RBSE Class 10 Sanskrit व्याकरणम् अव्ययपदानि
RBSE Class 10 Sanskrit व्याकरणम् अव्ययपदानि
RBSE Class 10 Sanskrit व्याकरणम् अव्ययपदानि
संस्कृत भाषा में दो प्रकार के शब्द होते हैं-विकारी और अविकारी। जिन शब्दों का विभक्ति प्रत्यय, उपसर्ग लगाकर रूप-परिवर्तन हो जाता है, वे विकारी शब्द कहलाते हैं। अविकारी शब्दों का कभी भी रूप-परिवर्तन नहीं होता है। ये ‘अव्यय’ कहे जाते हैं। अर्थात् जिन शब्दों में लिंग, वचन, कारक आदि के सम्बन्ध में परिवर्तन नहीं होता। है, वे अव्यय हैं। कहा भी गया है।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
अर्थात् तीनों लिगों में, सभी विभक्तियों और सभी वचनों में जो समान ही रहता है, रूप में परिवर्तन नहीं होता, वह अव्यय होता है।
अव्ययों के अन्त में आने वाले र्, स् वर्गों के स्थान पर विसर्ग का प्रयोग होता है, जैसे –
- उच्चैस् = उच्चैः
- नीचैस् = नीचैः
- अन्तर् = अन्तः
- पुनर् = पुनः।
अव्ययों के भी दो प्रकार हैं – पहला रूढ़ अथवा अव्युत्पन्न। जैसे-च, वा, विना, पृथक् आदि अव्युत्पन्न हैं। दूसरा यौगिक अथवा व्युत्पन्न। जैसे-पठित्वा, पठितुम् आदि धातु से निर्मित कृदन्त अव्यय हैं। सर्वदा, चतुर्धा आदि नाम (प्रातिपदिक) से व्युत्पन्न तद्धित अव्यय हैं। तद्धित अव्ययों के भेद भी हैं।
जैसे –
- विभक्ति-बोधक – कुतः, ग्रामतः, कुत्र, अत्र आदि।
- काल-बोधक – यदा, कदा, सर्वदा आदि।
- प्रकार-बोधक – यथा, तथा, कथम्, इत्थम्, द्वेधा आदि।
- विविध अव्यय – अनेकशः, पञ्चकृत्व आदि।
यहाँ नवीनतम पाठ्यक्रम एवं ‘व्याकरणवीथिः के आधार पर कुछ प्रमुख अव्ययों के अर्थ और वाक्य-प्रयोग प्रस्तुत किये जा रहे हैं –
प्रमुख अव्ययों का अर्थ व वाक्य-प्रयोग –
अन्य उदाहरण –
अहं श्वः वाराणसीं गमिष्यामि।
ह्यः मम गृहे उत्सवः आसीत्।
सहसा निर्णयः न करणीयः।
इदानीम् अहं संस्कृत पठामि।
यद्यपि अद्य अवकाशः अस्ति तथापि अहं कार्यमुक्तः नास्मि।
अथ रामायणकथा आरभ्यते। अत्र आगच्छ।
अहं कत्रापि न गमिष्यामि।
कुक्कुरः इतस्ततः भ्रमति।
यत्र-यत्र धूमः तत्र-तत्र अग्निः।
अधुना गल्पं न करणीयम्।
नक्तम् दधि न भुञ्जीत।
कक्षायां तूष्णीम् तिष्ठ।
पुरा अशोकः राजा आसीत्।
तौ परस्परम् आलपतः।
अद्य प्रभृति अहं धूम्रपानं न करिष्यामि।
शीघ्रं कार्य समापय अन्यथा विलम्बः भविष्यति।
वृथा कलहम् मा कुरु।।
यदा अहं गमिष्यामि तदा सः अत्र आगमिष्यति।
ईषत् हसित्वा सः तस्य उपहासं कृतवान्।
अहं त्वाम् भूयोभूयः नमामि।
सः मुहुर्मुहुः किम् पश्यति?
