‘निरर्थकम्’ इत्यस्य गद्यांशे विलोमपदं किमस्ति?
(क) स्वार्थम्
(ख) धन्यम्
(ग) सार्थकम्
(घ) वरम्
उत्तरम् :
(ग) सार्थकम्

8. दैनन्दिनव्यवहारे यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। मानवा परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् . देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषां उपरि स्वकीयं प्रभुत्वं स्थापयन्ति। संसारे सर्वत्र विद्वेषस्य शत्रतायाः हिंसायाः च भावना दश्यते. देशानां विकासः अपि अवरुद्धः भवति।

इयं महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्। विश्वस्य जनेषु इयं भावना अवश्यकी। ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था स्पर्धा भविष्यति। सर्वे देशा ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धि प्राप्तुं समर्था भविष्यन्ति। सूर्यचन्द्रयोः प्रकाशः सर्वत्र समानरूपेण प्रसरति। प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। तस्मात् अस्माभिः सर्वैः परस्परं वैर भावम् अपहाय विश्वबन्धुत्वं स्थापनीयम्।

[हिन्दी-अनुवाद – दैनिक व्यवहार में जो सहायता करता है, वह ‘बन्धु’ होता है। यदि विश्व (संसार) में सभी जगह इस प्रकार का भाव होवे तो ‘विश्व-बन्धत्व’ सम्भव है। परन्त इस समय संसार वातावरण है। मानव आपस में विश्वास नहीं करते हैं। वे दूसरे के कष्ट को अपना कष्ट नहीं गिनते हैं। और भी समर्थ देश असमर्थ देशों के प्रति उपेक्षाभाव प्रदर्शित करते हैं, उनके ऊपर अपना प्रभुत्व स्थापित करते हैं। संसार में सभी जगह द्वेष, शत्रुता और हिंसा की भावना दिखलाई देती है, देशों का विकास भी अवरुद्ध होता है।

यह अत्यधिक आवश्यकता है कि एक देश दूसरे देश के साथ निर्मल हृदय से बन्धुता का व्यवहार करे। संसार के लोगों में यह भावना आवश्यक है। तभी विकसित और अविकसित देशों के मध्य स्वस्थ स्पर्धा होगी। सभी देश ज्ञान-विज्ञान के क्षेत्र में मैत्री-भाव और सहयोग से समृद्धि को प्राप्त करने में समर्थ होंगे। सूर्य और चन्द्रमा का प्रकाश सभी जगह समान रूप से फैलता है। प्रकृति भी सभी के साथ समानता का व्यवहार करती है। इसलिए हम सभी को आपस में वैर-भाव छोड़कर विश्वबन्धुत्व की स्थापना करनी चाहिए।

एकपदेन उत्तरत –

प्रश्न 1.
(i) के परस्परं न विश्वसन्ति?
(ii) सर्वेषु समत्वेन का व्यवहरति?
(iii) कयोः प्रकाशः सर्वत्र समानरूपेण प्रसरति?
(iv) अस्माभिः वैरभावम् अपहाय किं स्थापनीयम् ?
उत्तरम् :
(i) मानवाः।
(ii) प्रकृतिः।
(iii) सूर्यचन्द्रयोः।
(iv) विश्वबन्धुत्वम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) बन्धुः कः भवति?
(ii) अधुना संसारे कस्य वातावरणम् अस्ति?
(iii) समर्थाः देशाः कान् प्रति उपेक्षाभावं प्रदर्शयन्ति?
उत्तरम् :
(i) दैनन्दिनव्यवहारे यः सहायतां करोति सः बन्धुः भवति।
(ii) अधुना संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति।
(iii) समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
विश्वबन्धुत्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – दैनिकव्यवहारे यः सहायतां करोति सः बन्धुः भवति। तेनैव भावेन विश्वबन्धुत्वं भवति, किन्तु. अधुना संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः, अशान्तेः च भावना दृश्यते। मानवाः परस्परं न विश्वसन्ति। अनेन देशानां विकासः अवरुद्धः भवति। प्रकृतिः सर्वेषु समत्वेन व्यवहरति। अस्माभिः परस्परं वैरभावं त्यक्त्वा निर्मलेन हृदयेन बन्धुतायाः व्यवहारं करणीयम्।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘प्रकृतिः’ इति कर्तृपदस्य क्रियापदं किमस्ति?।
(क) व्यवहरति
(ख) प्रसरति
(ग) भवति
(घ) करोति
उत्तरम् :
(क) व्यवहरति

प्रश्न 2.
‘देशान्’ इत्यस्य पदस्य गद्यांशे विशेषणपदं किं प्रयुक्तम् ?
(क) समर्थान्
(ख) ज्येष्ठान्
(ग) असमर्थान्
(घ) पीडितान्
उत्तरम् :
(ग) असमर्थान्

प्रश्न 3.
‘ते परस्य कष्टं…………।’ इत्यत्र ‘ते’ इति सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) जनाः
(ख) मानवाः
(ग) देशाः
(घ) शत्रवः
उत्तरम् :
(ख) मानवाः

प्रश्न 4.
‘अधस्तात्’ इति पदस्य गद्यांशात् चित्वा विलोमपदं लिखत।
(क) अपहाय
(ख) अधुना
(ग) सर्वत्र
(घ) उपरि
उत्तरम् :
(घ) उपरि

9. वैदिकसाहित्यं प्रमुखतया द्विविधम् अस्ति-मन्त्ररूपः ब्राह्मणरूपश्य। मन्त्रसमुदायः एव संहिताशब्देन व्यवह्रीयते ब्राह्मणरूपः वेदभागः संहिता भागस्य व्याख्यारूपः विद्यते। ब्राह्मणभागः यागस्वरूपबोधकः अस्ति। एषः त्रिधा विभक्तिः भवति-ब्राह्मणम्, आरण्यकम् उपनिषद् च। यज्ञस्वरूपप्रतिपादकः ब्राह्मणभागः। अरण्ये पठिताः यज्ञस्य आध्यात्मिकरूपं विवेचयन्तः वेदभागः आरण्यकानि। उपनिषदः ब्राह्मत्मबोधिकाः मोक्षसाधिकाः सन्ति। वेदस्य अन्तिमरूपतया उपनिषद् ‘वेदान्तः’ इत्युच्यते। ब्राह्मणभागः गृहस्थानां कृते उपयोगी, आरण्यकभागः वानप्रस्थानां कृते, उपनिषद् भागश्च संन्यस्तानां हेतो बहूपयोगी भवति।

[हिन्दी-अनुवाद – वैदिक-साहित्य प्रमुख रूप से दो प्रकार का है-मन्त्र-रूप और ब्राह्मण-रूप। मन्त्रों का समूह ही ‘संहिता’ शब्द से जाना जाता है। ब्राह्मण-रूप वेद का भाग संहिता-भाग का व्याख्या रूप है। ब्राह्मण भाग यज्ञों के स्वरूप का बोधक है। यह तीन प्रकार से विभाजित होता है-ब्राह्मण, आरण्यक और उपनिषद्। यज्ञों के स्वरूप का प्रतिपादक ब्राह्मण भाग है। अरण्य (वन) में पढ़े गये यज्ञ के आध्यात्मिक स्वरूप का विवेचन करने वाला वेद का भाग ‘आरण्यक’ हैं। उपनिषद् ब्रह्म रूप आत्म-तत्व के बोधक एवं मोक्ष के साधक हैं। वेद का अन्तिम रूप होने से उपनिषद् ‘वेदान्त’ नाम से कहे जाते हैं। ब्राह्मण भाग गृहस्थ लोगों के लिए उपयोगी है, आरण्यक भाग वानप्रस्थों के लिए और उपनिषद् भाग संन्यासियों के लिए अत्यधिक उपयोगी होते हैं।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) वैदिकसाहित्यं प्रमुखतया कतिविधम् अस्ति?
(ii) ब्राह्मणभागः केषां कृते उपयोगी वर्तते ?
(iii) आरण्यकभागः केषां कृते बहूपयोगी भवति?
(iv) उपनिषद्भागः केषां हेतोः उपयोगी भवति?
उत्तरम् :
(i) द्विविधम्।
(ii) गृहस्थानां कृते।
(iii) वानप्रस्थानां कृते।
(iv) संन्यस्तानां हेतोः।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) ब्राह्मणभागः कस्य बोधकः अस्ति?
(ii) मन्त्रसमुदायस्य अपरं नाम किम् अस्ति?
(iii) यज्ञस्य आध्यात्मिकं रूपं के विवेचयन्ति?
उत्तरम् :
(i) ब्राह्मणभागः यागस्वरूपस्य बोधकः अस्ति।
(ii) मन्त्रसमुदायस्य अपरं नाम संहिता अस्ति।
(iii) यज्ञस्य आध्यात्मिक रूपम् आरण्यकानि विवेचयन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
वैदिकसाहित्यम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – वैदिकसाहित्यं प्रमुखतया द्विविधं भवति–मन्त्ररूपः ब्राह्मणरूपश्च। मन्त्रसमुदायस्य अपरं नाम संहिता। ब्राह्मणरूपः संहितायाः व्याख्यारूपः। ब्राह्मणभागः त्रिधा विभक्त:-ब्राह्मणम्, आरण्यकम्, उपनिषद् च। यज्ञस्वरूपस्य प्रतिपादकः ब्राह्मणभागः। आरण्यकानि यज्ञस्य आध्यात्मिकरूपं विवेचयन्ति। उपनिषदः ब्राह्मत्वबोधिकाः मोक्षसाधिकाः च सन्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
……… मोक्षसाधिकाः सन्ति’-इत्यत्र ‘सन्ति’ क्रियायाः कर्तृपदं किम्?
(क) ब्राह्मणाः
(ख) उपनिषदः
(ग) आरण्यकानि
(घ) वेदाः
उत्तरम् :
(ख) उपनिषदः

प्रश्न 2.
‘यज्ञस्वरूपप्रतिपादकः’ इति विशेषणस्य विशेष्यपदं किम्?
(क) ब्राह्मणभागः
(ख) वेदभागः
(ग) उपनिषद्भागः
(घ) मन्त्रभागः
उत्तरम् :
(क)

प्रश्न 3.
‘एषः त्रिधा विभक्तः ………. इत्यत्र ‘एषः’ सर्वनामस्थाने संज्ञापदं किम् ?
(क) संहिता
(ख) उपनिषद्
(ग) आरण्यकम्।
(घ) ब्राह्मणभागः
उत्तरम् :
(घ) ब्राह्मणभागः

प्रश्न 4.
‘वने’ इत्यस्य गद्यांशात् पर्यायपदं चित्वा लिखत।।
(क) ग्रामे
(ख) वेदे
(ग) अरण्ये
(घ) उपवने
उत्तरम् :
(ग) अरण्ये

10. संस्कृतभाषायाः वैज्ञानिकतां विचार्य एव सङ्गणकविशेषज्ञाः कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा विद्यते। अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदास-सदृशानां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। चाणक्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणी अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। भारतसर्वकारस्य विभिन्नेषु विभागेषु संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति। भारतसर्वकारस्य राजचिह्न प्रयुक्तां सूक्तिं ‘सत्यमेव जयते’ सर्वे जानन्ति। एतमेव राष्ट्रिय शैक्षिकानुसन्धानप्रशिक्षण-परिषदः ध्येयवाक्यं ‘विद्ययाऽमृतमश्नुते’ वर्तते।

[हिन्दी-अनुवाद – संस्कृत-भाषा की वैज्ञानिकता का विचार करके ही कम्प्यूटर-विशेषज्ञ कहते हैं कि संस्कृत ही कम्प्यूटर के लिए सर्वोत्तम भाषा है। इसका वाङ्मय वेदों, पुराणों, नीतिशास्त्रों और चिकित्साशास्त्र आदि से समद्ध है। कालिदास जैसे विश्वकवियों का काव्य-सौन्दर्य अनुपम है। चाणक्य द्वारा रचित अर्थशास्त्र संसार में प्रसिद्ध है। गणितशास्त्र में शून्य का प्रतिपादन सबसे पहले भास्कराचार्य ने ‘सिद्धान्त-शिरोमणि’ में किया था। चिकित्साशास्त्र में चरक और सुश्रुत का योगदान संसार में प्रसिद्ध है। भारत सरकार के विभिन्न विभागों में संस्कृत की सूक्तियाँ ध्येय वाक्य के रूप में स्वीकृत हैं। भारत सरकार के राजचिह्न में प्रयुक्त सूक्ति ‘सत्यमेव जयते’ को सभी जानते हैं। इसी प्रकार ‘राष्ट्रीय शैक्षिक अनुसन्धान प्रशिक्षण परिषद्’ का ध्येय-वाक्य ‘विद्ययाऽमृतमश्नुते’ है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) अर्थशास्त्रं केन रचितम् ?
(ii) कस्य कृते संस्कृतमेव सर्वोत्तमा भाषा विद्यते?
(iii) चिकित्साशास्त्रे कयोः योगदानं विश्वप्रसिद्धम् अस्ति?
(iv) गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं कः अकरोत् ?
उत्तरम् :
(i) चाणक्येन।
(ii) सङ्गणकस्य कृते।
(iii) चरकसुश्रुतयोः।
(iv) भास्कराचार्यः।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) संस्कृतवाङ्मयं कैः समृद्धमस्ति?
(ii) ‘विद्ययाऽमृतमश्नुते’ इति कस्य ध्येयवाक्यम् ?
(iii) भारतसर्वकारस्य राजचिह्न का सूक्तिः प्रयुक्ता?
उत्तरम् :
(i) संस्कृतवाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रादिभिश्च समृद्धमस्ति।
(ii) इति राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषदः ध्येयवाक्यम्।
(iii) ‘सत्यमेव जयते’ इति सूक्तिः प्रयुक्ता।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
संस्कृतभाषायाः महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – संस्कृतभाषा वैज्ञानिकी सर्वश्रेष्ठा चास्ति। सङ्गणकस्य कृते संस्कृतभाषा सर्वोत्तमा मन्यते। संस्कृतभाषायाः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रादिभिश्च समृद्धमस्ति। कालिदासादीनां काव्यसौन्दर्यम् अनुपमम्। भारतसर्वकारस्य विभिन्नविभागेषु संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः।

निर्देशानसारं प्रदत्तविकल्पेभ्यः उचितम उत्तरं चित्वा लिखत –

प्रश्न 1.
‘अकरोत्’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) सर्वप्रथमं
(ख) कालिदासः
(ग) भास्कराचार्यः
(घ) चाणक्यः
उत्तरम् :
(ग) भास्कराचार्यः

प्रश्न 2.
‘सर्वोत्तमा’ इति विशेषणस्य विशेष्यपदं गद्यांशे किमस्ति?
(क) भाषा
(ख) सूक्तिः
(ग) संस्कृतम्
(घ) वाङ्मयम्
उत्तरम् :
(क) भाषा

प्रश्न 3.
“अस्याः वाङ्मयं……..।” इत्यत्र ‘अस्याः’ इति सर्वनामस्थाने संज्ञापदं लिखत।
(क) आङ्ग्लभाषायाः
(ख) गणितस्य
(ग) नीतिशास्त्रस्य
(घ) संस्कृतभाषायाः
उत्तरम् :
(घ) संस्कृतभाषायाः

प्रश्न 4.
‘संसारे’ इति पदस्य गद्यांशात् पर्यायपदं चित्वा लिखत।
(क) विश्वे
(ख) जगति
(ग) भुवने
(घ) लोके
उत्तरम् :
(ख) जगति

11. सरदार भगतसिंहः क्रान्तिकारिणां यूनां नेतृत्वं स्वातन्त्र्य सङ्गरे कृतवान्। सोऽभूच्चादर्शभूतो भारतीय युव-वर्गस्य। न केवलं भगतसिंहः स्वतन्त्रता संग्रामे संलग्नः आसीत्। तस्य समग्र परिवारः स्वतन्त्रता युद्धे प्रवृत्तः आसीत्। सरदार भगतसिंहस्य जन्म-समये तस्य जनकः सरदार किशनसिंहो योऽभूत् स्वतन्त्रता सैनिकः स कारागारे गौराङ्गैर्निपातितः। स्वतन्त्रता सैनिकोऽस्य पितृव्यः सरदार अजीतसिंहः निर्वासीतश्चासीत्।

1907 ई. वर्षे सितम्बरमासे, लॉयलपुर मण्डले बङ्गाख्ये ग्राम सरदार भगतसिंहस्य जन्म बभूव। प्राथमिकी शिक्षा चास्य ग्रामे एवाभूत्। उच्चाध्ययनायायं लाहौर नगरं गतवान्। अध्ययन समकालमेव भगतसिंहोऽपि क्रान्तिकारिणां संसर्गे समागतः देशभक्तिभावनया सोऽध्ययनं मध्ये विहाय दिल्लीनगरं प्रत्यागच्छत्। तत्रायं ‘दैनिक-अर्जुन’ इत्याख्ये समाचारपत्रे संवाददातृ रूपेण कार्यमकरोत्।।

[हिन्दी-अनुवाद – सरदार भगतसिंह ने स्वतन्त्रता संग्राम में क्रान्तिकारी युवकों का नेतृत्व किया था। वह भारतीय युवा वर्ग के आदर्शभूत हुए। न केवल भगतसिंह स्वतन्त्रता संग्राम में संलग्न था, (अपितु) उनका पूरा परिवार स्वतन्त्रता-युद्ध में लगा हुआ था। सरदार भगतसिंह के जन्म-समय में उनके पिता सरदार किशनसिंह जो स्वतन्त्रता सैनिक थे, उनको अंग्रेजों ने जेल में डाल दिया था।

