RBSE Class 9 Sanskrit Solutions Shemushi Chapter 3 गोदोहनम्
RBSE Class 9 Sanskrit Solutions Shemushi Chapter 3 गोदोहनम्
RBSE Class 9 Sanskrit गोदोहनम् Textbook Questions and Answers
प्रश्न 1.
एकपदेन उत्तरं लिखत
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
(ग) कुम्भकारः घटान् किमर्थं रचयति?
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तराणि :
(क) काशीविश्वनाथमन्दिरम्।
(ख) त्रिशत-सेटकमितम्।
(ग) जीविकाहेतोः।
(घ) मोदकानि।
(ङ) चन्दनः।
प्रश्न 2.
पूर्णवाक्येन उत्तरं लिखत
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
उत्तरम् :
मल्लिका चन्दनश्च मासपर्यन्तं धेनो: दुग्धदोहनं विहाय तस्याः सेवाम् अकुरुताम्।
(ख) कालः कस्य रसं पिबति?
उत्तरम् :
कालः क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तरम् :
घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति यत् “पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।”
(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविक कारणं ज्ञातम्?
उत्तरम् :
मल्लिकया दृष्टम् यत् ताभ्यां मासपर्यन्तं धेनो: दोहनं न कृतम्, येन सा पीडाम् अनुभवति, अत एव सा ताडयति।
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
उत्तरम् :
मासान्ते त्रिशत-सेटकपरिमितं दुग्धं प्राप्तुं तेन च विक्रीय धनिकः भवितुं चन्दनः मासपर्यन्तं धेनोः दोहनं न करोति।
प्रश्न 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) मल्लिका सखिभिः सह धर्मयात्रायै गच्छति स्म।
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तरम् :
प्रश्ननिर्माणम्
(क) मल्लिका काभि सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) कानि पूजानिमित्तानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) का पादाभ्यां ताडयित्वाचन्दनं रक्तरञ्जितं करोति?
प्रश्न 4.
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम, कल्याणकारिणः यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति ………. विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं …….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ……… कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ………. भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ……….। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः …….. आसीत्।।
उत्तरम् :
यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी .तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः समर्थकः आसीत्।
प्रश्न 5.
घटनाक्रमानुसारं लिखत –
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तरम् :
घटनाक्रमानुसारं वाक्यानि
(क) मल्लिका पूजार्थं मोदकानि रचयति।।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(ङ) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(च) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
प्रश्न 6.
अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत –
उत्तरम् :
(क) उमा चन्दनं प्रति।
(ख) चन्दनः उमां प्रति।
(ग) चन्दनः देवेशं प्रति/कुम्भकारं प्रति।
(घ) देवेशः मल्लिका प्रति।
(ङ) चन्दनः मल्लिका प्रति।
प्रश्न 7.
पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत –
(क) शिवास्ते = …………… + ……………..
(ख) मनः हरः = …………… + ……………..
(ग) सप्ताहान्ते = …………… + ……………..
(घ) नेच्छामि = …………… + ……………..
(ङ) अत्युत्तमः = …………… + ……………..
उत्तरम् :
(क) शिवाः + ते
(ख) मनोहरः
(ग) सप्ताह + अन्ते
(घ) न + इच्छामि
(ङ) अति + उत्तमः।
(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
(क) करणीयम् = ………………. + …………………
(ख) वि + क्री + ल्पय् = …………… + ……………..
(ग) पठितम् = …………… + ……………..
(घ) ताडय् + क्त्वा = …………… + ……………..
(ङ) दोग्धुम् = …………… + ……………..
उत्तरम् :
(क) कृ + अनीयर्
(ख) विक्रीय
(ग) पठ् + क्त
(घ) ताडयित्वा
(ङ) दुह् + तुमुन्।
RBSE Class 9 Sanskrit गोदोहनम् Important Questions and Answers
वस्तुनिष्ठप्रश्ना:
अधोलिखितवाक्येषु स्थूलपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत –
प्रश्न 1.
अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(अ) असमर्थः
(ब) समर्थः
(स) कातरः
उत्तरम् :
(अ) असमर्थः
प्रश्न 2.
शिवास्ते सन्तु पन्थानः।
(अ) पथिकाः
(ब) मित्राणि
(स) मार्गाः
उत्तरम् :
(स) मार्गाः
प्रश्न 3.