यहाँ यह भी ध्यातव्य है कि यकार एवं तकार वाले, जैसे कि यद्यपि तथापि, यथा-तथा, यदि-तर्हि, यत्र-तत्र, यावत्-तावत्, यदा-तदा इत्यादि अव्ययों का वाक्यों में प्रयोग करते हुए प्रायशः एक साथ ही करना चाहिए अन्यथा वाक्य अपूर्ण ही रहता है।
अभ्यासार्थ प्रश्नोत्तराणि
वस्तुनिष्ठप्रश्नाः –
निर्देश:-अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः समुचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत –
प्रश्न 1.
“उत्तरं यत्समुद्रस्य हिमाद्रेः ……………..।”
(अ) यत्
(ब) सम्
(स) उत्तरं
(द) हिम
उत्तरम् :
(अ) यत्
प्रश्न 2.
अपि स्वर्णमयी लङ्का न मे लक्ष्मणे रोचते।
(अ) लङ्का
(ब) मे
(स) अपि
(द) रोचते
उत्तरम् :
(स) अपि
प्रश्न 3.
तस्य स्वत्वं तत्र राष्ट्रे ……………….।
(अ) राष्ट्र
(ब) तत्र
(स) स्वत्वं
(द) तस्य
उत्तरम् :
(ब) तत्र
प्रश्न 4.
कुत्र? देह्येतत्।
(अ) देहि
(ब) एतत्
(स) ह्य
(द) कुत्र।
उत्तरम् :
(द) कुत्र।
प्रश्न 5.
केनापि कृपालुना अनाथालये प्रवेशितोऽयम्।
(अ) अपि
(ब) केन।
(स) अयम्
(द) प्रवेशितः
उत्तरम् :
(स) अयम्
प्रश्न 6.
पात्रापात्र-विवेकोऽस्ति धेनुपन्नगयोः इव।
(अ) पात्र
(ब) अपात्र
(स) इव
(द) अस्ति
उत्तरम् :
(अ) पात्र
प्रश्न 7.
गुणैः गौरवमायाति. नोच्चैः आसनमास्थितः।
(अ) आयाति
(ब) उच्चैः
(स) गौरवम्
(द) गुणैः
उत्तरम् :
(ब) उच्चैः
प्रश्न 8.
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
(अ) आचरेत्
(ब) गृहीतः
(स) धर्मम्
(द) इव
उत्तरम् :
(द) इव
प्रश्न 9.
किम् अत्र वासेन मे प्रयोजनम्।
(अ) अत्र
(ब) वासेन
(स) मे
(द) प्रयोजनम्
उत्तरम् :
(अ) अत्र
प्रश्न 10.
बालाकाः गृहे उच्चैः अहसन्।
(अ) अहसन्
(ब) बालकाः
(स) उच्चैः
(द) गृहे
उत्तरम् :
(स) उच्चैः
अतिलघूत्तरात्मकप्रश्नाः
प्रश्न 1.
समुचितैः अव्ययैः (मंजूषातः गृहीत्वा) रिक्तस्थानानि पूरयत –
मञ्जूषा
[मा, बहिः, मुहुर्मुहुः, अन्यथा, एकदा, शनैः शनैः, चिरम्, नूनम्, उच्चैः, कुत्र]
- सः …………………………… वनं गतवान्।
- सः ………………… गच्छति?