और स्वतन्त्रता-सैनिक इनके चाचा सरदार अजीतसिंह निर्वासित थे। सन् 1907 वर्ष में सितम्बर माह में लॉयलपुर जिले के बङ्ग नामक गाँव में सरदार भगतसिंह का जन्म हुआ था। और प्राथमिक शिक्षा इसी गाँव में ही हुई थी। उच्च अध्ययन के लिए ये लाहौर नगर में चले गये थे। अध्ययन के समय ही भगतसिंह भी क्रान्तिकारियों के सम्पर्क में आ गए और देशभक्ति की भावना से वे अध्ययन को बीच में ही छोड़कर दिल्ली नगर में लौट आए। वहाँ इन्होंने ‘दैनिक-अर्जुन’ नामक समाचार पत्र में संवाददाता के रूप में कार्य किया।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) सरदारः भगतसिंह: स्वातन्त्र्य सङ्गरे केषां नेतृत्वं कृतवान् ?
(ii) भगतसिंहेन कस्मिन् समाचारपत्रे संवाददातृ रूपेण कार्यम् अकरोत् ?
(iii) सरदार भगतसिंहस्य पितृव्यस्य नाम किमासीत् ?
(iv) भगतसिंहः उच्चाध्ययनाय कुत्र गतवान् ?
उत्तरम् :
(i) यूनाम्।
(ii) ‘दैनिक-अर्जुन’ इत्याख्ये।
(iii) सरदार अजीतसिंहः।
(iv) लाहौरनगरम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) भगतसिंहस्य समग्रः परिवारः कुत्र प्रवृत्तः आसीत् ?
(ii) भगतसिंहस्य जन्म कदा कुत्र च अभवत् ?
(iii) भगतसिंहः कदा क्रान्तिकारिणां संसर्गे समागतः?
उत्तरम् :
(i) भगतसिंहस्य समग्रः परिवारः स्वतन्त्रता-युद्धे प्रवृत्तः आसीत्।
(ii) भगतसिंहस्य जन्म 1907 ई. वर्षे सितम्बरमासे, लॉयलपुरमण्डले बङ्गाख्ये ग्रामे अभवत्।
(iii) भगतसिंहः अध्ययनकाले एव क्रान्तिकारिणां संसर्गे समागतः।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सरदार भगतसिंहः।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – सरदार भगतसिंहः स्वतन्त्रतायुद्धे क्रान्तिकारिणां युवकानां नेतृत्वं कृतवान्। तस्य सम्पूर्णः परिवारः स्वतन्त्रतायुद्धे प्रवृत्तः आसीत्। भगतसिंहस्य पिता सरदार किशनसिंहः तथा पितृव्यः अजीतसिंहः स्वतन्त्रतासैनिकौ आस्ताम्। 1907 ई. वर्षे भगतसिंहस्य जन्म अभवत्। सः अध्ययनकाले एव क्रान्तिकारिणां संसर्गे समागतः।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘सरदार किशनसिंहः’ इति कर्तृपदस्य क्रियापदं किमस्ति?
(क) आसीत्।
(ख) अभूत्
(ग) बभूव
(घ) अकरोत्
उत्तरम् :
(ख) अभूत्

प्रश्न 2.
‘प्राथिमिकी’ इति विशेषणस्य विशेष्यपदं गद्यांशात् चित्वा लिखत।
(क) शिक्षा
(ख) स्वतन्त्रता
(ग) ग्रामे
(घ) अध्ययनं
उत्तरम् :
(क) शिक्षा

प्रश्न 3.
‘स कारागारे गौराङ्गै…….’ इत्यत्र ‘सः’ इति सर्वनामस्थाने संज्ञापदं लिखत।
(क) अजीतसिंहः
(ख) भगतसिंहः
(ग) मानसिंहः
(घ) किशनसिंहः
उत्तरम् :
(घ) किशनसिंहः

प्रश्न 4.
‘पिता’ इत्यस्य पर्यायपदं गद्यांशात् चित्वा लिखत।
(क) पितृव्यः पाच
(ख) यूनः
(ग) जनकः
(घ) तातः
उत्तरम् :
(ग) जनकः

12. ये सत्यं पालयन्ति, ते सर्वोत्तमं धर्मं कुर्वन्ति। ये च सत्यं परित्यज्य असत्यं भजन्ते, ते महापातकं कुर्वन्ति। यतो हि असत्य भाषणेन स्वस्य हानिः नाशश्च भवतः। समाजस्य लोकस्य देशस्य च मिथ्याभाषणेन नाशः भवति। अत एव उच्यते नहि सत्यात् परो धर्मो नानृतात् पातकं परम्। सत्यस्य पालनार्थमेव महाराजो दशरथः प्रियं पुत्रं रामं वनं प्रेषयत्। राजा हरिश्चन्द्रः सत्य पालनार्थमेव सर्वाणि दुःखानि असहत। युधिष्ठिरः सत्यभाषणस्य प्रभावादेव विजयमलभत। महात्मागान्धिमहोदयः सत्यस्यैव सदा शिक्षामदात्। भारतस्य राजचिह्नेऽपि “सत्यमेव जयते” इत्यादरेण उल्लिख्यते।

[हिन्दी-अनुवाद – जो सत्य का पालन करते हैं, वे सर्वोत्तम धर्म करते हैं और जो सत्य को छोड़कर असत्य को अपनाते हैं, वे महापाप करते हैं। क्योंकि असत्य बोलने से अपनी हानि और विनाश होता है। झूठ बोलने से समाज, लोक और देश का विनाश होता है। इसीलिए कहा जाता है-सत्य से बड़ा धर्म नहीं है और असत्य से बड़ा पाप नहीं है। सत्य का पालन करने के लिए ही महाराजा दशरथ ने प्रिय पुत्र राम को वन में भेजा। राजा हरिश्चन्द्र ने सत्य का पालन करने के लिए ही सभी दुःखों को सहन किया। युधिष्ठिर ने सत्य भाषण के प्रभाव से ही विजय को प्राप्त किया। महात्मा गांधी महोदय ने सत्य की ही हमेशा शिक्षा दी। भारत के राजचिह्न में भी “सत्यमेव जयते” यह आदरपूर्वक लिखा गया है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) सत्यभाषणस्य प्रभावात् युधिष्ठिरः कम् अलभत?
(ii) राजा हरिश्चन्द्रः कानि सर्वाणि असहत?
(iii) केन समाजस्य लोकस्य च नाशः भवति?
(iv) ये असत्यं भजन्ते ते किं कुर्वन्ति?
उत्तरम् :
(i) विजयम्।
(ii) दुःखानि।
(iii) मिथ्याभाषणेन।
(iv) महापातकम्।

पूर्णवाक्येन उत्तरतं –

प्रश्न 1.
(i) के सर्वोत्तमं धर्मं कुर्वन्ति?
(ii) किमर्थं दशरथः प्रियं पुत्रं रामं वनं प्रेषयत् ?
(iii) महात्मागान्धिमहोदयः कस्य एव सदा शिक्षामदात् ?
उत्तरम् :
(i) ये सत्यं पालयन्ति, ते सर्वोत्तमं धर्मं कुर्वन्ति।
(ii) सत्यस्य पालनार्थं दशरथः प्रियं पुत्रं रामं वनं प्रेषयत्।
(iii) महात्मागान्धिमहोदयः सत्यस्यैव सदा शिक्षामदात्।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सत्यस्य महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – संसारे सत्यस्य महत्त्वं सर्वाधिकं भवति। सत्यस्य पालनेन सर्वोत्तमं धर्मं भवति। असत्येन महापातकं च। मिथ्याभाषणेन न केवलं स्वस्य हानि: नाशश्च भवतः, अपितु समाजस्य देशस्य च नाशः भवति। कथितं च-सत्यात् परो धर्मो नास्ति, नानृतात् पातकं परम्। राजा हरिश्चन्द्रः, राजा दशरथश्च सत्यपालनार्थं दुःखानि असहताम्। युधिष्ठिरः सत्यभाषणेनैव विजयं प्राप्नोत्। वस्तुतः सत्यमेव जयते।

निर्देशानसारं प्रदत्तविकल्पेभ्यः उचितम उत्तरं चित्वा लिखत –

प्रश्न 1.
‘असहत’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) हरिश्चन्द्रः
(ख) दशरथः
(ग) युधिष्ठिरः
(घ) दुःखानि
उत्तरम् :
(क) हरिश्चन्द्रः

प्रश्न 2.
‘प्रियम्’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) वनं
(ख) दशरथं
(ग) राम
(घ) सत्यं
उत्तरम् :
(ग) राम

प्रश्न 3.
‘दुःखानि’ इति संज्ञापदस्य सर्वनामपदं किमस्ति?
(क) तानि
(ख) सर्वाणि
(ग) यानि
(घ) ते
उत्तरम् :
(ख) सर्वाणि

प्रश्न 4.
‘अनृतम्’ इत्यस्य गद्यांशात् पर्यायपदं चित्वा लिखत।
(क) सत्यम्
(ख) पातकम्
(ग) दुःखम्
(घ) मिथ्या
उत्तरम् :
(घ) मिथ्या

13. अहो प्रातःकालम्। अतीव रमणीयं दृश्यम्। प्रातःकाले वातावरणम् ‘अतीव शुद्धं सौम्यं’ च भवति। सर्वत्र शीतलवायुः प्रवहति। सूर्यः उदेति। प्रभातं भवति। सूर्यस्य प्रकाशः सर्वत्र प्रसरति। उद्याने पुष्पाणि विकसन्ति। तेषु भ्रमराः गुञ्जन्ति। खगाः गीतं गायन्ति। मनुष्याः उत्तिष्ठन्ति। ते सूर्यं नमन्ति। छात्राः प्रातःकाले सूर्योदयात् पूर्वं शयनं त्यजन्ति। ते ईश्वरं नमन्ति। स्वजननीजनको नमन्ति। स्नानं कुर्वन्ति। तदा प्रातराशं कृत्वा विद्यालयं गच्छन्ति। कृषकाः क्षेत्राणि गच्छन्ति। गोपालकाः दुग्धम् आनयन्ति। समाचारपत्रवाहकाः समाचारपत्राणि वितरन्ति। धार्मिकाः देवालयं गच्छन्ति। प्रातःकाले शुद्ध वातावरणे भ्रमणमपि अतीव हितकरं भवति। प्रातःकाले केचन जनाः भ्रमन्ति, केचन व्यायाम कुर्वन्ति, केचन क्रीडन्ति। इत्थं सर्वे मनुष्याः अस्मिन् समये स्वकीयकार्येषु संलग्नाः भवन्ति।

[हिन्दी-अनुवाद – अहो! प्रातःकाल है। अत्यधिक रमणीय दृश्य है। प्रात:काल वातावरण अत्यधिक शुद्ध और सौम्य होता है। सभी जगह शीतल वायु बहती है, सूर्य उगता है। प्रभात होती है। सूर्य का प्रकाश सभी जगह फैलता है। बगीचे में पुष्प खिलते हैं। उन पर भँवरे गूंजते हैं। पक्षी गीत गाते हैं। मनुष्य उठते हैं। वे सूर्य को नमस्कार करते हैं। छात्र प्रात:काल सूर्योदय से पहले शयन छोड़ देते हैं। वे ईश्वर को नमस्कार करते हैं। अपने माता-पिता को प्रणाम करते हैं। स्नान करते हैं। तब सुबह का नाश्ता करके विद्यालय जाते हैं। किसान खेत में जाते हैं। ग्वाले दूध लाते हैं। समाचार-पत्र वाहक समाचार-पत्र बाँटते हैं। धार्मिक लोग मन्दिर जाते हैं। प्रात:काल शुद्ध वातावरण में भ्रमण करना भी अत्यधिक हितकारी होता है। प्रात:काल कुछ लोग घूमते हैं, कुछ व्यायाम करते हैं, कुछ खेलते हैं। इस प्रकार सभी मनुष्य इस समय अपने कार्यों में संलग्न होते हैं।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) प्रात:काले दृश्यं कीदृशं भवति?
(ii) समाचारपत्राणि के वितरन्ति?
(iii) सर्वे जनाः कदा स्वकीयकार्येषु संलग्नाः भवन्ति?
(iv) छात्राः कौ नमन्ति?
उत्तरम् :
(i) रमणीयम्।
(ii) समाचारपत्रवाहकाः।
(iii) प्रातःकाले।
(iv) स्वजननीजनको।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) प्रातःकाले वातावरणं कीदृशं भवति?
(ii) कदा भ्रमणम् अतीव हितकरं भवति?
(iii) प्रातःकाले धार्मिकाः कुत्र गच्छन्ति?
उत्तरम् :
(i) प्रातःकाले वातावरणम् अतीव शुद्धं सौम्यं च भवति।
(ii) प्रातःकाले शुद्ध-वातावरणे भ्रमणम् अतीव हितकरं भवति।
(iii) प्रातःकाले धार्मिकाः देवालयं गच्छन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
प्रातःकालम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – प्रात:कालस्य दृश्यम् अतीव रमणीयं, शुद्धं सौम्यं च भवति। प्रातःकाले सर्वत्र शीतलवायुः प्रवहति। उद्यानेषु भ्रमरा: गुञ्जन्ति, खगाः गीतं गायन्ति। सर्वे मनुष्याः स्वकीयकार्येषु संलग्नाः भवन्ति। प्रात:काले भ्रमणमपि अतीव हितकरं भवति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘कृषकाः’ इति कर्तृपदस्य गद्यांशे क्रियापदं किमस्ति?
(क) भ्रमन्ति
(ख) गच्छन्ति
(ग) गायन्ति
(घ) त्यजन्ति
उत्तरम् :
(ख) गच्छन्ति

प्रश्न 2.
‘दृश्यम्’ इति विशेष्यस्य गद्यांशात् विशेषणपदं चित्वा लिखत।
(क) रमणीयम्
(ख) मधुरम्
(ग) शीतलम्
(घ) शुद्धम्
उत्तरम् :
(क) रमणीयम्

प्रश्न 3.
‘ते सूर्यं नमन्ति’-इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं लिखत।।
(क) छात्राः
(ख) कृषकाः
(ग) धार्मिकाः
(घ) मनुष्याः
उत्तरम् :
(घ) मनुष्याः

प्रश्न 4.
‘अन्धकारः’ इति पदस्य गद्यांशात् विलोमपदं चित्वा लिखत।
(क) प्रातः
(ख) शयनम्
(ग) प्रकाशः
(घ) सौम्यम्
उत्तरम् :
(ग) प्रकाशः

14. श्रेयसाम् अभिवादनं मानवस्य साधारणो धर्मोऽस्ति। अर्हाणाम् अभिवादनेन सदृशं संबलं न अस्ति, अन्यत् त्रिषु लोकेषु। अभिवादनशीलस्य कृते आचारोऽयं सुख-सौभाग्यारोग्यादि-सम्पदः कल्पवृक्ष इव स्वयं प्रददाति। अभिवादने विनये च स्थितां महतीं शक्तिं जानन्तः सत्पुरुषाः जन्मतः एव सन्तती: पूज्यपूजायै प्रेरयन्ति। अभिवादनशीलः जनः असम्भवमपि सम्भवं करोति। अस्मिन् विषये धर्मशास्त्रेषु वर्णितं परममेधाविनः सप्तकल्पान्तजीविनः पुण्यभाजः मुनिमार्कण्डेयस्य प्रथितं-वृत्तं सप्रमाणमस्ति।

[हिन्दी-अनुवाद – श्रेष्ठ लोगों का अभिवादन करना मानव का सामान्य धर्म है। पूज्यों का अभिवादन करने के समान अन्य तीनों लोकों में कोई श्रेष्ठ बल नहीं है। अभिवादनशील के लिए यह आचरण सुख, सौभाग्य, आरोग्य आदि सम्पत्तियाँ कल्पवृक्ष के समान स्वयं प्रदान करता है। अभिवादन और विनम्रता में स्थित महान् शक्ति को जानते हुए ही सत्पुरुष जन्म से ही सन्तान को पूज्यों की पूजा के लिए प्रेरित करते हैं। अभिवादनशील असम्भव को भी सम्भव कर देता है। इस विषय में धर्मशास्त्रों में वर्णित परम मेधावी सप्तकल्पान्तजीवी पवित्र मुनि मार्कण्डेय का प्रसिद्ध वृत्तान्त प्रमाण है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) क: मानवस्य साधारणो धर्मोऽस्ति?
(ii) धर्मशास्त्रेषु कस्य वृत्तं प्रमाणमस्ति?
(iii) कः जनः असम्भवमपि सम्भवं करोति?
(iv) मुनिमार्कण्डेय कति कल्पान्तजीविनः पुण्यभाजः अस्ति?
उत्तरम् :
(i) श्रेयसाम् अभिवादनम्।
(ii) मुनिमार्कण्डेयस्य।
(iii) अभिवादनशीलः।
(iv) सप्त।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) सत्पुरुषाः जन्मतः एव सन्तती: कुत्र प्रेरयन्ति?
(ii) त्रिषु लोकेषु केन सदृशं संबलं नास्ति?
(iii) आचारोऽयं कस्मै सुख-सौभाग्यारोग्यादिसम्पदः प्रददाति?
उत्तरम् :
(i) सत्पुरुषाः जन्मतः एव सन्तती: पूज्यपूजायै प्रेरयन्ति।
(ii) त्रिषु लोकेषु अर्हणाम् अभिवादनेन सदृशं संबलं नास्ति।
(iii) आचारोऽयं अभिवादनशीलाय सुख-सौभाग्यारोग्यादिसम्पदः प्रददाति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
अभिवादनस्य महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – श्रेष्ठजनानाम् अभिवादनं मानवस्य साधारणो धर्मोऽस्ति। अनेन सकलसुखसौभाग्यारोग्यादि सम्पदः प्राप्यते। अस्य महत्त्वं जानन्तः सत्पुरुषाः जन्मतः एव सन्तती: पूज्यपूजायै प्रेरयन्ति। अभिवादनशीलः जनः असम्भवमपि सम्भवं करोति। अस्य दृष्टान्तरूपेण सप्तकल्पान्तजीविनः मुनिमार्कण्डेयस्य चरित्रं सुप्रसिद्धमस्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘प्रेरयन्ति’ इति क्रियायाः गद्यांशे कर्तृपदं किमस्ति?
(क) सन्तती:
(ख) जानन्तः
(ग) सत्पुरुषाः
(घ) मानवाः
उत्तरम् :
(ग) आचारः

