RBSE Class 6 Sanskrit रचना निबंध लेखनम्
Rajasthan Board RBSE Class 6 Sanskrit रचना निबंध लेखनम्
1. परोपकारः (दूसरों की भलाई)
परेषाम् उपकार: ‘परोपकारः’ भवति। यदा मानवः परेषां हितं करोति, सः एव परोपकारः कथ्यते। परोपकारः महान् गुणः अस्ति। परोपकारेण एव सुखं भवति। परोपकारिण: जनाः निर्धनेभ्यः धनं, भोजनं वस्त्राणि च यच्छन्ति। परोपकारिणः जनाः दु:खितानां दु:खानि दूरीकुर्वन्ति। संसारे इदम् एव महत् पुण्यम् अस्ति। परोपकारिणः जनाः अन्येषां प्राणरक्षणाय स्वप्राणान् अपि त्यजन्ति। अस्य द्धाहरणं महाराज: शिविः अस्ति। अतः अस्माभिः सदैव परोपकारः कर्तव्यः।
2. विद्यायाः महत्वम् (विद्या का महत्व)
विद्या प्रधानं धनम् अस्ति। किं पुण्यं, किं पापम् इति ज्ञानं विद्यया एव भवति। स्वकर्तव्यज्ञानम् अपि विद्यया एव भवति। विद्या मनुष्याय विनयं ददाति। विनयात् मानवः पात्रतां याति। पात्रत्वात् च मनुष्यः धनं प्राप्नोति। विद्या मनुष्यस्य सुन्दरं रूपम् अस्ति। विद्यारहितः पुरुषः साक्षात् पशुः एव भवति। विद्या दानेन वर्धते संचयेन च नश्यति। अत: विद्या अपूर्व श्रेष्ठं च धनम् अस्ति।
3. अस्माकं विद्यालयः (हमारा विद्यालय),
अस्माकं विद्यालय: नगरात् बहिः रम्यप्रदेशे अस्ति। अस्य नाम राजकीयः आदर्श: माध्यमिक विद्यालयः अस्ति। अस्माकं विद्यालये पञ्चदशः अध्यापकाः पञ्चशत छात्रा: च सन्ति। सर्वे अध्यापका: विविध विषयेषु निपुणा: सन्ति। अध्ययने तत्परा: छात्राः क्रीडायाम् अपि कुशलाः सन्ति। कन्दुकक्रीडायाम् अस्माकं विद्यालय: प्रथम अस्ति। विद्यालयं परितः एकं रमणीयकम् उद्यानम् अस्ति। अस्माकं विद्यालये एक: विशाल: पुस्तकालयः अपि अस्ति। पुस्तकालये दशसहस्रपुस्तकानि सन्ति। अयं विद्यालयः साक्षात् विद्यायाः मन्दिरम् एव अस्ति।
4. दीपमालिका (दीपावली)
दीपावली हिन्दूनां प्रमुखः उत्सवः अस्ति। अयम् उत्सवः विशेषतया वैश्यानाम् उत्सवः अस्ति। दीपावल्या; उत्सवः कार्तिकमासस्य अमावस्यायां तिथौ भवति। जना: पूर्वमेव स्वगृहाणि स्वच्छानि कुर्वन्ति। सर्वे स्वगृहेषु विविधव्यञ्जनानि पचन्ति। रात्रौ लक्ष्म्याः गणेशस्य च पूजनं भवति। सर्वत्र दीपकानां पंक्ति अत्यधिकं शोभते। अस्मिन् दिने श्रीराम: रावणं हत्वा अयोध्याम् आगच्छत्। श्रीरामस्य स्वागतार्थं सर्वैः अयोध्यावासिभि: दीपा: प्रज्ज्वलिताः। इदम् एव अस्य उत्सवस्य विशेषता अस्ति।
5. होलिकोत्सवः (होली का त्योहार)
भारतदेशे अनेके उत्सवाः भवन्ति। तेषु होलिकोत्सवः एकः प्रमुख: उत्सवः अस्ति। एषः हिन्दूनां प्रधानोत्सवः अस्ति।
अयं फाल्गुनमासस्य पूर्णिमायां तिथौ मन्यते। प्रथमे दिवसे रात्रौ होलिकादाहः भवति। द्वितीये दिने जना: परस्परम् अबीरगुलालादीनि प्रक्षिपन्ति। अस्मिन् दिने गृहे गृहे विविधाः पाका; पच्यन्ते। पौराणिककथानुसारेण होलिका प्रह्लादम् आदाय अग्नौ अतिष्ठत्। ईश्वरेच्छया सा क्षणेन भस्मसात् अभवत्। प्रह्लादः तु सुरक्षित: एव अतिष्ठत्।।