- गजः ………………. चलति।
- सः ………….. स्वपिति।
- सिंहः …………गर्जति।
- सः …………… विजेष्यते।
- परिश्रमं कुरु, ……………………… अनुत्तीर्णः भविष्यसि।
- गृहात् ……………….. मा गच्छ।
- सः ………………………. माम् उद्वेजयति।
- कोलाहलं ………………………… कुरु।
उत्तरम् :
- सः एकदा वनं गतवान्।
- सः कुत्र गच्छति?।
- गजः शनैः शनैः चलति।
- सः चिरम् स्वपिति।
- सिंहः उच्चैः गर्जति।
- सः नूनम् विजेष्यते।
- परिश्रमं कुरु, अन्यथा अनुत्तीर्णः भविष्यसि।
- गृहात् बहिः मा गच्छ।
- सः मुहुर्मुहुः माम् उद्वेजयति।
- कोलाहलं मा कुरु।
प्रश्न 2.
अधोलिखितेषु वाक्येषु अव्ययपदं चित्वा लिखत –
- यावत् परीक्षाकालः नायाति तावत् परिश्रमं कुरु। ………….
- अस्माभिः सर्वदा सत्यं वक्तव्यम्। ……………..
- कालः वृथा न यापनीयः। ……………
- अहं सम्प्रति गृहं गन्तुम् इच्छामि। ………….
- त्वं कुतः समायातः? ………….
- अहं श्वः ग्रामं गमिष्यामि। …………..
- तौ परस्परम् आलपतः। ……………..
- अद्यप्रभृति अहं धूम्रपानं न करिष्यामि। ……………
- धनं विना जीवनं वृथा भवति। ………….
- अथ रामायणकथा आरभ्यते। …………
उत्तरम् :
- यावत्, तावत्
- सर्वदा
- वृथा
- सम्प्रति
- कुतः
- श्वः
- परस्परम्
- अद्यप्रभृति
- विना, वृथा
- अथ।
प्रश्न 3.
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत् –
- अहम् …………. भ्रमणाय गमिष्यामि। (श्वः / ह्यः)
- त्वम् कस्य ………….. गच्छसि? (परितः। पुरतः)
- विद्यालयम् ……………………………….. उद्यानम् अस्ति। (परितः। एव)
- सः यदा आगमिष्यति ……………………………… अहं, गमिष्यामि। (तदैव / तथैव)
- परिश्रमं कुरु ………….. अनुत्तीर्णः भविष्यसि। (सर्वदा / अन्यथा)
- त्वं ……………… कुत्र गच्छसि? (जातु / साम्प्रतम्)
- यूयम् …………… ध्यानेन पठत। (बाढम् / नूनम्)
- श्यामः ………… पठति श्यामा न। (एव / विना)
- छात्राः -पुस्तकम् …………….. न शोभन्ते। (यदि / विना)
- यथा.वप्स्यसि …………….. फलं प्राप्स्यसि। (तदा / तथा)
उत्तरम् :
- श्वः
- पुरतः
- परितः
- तदैव
- अन्यथा
- साम्प्रतम्
- नूनम्
- एव
- विना
- तथा।
प्रश्न 4.
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषाप्रदत्तैः उचितैः अव्ययपदैः पूरयत।
(क) ईश्वरः ………… व्यापकः अस्ति।
(ख) बालकाः …………. पादकन्दुकेन क्रीडन्ति।
(ग) उद्याने ……….. पुष्पाणि सन्ति, तत्र भ्रमरा: गुञ्जन्ति।
(घ) मन्दिरस्य ………….. स्वर्णकलशः स्थापितोऽस्ति।
(ङ) त्वम् इदानीम् …………. आगच्छसि?
[उपरि, अत्र, कुतः, सर्वत्र, यत्र]
उत्तरम् :
(क) ईश्वरः सर्वत्र व्यापकः अस्ति।
(ख) बालकाः अत्र पादकन्दुकेन क्रीडन्ति।
(ग) उद्याने यत्र पुष्पाणि सन्ति, तत्र भ्रमरा: गुञ्जन्ति।
(घ) मन्दिरस्य उपरि स्वर्णकलश: स्थापितोऽस्ति।
(ङ) त्वम् इदानीम् कतः आगच्छसि?
प्रश्न 5.