प्रश्न 2.
‘धर्मः’ इति विशेष्यपदस्य गद्यांशात् विशेषणपदं चित्वा लिखत।
(क) साधारणः
(ख) अभिवादनं
(ग) आचारः
(घ) श्रेयसाम्
उत्तरम् :
(क) साधारणः

प्रश्न 3.
‘आचारः’ इति संज्ञापदस्य गद्यांशे सर्वनामपदं किम् ?
(क) दयम
(ख) सः
(ग) अस्मिन
(घ) अयम्
उत्तरम् :
(घ) अयम्

प्रश्न 4.
‘सम्भवम्’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(क) अन्यत्
(ख) असम्भवम्
(ग) महतीम्
(घ) स्थिताम् उत्तराणि
उत्तरम् :
(ख) असम्भवम्

15. सताम् आचारः सदाचारः इति कथ्यते। सजनाः यथा आचरन्ति तथैव आचरणं सदाचारो भवति। ते सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति। तेषु सत्याचरणं, वाक्संयमः, विनयः, अक्रोधः, क्षमा, धर्माचरणमित्यादयः सद्गुणाः दृश्यन्ते। सदाचारस्य सत्तयैव संसारे जनः उन्नतिं करोति। देशस्य, राष्ट्रस्य, समाजस्य, जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति। सदाचारेणैव शरीरं परिपुष्टं भवति। सदाचारेण बुद्धिः वर्धते। सदाचारेणैव मनुष्यः सत्यभाषणम् अन्यच्च सत्कर्म कर्तुं प्रवृत्तो भवति। अतएव पूर्वैः महर्षिभिः ‘आचारः परमो धर्मः’ इत्युक्तम्।।

संसारे सर्वत्र सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणो भवन्ति, ते एव सर्वत्र आदरं लभन्ते। वेदरामायणमहाभारतेष्वपि सदाचारस्य महिमा वर्णिता वर्तते। सदाचाराभावेनैव चतुर्वेदविदपि रावणो राक्षस इति कथ्यते। अतः सर्वैः जनैः स्वोन्नत्यै सदा सदाचारः पालनीयः।

[हिन्दी-अनुवाद – सज्जनों (विद्वानों) के आचरण को सदाचार कहा जाता है। सज्जन जिस प्रकार का आचरण करते हैं वही आचरण सदाचार होता है। वे सभी के साथ शिष्टतापूर्वक व्यवहार करते हैं। उनमें सत्य आचरण, वाणी का संयम, विनम्रता, अक्रोध, क्षमा, धर्म का आचरण इत्यादि श्रेष्ठ गुण दिखलाई देते हैं। सदाचार की सत्ता से ही संसार में मनुष्य उन्नति करता है। देश की, राष्ट्र की, समाज की और लोगों की उन्नति के लिए सदाचार की महान् आवश्यकता है। सदाचार से ही लोग ब्रह्मचारी होते हैं।

सदाचार से ही शरीर परिपुष्ट (मजबूत) होता है। सदाचार से बुद्धि बढ़ती है। सदाचार से ही मनुष्य सत्य-भाषण और अन्य श्रेष्ठ कर्मों को करने के लिए प्रवृत्त होता है। इसीलिए प्राचीन महर्षियों ने ‘सदाचार परम धर्म है’ ऐसा कहा है। संसार में सभी जगह सदाचार का ही महत्त्व दिखाई देता है। जो सदाचारी होते हैं, वे ही सभी जगह आदर प्राप्त करते हैं। वेद, रामायण तथा महाभारत में भी सदाचार की महिमा का वर्णन किया गया है। सदाचार के अभाव में चारों वेदों का ज्ञाता होने पर भी रावण ‘राक्षस’ कहा जाता है। इसलिए सभी लोगों को अपनी उन्नति के लिए हमेशा सदाचार का पालन करना चाहिए।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) केषाम् आचारः सदाचारः इति कथ्यते?
(ii) केन बुद्धिः वर्धते?
(iii) कस्य सत्तयैव संसारे जनः उन्नतिं करोति?
(iv) महर्षिभिः आचारः कीदृशो धर्मः कथितः?
उत्तरम् :
(i) सताम्।
(ii) सदाचारेण।
(iii) सदाचारस्य।
(iv) परमः।

पूर्णवाक्येन उत्तरत-

प्रश्न 1.
(i) सज्जनाः सर्वैः सह कीदृशं व्यवहारं कुर्वन्ति?
(ii) के सर्वत्र आदरं लभन्ते?
(iii) कथं चतुर्वेदविदपि रावणो राक्षस इति कथ्यते?
उत्तरम् :
(i) सज्जनाः सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति।
(ii) सदाचारिणः सर्वत्र आदरं लभन्ते।
(iii) सदाचाराभावेन चतुर्वेदविदपि रावणो राक्षस इति कथ्यते।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सदाचारस्य महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – ‘सज्जनानाम् आचरणं सदाचारः कथ्यते। अस्मिन् आचरणे सत्यभाषणं, वाक्संयमः, अक्रोधः, क्षमा, धर्म इत्यादयः सद्गुणाः आयान्ति। स्वस्य राष्ट्रस्य च उन्नत्यै सदाचारस्य आवश्यकता भवति। अयमेव धर्मः प्राचीनग्रन्थेषु महर्षिभिः ‘आचारः परमो धर्मः’ इति ठक्तः।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘वर्धते’ इति क्रियापदस्य गद्यांशे कर्तृपदं किमस्ति?
(क) बुद्धिः
(ख) शरीरम्
(ग) धर्मः
(घ) जनः
उत्तरम् :
(क) बुद्धिः

प्रश्न 2.
‘महर्षिभिः’ इति विशेष्यपदस्य गद्यांशात् विशेषणपदं चित्वा लिखत।
(क) आचारः
(ख) परमः
(ग) पूर्वैः
(घ) सदाचारिणः
उत्तरम् :
(ग) पूर्वैः

प्रश्न 3.
‘ते सर्वैः सह शिष्टतापूर्वकं ……….।’ इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) जनाः
(ख) सज्जनाः
(ग) मनुष्याः
(घ) सदाचारिणः
उत्तरम् :
(ख) सज्जनाः

प्रश्न 4.
‘मनुष्यः’ इत्यस्य गद्यांशात् विलोमपदं चित्वा लिखत।
(क) जनः
(ख) रावणः
(ग) महर्षिः
(घ) राक्षसः
उत्तरम् :
(घ) राक्षसः

16. एकदा शीतस्य भीषणः प्रकोपः अभवत्। सम्राट चन्द्रगुप्तः निश्चितवान् यत् निर्धनेभ्यः कम्बलानां वितरणं भवेत्। प्रधानमन्त्री चाणक्यः तत्कार्यं स्वीकृतवान्। भृत्याः सर्वान् कम्बलान् तस्य कुटीरे स्थापितवन्तः। रात्रौ केचन चौराः कम्बलान् चोरयितुं तस्य कुटीरं प्राविशन्। ते अपश्यन् यत् चाणक्यः एकस्मिन् कटे कम्बलं विना एव सुप्तः। तस्मिन् एव क्षणे चाणक्यः पदध्वनिं श्रुत्वा प्रबुद्धः। चौराः तम् अपृच्छन्-“भवतां समीपे कम्बलानां राशिः अस्ति तथापि भवान् कम्बलं विना एवं स्वपिति।” चाणक्यः अवदत्-“शृणुत! एते प्रावारकाः केवलं निर्धनेभ्यः वितरणार्थम् एव सन्ति। यदि अहम् एतेषु एकं स्वीकरोमि तर्हि अहम् अपि चौरः भविष्यामि।” नतमस्तकाः चौराः तस्य पादयोः पतित्वा क्षमायाचनाम् अकुर्वन्।

[हिन्दी-अनुवाद – एक बार सर्दी का भयानक प्रकोप हुआ। सम्राट चन्द्रगुप्त ने निश्चित किया कि निर्धनों के लिए कम्बलों का वितरण होना चाहिए। प्रधानमन्त्री चाणक्य ने उस कार्य को स्वीकार किया। सेवकों ने सभी कम्बलों को उसकी कुटिया में रख दिया। रात में कुछ चोर कम्बलों को चुराने के लिए उसकी कुटिया में प्रविष्ट हो गये। उन्होंने देखा कि चाणक्य एक आसन पर कम्बल के बिना ही शयन कर रहा था। उसी क्षण चाणक्य पैरों की आहट सुनकर जाग गया। चोरों ने उससे पूछा-“आपके पास कम्बलों का ढेर है फिर भी आप कम्बल के बिना ही शयन कर रहे हैं।” चाणक्य बोला-‘सनिए! ये कम्बल केवल निर्धनों को वितरित करने के लिए हैं। य भी लेता हूँ तो मैं भी चोर हो जाऊँगा।” नतमस्तक चोर उसके पैरों में गिरकर क्षमा-याचना करने लगे।

एकपदेन उत्तरत –

प्रश्न 1.
(i) एकदा कस्य भीषणः प्रकोपः अभवत् ?
(ii) रात्रौ चाणक्यः किं श्रुत्वा प्रबुद्धः?
(iii) रात्रौ चौराः किमर्थं कुटीरं प्राविशन् ?
(iv) चाणक्यः कस्य प्रधानमन्त्री आसीत् ?
उत्तरम् :
(i) शीतस्य।
(ii) पदध्वनिम्।
(iii) कम्बलान् चोरयितुम्।
(iv) चन्द्रगुप्तस्य।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) सम्राट् चन्द्रगुप्तः किं निश्चितवान् ?
(ii) भृत्याः सर्वान् कम्बलान् कुत्र स्थापितवन्तः?
(iii) नतमस्तकाः चौराः किम् अकुर्वन् ?
उत्तरम् :
(i) सम्राट चन्द्रगुप्तः निश्चितवान् यत् ‘निर्धनेभ्यः कम्बलानां वितरणं भवेत्।’
(ii) भृत्याः सर्वान् कम्बलान् चाणक्यस्य कुटीरे स्थापितवन्तः।
(iii) (ख) भवति।
(iii) नतमस्तकाः चौरा: चाणक्यस्य पादयोः पतित्वा क्षमायाचनाम् अकुर्वन्।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
चाणक्यस्य महानता।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – एकदा शीतकाले निर्धनेभ्यः कम्बलानां वितरणस्य दायित्वं चन्द्रगुप्तस्य प्रधानमन्त्री चाणक्यः रात्रौ केचन चौराः कम्बलान चोरयितं तस्य कटीरे प्राविशन। तदा चाणक्यः कम्बलं विना एव सुप्तः आसीत्। पदध्वनिं श्रुत्वा चाणक्यः प्रबुद्धः। चौराः विना कम्बलं शयनस्य कारणम् अपृच्छन्। चाणक्यस्य उत्तरं श्रुत्वा चौराः नतमस्तकाः भूत्वा क्षमायाचनाम् अकुर्वन्।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘अपृच्छन्’ इति क्रियायाः कर्तृपदं किमस्ति?
(क) चौराः
(ख) भृत्याः
(ग) चाणक्यः
(घ) निर्धनाः
उत्तरम् :
(क) चौराः

प्रश्न 2.
‘प्रकोपः’ इति विशेष्यपदस्य गद्यांशे विशेषणपदं किं प्रयुक्तम् ?
(क) शीतस्य
(ख) एकदा
(ग) भीषणः
(घ) चन्द्रगुप्तः
उत्तरम् :
(ग) भीषणः

प्रश्न 3.
“तस्य कुटीरं प्राविशन्” इत्यत्र ‘तस्य’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) चन्द्रगुप्तस्य
(ख) चाणक्यस्य
(ग) भृत्यस्य
(घ) मन्त्रिणः
उत्तरम् :
(ख) चाणक्यस्य

प्रश्न 4.
‘सेवकाः’ इति पदस्य पर्यायपदं गद्यांशात् चित्वा लिखत।
(क) राजपुरुषाः
(ख) चौराः
(ग) निर्धनाः
(घ) भृत्याः
उत्तराणि
उत्तरम् :
(घ) भृत्याः

17. सतां जनानां संगतिः सत्संगतिः कथ्यते। मानवः यादृशैः जनैः सह वसति तादृशः एव भवति। सज्जनानां सम्पर्केण मनुष्यः सज्जनः भवति उन्नतिं महत्पदं च अलंकरोति। दुर्जनानां संगत्या मनुष्यो दुर्जनो भवति, पतनं विनाशं च प्राप्नोति। अतः मनुष्यस्योपरि संगतेः महान् प्रभावो बाल्यकाले विशेषतो बालकस्योपरि संसर्गस्य प्रभावो भवति। ये यादृशैः बालकैः सह उपविशन्ति, उत्तिष्ठन्ति, खादन्ति, पिबन्ति च ते तथैव स्वभावं धारयन्ति। अतः बाल्यकाले दुर्जनैः सह संगतिः कदापि न करणीया।

सजनानां संगत्या मनुष्यः उन्नतिं प्राप्नोति। तस्य विद्या कीर्तिश्च वर्धेते। दुर्जनानां संसर्गेण बहवः हानयः भवन्ति, यथा-दुर्जनसंसर्गेण मनुष्योऽसवृत्तो भवति, दुर्विचारयुक्तो भवति, तस्य बुद्धिर्दूषिता भवति, अतः बुद्धिः क्षीयते मनुष्यः दुर्व्यसनग्रस्तो भवति। अतस्तस्य शरीरं क्षीणं निर्बलं च भवति। तस्य कीर्तिः नश्यति, सर्वत्रानादरो भवति। अतः स्वयशोवृद्धये ज्ञानवृद्धये सुखस्य शान्तेश्च प्राप्त्यर्थं सर्वैरपि सर्वदा सत्संगतिः करणीया, दुर्जनसंगतिः सदा परिहर्तव्या।

[हिन्दी-अनुवाद – सज्जन (गुणवान्) लोगों की संगति को सत्संगति कहा जाता है। मनुष्य जिस प्रकार के लोगों के साथ रहता है वैसा ही होता है। सज्जनों के सम्पर्क से मनुष्य सज्जन होता है तथा उन्नति और महान् पद को सुशोभित करता है। दुर्जनों की संगति से मनुष्य दुर्जन होता है तथा पतन और विनाश को प्राप्त करता है। इसलिए मनुष्य के ऊपर संगति का महान् प्रभाव होता है।

बचपन में विशेष रूप से बालक के ऊपर संगति का प्रभाव होता है। जो जिस प्रकार के बालकों के साथ बैठते हैं, उठते हैं, खाते हैं और पीते हैं, वे उसी प्रकार का स्वभाव धारण करते हैं। इसलिए बचपन में दुर्जनों के साथ संगति कभी नहीं करनी चाहिए। सज्जनों की संगति से मनुष्य उन्नति प्राप्त करता है। उसकी विद्या और कीर्ति (यश) बढ़ती है। दुर्जनों की संगति से बहुत-सी हानियाँ होती हैं; जैसे-दुर्जनों की संगति से मनुष्य दुराचरण करने वाला हो जाता है, बुरे विचार वाला होता है, उसकी बुद्धि दूषित हो जाती है, इसलिए बुद्धि क्षीण हो जाती है तथा मनुष्य दुर्व्यसनग्रस्त हो जाता है। इसलिए उसका शरीर क्षीण और निर्बल होता है। उसका यश नष्ट हो जाता है तथा सभी जगह अनादर होता है। इसलिए सभी को अपने यश की वृद्धि के लिए, ज्ञान की वृद्धि के लिए, सुख और शान्ति की प्राप्ति के लिए हमेशा सत्संगति करनी चाहिए और दुर्जनों की संगति का हमेशा त्याग कर देना चाहिए।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) केषां जनानां संगतिः सत्संगतिः कथ्यते?
(ii). मनुष्योपरि कस्य महान् प्रभावो भवति?
(iii) केषां संसर्गेण बहवः हानयः भवन्ति?
(iv) का सदा परिहर्तव्या?
उत्तरम् :
(i) सताम्।
(ii) संगतः।
(iii) दुर्जनानाम्।
(iv) दुर्जनसंगतिः।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) सज्जनानां सम्पर्केण मनुष्यः किम् अलंकरोति?
(ii) केन मनुष्यस्य बुद्धिः क्षीयते?
(iii) किमर्थं सर्वैरपि सर्वदा सत्संगतिः करणीया?
उत्तरम् :
(i) सज्जनानां सम्पर्केण मनुष्यः उन्नतिं महत्पदं च अलंकरोति।
(ii) ‘दुर्जनसंसर्गेण मनुष्यस्य बुद्धिः क्षीयते।
(iii) स्वयशोवृद्धये ज्ञानवृद्धये सुखस्य शान्तेश्च प्राप्त्यर्थं सर्वैरपि सर्वदा सत्संगति: करणीया।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सत्संगतेः महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – सज्जनानां संगतिः सत्संगतिः कथ्यते। जनः यादृशानां जनानां संगतिं करोति तादृशः एव जायते। बाल्यकाले संगत्याः विशेषप्रभावः भवति। सत्संगत्या मानवः विद्यां कीर्तिं च प्राप्नोति। दुर्जनानां संसर्गेण बहवः हानयः भवन्ति। अतः सद्गुणानां वृद्धये सदैव सत्संगतिः करणीया, दुर्जनसंगतिश्च परिहर्तव्या।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘प्राप्नोति’ इति क्रियापदस्य गद्यांशे कर्तृपदं किमस्ति?
(क) सज्जनः
(ख) मनुष्यः
(ग) दुर्जनः
(घ) बालकः
उत्तरम् :
(ख) मनुष्यः

प्रश्न 2.
‘महान्’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) प्रभावः
(ख) संगतिः
(ग) सज्जनः
(घ) मनुष्यः
उत्तरम् :
(क) प्रभावः

प्रश्न 3.
‘तस्य कीर्तिः नश्यति’-इत्यत्र ‘तस्य’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) सज्जनस्य
(ख) बालकस्य।
(ग) जनस्य
(घ) दुर्जनस्य
उत्तरम् :
(घ) दुर्जनस्य