6. संस्कृत भाषायाः महत्वम् (संस्कृत भाषा का महत्व)
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले इयं जनसाधारणस्य भाषा आसीत्। सर्वे जनाः संस्कृतम् एव वदन्ति स्म। संस्कृतभाषा सर्वाः भाषा: शब्ददानेन पोषयति। अत: संस्कृतभाषा सर्वासां भाषाणां जननी अस्ति। भारतीया संस्कृति: अस्याम् एव भाषायां सुरक्षिता अस्ति। ये एतां ‘मृतभाषा’ इति कथयन्ति, ते एव मृताः सन्ति। ते अस्याः भाषायाः महत्वं न जानन्ति। अस्माकं वेदाः, पुराणानि, महाकाव्यानि अस्यां भाषायाम् एव सन्ति। अतः अस्माभिः अस्याः प्रचार प्रसारः च कर्तव्यः।
7. अस्माकं देशः (हमारा देश)
भारत: अस्माकं देशः अस्ति। अस्य संस्कृति; धर्मपरम्परा च श्रेष्ठ अस्ति। अयं देश: सर्वासां विद्यानां केन्द्रम् अस्ति। अयं देशः प्रकृते क्रीडास्थली अस्ति। अनेकाः पवित्रतमाः नद्यः अत्र वहन्ति। अस्य उत्तरस्यां दिशि हिमालय: रक्षकः इव स्थितः। अत्र सर्वधर्माणां समान अधिकारः अस्ति। अस्य भूमि: विविध-रत्नानां जननी अस्ति। अत्र विविधा: जातयः निवसन्ति। अस्माभिः सदा अस्य रक्षा करणीया।।
8. भारतीयः कृषकः (भारतीय किसान)
भारतदेशः कृषिप्रधान देशः अस्ति। कृषकाः प्रायः ग्रामेषु निवासं कुर्वन्ति। कृषकाः परिश्रमेण स्वक्षेत्राणि कर्षन्ति। कृषका: अन्नस्य उत्पादनं कृत्वा सर्वेषां पालनं कुर्वन्ति। कृषकाणाम् उन्नत्या एवं राष्ट्रस्य उन्नतिः भवति। कृषकाणां जीवनम् अति सरलं भवति। बलीवर्दाः एव तेषां सहचराः भवन्ति। सर्वेषां पालकत्वेन कृषका: एवं राष्ट्रस्य पितरः सन्ति। कृषकाणां कठिनश्रमेण राष्ट्र धनधान्यपूर्ण भवति। अहो ! भारतीयाः कृषकाः धन्याः सन्ति।
9. वसन्तः (बसन्त ऋतु)
अस्माकं देशे षड् ऋतवः क्रमशः भवन्ति। एतेषु वसन्त: अपि एक: ऋतुः अस्ति। अयं ‘ऋतुराज:’, ‘कुसुमाकरः’, ‘मधुमास’ इत्यादि कथ्यते। वसन्ते प्रकृतिः विविधरूपाणि धारयित्वा नृत्यति। अस्मिन् ऋतौ एवं लतावृक्षादयः पुष्पाणि धारयन्ति। वसन्ते प्रकृतिस्वरूपम् अतिशोभनं भवति। आम्राणां वृक्षेषु मर्यः शोभन्ते। जलाशयानां जलम् अपि शोभितं भवति। शीतलः सुगन्धयुक्तः पवनः प्रवहति। किं बहुना, सर्व खलु नवीनम् इव भवति।
10. हिमालयः (पर्वतराज हिमालय)
भारतस्य उत्तरस्यां दिशि हिमालयः स्थितः अस्ति। अयं पवर्तराज नगाधिराजः वा अपि कथ्यते। अयं सर्वेषु पर्वतेषु उच्चतमः अस्ति। अस्य अत्युच्चानि शिखराणि अतीव शोभन्ते। अत्र विविधाः औषधयः उत्पन्नाः भवन्ति। देवाः अपि अत्रैव निवासं कुर्वन्ति। गंगादयः पवित्रतमा: नद्यः हिमालयात् एवं निर्गच्छन्ति। अयं पर्वत: प्रकृते क्रीड़ाभूमिः अस्ति। अयं पर्वतः भारतदेशं शत्रुभ्यः सर्वदा रक्षति। अयं पर्वतः सर्वथा सर्वेषां हितकरः अस्ति।