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत –
[बहिः, मा, किमर्थम्, यावत्, कुतः]
- सः ……………. वाराणसीं गमिष्यति।
- त्वम् ………… समागतोऽसि।
- ग्रामात् …………. एकं सुन्दरम् उद्यानम् अस्ति।
- ………… परोपकारः क्रियते तावत् शरीरस्य उपयोगः।
- ध्वनि ……………. कुरु।
उत्तरम् :
- किमर्थम्
- कुतः
- बहिः
- यावत्:
- मा।
[नोट – दिये गये उत्तरों को रिक्त-स्थानों में क्रमानुसार भरकर प्रश्न संख्या-1 के उत्तर के समान सम्पूर्ण वाक्यों को उत्तर-पुस्तिका में लिखने का अभ्यास करना चाहिए, क्योंकि परीक्षा में पूर्ण वाक्य ही लिखना अनिवार्य है।]
प्रश्न 6.
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत –
[यत्, मा, श्वः, कुत्र, ह्यः]
- सः …………. पठितुम् इच्छति?
- तत्र ………….. गच्छ।
- ते सर्वे ………….. नाटिकां द्रष्टुम् अगच्छन्।
- ते …………. नूतनं पुस्तकं पठिष्यन्ति।
- त्वं कथयितुम् इच्छसि ……….. सः श्वः आगमिष्यति।
उत्तरम् :
- कुत्र
- मा
- ह्यः
- श्वः
- यत्।
प्रश्न 7.
अधोलिखित वाक्येषु रिक्तस्थानानि मञ्जूषाप्रदत्तपदसहायतया उचितैः अव्ययपदैः पूरयित्वा लिखत –
[तदा, तावत्, कुतः, मा, यत्, श्व:]
- भवती अधुना …… आगच्छति?
- यदा कृष्णः अत्र आगच्छत् …………. वृष्टिः अभवत्।
- अहं ……. प्रातः सप्तवादने गीतायाः पाठं करिष्यामि।
- ध्वनिं …………… कुरु।
- किं त्वं जानासि …….. भारतीया संस्कृतिः अतिप्राचीना अस्ति।
- यावत् परोपकारः क्रियते ……. शरीरस्य सदुपयोगः।
उत्तरम् :
- कुतः
- तदा
- श्वः
- मा
- यत्
- तावत्।
प्रश्न 8.
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषायां प्रदत्तपदसहायतया उचितैः अव्ययपदैः पूरयित्वा लिखत-
[यदा-कदा, तत्र, कुतः, यावत्, इति, श्वः]
- भवान् अधुना ………. आगच्छति?
- ते ………. पुन: तत्र न गमिष्यतः।’
- यत्र कर्त्तव्यनिष्ठा भवति ………… सिद्धिः अपि निवसति।
- ‘अहम् इदं कार्यं पुनः करिष्यामि।’ ………….. सः दृढतया अवदत्।
- सः तावत् न गमिष्यति ………. त्वं न आगच्छसि।
- ……….. ते अपि तत्र गच्छन्ति।
उत्तरम् :
- कुतः
- श्वः
- तत्र
- इति
- यावत्
- यदा-कदा।
प्रश्न 9.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत
[तथा, कुवः, यत्, अपि]
(i) वर्षागमे चारुमरुं विहाय क्वान्यत्र कस्य …………… रमेत चित्तम्।
(ii) अश्रद्धेयमेतत् ……………. तृणानां वह्निना सह संगमः।
(iii) भवान् …………. समायातः श्रीमन्।
उत्तरम् :
(i) वर्षागमे चारुमरुं विहाय क्वान्यत्र कस्य अपि रमेत चित्तम्।
(ii) अश्रद्धेयमेतत् यत् तृणानां वह्निना सह संगमः।
(iii) भवान् कुतः समायातः श्रीमन्?