प्रश्न 4.
‘आदरः’ इति पदस्य गद्यांशात् विलोमपदं चित्वा लिखत।।
(क) पतनम्
(ख) विनाशः
(ग) अनादरः
(घ) उन्नतिम्
उत्तरम् :
(ग) अनादरः

18. देशाटनस्य बहवो गुणाः भवन्ति। नानादेशजलवायुप्रभावेणास्माकं स्वास्थ्यलाभो भवति। देशान्तरकला-कौशलज्ञानेन वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः। अधिकोन्नतस्य देशस्य नागरिकाः प्रायः पर्यटनप्रियाः भवन्ति। ब्रिटिशशासनकाले शासका भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म। भारतीयाश्च प्रेरणां विना न किमपि कुर्वन्तीति सर्वविदितम्। परमधुना न वयं परतन्त्राः, अतः शासकानामेतत् कर्त्तव्यमापद्यते यत्ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुः। अधुना बहवो भारतीयाश्छात्रा अमरीकाइङ्गलैण्डरूसप्रभृतिदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति। स्वदेशमागत्य ते स्वोपार्जितज्ञानेन स्वदेशमवश्यमेवोन्नमयिष्यन्तीति जानीमः।

[हिन्दी-अनुवाद – देशाटन के बहुत गुण होते हैं। अनेक देशों की जलवायु के प्रभाव से हमारा स्वास्थ्य-लाभ ता ह। दूसर दशा क कला-कौशल के ज्ञान से हम अपने देश के भी कला-कौशल को सम्पन्न करते हैं। अधिक उन्नत देश के लोग प्रायः पर्यटन-प्रिय होते हैं। ब्रिटिश शासन काल में शासक भारतीय लोगों की देशाटन में रुचि को प्रोत्साहित नहीं करते थे। और भारतीय प्रेरणा के बिना कुछ भी नहीं करते हैं यह सभी जानते हैं। किन्तु अब हम गलाम नहीं हैं, इसलिए शासकों का यह कर्त्तव्य आ जाता है कि वे भारतीय लोगों की देशाटन के प्रति रुचि को प्रोत्साहित करें। इस समय बहुत से भारतीय छात्र अमरीका, इंग्लैण्ड, रूस आदि देशों में विभिन्न कला-कौशल का ज्ञान अर्जित करने के लिए गये हुए हैं। अपने देश में आकर वे अपने द्वारा उपार्जित ज्ञान से अपने देश की अवश्य ही उन्नति करेंगे, ऐसा हम जानते हैं।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) कस्य बहवो गुणाः भवन्ति?
(ii) भारतीयाः कां विना न किमपि कुर्वन्ति?
(iii) केन अस्माकं स्वास्थ्यलाभो भवति?
(iv) देशान्तरकलाकौशलज्ञानेन वयं स्वदेशं किम् कुर्मः?
उत्तरम् :
(i) देशाटनस्य।
(ii) प्रेरणाम्।
(iii) नानादेशजलवायुप्रभावेण।
(iv) कलाकौशलसम्पन्नम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) के प्रायः पर्यटनप्रियाः भवन्ति?
(ii) कदा शासका: भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म?
(iii) अधुना बहवो भारतीयाश्छात्राः विदेशेषु किमर्थं गताः सन्ति?
उत्तरम् :
(i) अधिकोन्नतस्य देशस्य नागरिकाः प्रायः पर्यटनप्रियाः भवन्ति।।
(ii) ब्रिटिशशासनकाले शासकाः भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म।
(iii) अधुना बहवो भारतीयाश्छात्राः विदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
देशाटनस्य महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – देशाटनस्य बहुमहत्त्वं वर्तते। नानादेशजलवायुप्रभावेण न केवलं स्वास्थ्यलाभो भवति, अपितु देशान्तरकलाकौशलज्ञानेन वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः। उन्नतदेशस्य जनाः पर्यटनप्रियाः भवन्ति। अधुना छात्राः, वैज्ञानिकाश्च विदेशेषु गत्वा ज्ञानविज्ञानयोः आदान-प्रदानं कुर्वन्ति। देशाटनेन परस्परं मैत्रीभावना अपि वर्धते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘कुर्वन्ति’ इति क्रियापदस्य गद्यांशे कर्तृपदं किमस्ति?
(क) भारतीयाः
(ख) शासकाः
(ग) गुणाः
(घ) छात्राः
उत्तरम् :
(क) भारतीयाः

प्रश्न 2.
‘गुणाः’ इति विशेष्यपदस्य गद्यांशात् विशेषणपदं चित्वा लिखत।
(क) देशाटनस्य
(ख) देशस्य
(ग) बहवः
(घ) अतीव
उत्तरम् :
(ग) बहवः

प्रश्न 3.
‘ते भारतीयानां…………..।’ इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) छात्राः
(ख) शासकाः
(ग) नागरिकाः
(घ) जनाः
उत्तरम् :
(ख) शासकाः

प्रश्न 4.
‘स्वतन्त्राः’ इत्यस्य गद्यांशात् विलोमपदं चित्वा लिखत। .
(क) स्वाधीनाः
(ख) पराधीनाः
(ग) जागरूकाः
(घ) परतन्त्राः
उत्तरम् :
(घ) परतन्त्राः

19. दीपावली अस्माकं राष्ट्रियोत्सवः वर्तते। अस्मिन् उत्सवे सर्वे जनाः परस्परं भेदभाव विस्मृत्य आनन्दमग्नाः भवन्ति। त्रेतायुगे कैकेय्याः वरयाचनात् अयोध्यायाः राज्ञा दशरथेन रामाय चतुर्दशाणां वर्षाणां वनवासः प्रदत्तः। श्रीरामः अस्मिन् एव दिने सीतालक्ष्मणाभ्यां सह अयोध्या प्रत्यावर्तितवान्। तान् स्वागतं व्याहर्तुम् अयोध्यावासिनः नगरे सर्वत्र दीपान् प्रज्वालितवन्तः। तदा आरभ्य अद्यावधिः प्रतिवर्ष कार्त्तिकमासे अमावस्यायां तिथौ भारते दीपावली-महोत्सवः महता उत्साहेन आयोजितः भवति।

दीपावल्यां जनाः गृहाणि परिष्कुर्वन्ति। अस्मिन्नवसरे ते स्वमित्रेभ्यः बन्धुभ्यश्च उपहारान् यच्छन्ति, परस्परम् अभिनन्दन्ति च बालकेभ्यः मिष्ठान्नं यच्छन्ति। सर्वे जनाः लक्ष्मी-गणेशयोः पूजनं कुर्वन्ति। पितरः स्वसन्ततिभ्यः स्फोटनकानि ददति। अस्मिन् महोत्सवे सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभेच्छाः प्रकटयन्ति।

[हिन्दी-अनुवाद – दीपावली हमारा राष्ट्रीय उत्सव है। इस उत्सव पर सभी लोग आपस में भेदभाव भूलकर

आनन्दमग्न हो जाते हैं। त्रेतायुग में कैकेयी के द्वारा वरदान मांगने पर अयोध्या के राजा दशरथ के द्वारा राम के लिए चौदह वर्षों का वनवास दिया गया था। श्रीराम इसी दिन सीता और लक्ष्मण के साथ अयोध्या लौटे थे। उनका स्वागत करने के लिए अयोध्या के लोगों ने नगर में सभी जगह दीप प्रज्वलित किये थे। तभी से लेकर आज तक प्रतिवर्ष कार्तिक माह की अमावस्या तिथि को भारत में दीपावली महोत्सव महान् उत्साह के साथ आयोजित होता है।

दीपावली पर लोग घरों की सफाई करते हैं। इस अवसर पर वे अपने मित्रों के लिए और बन्धु-बान्धवों के लिए उपहार देते हैं और परस्पर में अभिनन्दन करते हैं। बालकों के लिए मिठाई देते हैं। सभी लोग लक्ष्मी और गणेशजी का पूजन करते हैं। पिता अपनी सन्तानों के लिए पटाखे देते हैं। इस महोत्सव पर सभी लोगों की सुख और समृद्धि के लिए शुभकामनाएँ प्रकट करते हैं।

एकपदेन उत्तरत –

प्रश्न 1.
(i) कस्याः वरयाचनात् दशरथेन रामाय वनवासः प्रदत्तः?
(ii) कदा जनाः गृहाणि परिष्कुर्वन्ति?
(iii) सर्वे जनाः परस्परं किम् विस्मृत्य आनन्दमग्नाः भवन्ति?
(iv) दशरथेन रामाय कति वर्षाणां वनवासः प्रदत्तः?
उत्तरम् :
(i) कैकेय्याः।
(ii) दीपावल्याम्।
(iii) भेदभावम्।
(iv) चतुर्दशाणाम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) भारते कदा दीपावली-महोत्सवः आयोजितः भवति?
(ii) दीपावल्यां जनाः कयोः पूजनं कुर्वन्ति?
(iii) दीपावली-महोत्सवे सर्वे सर्वेभ्यः किं प्रकटयन्ति?
उत्तरम् :
(i) भारते प्रतिवर्ष कार्तिकमासे अमावस्यायां तिथौ दीपावली-महोत्सवः आयोजितः भवति।
(ii) दीपावल्यां जनाः लक्ष्मी-गणेशयोः पूजनं कुर्वन्ति।
(iii) दीपावली-महोत्सवे सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभेच्छाः प्रकटयन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
दीपावली-महोत्सवः।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – दीपावली भारतीयानां राष्ट्रियोत्सवरूपेण मन्यते। भारतदेशे प्रतिवर्ष कार्तिकमासस्य अमावस्यायां तिथौ दीपावली-महोत्सवः उत्साहेन आयोजितः भवति। अस्मिन् उत्सवे सर्वे जनाः आनन्दमग्नाः भवन्ति। परस्परं अभिनन्दनं कुर्वन्ति, उपहारान् च यच्छन्ति। सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभकामना प्रकटयन्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः

उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘परिष्कुर्वन्ति’ इति क्रियायाः कर्तृपदं किमस्ति?
(क) पितरः
(ख) सर्वे
(ग) जनाः
(घ) गृहाणि
उत्तरम् :
(ग) जनाः

प्रश्न 2.
‘राज्ञा’ इति विशेषणस्य गद्यांशे विशेष्यपदं किं प्रयुक्तम्?
(क) दशरथेन
(ख) रामाय
(ग) अयोध्यायाः
(घ) वनवासः
उत्तरम् :
(क) दशरथेन

प्रश्न 3.
‘ते स्वमित्रेभ्यः ………..।’ इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) बालकाः
(ख) पितरः
(ग) मित्राणि
(घ) जनाः
उत्तरम् :
(घ) जनाः

प्रश्न 4.
‘दुःखाय’ इति पदस्य गद्यांशात् विलोमपदं चित्वा लिखत।
(क) समृद्धये
(ख) सुखाय
(ग) पीडाय
(घ) कल्याणाय
उत्तरम् :
(ख) सुखाय

20. अस्मिन् संसारे असंख्याः भाषाः सन्ति। तासु भाषासु संस्कृत भाषा सर्वोत्तमा विद्यते। संस्कृता परिष्कृता दोषरहिता भाषा एव संस्कृत भाषा कथ्यते। इयमेव भाषा देवभाषा, गीर्वाणगीः, सुरवाणी परिष्कन पारदरा गान इत्यादिभिः शब्दै संबोध्यते। एतानि नामानि एव अस्याः भाषायाः महत्त्वं सूचयन्ति। संस्कृतभाषा जगतः सर्वासां भाषाणां जननी अस्ति। सर्वभाषाणां मूलरूप ज्ञानाय एतस्या आवश्यकता भवति। यादृशं महत् साहित्यं संस्कृत-भाषायाः अस्ति तादृशं अन्यासां भाषाणां नास्ति। अस्यामेव भाषायां ब्राह्मण-ग्रन्थाः आरण्यकाः अध्यात्मविषयप्रतिपादिका उपनिषदः, वेदादयश्च सन्ति। आदिकाव्यं रामायणं वीरकाव्यं महाभारतमपि संस्कृतस्य गौरवं वर्धयतः। अनयोः ग्रन्थयोः विषयं गृहीत्वा एव विशालस्य (संस्कृत) साहित्यस्य रचना संजाता।

[हिन्दी-अनुवाद – इस संसार में असंख्य भाषाएँ हैं। उन भाषाओं में संस्कृत भाषा, सर्वोत्तम है। संस्कारयुक्त, और दोषरहित भाषा ही संस्कृत भाषा कही जाती है। यही भाषा देवभाषा, गीर्वाणगी, सुरवाणी इत्यादि शब्दों से बोली जाती है। ये नाम ही इस भाषा के महत्त्व को सूचित करते हैं।

संस्कृत भाषा संसार की सभी भाषाओं की जननी है। सभी भाषाओं के मूल ज्ञान को जानने के लिए इसकी आवश्यकता होती है। जैसा महान् साहित्य संस्कृत-भाषा का है वैसा अन्य भाषाओं का नहीं है। इसी भाषा में ब्राह्मण ग्रन्थ, आरण्यक, अध्यात्म विषय को प्रतिपादित करने वाले उपनिषद् तथा वेद आदि हैं। आदिकाव्य रामायण और वीरकाव्य महाभारत भी संस्कृत के गौरव को बढ़ाते हैं। इन दोनों ग्रन्थों से विषय-वस्तु लेकर ही विशाल संस्कृत साहित्य की रचना हुई है।]

एकपन उत्तरत –

प्रश्न 1.
(i) सर्वोत्तमा भाषा का विद्यते?
(ii) सर्वभाषाणां मूलरूपं ज्ञानाय कस्याः आवश्यकता भवति?
(iii) का भाषा जगत: सर्वासां भाषाणां जननी कथ्यते?
(iv) वीरकाव्यं किम् कथ्यते?
उत्तरम् :
(i) संस्कृतभाषा।
(ii) संस्कृतभाषायाः।
(iii) संस्कृतभाषा।
(iv) महाभारतम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) कीदृशी भाषा संस्कृतभाषा कथ्यते?
(ii) संस्कृतभाषा कैः शब्दैः संबोध्यते?
(iii) कयोः ग्रन्थयोः विषयं गृहीत्वा संस्कृतसाहित्यस्य रचना संजाता?
उत्तरम् :
(i) संस्कृता परिष्कृता दोषरहिता भाषा एव संस्कृतभाषा कथ्यते।
(ii) संस्कृतभाषा देवभाषा, गीर्वाणगीः, सुरवाणी इत्यादिभिः शब्दैः सम्बोध्यते।
(iii) रामायण-महाभारतयोः ग्रन्थयोः विषयं गृहीत्वा संस्कृतसाहित्यस्य रचना संजाता।

प्रश्न 2
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
संस्कृतभाषायाः महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – संस्कृतभाषा सर्वोत्तमा, प्राचीनतमा, सर्वासां भाषाणां च जननी वर्तते। संस्कृता परिष्कृता दोषरहिता च भाषा संस्कृतभाषा कथ्यते। अस्यामेव भाषायां वेद-वेदाङ्ग-उपनिषद्-रामायण-महाभारतादयः ग्रन्थाः रचिताः सन्ति। सर्वभाषाणां मूलरूपं ज्ञानाय एतस्याः आवश्यकता भवति। इयं भाषा देवभाषा, गीर्वाणगी:, सुरवाणी च कथ्यते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘नामानि’ इति कर्तृपदस्य गद्यांशे क्रियापदं किमस्ति?
(क) सन्ति
(ख) सूचयन्ति
(ग) कथ्यते
(घ) अस्ति
उत्तरम् :
(ख) सूचयन्ति

प्रश्न 2.
‘असंख्याः’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) संसारे
(ख) साहित्यं
(ग) भाषाणां
(घ) भाषा:
उत्तरम् :
(घ) भाषा:

प्रश्न 3.
“एतस्या…………….।” इत्यत्र ‘एतस्याः ‘ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) संस्कृतभाषायाः
(ख) ज्ञानस्य
(ग) जगतः
(घ) साहित्यस्य
उत्तरम् :
(क) संस्कृतभाषायाः

प्रश्न 4.
‘संस्कृतभाषा’ इत्यस्य पर्यायपदं किमस्ति?
(क) देवभाषा
(ख) गीर्वाणगी:
(ग) सुरवाणी
(घ) एतत्सर्वम् उत्तराणि
उत्तरम् :
(ग) सुरवाणी

21. शाक्यवंशीयः शुद्धोदनः नाम कश्चित् राजा आसीत्। कपिलवस्तुनाम तस्य राजधानी आसीत्। अस्य एव राज्ञः सुपुत्रः सिद्धार्थः आसीत्। सः बाल्यकालाद् एव अति करुणापरः आसीत्। तस्य मनः क्रीडायाम् आखेटे न अरमत्। एवं स्वपुत्रस्य राजभोगं प्रति वैराग्यं दृष्ट्वा शुद्धोदनः चिन्तितः अभवत्। सः सिद्धार्थस्य यौवनारम्भे एव विवाहम् अकरोत्। तस्य पत्नी यशोधरा सुन्दरी साध्वी च आसीत्। शीघ्रम् एव तयोः राहुल: नाम पुत्रः अजायत। एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्। तत्र सः एकं वृद्धम् एकं मृतं पुरुषम् एकं रोगार्तम् एकं संन्यासिनं च अपश्यत्। एतान् दृष्ट्वा तस्य मनसि वैराग्यम उत्पन्नम् अभवत्। ततः सः स्वधर्मपत्नीम् अबोधं सुतं राहुलं राज्यं च त्यक्त्वा गृहाद् निर्गच्छत्। सः कठिनं तपः अकरोत्। तपसः प्रभावात् सः बुद्धः अभवत्। अहिंसापालनं तस्य प्रमुखा शिक्षा आसीत्। सः जनानां कल्याणाय बौद्धधर्मस्य प्रचारम् अकरोत्।