द्वावेव धेनोः सेवायां निरतौ भवतः।
(अ) विलग्नौ
(ब) संलग्नौ
(स) दूरौ
उत्तरम् :
(ब) संलग्नौ
प्रश्न 4.
जीवनं भगुरं सर्वम्।
(अ) भयग्रस्तम्
(ब) भयानकम्
(स) भञ्जनशीलम्
उत्तरम् :
(स) भञ्जनशीलम्
प्रश्न 5.
मल्लिके! सत्वरम् आगच्छ।
(अ) सावधानेन
(ब) शीघ्रम्
(स) सम्प्रति
उत्तरम् :
(ब) शीघ्रम्
प्रश्न 6.
सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति।
(अ) परस्परम्
(ब) धेनुम्
(स) अन्यत्र
उत्तरम् :
(अ) परस्परम्
प्रश्न 7.
चीत्कारं श्रुत्वा झटिति प्रविशति।
(अ) ज्ञात्वा
(ब) आकर्ण्य
(स) रुदित्वा
उत्तरम् :
(ब) आकर्ण्य
प्रश्न 8.
अत एव दुग्धं शुष्कं जातम्।
(अ) नीरसम्
(ब) मधुरम्
(स) विपुलम्
उत्तरम् :
(अ) नीरसम्
प्रश्न 9.
स कष्टं लभते ध्रुवम्।
(अ) अत्यधिकम्
(ब) न्यूनम्
(स) निश्चितम्
उत्तरम् :
(स) निश्चितम्
प्रश्न 10.
सुविचार्य विधातव्यं कार्यम्।
(अ) कर्त्तव्यम्
(ब) स्थातव्यम्
(स) वियुक्तव्यम्
उत्तरम् :
(अ) कर्त्तव्यम्
लघूत्तरात्मक प्रश्न :
(क) संस्कृत में प्रश्नोत्तर
प्रश्न 1.
मल्लिका मोदकानि रचयन्ती किं करोति? (मल्लिका लड्डू बनाती हुई क्या करती है?)
उत्तरम् :
मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति। (मल्लिका लड्डू बनाती हुई मन्द स्वर से शिवजी की स्तुति करती है।)
प्रश्न 2.
चन्दनः कानि दृष्ट्वा जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्ति? (चन्दन क्या देखकर जीभ के लालच को नियन्त्रित करने में असमर्थ है?)
उत्तरम् :
चन्दनः स्वपत्न्याः हस्तनिर्मितानि मोदकानि दृष्ट्वा जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्ति। का मोदकान या करती है। शिवस्तुति करती है।)
(चन्दन अपनी पत्नी के हाथों से बने हुए लड्डुओं को देखकर जीभ के लालच को नियन्त्रित करने में असमर्थ है।)
प्रश्न 3.
मल्लिका स्वसखिभिः सह काश्यां किमर्थं गन्तुमिच्छति? (मल्लिका अपनी सखियों के साथ काशी में किसलिए जाना चाहती थी?)
उत्तरम् :
मल्लिका स्वसखिभिः सह काश्यां गङ्गास्नानाय धर्मयात्रार्थं च गन्तुमिच्छति स्म। (मल्लिका अपनी सखियों के साथ काशी में गंगा स्नान के लिए तथा तीर्थयात्रा के लिए जाना चाहती थी।)
प्रश्न 4.
ते पन्थानः कीदृशाः सन्तु? (तुम्हारे मार्ग कैसे होवें?)
उत्तरम् :
ते पन्थानः शिवाः सन्तु। (तुम्हारे मार्ग कल्याणकारक होवें।)
प्रश्न 5.
चन्दनः स्त्रीवेषं धृत्वा कुत्र गच्छति? (चन्दन स्त्री का वेष धारण करके कहाँ जाता है?)
उत्तरम् :
चन्दनः स्त्रीवेषं धृत्वा नन्दिन्याः धेनोः समीपं गच्छति। (चन्दन स्त्री का वेष धारण करके नन्दिनी गाय के पास जाता है।)
प्रश्न 6.
कस्य गृहे मासानन्तरं महोत्सवः आसीत्? (किसके घर में एक माह बाद महोत्सव था?)
उत्तरम् :
ग्रामप्रमुखस्य गृहे मासानन्तरं महोत्सवः आसीत्। (ग्राम-प्रमुख के घर में एक माह बाद महोत्सव था।)
प्रश्न 7.