प्रश्न 10.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत
[इतस्ततः, अधुनैव, वृथा, श्वः]
(i) अहं (i) ……….. देहली गमिष्यामि।
(ii) तृणानि (ii) …………… विकीर्णानि आसन्।
(iii) वयम् (iii) …….. कार्य सम्पादयामः।
उत्तरम् :
(i) अहं श्वः देहली गमिष्यामि।
(ii) तृणानि इतस्ततः विकीर्णानि आसन्।
(iii) वयम् अधुनैव कार्य सम्पादयामः।
प्रश्न 11.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत
[इव, तत्र, यथा, सहसा।]
(i) सूर्यः अग्निगोलकः ………………….. प्रतिभाति।
(ii) यत्र गच्छति ………………….. तिष्ठति।
(iii) कार्यस्य ………………….. निर्णयं न करणीयम्।
उत्तरम् :
(i) सूर्यः अग्निगोलकः इव प्रतिभाति।
(ii) यत्र गच्छति तत्र तिष्ठति।
(iii) कार्यस्य सहसा निर्णयं न करणीयम्।
प्रश्न 12.
मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखतु –
[अपि, इव, तत्र, यथा।]
1. गृहीत ………………….. केशेषु मृत्युना धर्ममाचरेत्।
2. कथमहं ………………….. गच्छामि।
3. जननी जन्मभूमिश्च स्वर्गाद् ………………….. गरीयसी।
उत्तरम् :
1. गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
2. कथमहं तत्र गच्छामि।
3. जननी जन्मभूमिश्च स्वर्गाद् अपि गरीयसी।
प्रश्न 13.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तर-पुस्तिकायां लिखत –
[ह्यः, यथा-तथा, विना, मा।]
- …………….. गुरुः, …………….. शिष्यः।
- …………….. सोमवासरः आसीत्।
- उच्चैः …………….. हसतु।
- ज्ञानं …………….. न सुखम्।
उत्तरम् :
- यथा गुरुः, तथा शिष्यः।
- ह्यः सोमवासरः आसीत्।
- उच्चैः मा हसतु।
- ज्ञानं विना न सुखम्।
प्रश्न 14.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तर-पुस्तिकायां लिखत
[सहसा, उच्चैः, एव, पुरा]
- …………….. गायति सः नायकः।
- सदा सत्यम् …………….. विजयति।
- …………….. संस्कृतं जनभाषा आसीत्।
- …………….. क्रियां न विदधीत।
उत्तरम् :
- उच्चैः गायति सः गायकः।
- सदा सत्यम् एव विजयति।
- पुरा संस्कृतं जनभाषा आसीत्।
- सहसा क्रियां न विदधीत।
प्रश्न 15.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
[बहिः, अपि, यथा, कुत्र]
- सः क्रीडति अहम् ……………. क्रीडामि।
- भवति …………….. पठंति?
- …………….. गुरुः तथा शिष्यः।
- ग्रामात् …………….. नदी प्रवहति।
उत्तरम् :
- सः क्रीडति अहम् अपि क्रीडामि।
- भवति कुत्र पठति?
- यथा गुरुः तथा शिष्यः।
- ग्रामात्. बहिः नदी प्रवहति।
प्रश्न 16.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत
[एव, सहसा, वृथा, विना]
- ……………. विदधीत न क्रियाम्।
- क्रियां ………….. नरः अकर्मण्यः भवति।
- कर्मणा …………….. नरः पूज्यते।
- वयं …………….. समयं न यापयेम।
उत्तरम् :
- सहसां विदधीत न क्रियाम्।
- क्रियां विना नरः अकर्मण्यः भवति।
- कर्मणा एवं नरः पूज्यते।
- वयं वृथा समयं न यापयेम।
प्रश्न 17.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत
[तथैव, अपि, अधुना, यथा, च, तथा]
- …………….. शरीरस्य रक्षायै उचितं भोजनम्, उचितः च व्यवहारः आवश्यकोऽस्ति
- ……… शरीरस्य स्वास्थ्याय व्यायामः
- ……………. आवश्यक अस्ति।
- …………….. व्यायामः अवश्यं करणीयम्।
उत्तरम् :
- यथा शरीरस्य रक्षायै उचितं भोजनम्, उचितः च व्यवहारः आवश्यकोऽस्ति
- तथैव शरीरस्य स्वास्थ्याय व्यायामः
- अपि आवश्यक अस्ति।
- अधुना च व्यायामः अवश्यं करणीयम्।
प्रश्न 18.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
[अपि, पुरा, विना, बहिः, कुत्र, वृथा, शनैः]
- भानुप्रिया – त्वम् अधुना ………….. गच्छसि?