[हिन्दी-अनुवाद – शाक्यवंश में शुद्धोदन नामक कोई राजा था। कपिलवस्तु नामक उसकी राजधानी थी। इसी राजा का सुपुत्र सिद्धार्थ था। वह बचपन से ही अत्यधिक दयालु था। उसका मन खेल में और शिकार में नहीं लगता था। इस प्रकार अपने पुत्र का राजभोग के प्रति वैराग्य देखकर शुद्धोदन चिन्तित हुआ। उसने सिद्धार्थ का युवावस्था के प्रारम्भ में ही विवाह कर दिया। उसकी पत्नी यशोधरा सुन्दरी और साध्वी थी। शीघ्र ही उनके राहुल नामक पुत्र उत्पन्न हुआ। एक बार सिद्धार्थ भ्रमण के लिए नगर से बाहर चला गया। वहाँ उसने एक वृद्ध, एक मृत व्यक्ति, एक रोगी और एक संन्यासी को देखा। इनको देखकर उसके मन में वैराग्य उत्पन्न हो गया। इसके बाद वह अपनी धर्मपत्नी, अबोध पुत्र राहुल और राज्य को छोड़कर घर से निकल गया। उसने कठिन तप किया। तपस्या के प्रभाव से वह बुद्ध हो गया।

अहिंसा-पालन उसकी प्रमुख शिक्षा थी। उसने लोगों का कल्याण करने के लिए बौद्ध धर्म का प्रचार किया।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) शुद्धोदनस्य सपत्रः कः आसीत?
(ii) सिद्धार्थस्य पुत्रस्य किन्नाम आसीत् ?
(iii) शुद्धोदनस्य राजधानी का आसीत् ?
(iv) बुद्धस्य प्रमुखा शिक्षा का आसीत् ?
उत्तरम् :
(i) सिद्धार्थः।
(ii) राहुलः।
(iii) कपिलवस्तु।
(iv) अहिंसापालनम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) किं दष्टवा राजा शद्धोदनः चिन्तितः अभवत?
(ii) सिद्धार्थस्य पत्नी का कीदृशी चासीत् ?
(iii). सिद्धार्थः कस्य प्रभावात् बुद्धः अभवत् ?
उत्तरम् :
(i) स्वपुत्रस्य राजभोगं प्रति वैराग्यं दृष्ट्वा राजा शुद्धोदनः चिन्तितः अभवत्।
(ii) सिद्धार्थस्य पत्नी यशोधरा सुन्दरी साध्वी चासीत्।
(iii) सिद्धार्थः तपसः प्रभावात् बुद्धः अभवत्।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सिद्धार्थस्य वैराग्यम्/सिद्धार्थस्य बुद्धत्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – कपिलवस्तुनः राज्ञः शुद्धोदनस्य पुत्रः सिद्धार्थः आसीत्। स्वपुत्रस्य राजभोगं प्रति वैराग्यं दृष्ट्वा शुद्धोदनः चिन्तितः अभवत्। सः शीघ्रमेव सिद्धार्थस्य विवाहं कृतवान्। सिद्धार्थस्य पत्नी यशोधरा, पुत्रश्च राहुलः आसीत्। एकदा नगरभ्रमणसमये एकं वृद्धं, एकं मृतं पुरुषम्, एकं रोगार्तम्, एकं च संन्यासिनं दृष्ट्वा सिद्धार्थस्य मनसि वैराग्यम् उत्पन्नम् अभवत्। सः स्वपत्नीं पुत्रं च त्यक्त्वा गृहात् निर्गच्छत्। तत्र तपसः प्रभावात् स बुद्धः अभवत्। बौद्धं भूत्वा सः जनकल्याणाय कार्यं कृतवान्।

निर्देशानुसारं प्रदत्तविकल्पेभ्य: उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘अगच्छत्’ इति क्रियायाः गद्यांशे कर्तृपदं किमस्ति?
(क) शुद्धोदनः
(ख) सिद्धार्थः
(ग) यशोधरा
(घ) राहुलः
उत्तरम् :
(ख) सिद्धार्थः

प्रश्न 2.
‘प्रमुखा’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) क्रीडा
(ख) पत्नी
(ग) अहिंसा
(घ) शिक्षा
उत्तरम् :
(घ) शिक्षा

प्रश्न 3.
‘स: बुद्धः अभवत्’-इत्यत्र ‘सः’ सर्वनामस्थाने संज्ञापदं लिखत।
(क) शुद्धोदनः
(ख) राहुलः
(ग) सिद्धार्थः
(घ) सुतः
उत्तरम् :
(ग) सिद्धार्थः

प्रश्न 4.
‘पुत्रम्’ इत्यस्य गद्यांशात् पर्यायपदं चित्वा लिखत।
(क) सुतम्
(ख) अनुजम्
(ग) आत्मजम्
(घ) अबोधम्
उत्तरम् :
(क) सुतम्

22. मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्ति। मानवः श्रममाश्रित्यैव सुखसमृद्धिं प्राप्नोति। जनः सुखं वाञ्छति, मनोरथं पूरयितुमभिलषति, जीवने समुन्नतिं कांक्षते, तत्सर्वस्य साधनं श्रममेव वर्तते। श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति। अतएव श्रमेणैव सर्वत्र साफल्यं मिलति।

जनैः सदा सः श्रमः कर्त्तव्यः यतः सम्पत्तेरुद्भवो भवति, यतोहि व्यर्थं परिश्रमं कुर्वन् नरः पापभाक् भवति। प्रज्ञाः तुर्येऽपि वयसि परमं श्रमं न त्यजेयुः। यस्मिन् देशे जनाः पूर्णश्रमपरायणाः भवन्ति, तत्र वसुन्धराः धनैर्धान्यैः पूर्णा विराजते। धिषणाश्रमसंयोगः सर्वकार्येषु सिद्धिदः भवति। अश्रमा धिषणा व्यर्था भवति तथा च अधिषणः श्रमः व्यर्थः भवति। अतएव स्वस्य लोकस्य चोन्नतये सदैव श्रमः कर्तव्यः।

[हिन्दी-अनुवाद – मनुष्य के जीवन में श्रम का महत्त्व सभी लोग जानते हैं। मानव श्रम का आश्रय लेकर ही सुख-समृद्धि को प्राप्त करता है। मनुष्य सुख चाहता है, अपने मनोरथ को पूरा करना चाहता है, जीवन में उन्नति चाहता है, उन सबका साधन श्रम ही है। श्रम ही मानव के स्वाभिमान और शारीरिक शक्ति को फैलाता है। सभी कार्यों में उसे दक्षता प्रदान करता है। इसलिए श्रम से ही सर्वत्र सफलता मिलती है।

मनुष्यों को हमेशा वैसा परिश्रम करना चाहिए जिससे सम्पत्ति उत्पन्न हो, क्योंकि व्यर्थ का परिश्रम करता हुआ मनुष्य पाप का भागी होता है। बुद्धिमान् को वृद्धावस्था में भी परम श्रम का त्याग नहीं करना चाहिए। जिस देश में लोग पूर्णतया श्रमपरायण होते हैं, वहाँ पृथ्वी धन-धान्य से पूर्ण सुशोभित होती है। बुद्धि और श्रम का संयोग सभी कार्यों में सिद्धि (सफलता) को देने वाला होता है। श्रम के बिना बुद्धि व्यर्थ होती है और बुद्धि के बिना श्रम व्यर्थ होता है। इसलिए अपनी और संसार की उन्नति के लिए सदा श्रम करना चाहिए।

एकपदेन उत्तरत –

प्रश्न 1.
(i) मानवजीवने कस्य महत्त्वं सर्वे जनाः जानन्ति?
(ii) केनैव सर्वत्र साफल्यं मिलति?
(iii) मानवः किम् आश्रित्य सुखसमृद्धिं प्राप्नोति?
(iv) किम् कुर्वन् नरः पापभाक् भवति?
उत्तरम् :
(i) श्रमस्य।
(ii) श्रमेणैव।
(iii) श्रमम्।
(iv) व्यर्थं परिश्रमम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) श्रम एव मानवस्य किम् प्रसारयति?
(ii) जनैः कीदृशः श्रमः कर्त्तव्यः?
(iii) कः सर्वकार्येषु सिद्धिदः भवति?
उत्तरम् :
(i) श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति।
(ii) जनैः सः श्रमः कर्त्तव्यः यतः सम्पत्तेरुद्भवो भवति।
(iii) धिषणाश्रमसंयोगः सर्वकार्येषु सिद्धिदः भवति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
श्रमस्य महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – जीवने श्रमस्य अत्यधिक महत्त्वं भवति। श्रमेणैव सुखसमृद्धिः सर्वत्र साफल्यं च मिलति। श्रमं विना किमपि न प्राप्यते। किन्तु सदैव सः श्रमः करणीयः यस्मात् सम्पत्तेरुद्भवः स्यात्। व्यर्थं परिश्रमं कुर्वन् मानवः पापभाक् भवति। अतः स्वस्य लोकस्य चोन्नतये सदैव श्रमः कर्त्तव्यः।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘त्यजेयुः’ इति क्रियापदस्य गद्यांशे कर्तृपदं किमस्ति?
(क) मानवाः
(ख) जनाः
(ग) प्रज्ञाः
(घ) नराः
उत्तरम् :
(ग) प्रज्ञाः

प्रश्न 2.
‘सर्वेषु’ इति विशेषणस्य विशेष्यपदं गद्यांशे किम्?
(क) कार्येषु
(ख) देशेषु
(ग) जनेषु
(घ) लोकेषु
उत्तरम् :
(क) कार्येषु

प्रश्न 3.
‘तस्य दक्षतामापादयति’-इत्यत्र ‘तस्य’ सर्वनामस्थाने संज्ञापदं लिखत।
(क) कार्यस्य
(ख) श्रमस्य
(ग) शक्तेः
(घ) मानवस्य
उत्तरम् :
(घ) मानवस्य

प्रश्न 4.
‘पृथ्वी’ इत्यस्य गद्यांशात् पर्यायपदं चित्वा लिखत।
(क) भूमिः
(ख) वसुन्धरा
(ग) धिषणा
(घ) देशः
उत्तरम् :
(ख) वसुन्धरा

23. पुण्योऽस्माकं देशः भारतवर्षः। न केवलं भौगोलिकदृष्ट्या अपितु सांस्कृतिकदृष्ट्या अपि अस्य देशस्य महत्त्वपूर्ण स्थानं वर्तते। विश्वेऽस्मिन् भारतीयसंस्कृतिः विश्ववन्द्याः सर्वग्राह्याश्च। भारतदेशे विभिन्नसम्प्रदायानां विविधभाषाणाम्, अनेकदेवानाम्, भिन्नभिन्नानां दर्शनानां च प्रचारः प्रचलत्येव। तथापि भारतीयानां ‘भिन्नत्वे एकत्वमिति’ कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते।

भारतदेशः विश्वस्य सर्वोत्कृष्टं वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्रं वर्तते। अत्र देवस्वरूपः हिमालयः मुकुटमणिरिव शोभते। भारते मधुरजलयुक्ताः गंगायमुनासरयूकृष्णादयः नद्यः वहन्ति। अयं देशः नानातीर्थैः रमणीयः, मुनिजनदेवैः च वन्दनीयोऽस्ति। भारतस्य भूमिः अध्यात्ममयी, गौरवपूर्णा, शान्तिवहा, सुखदा, सस्यश्यामला, हिरण्यरूपा, अतिकमनीया चास्ति। रत्नाकरोऽपि स्वस्य रत्नाकरत्वं पुनरपि प्राप्तुं भारतभव्यभूमेः चरणौ वृणीते। भारतदेशः देवैरुपास्यः मुनिभिश्च सेव्यः वर्तते। वेदपुराणेषु अपि अस्य महिमा वर्णिता। वस्तुतः धन्यतमोऽयं भारतदेशः।

[हिन्दी-अनुवाद – हमारा भारत देश पवित्र है। न केवल भौगोलिक दृष्टि से अपितु सांस्कृतिक दृष्टि से भी इस देश का महत्त्वपूर्ण स्थान है। इस संसार में भारतीय संस्कृति विश्व के द्वारा वन्दनीय और सभी के लिए ग्रहण करने योग्य है। भारत देश में विभिन्न सम्प्रदायों का, विविध भाषाओं का, अनेक देवताओं का और भिन्न-भिन्न दर्शनों का प्रचार प्रचलित है; फिर भी भारतीयों का ‘विविधता में भी एकता है’ यह कथन सभी क्षेत्रों में दिखलाई देता है। भारतवर्ष संसार का सर्वश्रेष्ठ, वृहत् स्वरूप वाला जनतन्त्रात्मक राष्ट्र है।

यहाँ देवता-स्वरूप हिमालय मुकुटमणि के समान सुशोभित है। भारत में मधुर जल वाली गंगा, यमुना, सरयू, कृष्णा आदि नदियाँ बहती हैं। यह देश अनेक तीर्थों से रमणीय, मुनियों, मनुष्यों और देवों से वन्दनीय है। भारत की भूमि अध्यात्ममयी, गौरवपूर्ण, शान्तिदायक, सख देने वाली, धन-धान्य से युक्त, स्वर्ण-स्वरूप और अत्यन्त सुन्दर है। रत्नाकर (समुद्र) भी अपने रत्नाकरत्व को फिर से प्राप्त करने के लिए भारत की भव्य भूमि का वरण करता है। भारत देश देवताओं द्वारा उपासनीय और मुनियों द्वारा सेवनीय है। वेदों और पुराणों में भी इसकी महिमा वर्णित है। वस्तुतः यह भारत देश धन्यतम है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) अस्माकं देशः भारतवर्षः कीदृशः?
(ii) अत्र कः मुकुटमणिरिव शोभते।
(iii) भौगोलिकदृष्ट्या कस्य महत्त्वपूर्ण स्थानं वर्तते ?
(iv) विश्वस्य सर्वोत्कृष्टं जनतन्त्रात्मकं राष्ट्रं किम् वर्तते?
उत्तरम् :
(i) पुण्यः।
(ii) हिमालयः।
(iii) भारतदेशस्य।
(iv) भारतदेशः।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) विश्वेऽस्मिन् का विश्ववन्द्याः सर्वग्राह्याश्च?
(ii) भारतदेश: कैः वन्दनीयोऽस्ति?
(iii) भारतीयानां किं कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते?
उत्तरम् :
(i) विश्वेऽस्मिन् भारतीयसंस्कृतिः विश्ववन्द्याः सर्वग्राह्याश्च।
(ii) भारतदेशः मुनिजनदेवैः वन्दनीयोऽस्ति।
(iii) भारतीयानां ‘भिन्नत्वे एकत्वमिति’ कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
भारतदेशस्य वैशिष्ट्यम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – अस्माकं भारतदेशः पुण्यः विश्वस्य सर्वोत्कृष्टं जनतन्त्रात्मकं राष्ट्रं चास्ति। अस्य देशस्य न केवलं भौगोलिकदृष्ट्या अपितु सांस्कृतिकदृष्ट्याऽपि महत्त्वपूर्ण स्थानमस्ति। भारतीयसंस्कृतिः विश्ववन्द्याः सर्वग्राह्याश्च वर्तते। ‘भिन्नत्वे एकत्वमिति’ भारतस्य प्रमुखा विशेषता वर्तते। अयं देश: नानातीर्थैः रमणीयः मुनिजनदेवैश्च वन्दनीयोऽस्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘वृणीते’ इति क्रियापदस्य कर्तृपदं किमस्ति?
(क) रत्नाकरः
(ख) भारतम्
(ग) भूमिः
(घ) हिमालयः
उत्तरम् :
(क) रत्नाकरः

प्रश्न 2.
‘देवस्वरूपः’ इति विशेषणस्य गद्यांशे विशेष्यपदं किम्?
(क) राष्ट्रम्
(ख) भारतदेशः
(ग) हिमालयः
(घ) नद्यः
उत्तरम् :
(ग) हिमालयः

प्रश्न 3.
‘…..अस्य महिमा वर्णिता।’ इत्यत्र ‘अस्य’ सर्वनामस्थाने संज्ञापदं लिखत।
(क) हिमालयस्य
(ख) भारतदेशस्य
(ग) वेदस्य
(घ) रत्नाकरस्य
उत्तरम् :
(ख) भारतदेशस्य

प्रश्न 4.
‘दुःखदा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(क) गौरवपूर्णा
(ख) हिरण्यरूपा
(ग) शान्तिवहा
(घ) सुखदा
उत्तरम् :
(घ) सुखदा

24. मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते। पुस्तकालयेषु विविधपुस्तकानां संग्रहो भवति। अत्र विविधभाषाणां पत्र-पत्रिकादयोऽपि प्रतिदिनं आयान्ति। अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते। अस्मिन् दशसहस्राणि पुस्तकानि सन्ति। अस्माकं पुस्तकालये हिन्दी-आंग्ल-संस्कृतभाषाणां पत्र-पत्रिकाः प्रतिदिनं आयान्ति। अस्य समीपे एकः वाचनालयः वर्तते। यत्र बहवः जनाः, छात्राः, युवतयश्च प्रतिदिनं आगत्य स्वाध्यायं कुर्वन्ति।

अस्माकं पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते। अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसा कुर्वन्ति। अस्माकं ज्ञानवर्धनाय अस्य महती भूमिका वर्तते। अयम् एकः आदर्शः पुस्तकालयः विद्यते।