चन्दनः कदा सम्पूर्णतया दुग्धदोहनं कर्तुमिच्छति? (चन्दन कब सम्पूर्ण रूप से दूध का दोहन करने की इच्छा करता है?)
उत्तरम् :
चन्दनः मासान्ते एव सम्पूर्णतया दुग्धदोहनं कर्तुमिच्छति। (चन्दन महीने के अन्त में ही सम्पूर्ण रूप से दूध का दोहन करने की इच्छा करता है।)
प्रश्न 8.
मल्लिका धर्मयात्रातः कदा प्रत्यागच्छति? (मल्लिका तीर्थयात्रा से कब लौटकर आती है?)
उत्तरम् :
मल्लिका धर्मयात्रातः सप्ताहान्ते प्रत्यागच्छति। (मल्लिका तीर्थयात्रा से एक सप्ताह के बाद लौटकर आती है।)
प्रश्न 9.
कस्य कृपया चन्दनः प्रियं निवेदयति? (किसकी कृपा से चन्दन प्रिय समाचार का निवेदन करता है?)
उत्तरम् :
काशीविश्वनाथस्य कृपया चन्दनः प्रियं निवेदयति। (काशी-विश्वनाथ की कृपा से चन्दन प्रिय समाचार का निवेदन करता है।)
प्रश्न 10.
महोत्सवे कति सेटकमितं दुग्धं चन्दनेन दातव्यम् आसीत्? (महोत्सव में कितना लीटर दूध चन्दन के द्वारा दिया जाना था?)
उत्तरम् :
महोत्सवे त्रिशत-सेटकमितं दुग्धं चन्दनेन दातव्यम् आसीत्। (महोत्सव में तीन सौ लीटर दूध चन्दन द्वारा दिया जाना था।)
प्रश्न 11.
चन्दनः किं विहाय कस्याः च सेवां करोति? (चन्दन क्या छोड़कर और किसकी सेवा करता है?)
उत्तरम् :
चन्दनः दुग्धदोहनं विहाय नन्दिन्याः सेवां करोति। (चन्दन दूध का दोहन छोड़कर नन्दिनी गाय की सेवा करता है।)
प्रश्न 12.
द्वावेव कस्याः सेवायां निरतौ भवतः? (दोनों ही किसकी सेवा में संलग्न हो जाते हैं?)
उत्तरम् :
द्वावेव धेनोः सेवायां निरतौ भवतः। (दोनों ही गाय की सेवा में संलग्न हो जाते हैं।)
प्रश्न 13.
चन्दनः मल्लिकया सह पात्रप्रबन्धाय कुत्र गच्छति?
(चन्दन मल्लिका के साथ बर्तनों की व्यवस्था हेतु कहाँ जाता है?)
उत्तरम् :
चन्दनः मल्लिकया सह पात्रप्रबन्धाय कुम्भकारस्य गृहं गच्छति। (चन्दन मल्लिका के साथ बर्तनों की व्यवस्था हेतु कुम्भकार के घर जाता है।)
प्रश्न 14.
चन्दनः घटानां मूल्यं कदा दातुं कथयति? (चन्दन घड़ों का मूल्य कब देने के लिए कहता है?)
उत्तरम् :
चन्दनः घटानां मूल्यं दुग्धं विक्रीय एव दातुं कथयति। (चन्दन घड़ों का मूल्य दूध बेचकर ही देने के लिए कहता है।)
प्रश्न 15.
नन्दिनी कथं चन्दनं रक्तरञ्जितं करोति? (नन्दिनी किस प्रकार चन्दन को खून से लथपथ कर देती है?)
उत्तरम् :
नन्दिनी पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति। (नन्दिनी बार-बार पैर के प्रहार से प्रताड़ित करके चन्दन को खून से लथपथ कर देती है।)
प्रश्न 16.
मल्लिका धेनुं कथम् आकार्य दोग्धुं प्रयतते? (मल्लिका गाय को किस प्रकार बुलाकर दुहने का प्रयत्न करती है?)
उत्तरम् :
मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। (मल्लिका गाय को स्नेह एवं वात्सल्य से बुलाकर दुहने का प्रयत्न करती है।)
प्रश्न 17.
अद्यतनीयं कार्य कदा कर्तव्यम्? (आज का,कार्य कब करना चाहिए?)
उत्तरम् :
अद्यतनीयं कार्यम् अद्यैव कर्त्तव्यम्। (आज का कार्य आज ही करना चाहिए।)
प्रश्न 18.
कल्याणकाक्षिणा कार्यं कथं विधातव्यम्? (कल्याण चाहने वाले के द्वारा कार्य किस प्रकार करना चाहिए?)
उत्तरम् :
कल्याणकाक्षिणा कार्य सुविचार्य विधातव्यम्।
(कल्याण चाहने वाले के द्वारा कार्य अच्छी प्रकार से विचार करके ही करना चाहिए।)
(ख) प्रश्न निर्माणम् :
प्रश्न: 1.
अधोलिखितवाक्येषु रेखांकितपदमाधृत्य प्रश्न निर्माणं कुरुत –
- मल्लिका मन्दस्वरेण शिवस्तुतिं करोति।
- चन्दनः मोदकं गृहीतुमिच्छति।
- वयं सप्ताहान्ते प्रत्यागमिष्यामः।
- चन्दनः नन्दिन्याः समीपं गच्छति।
- सः धेनो: बहुसेवां करोति।
- चन्दनः मोदकानि खादति।
- तात! पञ्चदश घटान् इच्छामि।
- धेनुः पृष्ठपादेन प्रहरति।
- सा पीडाम् अनुभवति।
- अद्यतनीयं कार्यम् अद्यैव विधीयताम्।
उत्तरम् :
प्रश्ननिर्माणम्
- मल्लिका केन शिवस्तुतिं करोति?
- चन्दनः किं गृहीतुमिच्छति?
- वयं कदा प्रत्यागमिष्यामः?
- चन्दनः कस्याः समीपं गच्छति?
- सः कस्याः बहुसेवां करोति?
- चन्दनः कानि खादति?
- तात! कति घटान् इच्छामि?
- का पृष्ठपादेन प्रहरति?
- सा काम् अनुभवति?
- अद्यतनीयं कार्यम् कदा विधीयताम्?
(ग) कथाक्रम/घटनाक्रम संयोजनम्
प्रश्न 1.
अधोलिखितक्रमरहितवाक्यानां घटनाक्रमानुसारेण संयोजनं कुरुत
- नन्दिनी पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
- सः दुग्धदोहनं विहाय नन्दिन्याः सेवां करोति।
- मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं प्रति गच्छति।
- दिनस्य कार्यं तस्मिन्नेव दिने कर्त्तव्यम्।
- महोत्सवे त्रिशत-सेटकमितस्य दुग्धस्य व्यवस्था चन्दनेन करणीया।
- चन्दनः उत्सवदिने एव समग्रं दुग्धदोहनं कर्तुमिच्छति।
- उमायाः पितामहस्य गृहे मासान्ते महोत्सवः भविष्यति।
- मासान्ते चन्दनः धेनोः समीपं गत्वा दोग्धुं प्रयासं करोति।
उत्तरम् :
वाक्य-संयोजनम
- मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं प्रति गच्छति।
- उमायाः पितामहस्य गहे मासान्ते महोत्सवः भविष्यति।
- महोत्सवे त्रिशत-सेटकमितस्य दुग्धस्य व्यवस्था चन्दनेन करणीया।
- चन्दनः उत्सवदिने एव समग्रं दुग्धदोहनं कर्तुमिच्छति।
- सः दुग्धदोहनं विहाय नन्दिन्याः सेवां करोति।।
- मासान्ते चन्दनः धेनो: समीपं गत्वा दोग्धुं प्रयासं करोति।
- नन्दिनी पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
- दिनस्य कार्य तस्मिन्नेव दिने कर्त्तव्यम्।
प्रश्न 2.
निम्नलिखितक्रमरहितवाक्यानां घटनाक्रमपूर्वकं संयोजनं कुरुत
- द्वावेव धेनोः सेवायां निरतौ भवतः।
- भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।
- दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
- यः अविचार्य कार्यं करोति सः विषीदति।
- मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति।
- मासान्ते धेनुः दुग्धहीना एव इति मल्लिका अवगच्छति।
- अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लप्स्ये।
- सप्ताहान्ते मल्लिका प्रत्यागच्छति।
उत्तरम् :
वाक्य-संयोजनम्
- मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति।
- दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
- अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लप्स्ये।
- भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।
- सप्ताहान्ते मल्लिका प्रत्यागच्छति।
- द्वावेव धेनोः सेवायां निरतौ भवतः।
- मासान्ते धेनुः दुग्धहीना एव इति मल्लिका अवगच्छति।
- यः अविचार्य कार्यं करोति सः विषीदति।