- भानुप्रतापः – अहं ग्रामाद् ………….. भ्रमणाय गच्छामि।
- भानुप्रिया – अहम् ……………. त्वया सह गन्तुमिच्छामि।
- भानुप्रतापः – अहं तु त्वया ………….. एव गमिष्यामि।
उत्तरम् :
- भानुप्रिया – त्वम् अधुना कुत्र गच्छसि?
- भानुप्रतापः – अहं ग्रामाद् बहिः भ्रमणाय गच्छामि।
- भानुप्रिया – अहम् अपि त्वया सह गन्तुमिच्छामि।
- भानुप्रतापः – अहं तु त्वया विना एव गमिष्यामि।
प्रश्न 19.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
[यावत्-तावत्, शनैः, श्वः, विना, मा]
- ……….. मम मातुलः काश्मीरात् आगमिष्यति।
- असत्यं ……………. वद।
- ………………. स्थास्यन्ति गिरयः… रामायणी कथा प्रचरिष्यति।
- कच्छपः…………………. चलति।
- अस्माकं जीवनं जलं …….. असम्भवम्।
उत्तरम् :
- श्वः मम मातुलः काश्मीरात् आगमिष्यति।
- असत्यं मा वद।
- यावत् स्थास्यन्ति गिरयः तावत् रामायणी कथा प्रचरिष्यति।
- कच्छपः शनैः चलति।
- अस्माकं जीवनं जलं विना असम्भवम्।
प्रश्न 20.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
…………. श्रीकृष्णः ……… सुदामा शैशवात् मित्रे आस्ताम्। तौ बाल्ये गुरोः संदीपनस्य आश्रमे …….. अवसताम्। ……. गुरुपत्न्याः आदेशेन तौ काष्ठानि आनेतुं वनं गतो. वने काष्ठानां कृन्तनकार्ये तयोः रतयोः सूर्यास्त: अभवत्। उभौ तौ हिंसकप्राणिभ्यः भीतौ एकं वृक्षम् आरुह्य …….. स्थितौ।
[पुरा, यदा, तदा, तत्र, तथा, एव।]
उत्तरम् :
पुरा श्रीकृष्णः तथा सुदामा शैशवात् मित्रे आस्ताम्। तौ बाल्ये गुरोः संदीपनस्य आश्रमे एव अवसताम्। यदा गुरुपल्या आदेशेन तौ काष्ठानि आनेतुं वनं गतौ तदा वने काष्ठानां कृन्तनकार्ये तयोः रतयोः ‘सूर्यास्तः अभवत्। उभौ तौ हिंसकप्राणिभ्यः भीतौ एकं वृक्षम् आरुह्य तत्र स्थितौ।
प्रश्न 21.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
[बहिः, एव, उच्चैः, किमर्थं, अपि]
- पिता – पुत्र! एष कोलाहल: (i) …………. भवति?
- पुत्रः – (ii) ………… एका नटी स्वनृत्यकौशलं प्रदर्शयति।
- पिता – किम् कश्चित् गायति, वादयति (iii) ………….. ?