[हिन्दी-अनुवाद – मानव के बौद्धिक विकास के लिये और ज्ञानवर्धन के लिये पुस्तकालयों का महत्त्वपूर्ण स्थान है। पुस्तकालयों में विविध पुस्तकों का संग्रह होता है। यहाँ विभिन्न भाषाओं की पत्र-पत्रिकाएँ भी प्रतिदिन आती हैं। हमारा पुस्तकालय नगर के रमणीय स्थान पर है। इसमें दस हजार पुस्तकें हैं। हमारे पुस्तकालय में हिन्दी, अंग्रेजी, संस्कृत आदि भाषाओं की विभिन्न पत्र-पत्रिकाएँ प्रतिदिन आती हैं। इसके पास एक वाचनालय है। जहाँ बहुत से लोग, छात्र और युवतियाँ प्रतिदिन आकर के स्वाध्याय करते हैं। हमारे पुस्तकालय का भवन विशाल और सुन्दर है। इस पुस्तकालय की सभी लोग प्रशंसा करते हैं। हमारे ज्ञानवर्धन में इसकी अत्यधिक भूमिका है। यह एक आदर्श पुस्तकालय है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) पुस्तकालयेषु केषां संग्रहो भवति?
(ii) कस्य समीपे वाचनालयः वर्तते:?
(iii) अस्माकं पुस्तकालये कति पुस्तकानि सन्ति?
(iv) सर्वे जनाः पुस्तकालयस्य किं कुर्वन्ति?
उत्तरम् :
(i) विविधपुस्तकानाम्।
(ii) पुस्तकालयस्य।
(iii) दशसहस्राणि।
(iv) प्रशंसाम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) किमर्थं पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते?
(ii) अस्माकं पुस्तकालयः कुत्र वर्तते?
(iii) पुस्तकालये के आगत्य स्वाध्यायं कुर्वन्ति?
उत्तरम् :
(i) मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते।
(ii) अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते।
(iii) पुस्तकालये बहवः जनाः, छात्राः, युवतयश्च आगत्य स्वाध्यायं कुर्वन्ति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
अस्माकं पुस्तकालयः।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते। अस्य भवनं विशालं सुन्दरं चास्ति। अस्मिन् दशसहस्राणि पुस्तकानि सन्ति। अस्य समीपम् एकः वाचनालयः वर्तते। यत्र बहवः जनाः, छात्राः, युवतयश्च आगत्य स्वाध्यायं कुर्वन्ति। अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका वर्तते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘पत्र-पत्रिकाः’ इति कर्तृपदस्य गद्यांशे क्रियापदं किमस्ति?
(क) सन्ति
(ख) आयान्ति
(ग) कुर्वन्ति
(घ) वर्तते।
उत्तरम् :
(ख) आयान्ति

प्रश्न 2.
‘आदर्शः’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) विद्यालयः
(ख) वाचनालयः
(ग) भवनम्
(घ) पुस्तकालयः
उत्तरम् :
(घ) पुस्तकालयः

प्रश्न 3.
‘अस्मिन्’ इति सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) वाचनालये
(ख) पुस्तके
(ग) पुस्तकालये
(घ) गृहे
उत्तरम् :
(ग) पुस्तकालये

प्रश्न 4.
‘निन्दाम्’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(क) प्रशंसाम्
(ख) विशालम्
(ग) दुःखम्
(घ) हर्षम्
उत्तरम् :
(क) प्रशंसाम्

25. इदानीम् मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे विज्ञानस्य प्राधान्यं वर्तते। दूरदर्शनाविष्कारेण तु मानवः अति प्रभावितः। वर्तमानसमये कोऽपि युवा युवतिर्वा दूरदर्शनं विना जीवनं यापयितुं न शक्नोति। न केवलं नगरेषु अपितु ग्रामेष्वपि अस्य प्रभावः परिलक्ष्यते। इदं दूरदर्शनं न केवलं मनोरञ्जनस्य साधनं अपितु ज्ञानवर्द्धकमपि वर्तते।

दूरदर्शनमधुना जीवनस्य अभिन्नमंगं वर्तते। दूरदर्शने प्रातःकालादारभ्य मध्यरात्रिर्यावत् विविधकार्यक्रमा चलन्ति। वर्तमानसमये न केवलं संगीतानि अपितु भजनानि, विविध धारावाहिकाश्च वयं दूरदर्शने पश्यामः। लोकसभायाः राज्यसभायाश्च कार्यक्रमाणां प्रसारोऽपि दूरदर्शने वयं पश्यामः। एवं युवकयुवतीनां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते। अस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः।

[हिन्दी-अनुवाद – इस समय मानव-जीवन के प्रत्येक क्षेत्र में विज्ञान की प्रधानता है। दूरदर्शन के आविष्कार से तो मनुष्य अत्यन्त प्रभावित है। वर्तमान समय में कोई भी युवक अथवा युवती दूरदर्शन के बिना जीवन-यापन नहीं कर सकता। इसका प्रभाव न केवल नगरों में अपितु गाँवों में भी दिखलाई देता है। यह दूरदर्शन न केवल मनोरंजन का साधन है अपितु ज्ञानवर्धक भी है।

इस समय दूरदर्शन जीवन का अभिन्न अंग है। दूरदर्शन पर प्रातःकाल से लेकर मध्य रात्रि तक विविध कार्यक्रम चलते हैं। वर्तमान समय में न केवल संगीत अपितु भजन और विभिन्न धारावाहिक भी हम दूरदर्शन पर देखते हैं। लोकसभा तथा राज्यसभा के कार्यक्रमों का प्रसारण भी हम दूरदर्शन पर देखते हैं। इस प्रकार युवक-युवतियों के बौद्धिक विकास के लिये दूरदर्शन की अत्यधिक भूमिका है। इस आविष्कार का सभी को सदुपयोग करना चाहिए।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) अधुना जीवनस्य किम् अभिन्नमंगं वर्तते?
(ii) कस्य आविष्कारेण मानवः अति प्रभावितः?
(iii) दूरदर्शनं विना युवा युवतिर्वा किं यापयितुं न शक्नोति?
(iv) कस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः ?
उत्तरम् :
(i) दूरदर्शनम्।
(ii) दूरदर्शनस्य।
(iii) जीवनम्।
(iv) दूरदर्शनस्य।

पूर्णवाक्येन उत्तरत –

प्रश्न 2.
(i) मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे कस्य प्राधान्यं वर्तते?
(ii) दूरदर्शने वयं किं पश्यामः?
(iii) कुत्र दूरदर्शनस्य महती भूमिका वर्तते?
उत्तरम् :
(i) मानवजीवनस्य प्रत्येकस्मिन क्षेत्रे विज्ञानस्य प्राधान्यं वर्तते।।
(ii) दूरदर्शने वयं संगीतानि, भजनानि, विविधकार्यक्रमाः धारावाहिकाश्च पश्यामः।
(iii) युवकयुवतीनां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते।

प्रश्न 3.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
दूरदर्शनस्य महत्त्वम्।

प्रश्न 4.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – वर्तमानसमये मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे विज्ञानस्य प्राधान्यं वर्तते। दूरदर्शनस्य आविष्कारेण मानवः अतीव प्रभावितः। अधुना दूरदर्शनं जीवनस्य अभिन्नम् अंगं वर्तते। अद्य दूरदर्शनस्य प्रभावः ग्रामेषु नगरेषु च सर्वत्र दृश्यते। इदं न केवलं मनोरञ्जनस्य साधनम्, अपितु ज्ञानवर्द्धकमपि वर्तते। युवकयुवतीनां बौद्धिक विकासाय अस्य महती भूमिका वर्तते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘परिलक्ष्यते’ इति क्रियापदस्य गद्यांशे कर्तृपदं किम् ?
(क) प्रभावः
(ख) अस्य
(ग) ग्रामेषु
(घ) दूरदर्शनम्
उत्तरम् :
(क) प्रभावः

प्रश्न 2.
‘भूमिका’ इति विशेष्यपदस्य गद्यांशात् विशेषणपदं चित्वा लिखत।
(क) अतीव
(ख) विविध
(ग) महती
(घ) बौद्धिक
उत्तरम् :
(ग) महती

प्रश्न 3.
“अस्य प्रभावः……….।” इत्यत्र ‘अस्य’ सर्वनामस्थाने संज्ञापदं लिखत।
(क.) विज्ञानस्य
(ख) दूरदर्शनस्य
(ग) आविष्कारस्य
(घ) कार्यक्रमस्य
उत्तरम् :
(ख) दूरदर्शनस्य

प्रश्न 4.
‘युवकः’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(क) मानवः
(ख) युवा
(ग) वृद्धः
(घ) युवतिः
उत्तरम् :
(घ) युवतिः

26. अस्मिन् संसारे न कोऽपि देशो प्रान्तो वा विद्यते यत्रत्याः जनाः कालिदासं न विंदन्ति। भारतीयेषु कविषु, कालिदास एव भूयसी कीर्तिमलभत। आनन्दवर्धनाचार्यः कालिदासं महाकविमाह। प्रसन्नराघवस्य कर्ता जयदेवस्तं ‘कविकुल गुरुः कालिदासो विलासः’ अकथयत्। कविकुलगुरुर्महाकविकालिदासः संस्कृत-साहित्यस्य अद्यावधि कनिष्ठिकाधिष्ठितः कविरस्ति।

कालिदासविरचित-ग्रन्थेषु रघुवंश कुमारसंभवञ्चेति द्वे महाकाव्ये, मेघदूत ऋतुसंहारमिति खण्डकाव्यद्वयम्। मालविकाग्निमित्रं विक्रमोर्वशीयं अभिज्ञानशाकुन्तलादीनि त्रीणि नाटकानि। एषु ग्रन्थेषु रघुवंशमहाकाव्यं यथा चरित्र वर्णनदृष्ट्या गौरवान्वितं स्वीक्रियते, तथैव अभिज्ञानशाकुन्तलं नाम नाटके समस्तेऽपि नाट्य साहित्ये सर्वोत्कृष्टं स्थानं लभते। कालिदासस्य समग्रसाहित्यं प्रसादगुणवैदर्भीरीत्या संवलितं वर्तते। उपमा क्षेत्रे तु कालिदासः अद्वितीयः कविरस्ति। संस्कृतसाहित्ये ‘उपमा कालिदासस्य’ इत्युक्तिः प्रसिद्धा वर्तते।

[हिन्दी-अनुवाद – इस संसार में ऐसा कोई भी देश अथवा प्रान्त नहीं है जहाँ के लोग कालिदास को नहीं जानते हों। भारतीय कवियों में कालिदास ने ही बहुत अधिक कीर्ति को प्राप्त किया। आनन्दवर्धनाचार्य ने कालिदास को महाकवि कहा है। प्रसन्नराघव के रचयिता जयदेव ने उनको ‘कविकुल के गुरु कालिदास ही काव्य का विलास है’, ऐसा कहा है। कविकुलगुरु महाकवि कालिदास संस्कृत-साहित्य के आज तक कनिष्ठिका अंगुली पर (सर्वप्रथम स्थान) अधिष्ठित कवि हैं।

कालिदास द्वारा विरचित ग्रन्थों में रघुवंश और कुमारसम्भव दो महाकाव्य हैं, मेघदूत और ऋतुसंहार ये दो खण्डकाव्य हैं। मालविकाग्निमित्र, विक्रमोर्वशीय और अभिज्ञानशाकुन्तल ये तीन नाटक हैं। इन ग्रन्थों में रघुवंश महाकाव्य को जिस प्रकार चरित्र-वर्णन की दृष्टि से गौरवमय माना गया है उसी प्रकार अभिज्ञानशाकुन्तल नामक नाटक को समस्त नाट्य-साहित्य में सर्वोत्कृष्ट स्थान प्राप्त है। कालिदास का सम्पूर्ण साहित्य प्रसादगुण और वैदर्भी रीति से परिपूर्ण है। उपमा के क्षेत्र में तो कालिदास अद्वितीय कवि हैं। संस्कृत साहित्य में ‘उपमा कालिदास की’ यह उक्ति प्रसिद्ध है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) संस्कृतसाहित्यस्य कनिष्ठिकाधिष्ठित कविः कः?
(ii) कस्मिन् क्षेत्रे कालिदासः अद्वितीयः कविरस्ति?
(iii) कालिदासं महाकविं कः आह?
(iv) ‘कविकुलगुरुः कालिदासो विलासः’ इति क: अकथयत् ?
उत्तरम् :
(i) कालिदासः।
(ii) उपमा क्षेत्रे।
(iii) आनन्दवर्धनाचार्यः।
(iv) जयदेवः।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) कालिदासस्य कति नाटकानि सन्ति?
(ii) रघुवंशमहाकाव्यं कया दृष्ट्या गौरवान्वितं स्वीक्रियते?
(iii) कालिदासस्य समग्रसाहित्यं कया संवलितं वर्तते?
उत्तरम् :
(i) कालिदासस्य त्रीणि नाटकानि सन्ति।
(ii) रघुवंशमहाकाव्यं चरित्रवर्णनदृष्ट्या गौरवान्वितं स्वीक्रियते।
(iii) कालिदासस्य समग्रसाहित्यं प्रसादगुणवैदर्भीरीत्या संवलितं वर्तते।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
महाकविः कालिदासः।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – संस्कृतसाहित्ये महाकविः कालिदासः सुप्रसिद्धः वर्तते। अयं कविकुलगुरुः कनिष्ठिकाधिष्ठितः त। कालिदासस्य द्वे महाकाव्ये, द्वे खण्डकाव्ये, त्रीणि च नाटकानि सन्ति। कालिदासस्य समग्रसाहित्यं प्रसादगुणेन वैदर्भीरीत्या च संवलितं वर्तते। उपमा क्षेत्रे तु कालिदासः अद्वितीयः कविरस्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1
‘आनन्दवर्धनाचार्यः’ इति कर्तृपदस्य गद्यांशे क्रियापदं किमस्ति?
(क) अकथयत्
(ख) आह
(ग) अस्ति
(घ) वर्तते
उत्तरम् :
(ख) आह

प्रश्न 2.
‘भूयसी’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) कीर्तिम्
(ख) कविः
(ग) कालिदासः
(घ) उपमा
उत्तरम् :
(क) कीर्तिम्

प्रश्न 3.
‘ग्रन्थेषु’ इति संज्ञापदस्य गद्यांशे सर्वनामपदं किम्?
(क) अस्मिन्
(ख) कविषु
(ग) एषु
(घ) नाटकेषु
उत्तरम् :
(ग) एषु

प्रश्न 4.
‘अत्यधिकम्’ इत्यस्य पर्यायपदं गद्यांशात् चित्वा लिखत।
(क) भूयसी
(ख) अतीव
(ग) अद्वितीयः
(घ) सर्वोत्कृष्टम्
उत्तरम् :
(क) भूयसी

27. सते अर्थात् कल्याणाय हितं सत्यं भवति। यद् वस्तु यथा विद्यते तस्य तेन एव रूपेण कथनं लेखनं वा सत्यम् उच्यते। सत्येन एव समाजस्य स्थितिः भवति। यदि सर्वे असत्यवादिनः भवेयुः तदा लोकस्य स्थितिः क्षणमात्रम् अपि भवितुं न शक्नोति। एषा महिमा सत्यस्य एव अस्ति यद् वयं समाजे मनुष्येषु विश्वासं कुर्मः। अतः सत्यम् एव लोकस्य आधारः अस्ति। समाजस्य सकलः कार्यव्यवहारः विश्वासेन चलति, विश्वासस्य आधारः सत्यमेव भवति। जीवनस्य सर्वेषु क्षेत्रेषु सत्यस्य अपेक्षा विद्यते। अस्माकं सकलम् आदान प्रदानं च सत्ये एव अवलम्बितं भवति। राजनीतिकक्षेत्रे, सामाजिकक्षेत्रे, धार्मिकक्षेत्रे, आध्यात्मिकक्षेत्रे च सत्यस्य महती आवश्यकता वर्तते।

[हिन्दी-अनुवाद – सच के लिए अर्थात् कल्याण के लिए हित ही सत्य होता है। जो वस्तु जैसी है उसका उसी रूप से कथन अथवा लेखन सत्य कहा जाता है। सत्य से ही समाज की स्थिति होती है। यदि सभी असत्य बोलने वाले हो जावें तो संसार की स्थिति क्षण-मात्र भी नहीं हो सकती है। यह सत्य की ही महिमा है कि हम समाज में मनुष्यों में विश्वास करते हैं। इसलिए सत्य ही संसार का आधार है। समाज का सम्पूर्ण कार्य-व्यवहार विश्वास से चलता है, विश्वास का आधार सत्य ही होता है। जीवन के सभी क्षेत्रों में सत्य की आवश्यकता होती है। हमारा सम्पूर्ण आदान-प्रदान सत्य पर ही आश्रित होता है। राजनैतिक क्षेत्र में, सामाजिक क्षेत्र में, धार्मिक क्षेत्र में और आध्यात्मिक क्षेत्र में सत्य की महान् आवश्यकता है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) सत्येन समाजस्य का भवति?
(ii) सत्यं कस्य आधारः अस्ति?
(iii) जीवनस्य सर्वेषु क्षेत्रेषु कस्य अपेक्षा भवति?
(iv) समाजस्य कार्यव्यवहारः केन चलति?
उत्तरम् :
(i) स्थितिः।
(ii) लोकस्य।
(iii) सत्यस्य।
(iv) विश्वासेन।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) किम् सत्यम् उच्यते?
(ii) सत्यस्य का महिमा?
(iii) विश्वासस्य आधारः कः भवति?
उत्तरम् :
(i) यद् वस्तु यथा विद्यते तस्य तेनैव रूपेण कथनं लेखनं वा सत्यम् उच्यते।
(ii) सत्येन एव वयं समाजे मनुष्येषु विश्वासं कुर्मः।
(iii) विश्वासस्य आधारः सत्यमेव भवति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सत्यस्य महिमा।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – मानवजीवनस्य सर्वेषु क्षेत्रेषु सत्यस्य महत्त्वं वर्तते। यद् वस्तु यथा विद्यते तस्य तेनैव रूपेण कथनं लेखनं वा सत्यं कथ्यते। सत्येन एव समाजस्य स्थितिः भवति। सत्येनैव वयं मनुष्येषु विश्वासं कुर्मः। अस्माकं सकलम् आदानं प्रदानं कार्यव्यवहारं च सत्ये एवं अवलम्बितं वर्तते। विश्वासस्य आधारः सत्यमेव भवति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘कुर्मः’ इति क्रियापदस्य गद्यांशे कर्तृपदं किम्?
(क) वयम्
(ख) समाजः
(ग) मनुष्याः
(घ) सत्यम्
उत्तरम् :
(क) वयम्

प्रश्न 2.
‘कार्यव्यवहारः’ इत्यस्य गद्यांशात् विशेषणपदं चित्वा लिखत।
(क) विश्वासेन
(ख) समाजस्य
(ग) सकलः
(घ) आधारः
उत्तरम् :
(ग) सकलः