- पुत्रः – आम् नटः (iv) …………… गायति, ढोलकं वादयति च। कुशलः खलु सः।
- पिता – अवश्यम्। अभ्यासेन (v) …………. कौशलं प्राप्यते।
उत्तरम् :
- पिता – पुत्र! एष कोलाहलः किमर्थं भवति?
- पुत्रः – बहिः एका नटी स्वनृत्यकौशलं प्रदर्शयति।
- पिता – किम् कश्चित् गायति, वादयति अपि?
- पुत्रः – आम् नटः उच्चैः गायति, ढोलकं वादयति च। कुशलः खलु सः।
- पिता – अवश्यम्। अभ्यासेन एव कौशलं प्राप्यते।
प्रश्न 22.
मञ्जूषायां प्रदत्तः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
[यावत्-तावत्, अत्र-तत्र, यदा-कदा, पुरा, श्वः-ह्यः]
- ……….. रविवासरः आसीत्, ………….. मङ्गलवासरः भविष्यति।
- …………….. मम माता अनुमतिं दास्यति तदा अहं नाटकं द्रष्टुं गमिष्यामि।
- ………….. स्थास्यन्ति सरितः महीतले. रामायणी कथा लोकेषु प्रचरिष्यति।
- कालिदासः …………… अभवत् परं तस्य निश्चितकालं न जाने।
- …………….. आम्रवृक्षाः …………….. कोकिलाः सन्ति।
उत्तरम् :
- ह्यः रविवासरः आसीत्, श्वः मङ्गलवासरः भविष्यति।
- यदा-कदा मम माता अनुमतिं दास्यति तदा अहं नाटकं द्रष्टुं गमिष्यामि।
- यावत् स्थास्यन्ति सरितः महीतले तावत् रामायणी कथा लोकेषु प्रचरिष्यति।
- कालिदासः पुरा अभवत् परं तस्य निश्चितकालं न जाने।
- अत्र आम्रवृक्षाः तत्र कोकिलाः सन्ति।
प्रश्न 23.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
(i) ……………. वयं बुद्धोद्याने भ्रमितुम् अगच्छाम। तत्र वयम् अनेकान् जनान् अपश्याम ये (ii) ………. अभ्रमन्। (iii) ……….. छात्राः पुस्तकानि अपठन्। उद्यानरक्षकः पादपेभ्य: जलम् अयच्छत्। (iv) ………. एकः रक्षकः सर्वान् जनान् अपश्यत् (v) ……….. एकः भीतः शिशुः तत्र सम्प्राप्तः। यः मातरं (vi) …………… व्याकुलः आसीत्।
[इतस्ततः, तत्र, विना, यथा, तथा, ह्यः]
उत्तरम् :
ह्यः वयं बुद्धोद्याने भ्रमितुम् अगच्छाम। तत्र वयम् अनेकान् जनान् अपश्याम ये इतस्ततः अभ्रमन्। तत्र छात्राः पुस्तकानि अपठन्। उद्यानरक्षकः पादपेभ्यः जलम् अयच्छत्। यथा एकः रक्षकः सर्वान् जनान् अपश्यत् तथा एक: भीतः शिशुः तत्र सम्प्राप्तः। यः मातरं विना व्याकुलः आसीत्।
प्रश्न 24.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
आम्रवृक्षस्य (i) ………… उपविष्टः एकः नरः कोमलासु लतासु विशालफलानि दृष्ट्वा अकथयत्, “मूर्खः ईश्वरः लतासु विशालानि फलानि रोपयति, विशाले वृक्षे तु लघूनि फलानि। (ii) …………. पवनस्य वेगेन एकं आम्रफलं तस्य शिरसि. अपतत्। सः अचिन्तयत् (iii) ………….. वृक्षे विशालफलम् स्यात् तथा मम शिरः तु भग्नम् (iv) ……………. भवेत्।
[यथा, एव, सहसा, उच्चैः]
उत्तरम् :
आम्रवृक्षस्य उच्चैः उपविष्टः एकः नरः कोमलासु लतासु विशालफलानि दृष्ट्वा अकथयत्, “मूर्खः ईश्वरः लतासु विशालानि फलानि रोपयति, विशाले वृक्षे तु लघूनि फलानि। सहसा पवनस्य वेगेन एकं आम्रफलं तस्य शिरसि अपतत्। सः अचिन्तयत् यथा वृक्षे विशालफलम् स्यात् तथा मम शिरः तु भग्नम् एव भवेत्।
प्रश्न 25.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
(i) …………. वने पशुमहोत्सवः अस्ति। मञ्चस्य उपरि वनराजः सिंहः तिष्ठति। आकाशे (ii) ………… मेघाः सन्ति। मेघान् दृष्ट्वा मयूराः वृक्षाणाम् अधः नृत्यन्ति। पशवः (iii) ……………. भ्रमन्ति। कोलाहलं श्रुत्वा सिंहः (iv) ………….. गर्जति आदिशति च, “भोः कोलाहलं (v) ………… कुरुत, “अस्माकं जीवनं वृक्षान् (vi) …………. असम्भवम्।”
[मा, इतस्ततः, विना, उच्चैः, अत्र-तत्र, इदानीम्]
उत्तरम् :
इदानीम् वने पशुमहोत्सवः अस्ति। मञ्चस्य उपरि वनराजः सिंहः तिष्ठति। आकाशे अत्र-तत्र मेघाः।। मेघान दृष्ट्वा मयराः वक्षाणाम अधः नत्यन्ति। पशवः इतस्ततः भ्रमन्ति। कोलाहलं श्रुत्वा सिंहः उच्चैः गर्जति आदिशति च, “भोः कोलाहलं मा कुरुत। अस्माकं जीवनं वृक्षान् विना असम्भवम्।”
प्रश्न 26.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
त्वं (i) ….. विद्यालयं गच्छसि। (ii) ……… अध्यापकः पाठयति। विद्यां (iii) ……. संसारे किमपि न लभ्यते। (iv) ……….. विद्या पठ्यते (v) ………….. बालकस्य जीवन सुखमयं भवति। विद्यां प्राप्य मानवाः गृहाद् (vi) …… (vii) ……… गच्छन्ति। (viii) …………. विदेशेषु भारतीयानां महान् आदरः भवति। धन्यं (ix) ……….. विद्याधनम्, यत् सूर्य (x) ………….. प्रकाशते।
[नूनम्, यदा, तदा, यावत्, बहिः, तावत् अपि, तत्र, विना, इव]
उत्तरम् :
त्वं यावत् विद्यालयं गच्छसि। तावत् अध्यापकः पाठयति। विद्यां विना संसारे किमपि न लभ्यते। यदा विद्या पठ्यते तदा बालकस्य जीवन सुखमयं भवति। विद्यां प्राप्य मानवाः गृहाद् बहिः अपि गच्छन्ति। तत्र विदेशेषु भारतीयानां महान आदरः भवति। धन्यं ननम विद्याधनम, यत सर्य इव प्रकाशते।
प्रश्न 27.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
[यदा-कदा, अपि, यत्र-कुत्र, एव]
- विद्यालये ………… वनमहोत्सवः मन्यते।
- छात्रैः गृहेभ्यः ……… एकः पादपः आनीतः।
- छात्रैः आनीतेषु पादपेषु फलिनः वृक्षा :……… सन्ति।
- ………… वृक्षाः सन्ति तत्र हरीतिमा वर्तते।
उत्तरम् :
- विद्यालये यदा-कदा वनमहोत्सवः मन्यते।
- छात्रैः गृहेभ्यः एव एकः पादपः आनीतः।
- छात्रैः आनीतेषु पादपेषु फलिनः वृक्षाः अपि सन्ति।
- यत्र-कुत्र वृक्षाः सन्ति तत्र हरीतिमा वर्तते।