प्रश्न 3.
‘सर्वेषु’ इति सर्वनामपदस्य संज्ञापदं किमस्ति?
(क) जीवनस्य।
(ख) क्षेत्रेषु
(ग) लोकेषु
(घ) मनुष्येषु
उत्तरम् :
(ख) क्षेत्रेषु

प्रश्न 4.
‘आदानम्’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(क) सकलम्
(ख) अस्माकम्
(ग) सत्यम्
(घ) प्रदानम्
उत्तरम् :
(घ) प्रदानम्

28. कस्मिंश्चिद् ग्रामे एकः वृद्धः कृषकः अवसत्। सः परिश्रमी, दूरदर्शी तथा सरल स्वभावः आसीत्। तस्य चत्वारः पुत्राः आसन्, परं ते अलसा अभवन्। ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्, न च तेषां कृषिकार्ये रुचिः आसीत्। अस्मात् कारणात् वृद्धकृषकः चिन्तितवान्। मरणासन्नावसरे वृद्धः कृषकः स्वपुत्रान् अकथयत् यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम मरणानन्तरं क्षेत्रान् खनित्वा सुगुप्तं धनं प्राप्नुयात। पुत्राः एतत् श्रुत्वा प्रासीदन्। निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्। परं सुगुप्तं धनं न लब्धम्। ते निराशाः संजाताः। अन्ते निजमातुः प्रेरणया, ते निजक्षेत्रेषु बीजानि अवपन्। परिणामस्वरूपम् प्रभूतं धान्यम् अभवत्। तस्य विक्रयैः ते समृद्धाः, धनिनः च संजाताः। अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्।

[हिन्दी-अनुवाद – किसी गाँव में एक वृद्ध किसान रहता था। वह परिश्रमी, दूरदर्शी और सरल स्वभाव वाला था। उसके चार पुत्र थे, किन्तु वे आलसी हो गये थे। वे खेती के कार्य में पिता का सहयोग नहीं करते थे, और न ही उनकी खेती के कार्य में रुचि थी। इस कारण से वृद्ध किसान चिन्तित हुआ। मृत्यु के निकट आने पर वृद्ध किसान . ने अपने पुत्रों से कहा कि-मेरे खेत में गुप्त धन है, मेरी मृत्यु के बाद खेत को खोदकर गुप्त धन को प्राप्त कर लेना।

पुत्र यह सुनकर प्रसन्न हुए। अपने पिता की मृत्यु होने पर उन्होंने अपने खेत को खोदा, किन्तु गुप्त धन नहीं मिला। वे निराश हो गये। अन्त में अपनी माता की प्रेरणा से उन्होंने अपने खेत में बीज बो दिये। परिणामस्वरूप अत्यधिक अनाज हुआ। उसे बेचने से वे समृद्ध और धनवान हो गये। और अन्त में वे अपने पिता के गुप्त धन के रहस्य को समझ गये।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) वृद्धः कृषक: कुत्र अवसत् ?
(ii) कृषकस्य कति पुत्राः आसन् ?
(iii) ते कस्मिन् पितुः सहयोगं न अकुर्वन् ?
(iv) अन्ते ते स्वपितुः कस्य रहस्यम् अबोधन् ?
उत्तरम् :
(i) ग्रामे।
(i) चत्वारः।
(iii) कृषिकायें।
(iv) सुगुप्तधनस्य।

पूर्णवाक्येन उत्तरत –

प्रश्न 2.
(i) वृद्धः कृषकः कीदृशः आसीत् ?
(ii) कृषकस्य पुत्राः कीदृशाः अभवन् ?
(iii) कृषकस्य पुत्राः निजमातुः प्रेरणया किम् अकुर्वन् ?
उत्तरम् :
(i) वृद्धः कृषक: परिश्रमी, दूरदर्शी तथा सरलस्वभावः आसीत्।
(ii) कृषकस्य पुत्राः अलसा अभवन्।
(iii) ते निजक्षेत्रेषु बीजानि अवपन्।

प्रश्न 3.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
गुप्तधनस्य रहस्यम्।

प्रश्न 4.
उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – एक: वृद्धः कृषक: परिश्रमी, दूरदर्शी, सरल: चासीत्। तस्य चत्वारः पुत्राः अलसाः आसन्। कृषिकार्ये तेषां रुचिः नासीत्। मृत्युकाले चिन्तितः कृषक: स्वपुत्रान् अकथयत् यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम मरणानन्तरं तद्धनं क्षेत्रान् खनित्वा प्राप्नुयात। पितुः मृत्योः पश्चात् ते निज क्षेत्रान् अकर्षन्। मातुः प्रेरणया ते निजक्षेत्रेषु बीजानि अवयन्। अनेन प्रभूतं धान्यम् अभवत्। तेन ते धनिकाः संजाताः तथा सुगुप्तधनस्य रहस्यम् अंबोधम्।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘प्रासीदन्’ इति क्रियापदस्य गद्यांशे कर्तृपदं किमस्ति?
(क) ते
(ख) पुत्राः
(ग) बीजानि
(घ) कृषकः
उत्तरम् :
(ख) पुत्राः

प्रश्न 2.
‘प्रभूतम्’ इति विशेषणस्य गद्यांशात् विशेष्यपदं चित्वा लिखत।
(क) कार्यम्
(ख) अन्नम्
(ग) धनम्
(घ) धान्यम्
उत्तरम् :
(घ) धान्यम्

प्रश्न 3.
ते अलसा अभवन्’-इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) पुत्राः
(ख) कृषक:
(ग) जनाः
(घ) क्षेत्रम्
उत्तरम् :
(क) पुत्राः

प्रश्न 4.
‘पितुः’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(क) पुत्राः
(ख) कृषक:
(ग) मातुः
(घ) वृद्धः
उत्तरम् :
(ग) मातुः

29. भारतवर्षः एकः महान् देशः वर्तते। अस्मिन् अनेके प्रदेशाः सन्ति। तेषु साम्प्रतं राजस्थानप्रदेशः एकं राज्यं वर्तते। अस्य राजधानी जयपुरं अस्ति। राजस्थानप्रदेशस्य काश्चन एतादृशः विशेषताः सन्ति याः खलु अन्यत्र न लभन्ते। अस्य प्रदेशस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते। अत्र महाराणा प्रतापः, महाराणा सांगा-वीरवर दुर्गादास सदृशाः वीराः समुत्पन्नाः। अत्रैव पद्मिनी पन्ना सदृश्यः वीरांगनाः समुत्पन्नाः। अद्यापि राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः वर्तन्ते।

अयं प्रदेशः न केवलं वीराणां भूमिः अपितु विदुषां जन्मस्थली कार्यस्थली च वर्तते। अत्र अनेके विद्वान्सः काले-काले समुत्पन्नाः। राजस्थानस्य राजधानी जयपुरं तु लघुकाशी मन्यते। अत्र संस्कृतस्य अनेके विद्वान्सः अभवन्।

राजस्थानप्रदेशे अनेकानि दर्शनीय-स्थलानि सन्ति। प्राकृतिक सौन्दर्यदृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते। अत्र जयपुर-उदयपुर-अजमेर-भरतपुरादयः विभिन्न-नगराणि विश्वप्रसिद्धानि सन्ति। बहवः पर्यटकाः अत्र भ्रमणार्थम् आगच्छन्ति।

[हिन्दी-अनुवाद – भारतवर्ष एक महान् देश है। इसमें अनेक प्रदेश हैं। उनमें इस समय राजस्थान प्रदेश भी एक राज्य है। इसकी राजधानी जयपुर नगर है। राजस्थान प्रदेश की कुछ ऐसी विशेषताएँ हैं, जो दूसरी जगह नहीं मिलती हैं। इस प्रदेश की भूमि वीरों और वीराङ्गनाओं को जन्म देने वाली है। यहाँ महाराणा प्रताप, महाराणा सांगा, वीर दुर्गादास जैसे वीर उत्पन्न हुए हैं। इसी देश में पद्मिनी, पन्ना जैसी वीर स्त्रियाँ भी उत्पन्न हुई हैं। आज भी राजस्थान के अनेक वीर देश-सेवा में तत्पर हैं।

यह प्रदेश न केवल वीरों की भूमि है, अपितु विद्वानों की जन्मस्थली और कार्यस्थली भी है। यहाँ अनेक विद्वान समय-समय पर उत्पन्न हुए हैं। राजस्थान की राजधानी जयपुर तो छोटी काशी मानी जाती है। यहाँ संस्कृत के अनेक विद्वान हुए हैं।

राजस्थान प्रदेश में अनेक दर्शनीय स्थान हैं। प्राकृतिक सौन्दर्य की दृष्टि से भी यह प्रदेश सुन्दर है। यहाँ जयपुर, उदयपुर, अलवर, अजमेर, भरतपुर आदि नगर विश्व-प्रसिद्ध हैं। बहुत से पर्यटक यहाँ भ्रमण के लिए आते

एकपदेन उत्तरत –

प्रश्न 1.
(i) कस्य प्रदेशस्य राजधानी जयपुरं वर्तते?
(ii) महाराणाप्रतापः कस्मिन् प्रदेशे समुत्पन्नः?
(iii) कं लघुकाशी मन्यते?
(iv) बहवः पर्यटकाः अत्र किमर्थं आगच्छन्ति?
उत्तरम् :
(i) राजस्थानप्रदेशस्य।
(ii) राजस्थानप्रदेशे।
(iii) जयपुरम्।
(iv) भ्रमणार्थम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) राजस्थानस्य भूमिः केषां जननी वर्तते?
(ii) राजस्थानस्य अनेके वीराः कुत्र तत्पराः सन्ति?
(iii) कया दृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते?
उत्तरम् :
(i) राजस्थानस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते।
(ii) राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः सन्ति।
(iii) प्राकृतिकसौन्दर्यदृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
राजस्थान-प्रदेशः।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – भारतदेशे राजस्थानप्रदेश: एकं प्रमुखं राज्यं वर्तते। अस्य राजधानी जयपुरं लघुकाशी मन्यते। राजस्थानप्रदेशः वीराणां वीराङ्गनानां विदुषां च जन्मस्थली कार्यस्थली च वर्तते। प्राकृतिकसौन्दर्यदृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते। अत्र अनेकानि दर्शनीय-स्थलानि सन्ति। बहवः पर्यटकाः अत्र भ्रमणार्थम् आगच्छन्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘पर्यटकाः’ इति कर्तृपदस्य गद्यांशे क्रियापदं किमस्ति?
(क) आगच्छन्ति
(ख) अभवन्
(ग) समुत्पन्नाः
(घ) वर्तन्ते
उत्तरम् :
(क) आगच्छन्ति

प्रश्न 2.
‘विद्वान्सः’ इति विशेष्यपदस्य गद्यांशे विशेषणपदं किम्?
(क) बहवः
(ख) संस्कृतस्य
(ग) अनेके
(घ) अनेकानि
उत्तरम् :
(ग) अनेके

प्रश्न 3.
“अस्मिन् अनेके प्रदेशाः सन्ति।” इत्यत्र ‘अस्मिन्’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) राजस्थाने
(ख) भारतवर्षे
(ग) संसारे
(घ) जयपुरे
उत्तरम् :
(ख) भारतवर्षे

प्रश्न 4.
‘कातराः’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।।
(क) वीराः
(ख) विद्वांसः
(ग) तत्पराः
(घ) जनाः
उत्तरम् :
(क) वीराः

30. ज्ञानार्थक-विद्धातोः विद्याशब्दः सिद्ध्यति। कस्यचिदपि वस्तुनः पदार्थस्य वा सम्यक् ज्ञानं विद्येति कथ्यते। वेदशास्त्र-विज्ञानादीनां साध्वनुशीलनं तत्वार्थज्ञानं च विद्येति स्वीक्रियते। विद्याधनं सर्वधनं प्रधानमस्ति। विद्यैव तद् धनम् यया मानवीयो मनोरथोऽभिलाषा वा पूर्यते। विद्ययैव कर्तव्याकर्तव्यज्ञानं धर्माधर्म परिज्ञानम् पुण्यापुण्यविवेकः लाभालाभावबोधश्च भवति। व्यये कृतेऽपि विद्या वर्धते।

अस्मिन् समये विद्यायाः अतिमहत्वं वर्तते। विद्याविहीनस्तु मानवः साक्षाद् पशुरेव वर्तते। विद्ययैव मनुष्यः सर्वत्र प्रतिष्ठां प्राप्नोति। विद्या एव जगति मनुष्यस्य उन्नतिं करोति। विद्या दुःखेषु विपत्तिषु च तस्य रक्षां करोति। विद्या कीर्ति धनं च ददाति। विद्या वस्तुतः कल्पलता इव विद्यते।
अनवाद-ज्ञानार्थक विद धात से विद्या शब्द बना है। किसी वस्त अथवा पदार्थ का अच्छी प्रकार से ज्ञान विद्या कहा जाता है। वेदशास्त्र, विज्ञान आदि का ठीक प्रकार से अनुशीलन और तत्वार्थ ज्ञान को विद्या माना जाता है।

विद्या धन सभी धनों में प्रधान है। विद्या ही वह धन है जिससे मानवीय मनोरथ अथवा अभिलाषा पूरी की जाती है। विद्या से ही कर्तव्य-अकर्त्तव्य का ज्ञान, धर्म और अधर्म की पहचान, पुण्य और अपुण्य का विवेक तथा लाभ और हानि का बोध होता है। खर्च करने पर भी विद्या बढ़ती है।

इस समय विद्या का अत्यन्त महत्त्व है। विद्या से रहित मनुष्य तो साक्षात् पशु ही है। विद्या से ही मनुष्य सभी जगह प्रतिष्ठा को प्राप्त करता है। विद्या ही संसार में मनुष्य की उन्नति करती है। विद्या दुःखों में और विपत्तियों में उसकी रक्षा करती है। विद्या यश और धन देती है। वास्तव में विद्या कल्पलता के समान है।

एकपदेन उत्तरत –

प्रश्न 1.
(i) ज्ञानार्थक-विद्धातोः कः शब्दः सिद्ध्यति?
(ii) सर्वधनं प्रधानं किमस्ति?
(iii) व्यये कृतेऽपि का वर्धते?
(iv) विद्या वस्तुतः का इव विद्यते ?
उत्तरम् :
(i) विद्याशब्दः।
(ii) विद्याधनम्।
(iii) विद्या।
(iv) कल्पलता इव।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) कीदृशं ज्ञानं विद्येति कथ्यते?
(ii) कः मानवः साक्षाद् पशुरेव भवति?
(iii) विद्या किम् ददाति?
उत्तरम् :
(i) कस्यचिदपि वस्तुनः सम्यक् ज्ञानं विद्येति कथ्यते।
(ii) विद्याविहीनः मानवः साक्षाद् पशुरेव भवति।
(iii) विद्या कीर्तिं धनं च ददाति।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
विद्याधनम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – विद्याधनमेव सर्वश्रेष्ठं धनं वर्तते। विद्यया कर्त्तव्याकर्त्तव्यज्ञानं धर्माधर्मपरिज्ञानम् पुण्यापुण्यविवेकश्च भवति। विद्याविहीनस्तु मानवः साक्षात् पशुरेव मन्यते। विद्या मनुष्यस्य रक्षां करोति। सैव कीर्तिं धनं च ददाति। विद्या कल्पलता इव वर्तते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘प्राप्नोति’ इति प्रदत्तविकल्पेभ्यः गद्यांशे कर्तृपदं किमस्ति?
(क) विद्याधनं
(ख) प्रतिष्ठा
(ग) मनुष्यः
(घ) नरः
उत्तरम् :
(ग) मनुष्यः

प्रश्न 2.
‘विद्याविहीनः’ इति विशेषणस्य विशेष्यपदं किम्?
(क) मानवः
(ख) पशुः
(ग) साक्षात्
(घ) जनः
उत्तरम् :
(क) मानवः

प्रश्न 3.
…..तस्य रक्षां करोति।” इत्यत्र ‘तस्य’ सर्वनामपदस्थाने संज्ञापदं लिखत।
(क) विद्यायाः
(ख) विदुषः
(ग) छात्रस्य
(घ) मनुष्यस्य
उत्तरम् :
(घ) मनुष्यस्य

प्रश्न 4.
‘पुण्यः’ इत्यस्य गद्यांशात् विलोमपदं चित्वा लिखत।
(क) लाभः
(ख) अपुण्यः।
(ग) अविवेकः
(घ) विवेकः
उत्तरम् :
(ख) अपुण्यः।

31. यत् परितः अस्मान् आवृणोति तत् पर्यावरणम्। पर्यावरणेन साकं मानवजीवनस्य नित्यसम्बन्धः। पृथ्वीजलाकाशवनस्पतयः जीवाश्च पर्यावरणसर्जकाः सन्ति। प्रकृत्याः समग्रं रूपमेव पर्यावरणमिति अभिधीयते। पर्यावरणेन अस्माकं मनः स्वास्थ्यं च प्रभावितानि भवन्ति। वर्तमानकाले प्राकृतिक संसाधनानाम् असन्तुलितदोहनेन औद्योगिक-विस्तारेण चास्माकं मृद्वायुजलानि दूषितानि। अतः पर्यावरणं प्रदूष्यते। सुखस्वरूपा वैज्ञानिक प्रौद्योगिकी अनुदिनं सततं पर्यावरणं प्रदूषयन्ती न सुखशान्तिभ्यामस्ति। अस्माभिः प्रतिश्वासं विषपानं क्रियते। बहूनामुद्योगानां विषयुक्तेन वायुना पृथिव्यां ऊष्मा वृद्धिमाप्नोति।

अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दुःखमयं सञ्जातम्। विविधसंगठनैः पर्यावरणस्य सुरक्षार्थं भूयो भूयः संसूच्यते। प्रतिवर्षं च ‘पर्यावरण-दिवसः’ इति नाम्नासमारोहोऽपि सर्वत्र आयोज्यते, तथापि पर्यावरणप्रदूषणस्य समस्या उत्तरोत्तरं प्रवर्धमाना अस्ति। वस्तुतः मानवसभ्यतायाः संरक्षणार्थं स्वास्थ्य संवर्द्धनार्थञ्च पर्यावरणस्य सन्तुलनमनिवार्य मस्ति। सर्वैः इदमेव अवगन्तव्यः यत् ध्वंसरहितप्रगत्याः एक एव विकल्पः पर्यावरणसंरक्षणं वर्तते। अतः पर्यावरणस्य संरक्षणं सर्वेषां कर्तव्यमस्ति।

हिन्दी-अनुवाद – जो चारों ओर से हमें ढकता है, वह पर्यावरण है। पर्यावरण के साथ मानव-जीवन का नित्य सम्बन्ध है। पृथ्वी, जल, आकाश, वनस्पतियाँ और जीव पर्यावरण को बनाने वाले हैं। प्रकृति का सम्पूर्ण रूप ही पर्यावरण कहा जाता है। वर्तमान काल में प्राकृतिक संसाधनों के असन्तुलित दोहन से और औद्योगिक विस्तार से हमारी मिट्टी, वायु और जल दूषित हो रहे हैं। इसलिए पर्यावरण दूषित हो जाता है। सुखस्वरूप वैज्ञानिक प्रौद्योगिकी निरन्तर पर्यावरण को प्रदूषित करती हुई सुख-शान्ति के लिए नहीं है। हमारे द्वारा प्रत्येक श्वास में विषपान किया जा रहा है। बहुत से उद्योगों की विषयुक्त वायु से पृथ्वी पर ऊष्मा की वृद्धि हो रही है।

आज वायु, जल और ध्वनि प्रदूषण से मानव-जीवन दुःखमय हो गया है। विविध संगठनों के द्वारा पर्यावरण की सुरक्षा के लिए बार-बार सूचना दी जाती है और प्रतिवर्ष ‘पर्यावरण दिवस’ नाम से समारोह भी आयोजित होता है, फिर भी पर्यावरण प्रदूषण की समस्या उत्तरोत्तर बढ़ रही है। वास्तव में मानव-सभ्यता की सुरक्षा के लिए और स्वास्थ्य के संवर्द्धन के लिए पर्यावरण का सन्तुलित होना अनिवार्य है। सभी को यह जान लेना चाहिए कि ध्वंसरहित प्रगति का एक ही विकल्प है-पर्यावरण-सुरक्षा। इसलिए पर्यावरण का संरक्षण करना सभी का कर्तव्य है।],

एकपदेन उत्तरत –

प्रश्न 1.
(i) पर्यावरणेन साकं कस्य नित्यसम्बन्धः?
(ii) अस्माभिः प्रतिश्वासं किं क्रियते?
(iii) प्रदूषणेन मानवजीवनं कीदृशं सञ्जातम्?
(iv) कस्य संरक्षणं सर्वेषां कर्त्तव्यमस्ति?
उत्तरम् :
(i) मानवजीवनस्य।
(ii) विषपानं।
(iv) पर्यावरणस्य।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) किम् पर्यावरणम् अभिधीयते?
(ii) पर्यावरणेन अस्माकं किं किं प्रभावितानि भवन्ति?
(iii) ध्वंसरहितप्रगत्याः विकल्पः किं वर्तते ?
उत्तरम् :
(i) प्रकृत्याः समग्रं रूपमेव पर्यावरणमिति अभिधीयते।
(ii) पर्यावरणेन अस्माकं मनः स्वास्थ्यं च प्रभावितानि भवन्ति।
(iii) ध्वंसरहितप्रगत्याः एक एव विकल्पः पर्यावरणसंरक्षणं वर्तते।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
पर्यावरण प्रदूषणम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – यत् परितः अस्मान् आवृणोति तत् पर्यावरणं कथ्यते। पृथ्वीजलाकाशवनस्पतयः जीवाश्च पर्यावरणसर्जकाः सन्ति। वर्तमानकाले प्राकृतिकसंसाधनानां असन्तुलितदोहेनेन औद्योगिक-विस्तारेण च पर्यावरणं . प्रदूषितं जातम्। अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दुःखमयं सञ्जातम्। अतः मानवसभ्यतायाः संरक्षणार्थं स्वास्थ्य संवर्द्धनार्थञ्च पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यकं वर्तते।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘प्रदूष्यते’ इति क्रियापदस्य गद्यांशे कर्तृपदं किमस्ति?
(क) पर्यावरणम्
(ख) प्रदूषणम्
(ग) विश्वम्
(घ) जलम्
उत्तरम् :
(क) पर्यावरणम्

प्रश्न 2.
‘विषयुक्तेन’ इति विशेषणस्य विशेष्यपदं गद्यांशे किमस्ति?
(क) पर्यावरणेन
(ख) पृथिव्या
(ग) वायुना
(घ) ध्वनिना
उत्तरम् :
(ग) वायुना

प्रश्न 3.
‘अस्माभिः प्रतिश्वासं विषपानं क्रियते।’ इत्यत्र सर्वनामपदं किमस्ति?
(क) विषपानं
(ख) अस्माभिः
(ग) क्रियते
(घ) प्रतिश्वासं
उत्तरम् :
(ख) अस्माभिः

प्रश्न 4.
उपर्युक्तगद्यांशात् ‘दुःखस्वरूपा’ इत्यस्य विलोमपदं चित्वा लिखत।
(क) आनन्दप्रदा
(ख) प्रवर्धमाना
(ग) शान्तिरूपा
(घ) सुखस्वरूपा उत्तराणि
उत्तरम् :
(घ) सुखस्वरूपा उत्तराणि

32. श्रीभगवद्गीता संस्कृतसाहित्यस्य सर्वोच्चं गौरवभूतं समुज्वलं रत्नमिवास्ति। महाभारतस्य युद्धे अर्जुनं तस्य कर्तव्यबोधनार्थं भगवता श्रीकृष्णेन यः उपदेशो दत्तः, स एव श्रीमद्भगवद्गीता’ इति नाम्ना प्रसिद्धोऽस्ति। इयं गीतां न केवलं सर्वासामपि उपनिषदाम्, अपितु श्रुतीनाम् अपि सारतत्वं प्रस्तौति।

गीतायाः गौरवं सर्वैः विद्वद्भिः स्वीक्रियते। अस्याः अनुवादः सर्वासु भारतीय-भाषासु प्रमुखासु च विश्वभाषासु संजातः। इयं गीता सर्वोपनिषदां सारः खलु। गीतायां भगवता कृष्णेन सर्वमपि मनुष्यस्य आवश्यकं कर्त्तव्यं प्रतिपादितमस्ति। अस्मिन् पुस्तके कथितं यत् अयमात्मा अजरो अमरश्चास्ति। नायं जायते न च प्रियते। मानवः स्वकर्मानुसारं पुनर्जन्म प्राप्नोति। कर्मानुसारं प्रियते च। मनुष्यैः सदा निष्काम-भावनया कर्म करणीयम्। कर्म कदापि न त्याज्यम्। गीतायाः महत्वमिदं दृष्ट्वा एव इयं सर्वेभ्यः जनेभ्यः सर्वाधिकं रोचते।

[हिन्दी-अनुवाद – श्रीभगवद्गीता पुस्तक संस्कृत-साहित्य की सर्वोच्च, गौरव-स्वरूप और उज्ज्वल रत्न के समान है। महाभारत के युद्ध में अर्जुन को उसके कर्तव्य का बोध कराने के लिए भगवान् श्रीकृष्ण ने जो उपदेश दिया था, वही ‘श्रीमद्भगवद्गीता’ इस नाम से प्रसिद्ध है। यह गीता न केवल सभी उपनिषदों, अपितु वेदों का भी सारतत्व प्रस्तुत करती है।

गीता का गौरव सभी विद्वान् स्वीकार करते हैं। इसका अनुवाद सभी भारतीय भाषाओं और संसार की प्रमुख भाषाओं में किया गया है। यह गीता सभी उपनिषदों का सार है। गीता में भगवान् कृष्ण ने मनुष्य के सभी आवश्यक कर्तव्यों का प्रतिपादन किया है। इस पुस्तक में कहा गया है कि यह आत्मा अजर और अमर है। यह न उत्पन्न होता है और न ही मरता है। मनुष्य अपने कर्म के अनुसार पुनर्जन्म प्राप्त करता है और कर्मानुसार ही मरता है। मनुष्यों को सदा निष्काम भावना से कर्म करना चाहिए। कर्म का कभी भी त्याग नहीं करना चाहिए। गीता का यह महत्त्व देखकर ही यह सभी लोगों को सबसे अधिक प्रिय है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) महाभारतस्य युद्धे श्रीकृष्णेन कस्मै उपदेशः दत्तः?
(ii) कस्याः गौरवं सर्वैः विद्वद्भिः स्वीक्रियते?
(iii) कः अजरो अमरश्चास्ति?
(iv) किम् कदापि न त्याज्यम् ?
उत्तरम् :
(i) अर्जुनाय।
(ii) गीतायाः।
(iii) आत्मा।
(iv) कर्म।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) गीता केषां सारः वर्तते?
(ii) मानवः कथं पुनर्जन्म प्राप्नोति?
(iii) मनुष्यैः सदा कथं कर्म करणीयम्?
उत्तरम् :
(i) गीता सर्वोपनिषदां सारः वर्तते।
(i) मानवः स्वकर्मानसारं पनर्जन्म प्राप्नोति।।
(iii) मनुष्यैः सदा निष्काम-भावनया कर्म करणीयम्।

प्रश्न 2.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
गीतायाः महत्त्वम्।

प्रश्न 3.
उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – श्रीमद्भगवद्गीता संस्कृतसाहित्यस्य सर्वोच्चं ग्रन्थरत्नमस्ति। महाभारतस्य युद्धे अर्जुनाय कर्त्तव्यबोधनार्थं भगवता श्रीकृष्णेन यः उपदेशः प्रदत्तः, तस्य वर्णनं गीतायामस्ति। इयं गीता सर्वासामपि उपनिषदाम्, श्रुतीनां च सारतत्त्वं प्रस्तौति। गीतायां निष्कामकर्मणः आत्मतत्त्वस्य च विशद् विवेचनमस्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

प्रश्न 1.
‘प्रस्तौति’ इति क्रियायाः गद्यांशे कर्तृपदं किमस्ति?
(क) गीता
(ख) मानवः
(ग) श्रीकृष्ण:
(घ) अर्जुनः
उत्तरम् :
(क) गीता

प्रश्न 2.
‘नायं जायते’-अत्र ‘अयम्’ इति सर्वनामस्थाने संज्ञापदं किम् ?
(क) अजरः
(ख) गीता
(ग) आत्मा
(घ) मानवः
उत्तरम् :
(ग) आत्मा

प्रश्न 3.
‘भारतीयभाषासु’-इत्यस्य गद्यांशे विशेषणपदं किम्?।
(क) सर्वम्
(ख) सर्वासु
(ग) सर्वैः
(घ) प्रमुखासु
उत्तरम् :
(ख) सर्वासु

प्रश्न 4.
‘सकामः’ इत्यस्य गद्यांशात् विलोमपदं चित्वा लिखत।
(क) आवश्यकम्
(ख) कर्त्तव्यम्
(ग) कर्मानुसारं
(घ) निष्कामः
उत्तरम् :
(घ) निष्कामः

33. अस्माकं विद्यालयः राजस्थानस्य राजधान्याः अपरा काशीनाम्ना विख्यातस्य च जयपुरनगरस्य मध्ये रमणीये स्थाने स्थितोऽस्ति। अयं उच्चमाध्यमिकविद्यालयः वर्तते। यः अन्यविद्यालयेषु प्राचीनतमो विशिष्टतमश्च विद्यते। अस्य विद्यालयस्य भवनं द्विभूमिकं विस्तृतं भव्यं सुसज्जितञ्च वर्तते। अस्माकं विद्यालये पञ्चाशत् प्रकोष्ठाः सन्ति, एकश्च विस्तृतं सभाभवनं वर्तते। अस्मिन् एकः विशाल: पुस्तकालयः अपि विद्यते। अत्र दशसहस्राणि पुस्तकानि सन्ति, तथा हिन्दी आंग्ल-संस्कृतादीनां भाषाणां विविधाः पत्र-पत्रिकाः समायान्ति। विद्यालयस्य समीपे सुरम्योद्यानं क्रीडाङ्गणं चास्ति, यस्मिन् छात्राः अवकाशकाले क्रीडन्ति।

अस्माकं विद्यालयः पठन-पाठनदृष्ट्या सुव्यवस्थितः सुशासितश्च वर्तते। अस्माकं विद्यालये शिक्षायाः उद्देश्यमस्ति छात्राणां मानसिकविकासेन सह चरित्रनिर्माणम। अस्य विद्यालयस्य छात्राः योग्यतमाः सन्ति, ते विविधप्रतियोगितासु परीक्षायां च सर्वश्रेष्ठं प्रदर्शनं कृत्वा पुरस्कारान् प्राप्नुवन्ति। स्वस्य विद्यालयस्य गौरवञ्च वर्धयन्ति।

वस्तुतः अस्माकं विद्यालयः साक्षात् मन्दिरमेव वर्तते। अस्मिन् पावने विद्यामन्दिरे समेषां छात्राणां समुज्ज्वलव्यक्तित्वस्य निर्माणं भवति।

[हिन्दी-अनुवाद – हमारा विद्यालय राजस्थान की राजधानी और दूसरी काशी के नाम से विख्यात जयपुर नगर के मध्य रमणीय स्थान पर है। यह उच्च माध्यमिक विद्यालय है। जो अन्य विद्यालयों में सबसे प्राचीन और विशिष्ट है। इस विद्यालय का भवन दो मंजिल का, विशाल, भव्य और सुसज्जित है। हमारे विद्यालय में पचास कमरे हैं और एक बड़ा सभा भवन है। इसमें एक विशाल पुस्तकालय भी है। इसमें दस हजार पुस्तकें हैं तथा हिन्दी, अंग्रेजी, संस्कृत आदि भाषाओं की विभिन्न पत्र-पत्रिकाएँ आती हैं। विद्यालय के पास एक सुन्दर खेल का मैदान है, जिसमें छात्र अवकाश के समय खेलते हैं।

हमारा विद्यालय पठन-पाठन की दृष्टि से सुव्यवस्थित और अनुशासित है। हमारे विद्यालय में शिक्षा का उद्देश्य छात्रों का मानसिक विकास के साथ चरित्र-निर्माण है। इस विद्यालय के छात्र योग्यतम हैं। वे विभिन्न प्रतियोगिताओं में और परीक्षा में सर्वश्रेष्ठ प्रदर्शन करके पुरस्कार प्राप्त करते हैं और अपने विद्यालय का गौरव बढ़ाते हैं। वास्तव में हमारा विद्यालय साक्षात् मन्दिर है। इस पवित्र विद्यामन्दिर में सभी छात्रों के उज्ज्वल व्यक्तित्व का निर्माण होता है।]

एकपदेन उत्तरत –

प्रश्न 1.
(i) अपरा काशीनाम्ना किं विख्यातम्?
(ii) विद्यालयस्य पुस्तकालये कति पुस्तकानि सन्ति?
(iii) विद्यालयस्य छात्राः कीदृशाः सन्ति?
(iv) अस्माकं विद्यालयः साक्षात् किम् वर्तते?
उत्तरम् :
(i) जयपुरनगरम्।
(ii) दशसहस्राणि।
(iii) योग्यतमाः।
(iv) मन्दिरम्।

पूर्णवाक्येन उत्तरत –

प्रश्न 1.
(i) विद्यालयस्य भवनं कीदृशं वर्तते?
(ii) विद्यालयः पठन-पाठनदष्ट्या कीदशः वर्तते?
(iii) विद्यालये छात्राणां कस्य निर्माणं भवति।
उत्तरम् :
(i) विद्यालयस्य भवनं द्विभूमिकं विस्तृतं भव्यं सुसज्जितञ्च वर्तते।
(ii) विद्यालयः पठन-पाठनदृष्ट्या सुव्यवस्थितः सुशासितश्च वर्तते।
(iii) विद्यालये छात्राणां समुज्वलव्यक्तित्वस्य निर्माणं भवति।

प्रश्न 2.
“अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
अस्माकं विद्यालयः।

प्रश्न 3.
उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तरम् :
संक्षिप्तीकरणम् – अस्माकं विद्यालयः अपरा काशी नाम्ना विख्यातस्य जयपुरनगरस्य मध्ये रमणीये स्थाने स्थितः। अयम् उच्चमाध्यमिकविद्यालयः अस्ति। अस्य भवनं द्विभूमिकं विस्तृतं भव्यं चास्ति। अस्य पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति, विविधाः पत्र-पत्रिकाः च समायान्ति। अयं विद्यालयः पठन-पाठनदृष्ट्या सुव्यवस्थितः सुशासितश्च वर्तते। अत्रत्याः छात्राः योग्यतमाः सन्ति। अयम् आदर्शविद्यालयः अस्ति।

निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत –

प्रश्न 1.
‘वर्धयन्ति’ इति क्रियायाः गद्यांशे कर्तृपदं किम्?
(क) ते
(ख) छात्राः
(ग) वयम्
(घ) जनाः
उत्तरम् :
(ख) छात्राः

प्रश्न 2.
‘सभाभवनम्’ इत्यस्य गद्यांशे विशेषणपदं किम्?
(क) विस्तृतम्
(ख) विशालम्
(ग) व्यवस्थितः
(घ) द्विभूमिकं
उत्तरम् :
(क) विस्तृतम्

प्रश्न 3.
‘ते विविधप्रतियोगितासु………।’ अत्र ‘ते’ सर्वनामस्थाने संज्ञापदं किम् ?
(क) बालकाः
(ख) शिक्षकाः
(ग) छात्राः
(घ) युवकाः
उत्तरम् :
(ग) छात्राः

प्रश्न 4.
‘अर्वाचीनम्’ इत्यस्य गद्यांशात् विलोमपदं चित्वा लिखत।
(क) प्राचीनम्
(ख) समीचीनम्
(ग) विशालम्
(घ) नवीनम्
उत्तरम् :
(क) प्राचीनम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *