RBSE Class 9 Sanskrit अपठितावबोधनम् अपठित गद्यांशः
RBSE Class 9 Sanskrit अपठितावबोधनम् अपठित गद्यांशः
RBSE Class 9 Sanskrit अपठित-अवबोधनम् अपठित गद्यांशः
[ध्यातव्य-विद्यार्थियों के बुद्धि परीक्षण तथा संस्कृत भाषा के अर्थावबोध की दृष्टि से अपठितावबोधन के अन्तर्गत सामान्यतः दो प्रकार के अनुच्छेद पूछे जाते हैं
(क) बृहद् अनुच्छेद-इस प्रकार के अनुच्छेदों की सीमा लगभग 80-100 शब्दों तक की होती है।
(ख) लघु अनुच्छेद-इस प्रकार के अनुच्छेदों की सीमा लगभग 40-50 शब्दों तक निर्धारित की गई है। उपर्युक्त दोनों प्रकार के अनुच्छेद किसी कथा, घटना, निबन्ध या महान् व्यक्ति पर आधारित होते हैं।
इन अनुच्छेदों के नीचे सम्बन्धित प्रश्न दिये हुए होते हैं, जिनका उत्तर अनुच्छेद को पढ़कर संस्कृत-भाषा में ही देना होता है। इन अनुच्छेदों पर निम्नलिखित प्रकार के प्रश्न पूछे जा सकते हैं
(i) अनुच्छेद का शीर्षक देना – अनुच्छेद को पढ़कर उसके प्रमुख भाव, घटना, व्यक्ति, पर्व आदि से सम्बन्धित एक-दो शब्दों में देना चाहिए।
(ii) एक शब्द में उत्तर देना – प्रश्नवाचक शब्द के स्थान पर अनुच्छेद में सम्बन्धित वाक्य के उत्तर को पहचान कर एक ही शब्द में उत्तर देना चाहिए।
(iii) पूर्ण वाक्य में उत्तर – इसी प्रकार पूछे गये प्रश्न का उत्तर अनुच्छेद में से देखकर पूर्ण वाक्य में देना चाहिए।
(iv) भाषिक-कार्य – इसके अन्तर्गत कर्ता, क्रिया, दोनों का अन्वय, विशेषण, विशेष्य, संज्ञा, सर्वनाम आदि का ज्ञान अपेक्षित है। यथा-]
(i) 80-100 शब्दपरिमिताः सरलगद्यांशाः
निर्देश – अधोलिखितगद्यांशान् पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखत –
1. सताम् आचारः सदाचारः इति कथ्यते। सजनाः यथा आचरन्ति तथैव आचरणं सदाचारो भवति। ते सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति। तेषु सत्याचरणं, वाक्संयमः, विनयः, अक्रोधः, क्षमा, धर्माचरणमित्यादयः सद्गुणाः दृश्यन्ते। सदाचारस्य सत्तयैव संसारे जनः उन्नतिं करोति। देशस्य, राष्ट्रस्य, समाजस्य, जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति। सदाचारेणैव शरीरं परिपष्टं भवति। सदाचारेण बुद्धिः वर्धते। सदाचारेणैव मनुष्यः सत्यभाषणम् अन्यच्च सत्कर्म कर्तुं प्रवृत्तो भवति। अतएव पूर्वैः महर्षिभिः ‘आचारः परमो धर्मः’ इत्युक्तम्। संसारे सर्वत्र सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणो भवन्ति, ते एव सर्वत्र आदरं लभन्ते। वेदरामायणमहाभारतेष्वपि सदाचारस्य महिमा वर्णितोऽस्ति। सदाचाराभावेनैव चतुर्वेदविदपि रावणो राक्षस इति कथ्यते। अतः सर्वैः जनैः स्वोन्नत्यै सदा सदाचारः पालनीयः।
प्रश्न 1.
उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सदाचारस्य महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) केषाम् आचारः सदाचारः इति कथ्यते।
(ii) के सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति?
(iii) केन बुद्धिः वर्धते।
उत्तरम् :
(i) सताम।
(ii) सज्जनाः।
(iii) सदाचारेण।
(ख) पूर्णवाक्येन उत्तरत –
(i) कया संसारे जनः उन्नतिं करोति?
(ii) केनैव जनाः ब्रह्मचारिणो भवन्ति?
(iii) ‘आचारः परमो धर्मः’ इति कैः उक्तम्?
उत्तरम् :
(i) सदाचारस्य सत्तया संसारे जनः उन्नतिं करोति।
(ii) सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति।
(iii) ‘आचारः परमो धर्मः’ इति पूर्वैः महर्षिभिः उक्तम्।
प्रश्न 3.
भाषिककार्यम्
(i) सदाचारेणैव शरीरं परिपुष्टं भवति’ इत्यस्मिन् वाक्ये कर्तृपदं किमस्ति?
(ii) सर्वैः जनैः’ इत्यनयोः पदयो : विशेषणपदं किम्?
(iii) क्रोधः’ इत्यस्य किं विलोमपदमत्र प्रयुक्तम्?
(iv) “ते एव सर्वत्र आदरं….।” इति वाक्यस्य समुचितं क्रियापदं किम् प्रयुक्तम्?
उत्तरम् :
(i) शरीरम्।
(ii) सर्वैः।
(iii) अक्रोधः।
(iv) लभन्ते।
2. सतां जनानां संगतिः सत्संगतिः कथ्यते। मानवः यादृशै सह वसति तादृशः एव भवति। सज्जनानां सम्पर्केण मनुष्यः सज्जनः भवति उन्नतिं महत्पदं च अलंकरोति। दुर्जनानां संगत्या मनुष्यो दुर्जनो भवति, पतनं विनाशं च प्राप्नोति। अतः मनुष्यस्योपरि संगतेः महान् प्रभावो भवति। बाल्यकाले विशेषतो बालकस्योपरि संसर्गस्य प्रभावो भवति। ये यादृशैः बालकैः सह उपविशन्ति, उत्तिष्ठन्ति, खादन्ति, पिबन्ति च ते तथैव स्वभावं धारयन्ति। अतः बाल्यकाले दुर्जनैः सह संगतिः कदापि न करणीया।
सजनानां संगत्या मनुष्यः उन्नतिं प्राप्नोति। तस्य विद्या कीर्तिश्च वर्धेते। दुर्जनानां संसर्गेण बहवः हानयः भवन्ति, यथा-दुर्जनसंसर्गेण मनुष्योऽसवृत्तो भवति, दुर्विचारयुक्तो भवति, तस्य बुद्धिर्दूषिता भवति, अतः बुद्धिः क्षीयते, मनुष्यः दुर्व्यसनग्रस्तो च भवति। अतस्तस्य शरीरं क्षीणं निर्बलं च भवति। तस्य कीर्तिः नश्यति, सर्वत्रानादरो च भवति। अतः स्वयशोवृद्धये ज्ञानवृद्धये सुखस्य शान्तेश्च प्राप्त्यर्थं सर्वैरपि सर्वदा सत्संगतिः करणीया, दुर्जनसंगतिः सदा परिहर्तव्या।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सत्संगतिः/सत्सङ्गतेः महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) केषां सम्पर्केण मनुष्यः सज्जनः भवति?
(ii) मनुष्योपरि कस्याः महान् प्रभावो भवति?
(iii) बाल्यकाले कैः सह संगतिः कदापि न करणीया?
(iv) सज्जनानां संगत्या मनुष्यः किं प्राप्नोति?
उत्तरम् :
(i) सजनानाम्।
(ii) सङ्गतेः।
(iii) दुर्जनैः।
(iv) उन्नतिम्।
(ख) पूर्णवाक्येन उत्तरत –
(i) का सत्संगतिः कथ्यते?
(ii) दुर्जनानां संगत्या मनुष्यः किम् प्राप्नोति?
(iii) कस्य संसर्गेण मनुष्योऽसद्वृत्तो भवति?
(iv) स्वयशोवृद्धये सर्वैरपि का करणीया?
उत्तरम् :
(i) सतां जनानां संगतिः सत्संगतिः कथ्यते।
(ii) दुर्जनानां संगत्या मनुष्यः पतनं विनाशं च प्राप्नोति।
(iii) दुर्जनसंसर्गेण मनुष्योऽसद्वृत्तो भवति।
(iv) स्वयशोवृद्धये सर्वैरपि सत्संगतिः करणीया।
प्रश्न 3.
भाषिक कार्यम् –
(i) ‘ये यादृशैः बालकैः सह उपविशन्ति’ इत्यस्मिन् वाक्ये क्रियापदं किम्?
(ii) ‘सज्जनानाम्’ इति पदस्य अनुच्छेदे विलोमपदं किम् प्रयुक्तम्?
(iii) तस्य कीर्तिः नश्यति’ इत्यस्मिन् वाक्ये सर्वनामपदस्थाने संज्ञापदं किम्?
(iv) क्षीणं निर्बलम्’ इति विशेषणपदयोः विशेष्यम् किम्?
उत्तरम् :
(i) उपविशन्ति।
(ii) दुर्जनानाम्।
(iii) दुर्जनस्य।
(iv) शरीरम्।
3. मेवाडराज्यं बहूनां शूराणां जन्मभूमिः। तस्य राजा राणाप्रतापः सिंहासनम् आरूढवान्। ‘हस्तच्युतानां भागानां प्रतिप्राप्तिः कथम्’ इति विचिन्त्य सः पुरप्रमुखाणां सभाम् आयोजितवान्। तत्र सः प्रतिज्ञां कृतवान्। ‘चित्तोडस्थानं यावत् न प्रतिप्राप्स्यामि तावत् सुवर्णपात्रे भोजनं न करिष्यामि। राजप्रासादे वासं न करिष्यामि। मृदुतल्पे शयनम् अपि न करिष्यामि’ इति। तदा पुरप्रमुखाः अवदन् ‘वयम् अपि सुखसाधनानि त्यक्ष्यामः। देशाय यथाशक्ति धनं दास्यामः। अस्मत्पुत्रान् सैन्यं प्रति प्रेषयिष्यामः’ इति।
एतदन्तरं ग्रामप्रमखाः अवदन – वयं धान्यगारं धान्येन परयिष्यामः। ग्रामे आयधानि सज्जीकरिष्यामः। युवकान् युद्धकलां बोधयिष्यामः। अद्यैव कार्यारम्भं करिष्यामः’ इति। एतत् श्रुत्वा राणाप्रतापः अवदत् ‘यदि वयं सर्वे सम्भूय कार्यं करिष्यामः तर्हि नष्टानि राज्यानि प्रतिप्राप्स्यामः एव। प्रमुखाः वयं यथा व्यवहरिष्यामः तथा जनाः व्यवहरिष्यन्ति।’
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
राणाप्रतापः।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) राणाप्रतापः कस्य राज्यस्य राजा आसीत?
(ii) “सुवर्णपात्रे भोजनं न करिष्यामि” इति कः प्रतिज्ञां कृतवान्?
(iii) “युद्धकलां बोधयिष्यामः” इति के अवदन्?
(iv) पुरप्रमुखाः देशाय यथाशक्तिं किम् दास्यन्ति?
उत्तरम् :
(i) मेवाडराज्यस्य।
(ii) राणाप्रतापः।
(iii) ग्रामप्रमुखाः।
(iv) धनम्।
(ख) पूर्णवाक्येन उत्तरत
(i) मेवाडराज्यं केषां जन्मभूमिः?
(ii) कः पुरप्रमुखाणां सभाम् आयोजितवान्?
(iii) “अस्मत्पुत्रान् सैन्यं प्रति प्रेषयिष्यामः” इति के अवदन्?
(iv) जनाः कथं व्यवहरिष्यन्ति?
उत्तरम् :
(i) मेवाडराज्यं बहूनां शूराणां जन्मभूमिः।
(ii) राणाप्रतापः पुरप्रमुखाणां सभाम् आयोजितवान्।
(iii) “अस्मत्पुत्रान् सैन्यं प्रति प्रेषयिष्यामः” इति पुरप्रमुखाः अवदन्।
(iv) प्रमुखाः यथा व्यवहरिष्यन्ति तथा जनाः व्यवहरिष्यन्ति।
प्रश्न 3.
भाषिककार्यम्
(i) “तत्र सः प्रतिज्ञां कृतवान्” इत्यस्मिन् वाक्ये सर्वनामस्थाने संज्ञापदं किम्?
(ii)”तदा पुरप्रमुखाः ……………” इत्यत्र क्रियापदं किं प्रयुक्तम्?
(iii) ” …………. धान्यागारं धान्येन पूरिष्यामः” अत्र कर्तृपदं किं प्रयुक्तम्?
(iv) ‘नष्टानि राज्यानि’ इत्यत्र विशेषणपदं किम्?
उत्तरम् :
(i) राणाप्रतापः।
(ii) अवदन्।
(iii) वयम्।
(iv) नष्टानि।
4. दीपावली अस्माकं राष्ट्रियोत्सवः वर्तते। अस्मिन् उत्सवे सर्वे जनाः परस्परं भेदभावं विस्मृत्य आनन्दमग्नाः भवन्ति। त्रेतायुगे कैकेय्याः वरयाचनात् अयोध्यायाः राज्ञा दशरथेन रामाय चतुर्दशानां वर्षाणां वनवासः प्रदत्तः। श्रीरामः अस्मिन् एव दिने सीतालक्ष्मणाभ्यां सह अयोध्या प्रत्यावर्तितवान्। तेषां स्वागतं व्याहर्तुम् अयोध्यावासिनः नगरे सर्वत्र दीपान् प्रज्चालितवन्तः। तदा आरभ्य अद्यावधिः प्रतिवर्ष कार्त्तिकमासे अमावस्यायां तिथौ भारते दीपावली-महोत्सवः महता उत्साहेन आयोजितः भवति।
दीपावल्यां जनाः गृहाणि परिष्कुर्वन्ति। अस्मिन्नवसरे ते स्वमित्रेभ्यः बन्धुभ्यश्च उपहारान् यच्छन्ति, परस्परम् अभिनन्दन्ति, बालकेभ्यः मिष्ठान्नं च यच्छन्ति। सर्वे जनाः लक्ष्मी-गणेशयोः पूजनं कुर्वन्ति। पितरः स्वसन्ततिभ्यः स्फोटनकानि ददति। अस्मिन् महोत्सवे सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभेच्छाः प्रकटयन्ति।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
दीपावली-महोत्सवः।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) कस्याः वरयाचनात् दशरथेन रामाय वनवासः प्रदत्तः?
(ii) श्रीरामः काभ्यां सह अयोध्यां प्रत्यावर्तितवान्?
(iii) कदा जनाः गृहाणि परिष्कुर्वन्ति?
(iv) पितरः स्वसन्ततिभ्यः कानि ददति?
उत्तरम् :
(i) कैकेय्याः।
(ii) सीतालक्ष्मणाभ्याम्।
(iii) दीपावल्याम्।
(iv) स्फोटनकानि।
(ख) पूर्णवाक्येन उत्तरत
(i) सर्वेः जनाः किम् विस्मृत्य आनन्दमग्नाः भवन्ति?
(ii) दशरथेन रामाय कति वर्षाणां वनवासः प्रदत्तः?
(iii) भारते कदा दीपावली-महोत्सवः आयोजितः भवति?
(iv) सर्वे जनाः दीपावल्यां कयोः पूजनं कुर्वन्ति?
उत्तरम् :
(i) सर्वे जनाः परस्परं भेदभावं विस्मृत्य आनन्दमग्नाः भवन्ति।
(ii) दशरथेन रामाय चतुर्दशानां वर्षाणां वनवासः प्रदत्तः।
(ii) भारते प्रतिवर्ष कार्तिकमासे अमावस्यायां तिथौ दीपावली-महोत्सवः आयोजितः भवति।
(iv) सवे जनाः दीपावल्या लक्ष्मी-गणेशयोः पूजन कुर्वन्ति।
प्रश्न 3.
भाषिककार्यम्
(i) ‘राज्ञा दशरथेन’ इत्यनयोः पदयोः किं विशेषणपदम्?
(ii) अस्मिन् अनुच्छेदे ‘ते’ इति सर्वनामपदस्य स्थाने किं संज्ञापदम्?
(iii) “बालकेभ्यः मिष्ठान्नं यच्छन्ति” इति वाक्ये क्रियापदं किम्?
(iv) “पितरः स्वसन्ततिभ्यः स्फोटनकानि ददति।” इति वाक्ये ‘ददति’ इति क्रियायाः कर्तृपदं किम्?
उत्तरम् :
(i) राज्ञा।
(ii) जनाः।
(iii) यच्छन्ति।
(iv) पितरः।
5. एकमुद्देश्यं लक्ष्यीकृत्य बहूनां जनानाम् ऐक्यभावनया कार्यकरणमेव संहतिः, संगठनं वाऽभिधीयते। एकता मनुष्ये शक्तिमादधाति। एकतयैव देशः समाजो लोकश्च उन्नतिपथं प्राप्नुवन्ति। यस्मिन् देशे समाजे वा एकताऽस्ति, स एव देशः सकललोकसम्माननीयो भवति। संसारे एकतायाः अतीवावश्यकता वर्तते। विशेषतः कलियुगेऽस्मिन् संहतिः कार्यसाधिका। यतो हि वर्तमाने काले यादृशं सामाजिकं राष्ट्रियं च जीवनमस्ति, तस्य निर्माणाय रक्षणाय च संगठनं परमावश्यकम्।
अद्यत्वे संसारे यस्मिन् राष्ट्रे एकतायाः अभावोऽस्ति, तत् राष्ट्र सद्य एव परतन्त्रतापाशबद्धं भवति। अस्माकं देशस्य पारतन्त्र्यम् अनया एव एकतया सहयोगेन वा विच्छिन्नं जातम्। महात्मना गान्धिमहोदयेन तथैवान्यैश्च देशभक्तैः भारतीयसमाजे सर्वत्र एकत्वभावनोदयेन पराधीनतापाशस्य छेदनं विहितम्। अधुना लोकतन्त्रात्मकमस्माकं राष्ट्र संघटनबलेनैव स्वोन्नतिं विदधाति।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
एकतायाः महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) एकता मनुष्ये किम् आदधाति?
(ii) संसारे कस्याः अतीवावश्यकता वर्तते?
(iii) एकतायाः अभावे राष्ट्र सद्य एव कीदृशं भवति?
(iv) अस्माकं देशस्य किम् एकतया विच्छिन्नं जातम्?
उत्तरम् :
(i) शक्तिम्।
(ii) एकतायाः।
(ii) परतन्त्रपाशबद्धम्।
(iv) पारतन्त्र्यम्।
(ख) पूर्णवाक्येन उत्तरत
(i) का संहतिः अभिधीयते?
(ii) कया एव देशः समाजो लोकश्च उन्नतिपथं प्राप्नुवन्ति?
(iii) कलियुगेऽस्मिन् का कार्यसाधिका?
(iv) अस्माकं राष्ट्र केन बलेनैव स्वोन्नतिं विदधति?
उत्तरम् :
(i) एकमुद्देश्यं लक्ष्यीकृत्य बहूनां जनानाम् ऐक्यभावनया कार्यकरणमेव संहतिः अभिधीयते।
(ii) एकतयैव देशः समाजो लोकश्च उन्नतिपथं प्राप्नुवन्ति।
(iii) कलियुगेऽस्मिन् संहतिः कार्यसाधिका।
(iv) अस्माकं राष्ट्र संघटनबलेनैव स्वोन्नतिं विदधति।
प्रश्न 3.
भाषिककार्यम्
(i) अस्मिन गद्यांशे ‘आदधाति’ क्रियापदस्य किम कर्तपदम?
(ii) वर्तमाने काले’ इत्यत्र विशेषणपदं किम्?
(iii) गद्यांशेऽस्मिन् ‘स्वतन्त्रता’ इत्यस्य विलोमपदं किम्?
(iv) ‘संहतिः’ इति पदस्य गद्यांशेऽस्मिन् पर्यायशब्दः कः?
उत्तरम् :
(i) एकता।
(ii) वर्तमाने।
(iii) परतन्त्रता।
(iv) संगठनम्।
6. अस्मिन् संसारे असंख्याः भाषाः सन्ति। तासु भाषासु संस्कृत भाषा सर्वोत्तमा विद्यते। संस्कृता परिष्कृता दोषरहिता भाषा एव संस्कृत भाषा कथ्यते। इयमेव भाषा देवभाषा, गीर्वाणगी:, सुरवाणी इत्यादिभिः शब्दैः संबोध्यते। एतानि नामानि एव अस्याः भाषायाः महत्त्वं सूचयन्ति।
संस्कृतभाषा जगतः सर्वासां भाषाणां जननी अस्ति। सर्वभाषाणां मूलरूप ज्ञानाय एतस्या आवश्यकता भवति। यादृशं महत् साहित्यं संस्कृत-भाषायाः अस्ति तादृशं अन्यासां भाषाणां नास्ति। अस्यामेव भाषायां ब्राह्मण- ग्रन्थाः आरण्यकाः अध्यात्मविषयप्रतिपादका उपनिषदः, वेदादयश्च सन्ति। आदिकाव्यं रामायणं वीरकाव्यं महाभारतमपि संस्कृतस्य गौरवं वर्धयतः। अनयोः ग्रन्थयोः विषयं गृहीत्वा एव विशालस्य (संस्कृत) साहित्यस्य रचना संजाता।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
संस्कृतभाषायाः महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) सर्वोत्तमा भाषा का विद्यते?
(ii) जगतः सर्वासां भाषाणां जननी का अस्ति?
(iii) सर्वभाषाणां मूलरूपं ज्ञानाय कस्याः आवश्यकता भवति?
(iv) आदिकाव्यं किम् वर्तते?
उत्तरम् :
(i) संस्कृतभाषा।
(ii) संस्कृतभाषा।
(ii) संस्कृतभाषायाः।
(iv) रामायणम्।
(ख) पूर्णवाक्येन उत्तरत
(i) कीदृशी भाषा संस्कृतभाषा कथ्यते?
(ii) संस्कृतभाषा कैः शब्दैः संबोध्यते?
(iii) वीरकाव्यं किम् कथ्यते?
(iv) कयोः ग्रन्थयोः विषयं गृहीत्वा एव विशालसंस्कृतसाहित्यस्य रचना संजाता?
उत्तरम् :
(i) संस्कृता परिष्कृता दोषरहित भाषा संस्कृतभाषा कथ्यते।
(ii) संस्कृतभाषा देवभाषा, गीर्वाणगीः, सुरवाणी इत्यादिभिः शब्दैः संबोध्यते।
(iii) वीरकाव्यं महाभारतं कथ्यते।
(iv) रामायणं महाभारतं चेति ग्रन्थयोः विषयं गृहीत्वा एव विशाल- संस्कृतसाहित्यस्य रचना संजाता।
प्रश्न 3.
भाषिककार्यम्
(i) अस्मिन् गद्यांशे ‘असंख्याः’ इति विशेषणपदस्य विशेष्यं किम्?
(ii) संस्कृतभाषायाः उपर्युक्तगद्यांशे पर्यायशब्दाः के सन्ति?
(iii) संस्कृतभाषा जगतः ………….. भाषाणां जननी अस्ति।
अस्मिन वाक्ये रिक्तस्थानस्य पर्तये समचितं विशेषणं गद्यांशात चित्वा लिखत।
(iv) “संस्कृतभाषा सर्वोत्तमा विद्यते”_इत्यत्र क्रियापदं किम्?
उत्तरम् :
(i) भाषा।
(ii) देवभाषा, गीर्वाणगीः, सुरवाणी।
(ii) सर्वासाम्।
(iv) विद्यते।
7. ‘मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्ति। मानवः श्रममाश्रित्यैव सुखसमृद्धिं प्राप्नोति। जनः .. सुखं वाञ्छति, मनोरथं पूरयितुमभिलषति, जीवने समुन्नतिं कांक्षते, तत्सर्वस्य साधनं श्रममेव वर्तते। श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति। अतएव श्रमेणैव सर्वत्र साफल्यं मिलति।
जनैः सदा सः श्रमः कर्त्तव्यः यतः सम्पत्तेरुद्भवो भवति, यतोहि व्यर्थं परिश्रमं कुर्वन् नरः पापभाक् भवति। प्रज्ञाः तुर्येऽपि वयसि परमं श्रमं न त्यजेयुः। यस्मिन् देशे जनाः पूर्णश्रमपरायणाः भवन्ति, तत्र वसुन्धराः धनैर्धान्यैः पूर्णा विराजते। धिषणाश्रमसंयोगः सर्वकार्येषु सिद्धिदः भवति। अश्रमा धिषणा व्यर्था भवति तथा च अधिषणः श्रमः व्यर्थः भवति। अतएव स्वस्य लोकस्य चोन्नतये सदैव श्रमः कर्त्तव्यः।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
श्रमस्य महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) मानवजीवने कस्य महत्त्वं सर्वे जनाः जानन्ति?
(ii) जनः किम् पूरयितुमभिलषति?
(iii) केनैव सर्वत्र साफल्यं मिलति?
(iv) कीदृशः श्रमः व्यर्थः भवति?
उत्तरम् :
(i) श्रमस्य।
(ii) मनोरथम्।
(iii) श्रमेणैव।
(iv) अधिषणः।
(ख) पूर्णवाक्येन उत्तरत –
(i) मानवः कथं सुखसमृद्धिं प्राप्नोति?
(ii) श्रम एव मानवस्य किम् प्रसारयति?
(iii) किम् कुर्वन् नरः पापभाक् भवति?
(iv) कः सर्वकार्येषु सिद्धिदः भवति?
उत्तरम् :
(i) मानवः श्रममाश्रित्यैव सुखसमृद्धिं प्राप्नोति।
(ii) श्रम एव मानवस्य स्वाभिमानं शारीरिकशक्तिं च प्रसारयति।
(iii) व्यर्थं परिश्रमं कुर्वन् नरः पापभाक् भवति।
(iv) धिषणाश्रमसंयोगः सर्वकार्येषु सिद्धिदः भवति।
प्रश्न 3.
भाषिककार्यम् –
(i) “जनः सुखं वाञ्छति” इत्यत्र क्रियापदं किम्?
(ii) अस्मिन् गद्यांशे ‘त्यजेयुः’ इति क्रियापदस्य कर्तृपदं किम् प्रयुक्तम्?
(iii)’व्यर्थं परिश्रमम्’ इत्यनयोः पदयोः विशेषणपदं किम्?
(iv) प्रस्तुतगद्यांशे ‘धिषणः’ इत्यस्य विलोमपदं किम् प्रयुक्तम्?
उत्तरम् :
(i) वाञ्छति।
(ii) प्रज्ञाः।
(iii) व्यर्थम्।
(iv) अधिषणः।
8. पुण्योऽस्माकं देशः भारतवर्षः। न केवलं भौगोलिकदृष्ट्या अपितु सांस्कृतिकदृष्ट्या अपि अस्य देशस्य महत्त्वपूर्ण स्थानं वर्तते। विश्वेऽस्मिन् भारतीयसंस्कृतिः विश्ववन्द्याः सर्वग्राह्याश्च। भारतदेशे विभिन्नसम्प्रदायानां विविधभाषाणाम्, अनेकदेवानाम; भिन्नभिन्नानां दर्शनानां च प्रचारः प्रचलत्येव। तथापि भारतीयानां ‘भिन्नत्वे एकत्वमिति’ कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते।
भारतदेशः विश्वस्य सर्वोत्कृष्टं वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्र वर्तते। अत्र देवस्वरूपः हिमालयः मुकुटमणिरिव शोभते। भारते मधुरजलयुक्ताः गंगायमुनासरयूकृष्णादयः नद्यः वहन्ति। अयं देशः नानातीर्थैः रमणीयः, मुनिजनदेवैः च वन्दनीयोऽस्ति। भारतस्य भूमिः अध्यात्ममयी, गौरवपूर्णा, शान्तिवहा, सुखदा, सस्यश्यामला, हिरण्यरूपा, अतिकमनीया चास्ति। रत्नाकरोऽपि स्वस्य रत्नाकरत्वं पुनरपि प्राप्तुं भारतभव्यभूमेः चरणौ वृणीते। भारतदेशः देवरुपास्यः मुनिभिश्च सेव्यः वर्तते। वेदपुराणेषु अपि अस्य महिमा वर्णिता। वस्तुतः धन्यतमोऽयं भारतदेशः।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
भारतवर्षः।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) अस्माकं देशः भारतवर्षः कीदृशः?
(ii) विश्वेऽस्मिन् का संस्कृतिः विश्ववन्द्याः?
(iii) अत्र कः मुकुटमणिरिव शोभते?
(iv) वेदपुराणेषु अपि कस्य महिमा वर्णिता?
उत्तरम् :
(i) पुण्यः।
(ii) भारतीयसंस्कृतिः।
(iii) हिमालयः।
(iv) भारतवर्षस्य।
(ख) पूर्णवाक्येन उत्तरत –
(i) भौगोलिकदृष्टया कस्य महत्त्वपर्णं स्थानं वर्तते?
(ii) भारतीयानां किम् कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते?
(iii) विश्वस्य सर्वोत्कृष्टं जनतन्त्रात्मकं राष्ट्र किम् वर्तते?
(iv) रत्नाकरः किम् पुनरपि प्राप्तुं भारतभूमेः चरणौ वृणीते?
उत्तरम् :
(i) भौगोलिकदृष्ट्या भारतदेशस्य महत्त्वपूर्ण स्थानं वर्तते।
(ii) भारतीयानां ‘भिन्नत्वे एकत्वमिति’ कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते।
(iii) विश्वस्य सर्वोत्कृष्टं जनतन्त्रात्मकं राष्ट्र भारतदेशः वर्तते।
(iv) रत्नाकरः स्वस्य रत्नाकरत्वं पुनरपि प्राप्तुं भारतभूमेः चरणौ वृणीते।
प्रश्न 3.
भाषिककार्यम् –
(i) “अस्य देशस्य महत्त्वपूर्ण स्थानं………।” अत्र रिक्तस्थाने पूरणीयक्रियापदं गद्यांशात् चित्वा लिखत।
(ii) ‘देवस्वरूपः हिमालयः’ अत्र विशेषणपदं किम्?
(iii) “वेदपुराणेषु अपि ‘अस्य’ महिमा वर्णिता।” इत्यत्र सर्वनामपदस्थाने समुचितं संज्ञापदं किम्?
(iv) भारतदेशः विश्वस्य सर्वोत्कृष्टं राष्ट्र वर्तते’–अत्र कर्तृपदं किम्?
उत्तरम् :
(i) वर्तते।
(ii) देवस्वरूपः।
(iii) भारतदेशस्य।
(iv) भारतदेशः।
9. इदानीम् मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे विज्ञानस्य प्राधान्यं वर्तते। दूरदर्शनाविष्कारेण तु मानवः अति प्रभावितः। वर्तमानसमये कोऽपि युवा युवतिर्वा दूरदर्शनं विना जीवनं यापयितुं न शक्नोति। न केवलं नगरेषु अपितु ग्रामेष्वपि अस्य प्रभावः परिलक्ष्यते। इदं दूरदर्शनं न केवलं मनोरञ्जनस्य साधनं अपितु ज्ञानवर्द्धकमपि वर्तते।
दूरदर्शनमधुना जीवनस्य अभिन्नमंगं वर्तते। दूरदर्शने प्रातःकालादारभ्य मध्यरात्रिर्यावत् विविधकार्यक्रमा चलन्ति। वर्तमानसमये न केवलं संगीतानि अपितु भजनानि, विविध धारावाहिकाश्च वयं दूरदर्शने पश्यामः। लोकसभायाः राज्यसभायाश्च कार्यक्रमाणां प्रसारोऽपि दूरदर्शने वयं पश्यामः। एवं युवकयुवतीनां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते। अस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
दूरदर्शनस्य महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) अधुना जीवनस्य किम् अभिन्नमंगं वर्तते?
(ii) मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे कस्य प्राधान्यं वर्तते?
(iii) कस्य आविष्कारेण मानवः अति प्रभावितः?
(iv) केषां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते?
उत्तरम् :
(i) दूरदर्शनम्।
(ii) विज्ञानस्य।
(iii) दूरदर्शनस्य।
(iv) युवकयुवतीनाम्।
(ख) पूर्णवाक्येन उत्तरत –
(i) दरदर्शनं विना यवा यवतिर्वा किं यापयितं न शक्नोति?
(ii) दूरदर्शने वयं किं पश्यामः?
(iii) लोकसभायाः राज्यसभायाश्च कार्यक्रमाणां प्रसारः कुत्र भवति?
(iv) कस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः?
उत्तरम् :
(i) दूरदर्शनं विना युवा युवतिर्वा जीवनं यापयितुं न शक्नोति।
(ii) दूरदर्शने वयं संगीतानि, भजनानि, विविधकार्यक्रमाः, धारावाहिकाश्च पश्यामः।
(ii) लोकसभाया: राज्यसभायांश्च कार्यक्रमाणां प्रसारः दूरदर्शने भवति।
(iv) दूरदर्शनस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः।
प्रश्न 3.
भाषिककार्यम्
(i) “कोऽपि युवा दूरदर्शनं विना जीवनं यापयितुं न..।” अत्र रिक्तस्थाने पूरणीयक्रियापदं गद्यांशात् चित्वा लिखत।
(ii) “ग्रामेष्वपि अस्य प्रभावः परिलक्ष्यते।” अत्र रेखाङ्कितसर्वनामपद स्थाने समुचितं संज्ञापदं किम्?
(iii) अस्मिन् गद्यांशे ‘दुरुपयोग’ इत्यस्य विलोमपदं किम्?
(iv) अभिन्नमंगम्’ इत्यत्र विशेषणपदं किम्?
उत्तरम् :
(i) शक्नोति।
(ii) दूरदर्शनस्य।
(iii) सदुपयोगः।
(iv) अभिन्नम्।
10. अस्मिन् संसारे न कोऽपि देशो प्रान्तो वा विद्यते यत्रत्याः जनाः कालिदासं न विंदन्ति। भारतीयेषु कविषु, कालिदास एव भूयसी कीर्तिमलभत। आनन्दवर्धनाचार्यः कालिदासं महाकविमाह। प्रसन्नराघवस्य कर्ता जयदेवस्तं ‘कविकुल गुरुः कालिदासो विलासः’ अकथयत्। कविकुलगुरुमहाकविकालिदासः संस्कृत-साहित्यस्य अद्यावधि कनिष्ठिका-धिष्ठितः कविरस्ति।
कालिदासविरचित-ग्रन्थेषु रघुवंश कुमारसंभवञ्चेति द्वे महाकाव्ये, मेघदूत ऋतुसंहारमिति खण्डकाव्यद्वयम्। मालविकाग्निमित्रं विक्रमोर्वशीयं अभिज्ञानशाकुन्तलादीनि त्रीणि नाटकानि। एषु ग्रन्थेषु रघुवंशमहाकाव्यं तथा चरित्र वर्णनदृष्ट्या गौरवान्वितं स्वीक्रियते, तथैव अभिज्ञानशाकुन्तलं नाम नाटकं समस्तेऽपि नाट्य साहित्ये सर्वोत्कृष्टं स्थानं लभते। कालिदासस्य समग्रसाहित्यं प्रसादगुणवैदर्भीरीत्या संवलितं वर्तते। उपमा क्षेत्रे तु कालिदासः अद्वितीयः कविरस्ति। संस्कृतसाहित्ये ‘उपमा कालिदासस्य’ इत्युक्तिः प्रसिद्धा वर्तते।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
महाकविः कालिदासः।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) संस्कृतसाहित्यस्य कनिष्ठिकाधिष्ठितः कविः कः?
(ii) रघुवंशमहाकाव्यस्य रचयिता कः?
(iii) कस्मिन् क्षेत्रे कालिदासः अद्वितीयः कविरस्ति?
(iv) कालिदासविरचितानां नाटकाना संख्या कति सन्ति?
उत्तरम् :
(i) महाकविकालिदासः।
(ii) कालिदासः।
(iii) उपमाक्षेत्रे।
(iv) त्रीणि।
(ख) पूर्णवाक्येन उत्तरत
(i) कालिदासं महाकविं कः आह?
(ii) कविकुलगुरुः कालिदासो विलासः’ इति कः अकथयत्?
(iii) कालिदासविरचितखण्डकाव्ययोः नाम लिखत।
(iv) किम् नाटकं समस्तेऽपि नाट्यसाहित्ये सर्वोत्कृष्टं स्थानं लभते?
उत्तरम् :
(i) आनन्दवर्धनाचार्यः कालिदासं महाकविमाह।
(ii) इति प्रसन्नराघवस्य कर्ता जयदेवः अकथयत्।
(iii) मेघदूतम्, ऋतुसंहारञ्च।
(iv) अभिज्ञानशाकुन्तलं नाम नाटकं समस्तेऽपि नाट्यसाहित्ये सर्वोत्कृष्टं स्थानं लभते।
प्रश्न 3.
भाषिककार्यम् –
(i) “यत्रत्याः जनाः कालिदासं न………..।” रिक्तस्थाने समुचितं क्रियापदं गद्यांशात् चित्वा लिखत।
(ii) द्वे महाकाव्ये’ इत्यत्र विशेषणपदं किम्?
(iii) “कालिदास एव भूयसी कीर्तिमलभत।” अस्मिन् वाक्ये कर्तृपदं किम् प्रयुक्तम्?
(iv) अस्मिन गद्यांशे ‘द्वितीयः’ पदस्य विलोमपदं किं प्रयुक्तम्?
उत्तरम् :
(i) विन्दन्ति।
(ii) द्वे।
(iii) कालिदासः।
(iv) अद्वितीयः।
11. मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते। पुस्तकालयेषु विविधपुस्तकानां संग्रहो भवति। अत्र विविधभाषाणां पत्र-पत्रिकादयोऽपि प्रतिदिनं आयान्ति। अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते। अस्मिन् दशसहस्राणि पुस्तकानि सन्ति। अस्माकं पुस्तकालये हिन्दी-आंग्ल-संस्कृतभाषाणां पत्र-पत्रिकाः प्रतिदिनं आयान्ति। अस्य समीपे एकः वाचनालयः वर्तते। यत्र बहवः जनाः, छात्राः, युवतयश्च प्रतिदिनं आगत्य स्वाध्यायं कुर्वन्ति। अस्माकं पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते। अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसा कुर्वन्ति। अस्माकं ज्ञानवर्धनाय अस्य महती भूमिका वर्तते। अयम् एकः आदर्शः पुस्तकालयः विद्यते।
प्रश्न 1.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
अस्माकं पुस्तकालयः।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) पुस्तकालयेषु केषां संग्रहो भवति?
(ii) पुस्तकालये कति पुस्तकानि सन्ति?
(iii) कस्य समीपे वाचनालयः वर्तते?
(iv) अस्माकं ज्ञानवर्धनाय कस्य महती भूमिका वर्तते?
उत्तरम् :
(i) विविधपुस्तकानाम्।
(ii) दशसहस्राणि।
(iii) पुस्तकालयस्य।
(iv) पुस्तकालयस्य।
(ख) पूर्णवाक्येन उत्तरत
(i) किमर्थं पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते?
(ii) अस्माकं पुस्तकालयः कुत्र वर्तते?
(iii) पुस्तकालये के आगत्य स्वाध्यायं कुर्वन्ति?
(iv) पुस्तकालयस्य भवनं कीदृशं वर्तते?
उत्तरम् :
(i) मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते।
(ii) अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते।
(iii) पुस्तकालये बहवः जनाः, छात्राः, युवतयश्च आगत्य स्वाध्यायं कुर्वन्ति।
(iv) पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते।
प्रश्न 3.
भाषिककार्यम्
(i) “पुस्तकालयेषु विविधपुस्तकानां संग्रहो…..” इत्यस्मिन् वाक्ये रिक्तस्थानस्य पूरणीय क्रियापदं किम् प्रयुक्तमस्ति?
(ii) अस्य समीपे……’ इत्यत्र सर्वनामपदस्थाने संज्ञापदं किम्?
(iii) ‘दशसहस्राणि पुस्तकानि’ इत्यनयोः पदयोः विशेषणपदं किम्?
(iv) “सर्वे जनाः प्रशंसां कुर्वन्ति”-इत्यस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् :
(i) भवति।
(ii) पुस्तकालयस्य।
(iii) दशसहस्राणि।
(iv) जनाः।
12. कस्मिंश्चित् अरण्ये अनेके पशवः वसन्ति स्म। एकदा पशूनां राजा सिंहः रोगपीडितः अभवत्। एकं शृगालं विहाय सर्वे पशवः रोगपीडितं नृपं द्रष्टुमागताः। एकः उष्ट्रः नृपाय एतत् न्यवेदयत् यत् अहङ्कारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः। एतच्छ्रुत्वा सिंहः क्रोधितोऽभवत्। स्वमित्रैः एतत्ज्ञात्वा शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः। क्रोधितेन सिंहेन विलम्बेन आगमनकारणं पृष्टः शृगालोऽवदत् यदहं तु सर्वप्रथममागन्तुम् ऐच्छम् परं चिकित्सकात् औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्। तच्छ्रुत्वा प्रसन्नः सिंहः औषधिविषये पृष्टवान्। शृगालः अवदत् यत्तेन औषधं तु न दत्तं परं कृपापरो भूत्वा सः चिकित्साक्रमम् उक्तवान् यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति। तदा सिंहः उष्ट्रमाहूतवान् भक्त्या आगतं च तं मारयित्वा तस्य रक्तं पीतवान्। एवं स्वपिशुनतायाः दुष्फलम् उष्ट्रेण स्वयमेव प्राप्तम्।
प्रश्न 1.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत –
उत्तरम् :
पिशुनतायाः दुष्फलम्।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) पशूनां राजा सिंहः कीदृशः अभवत्?
(ii) कं विहाय सर्वे पशवः नृपं द्रष्टुमागताः?
(iii) शृगालः शीघ्रमेव कस्य समीपे प्राप्तः?
(iv) स्वपिशुनतायाः दुष्फलम् केन प्राप्तम्?
उत्तरम् :
(i) रोगपीडितः।
(ii) शृगालम्।
(iii) सिंहस्य।
(iv) उष्ट्रेण।
(ख) पूर्णवाक्येन उत्तरत
(i) क्रोधितेन सिंहेन शृगालं किं पृष्टम्?
(ii) चिकित्सकः किं चिकित्साक्रमम् उक्तवान्?
(iii) सिंहः कं मारयित्वा तस्य रक्तं पीतवान्?
(iv) उष्ट्रेण किम् स्वयमेव प्राप्तम्?
उत्तरम् :
(i) क्रोधितेन सिंहेन शृगालं विलम्बेन आगमनकारणं पृष्टम्।
(ii) यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति।
(iii) सिंहः उष्ट्रं मारयित्वा तस्य रक्तं पीतवान्।
(iv) उष्ट्रेण स्वपिशुनतायाः दुष्फलम् स्वयमेव प्राप्तम्।
प्रश्न 3.
भाषिककार्यम् –
(i) “कस्मिंश्चित् अरण्ये अनेके पशवः. ….स्म।” अत्र रिक्तस्थाने पूरणीयक्रियापदं किम् प्रयुक्तम्?
(ii)”एकः उष्ट्र : नृपाय न्यवेदयत्”-इत्यत्र कर्तृपदं किम्?
(iii) ‘क्रोधितेन सिंहेन’ इत्यत्र विशेषणपदं किम्?
(iv) “तं मारयित्वा तस्य रक्तं पीतवान्” इत्यत्र ‘पीतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
उत्तरम् :
(i) वसन्ति।
(ii) एकः उष्ट्रः।
(iii) क्रोधितेन।
(iv) सिंहः।
13. भारतवर्षः एकः महान् देशः वर्तते। अस्मिन् अनेके प्रदेशाः सन्ति। तेषु साम्प्रतं राजस्थानप्रदेशः एकं राज्यं वर्तते। अस्य राजधानी जयपुरं अस्ति। राजस्थानप्रदेशस्य काश्चन एतादृशः विशेषताः सन्ति याः खलु अन्यत्र न लभन्ते। अस्य प्रदेशस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते। अत्र महाराणाप्रतापः, महाराणा सांगा-वीरवर दुर्गादाससदृशाः वीराः समुत्पन्नाः। अत्रैव पद्मिनी पन्ना सदृश्यः वीरांगनाः समुत्पन्नाः। अद्यापि राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः वर्तन्ते।
अयं प्रदेशः न केवलं वीराणां भूमिः अपितु विदुषां जन्मस्थली कार्यस्थली च वर्तते। अत्र अनेके विद्वान्सः काले-काले समुत्पन्नाः। राजस्थानस्य राजधानी जयपुरं तु लघुकाशी मन्यते। अत्र संस्कृतस्य अनेके विद्वान्सः अभवन्। राजस्थानप्रदेशे विविधखनिजद्रव्याणि प्राप्यन्ते। अत्रत्य ‘संगमरमर’ इत्याख्यस्य पाषाणस्य तु प्रसिद्धि सर्वत्र वर्तते। तानोत्पादनेऽपि राजस्थानप्रान्तो देशस्य प्रमुखः ताम्रनिधिरस्ति। राजस्थानप्रदेशे अनेकानि दर्शनीय-स्थलानि सन्ति। प्राकृतिक सौन्दर्यदृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते। अत्र जयपुर-उदयपुर-अजमेर-भरतपुरादयः विभिन्न-नगराणि विश्वप्रसिद्धानि सन्ति। बहवः पर्यटकाः अत्र भ्रमणार्थम् सततम् आगच्छन्ति।
प्रश्न 1.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
राजस्थान-प्रदेशः।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) कस्य प्रदेशस्य राजधानी जयपुरं वर्तते?
(ii) महाराणाप्रतापः कस्मिन् प्रदेशे समुत्पन्नः?
(iii) कं लघुकाशी मन्यते?
(iv) बहवः पर्यटकाः अत्र किमर्थं सततम् आगच्छन्ति?
उत्तरम् :
(i) राजस्थानप्रदेशस्य।
(ii) राजस्थानप्रदेशे।
(iii) जयपुरम्।
(iv) भ्रमणार्थम्।
(ख) पूर्णवाक्येन उत्तरत –
(i) राजस्थानस्य भूमिः केषां जननी वर्तते?
(ii) राजस्थानस्य अनेके वीराः कुत्र तत्पराः सन्ति?
(iii) राजस्थानस्य कस्य पाषाणस्य प्रसिद्धिः सर्वत्र वर्तते?
(iv) कया दृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते?
उत्तरम् :
(i) राजस्थानस्य भूमिः वीराणां वीरांगनानाञ्च वर्तते।
(ii) राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः सन्ति।
(iii) राजस्थानस्य ‘संगमरमर’ इति पाषाणस्य प्रसिद्धिः सर्वत्र वर्तते।
(iv) प्राकृतिकसौन्दर्यदृष्ट्याऽपि प्रदेशोऽयं सुरम्यः वर्तते।
प्रश्न 3.
भाषिककार्यम् –
(i) अस्मिन् अनेके प्रदेशाः सन्ति।’ इत्यस्मिन् वाक्ये ‘अस्मिन्’ इति सर्वनाम् पदस्थाने संज्ञापदं किम्?
(ii) एकं राज्यम्इत्यत्र विशेष्यपदं किम्?
(iii) उपर्युक्त गद्यांशे ‘पर्यटकाः’ इत्यस्य क्रियापदं किम्?
(iv) ‘अनेके विद्वान्सः’ इत्यत्र विशेषणपदं किम्?
उत्तरम् :
(i) भारतदेशे।
(ii) राज्यम्।
(iii) आगच्छन्ति।
(iv) अनेके।
14. दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् आसीत्। तस्य समीपे एकः वट-वृक्षः आसीत्, तत्र एकः व्याधः आगच्छत्। सः वट-वृक्षस्य अधः जालम् प्रसारयत्। जालस्य उपरि तण्डुलान् अक्षिपत्। स पायें एव निभृतः अतिष्ठत्। अथ चित्रग्रीवः नाम कपोतराजः आकाशे उदपतत्। तस्य परिवारं शतम् कपोताः आसन्। ते तण्डुलान् भक्षयितुम् नीचैः आगच्छन् ते सर्वे जालेन बद्धाः। चित्रग्रीवः व्याधम् दृष्ट्वा कपोतान् अवदत्-यूयम् पाशम् नीत्वा शीघ्रम् उत्पतत। सकलाः कपोताः जालेन सहिताः उदपतन। व्याधः कपोतानाम कते जालम अपि व्यनाशयत।
वनस्य एकस्मिन् भागे एकः मूषकः अवसत्। सः चित्रग्रीवस्य मित्रम् आसीत्। तस्य नाम हिरण्यकः आसीत्। सपरिवारः चित्रग्रीवः तत्र अवातरत्। हिरण्यकः तेषाम् जालम् अकृन्तत्। एवम् ते कपोताः पुनः जीवनम् अविन्दन्।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
एकतायाः फलम्।
अथवा
चित्रग्रीवहिरण्यकयोः कथा।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) कस्मिन् जनपदे महिलारोप्यं नाम नगरम् आसीत्?
(ii) व्याधः कस्य अधः जालम् प्रसारयत्?’
(iii) कपोतराजस्य किं नाम आसीत?
(iv) चित्रग्रीवस्य मित्रस्य किं नाम आसीत्?
उत्तरम् :
(i) दाक्षिणात्ये।
(ii) वटवृक्षस्य।
(iii) चित्रग्रीवः।
(iv) हिरण्यकः।
(ख) पूर्णवाक्येन उत्तरत
(i) व्याधः जालस्य उपरि कान् अक्षिपत्?
(ii) चित्रग्रीवस्य परिवारे कति कपोताः आसन्?
(iii) कपोताः किं कर्तुं नीचैः आगच्छन्?
(iv) कपोतानाम् जालं कः अकृन्तत्?
उत्तरम् :
(i) व्याधः जालस्य उपरि तण्डुलान् अक्षिपत्।
(ii) चित्रग्रीवस्य परिवारे शतम् कपोताः आसन्।
(iii) कपोताः तण्डुलान् भक्षयितुं नीचैः आगच्छन्।
(iv) कपोतानां जालं हिरण्यकः अकृन्तत्।
प्रश्न 3.
भाषिककार्यम्
(i) “सः वट-वृक्षस्य अधः जालम् प्रसारयत्” इत्यस्मिन् वाक्ये ‘सः’ इति सर्वनामपदस्थाने संज्ञापदं किम्?
(ii) ‘एकस्मिन् भागे’ – इत्यनयोः पदयोः विशेषणपदं किम्?
(iii) “ते कपोताः पुनः जीवनम् अविन्दन्” इत्यत्र क्रियापदं किम्?
(iv) “स: चित्रग्रीवस्य मित्रम् आसीत्।” इत्यत्र ‘सः’ इति सर्वनामपदस्य प्रयोगः कस्य कृते वर्तते? उत्तराणि
उत्तरम् :
(i) व्याधः।
(ii) एकस्मिन्।
(ii) अविन्दन्।
(iv) हिरण्यकस्य कृते।
15. देशाटनस्य बहवो गुणाः भवन्ति। नानादेशजलवायुप्रभावेणास्माकं स्वास्थ्यलाभो भवति। देशान्तरकला कौशलज्ञानेन वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः अधिकोन्नतस्य देशस्य नागरिकाः प्रायः पर्यटनप्रिया भवन्ति। ब्रिटिशशासनकाले शासका भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म। भारतीयाश्च प्रेरणां विना न किमपि कुर्वन्तीति सर्वविदितम्। परमधुना न वयं परतन्त्राः, अतः शासकानामेतत् कर्त्तव्यमापद्यते यत्ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुः। अधुना बहवो भारतीयाश्छात्रा अमरीका-इङ्गलैण्डरूसप्रभृतिदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति। स्वदेशमागत्य ते स्वोपार्जितज्ञानेन स्वदेशमवश्यमेवोन्नमयिष्यन्तीति जानीमः।
प्रश्न 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
देशाटनस्य महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) कस्य बहवो गुणाः भवन्ति?
(ii) अधिकोन्नतस्य देशस्य नागरिकाः कीदृशाः भवन्ति?
(ii) भारतीयाः कां विना न किमपि कुर्वन्ति?
(iv)कदा शासका भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म?
उत्तरम् :
(i) देशाटनस्य।
(ii) पर्यटनप्रियाः।
(iii) प्रेरणाम्।
(iv) ब्रिटिशशासनकाले।
(ख) पूर्णवाक्येन उत्तरत –
(i) केन अस्माकं स्वास्थ्यलाभो भवति?
(ii) देशान्तरकलाकौशल ज्ञानेन वयं किम् कुर्मः?
(iii) अद्य शासकानां किं कर्त्तव्यमापद्यते?
(iv)अधुना बहवो भारतीयाः छात्राः विदेशेषु किमर्थं गताः सन्ति?
उत्तरम् :
(i) नानादेशजलवायुप्रभावेणास्माकं स्वास्थ्यलाभो भवति।
(ii) वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः।
(iii) यत्ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुः।
(iv) ते विदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति।
प्रश्न 3.
भाषिककार्यम्
(i) “देशाटनस्य बहवो गुणा:……………।” इत्यत्र क्रियापदं किम् प्रयुक्तम्?
(ii) उपर्युक्तानुच्छेदे ‘परतन्त्राः’ इति कस्य विलोमशब्दः?।
(iii)”नागरिकाः प्रायः पर्यटनप्रियाः भवन्ति।” इत्यत्र कर्तृपदं किम्?
(iv)”ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुः” इत्यत्र ‘ते’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम्?
उत्तरम् :
(i) भवन्ति।
(ii) ‘स्वतन्त्राः’ इत्यस्य।
(ii) नागरिकाः।
(iv) शासकाः।
16. कस्मिंश्चिद् ग्रामे एकः वृद्धः कृषकः अवसत्। सः परिश्रमी, दूरदर्शी तथा सरल स्वभावः आसीत्। तस्य चत्वारः पुत्राः आसन्, परं ते अलसा अभवन्। ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्, न च तेषां कृषिकार्ये रुचिः आसीत्। अस्मात् कारणात् वृद्धकृषकः चिन्तितवान्। मरणासन्नावसरे वृद्धः कृषकः स्वपुत्रान् अकथयत् यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम मरणानन्तरं क्षेत्रान् खनित्वा सुगुप्तं धनं प्राप्नुयात। पुत्राः एतत् श्रुत्वा प्रासीदन्। निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्। परं सुगुप्तं धनं न लब्धम्। ते निराशाः संजाताः। अन्ते निजमातुः प्रेरणया ते निजक्षेत्रेषु बीजानि अवपन्। परिणामस्वरूपम् प्रभूतं धान्यम् अभवत्। तस्य विक्रयैः ते समृद्धाः, धनिनः च संजाताः। अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्।
प्रश्न 1.
उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
गुप्तधनस्य रहस्यम्।
प्रश्न 2.
(क) एकपदेन उत्तरत –
(i) वृद्धः कृषकः कुत्र अवसत्?
(ii) कृषकस्य कति पुत्राः आसन्?।
(iii) ते कस्मिन् पितुः सहयोगं न अकुर्वन्?
(iv) अन्ते ते स्वपितुः कस्य रहस्यम् अबोधन्?
उत्तरम् :
(i) ग्रामे।
(ii) चत्वारः।
(ii) कृषिकायें।
(iv) सुगुप्तधनस्य।
(ख) पूर्णवाक्येन उत्तरत –
(i) वृद्धः कृषकः कीदृशः आसीत्?
(ii) कृषकस्य पुत्राः कीदृशाः अभवन्?
(iii) कृषकस्य पुत्राः निजमातुः प्रेरणया किम् अकुर्वन्?
(iv) कृषकस्य पुत्राः किं न प्राप्य निराशाः संजाताः?
उत्तरम् :
(i) वृद्धः कृषकः परिश्रमी, दूरदर्शी तथा सरलस्वभावः आसीत्।
(ii) कृषकस्य पुत्राः अलसा अभवन्।
(iii) ते निजक्षेत्रेषु बीजानि अवपन्।
(iv) ते सुगुप्तं धनं न प्राप्य निराशाः संजाताः।
प्रश्न 3.
भाषिककार्यम्
(i) चत्वारः पुत्राः’ इत्यत्र विशेषणपदं किम्?
(ii) “परं ते अलसा……….. ” इत्यत्र पूरणीयं क्रियापदं गद्यांशात् चित्वा लिखत।
(iii) “पुत्राः एतत् श्रुत्वा प्रासीदन्” इत्यत्र कर्तृपदं किम्?
(iv) उपर्युक्तगद्यांशे ‘ते’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम्?
उत्तरम् :
(i) चत्वारः।
(ii) अभवन्।
(iii) पुत्राः।
(iv) पुत्राः।
17. अस्माकं भारतवर्षः प्राकृतिक सुषमायाः भण्डारो वर्तते। अत्र प्रकृति-नटी प्रतिक्षणं नव्यं भव्यं च नाटयति। अत्र एकस्मिन् वर्षे षड्ऋतवो भवन्ति-वसन्तः, ग्रीष्मः, वर्षा, शरत्, शिशिर, हेमन्तश्च। एषु वसन्तस्यैव प्राधान्यं वर्तते। समागमे वसन्ते नातिशीतं नात्युष्णं भवति। साधुः एष ऋतुः ऋतुषु ऋतुराज इति कथ्यते। अस्मिन् ऋतौ वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति।
वसन्ते सौन्दर्यस्याभिनवं साम्राज्यं समुल्लसति। सर्वे जनाः प्रसन्नाः भवन्ति। वसन्ते कुसुमानां शोभा फलानां समृद्धिः उद्यानेषु दरिदृश्यते तथा क्षेत्रेषु धान्यादि सम्पत्तिः अवलोक्यते। तस्मिन्नेवसमये कोकिलाः मधुरेण स्वरेण कूजन्ति। कोकिलानां कूजनं अतीव रमणीयं मनोहरं प्रतिभाति। वसन्तौ विविधानाम् उत्सवानां आयोजनं भवति। संस्कृतसाहित्ये तु प्रकृतिवर्णने वसन्तस्य रमणीयं वर्णनं विविधग्रन्थेषु प्राप्यते। वस्तुतः सर्वासु ऋतुषु वसन्त एव रमणीयतमः भवति।
प्रश्न 1.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
वसन्त-ऋतु।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) भारतवर्षः कस्याः भण्डारो वर्तते?
(ii) अत्रैकस्मिन् वर्षे कति ऋतवः भवन्ति?
(iii) कः ऋतुराजः कथ्यते?
(iv) सर्वासु ऋतुषु कः रमणीयतमः भवति?
उत्तरम् :
(i) प्राकृतिकसुषमायाः।
(ii) षड्।
(iii) वसन्त-ऋतुः।
(iv) वसन्तः।
(ख) पूर्णवाक्येन उत्तरत –
(i) कदा नातिशीतं नात्युष्णं भवति?
(ii) वसन्त-ऋतौ वसुन्धरा कीदृशं रूपं धारयति?
(iii) वसन्ते कस्याभिनवं साम्राज्यं समुल्लसति?
(iv) वसन्ते उद्यानेषु किं दरिदृश्यते?
उत्तरम् :
(i) समागमे वसन्ते नातिशीतं नात्युष्णं भवति।
(ii) वसन्त-ऋतौ वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति।
(iii) वसन्ते सौन्दर्यस्य अभिनवं साम्राज्यं समुल्लसति।
(iv) वसन्ते उद्यानेषु कुसुमानां शोभा फलानां च समृद्धिः दरिदृश्यते।
प्रश्न 3.
भाषिककार्यम्
(i) “सर्वेजनाः प्रसन्नाः भवन्ति” इत्यत्र क्रियापदं किम्?
(ii) रमणीयं वर्णनम्’ इत्यनयोः पदयोः विशेषणपदं किम्?
(iii) ‘एषु वसन्तस्यैव प्राधान्यं वर्तते।’ इत्यस्मिन् वाक्ये ‘एषु’ इति सर्वनामपद- स्थाने संज्ञापदं किम्?
(iv) रमणीयतमः’ इत्यत्र कः प्रत्ययः?
उत्तरम् :
(i) भवन्ति।
(ii) रमणीयम्।
(iii) ऋतुषु।
(iv) तमप्।
18. सते अर्थात् कल्याणाय हितं सत्यं भवति। यद् वस्तु यथा विद्यते तस्य तेन एव रूपेण कथनं लेखनं वा सत्यम उच्यते। सत्येन एव समाजस्य स्थितिः भवति। यदि सर्वे असत्यवादिनः भवेयः तदा लोकस्य स्थितिः क्षणमात्रम् अपि भवितुं न शक्नोति। एष महिमा सत्यस्य एव अस्ति यद् वयं समाजे मनुष्येषु . विश्वासं कुर्मः। अतः सत्यम् एव लोकस्य आधारः अस्ति। समाजस्य सकलः कार्यव्यवहारः विश्वासेन चलति, विश्वासस्य आधारः सत्यमेव भवति। जीवनस्य सर्वेषु क्षेत्रेषु सत्यस्य अपेक्षा विद्यते। अस्माकं सकलम् आदान प्रदानं च सत्ये एव अवलम्बितं भवति। राजनीतिक क्षेत्रे, सामाजिक क्षेत्रे, धार्मिक क्षेत्रे, आध्यात्मिक क्षेत्रे च सत्यस्य महती आवश्यकता वर्तते।
प्रश्न 1.
उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् :
सत्यमेव जयते।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) केन समाजस्य स्थितिः भवति?
(ii) सत्यं कस्य आधारः अस्ति?
(ii) जीवनस्य सर्वेषु क्षेत्रेषु कस्य अपेक्षा भवति?
(iv) समाजस्य कार्यव्यवहारः केन चलति?
उत्तरम् :
(i) सत्येन।
(ii) लोकस्य।
(iii) सत्यस्य।
(iv) विश्वासेन।
(ख) पूर्णवाक्येन उत्तरत –
(i) किम् सत्यम् उच्यते?
(ii) सत्यस्य का महिमा?
(iii) विश्वासस्य आधारः कः भवति?
(iv) अस्माकं सकलम् आदानं प्रदानं च कुत्र अवलम्बितं भवति।
उत्तरम् :
(i) यद् वस्तु यथा विद्यते तस्य तेनैव रूपेण कथनं लेखनं वा सत्यम् उच्यते।
(ii) सत्येन एव वयं समाजे मनुष्येषु विश्वासं कुर्मः।
(iii) विश्वासस्य आधारः सत्यमेव भवति।
(iv) अस्माकं सकलम् आदान प्रदानं च सत्ये एव अवलम्बितं भवति।
प्रश्न 3.
भाषिककार्यम्
(i) ‘सत्यस्य’ इति पदस्य विलोमशब्दः कः?
(ii) ‘सर्वेषु क्षेत्रेषु’-इत्यत्र विशेषणपदं किम्?
(iii) ‘वयं समाजे मनुष्येषु विश्वासं कुर्मः’ इत्यत्र कर्तृपदं किम्?
(iv) “सत्येन एव समाजस्य स्थितिः भवति।” इत्यत्र क्रियापदं किम्?
उत्तरम् :
(i) असत्यस्य।
(ii) सर्वेषु।
(iii) वयम्।
(iv) भवति।
19. श्रीजवाहरलालः महापुरुषः आसीत्। सः देशभक्तः नायकः आसीत्। जवाहरः बाल्ये उच्चशिक्षायै आंग्लदेशम् अगच्छत्। तत्र सः विधिशास्त्रम् अपठत्। सः भारतम् आगत्य देशस्य सेवायाम् संलग्नः अभवत्। सः गान्धि-महोदयेन चालिते सत्याग्रहे सम्मिलितः अभवत्। सः भारतस्य ग्रामे ग्रामे अगच्छत्। सः सर्वान् जनान् अबोधयत्। येन जनाः स्वतन्त्रतायाः प्राप्तये यत्नम् कुर्वन्तु। जनाः भारतस्य स्वतन्त्रतायै उद्यताः अभवन्। सः सर्वं सुखम् अत्यजत्। सः बहवारम् कारागारम् अगच्छत्। अस्य महापरुषस्य प्रयत्नैः भारतम् स्वतन्त्रम् अभवत्। श्री जवाहरलालनेहरूः स्वतन्त्रस्य भारतस्य प्रथमः प्रधानमंत्री अभवत्। सः देशस्य सेवायाम् एव प्राणान् अत्यजत्। भारतीयाः सदा तं देशभक्तं सादरं स्मरिष्यन्ति।
प्रश्न 1.
उपर्युक्तगद्यांशस्य समुचितं शीर्षकं लिखत –
उत्तरम् :
श्रीजवाहरलालनेहरूः।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) श्रीजवाहरलालः कीदृशः नायकः आसीत्?
(ii) जवाहरः बाल्ये उच्चशिक्षायै कुत्र अगच्छत्?
(iii) स्वतन्त्रभारतस्य प्रथमः प्रधानमंत्री कः अभवत्?
(iv) सः देशस्य सेवायां कान् अत्यजत्?
उत्तरम् :
(i) देशभक्तः।
(ii) आंग्लदेशम्।
(iii) श्रीजवाहरलालनेहरूः।
(iv) प्राणान्।
(ख) पूर्णवाक्येन उत्तरत –
(i) श्रीजवाहरलालः भारतमागत्य कुत्र संलग्नः अभवत्?
(ii) श्रीजवाहरलालः कस्मिन् सम्मिलितः अभवत्?
(iii) जनाः कुत्र उद्यताः अभवन्?
(iv) श्रीजवाहरलालः बहुवारम् कुत्र अगच्छत्?
उत्तरम् :
(i) सः भारतमागत्य देशस्य सेवायां संलग्नः अभवत्।
(ii) सः गान्धिमहोदयेन चालिते सत्याग्रहे सम्मिलितः अभवत्।
(iii) जनाः भारतस्य स्वतन्त्रतायै उद्यताः अभवन्।
(iv) सः बहुवारं कारागारम् अगच्छत्।
प्रश्न 3.
भाषिककार्यम् –
(i) ‘सः सर्वान् जनान् अबोधयत्’ इत्यत्र क्रियापदस्य सम्बन्धः केन कर्तृपदेन?
(ii) “सः सर्वं सुखम् अत्यजत्-” इत्यत्र ‘सः’ सर्वनामपदस्थाने संज्ञापदं किम्?
(iii) प्रथमः प्रधानमंत्री’-इत्यनयोः पदयोः विशेषणपदं किम्?
(iv) “तत्र सः विधिशास्त्रम्……..।” इत्यस्मिन् वाक्ये रिक्तस्थाने पूरणीयं क्रियापदं गद्यांशात् चित्वा लिखत।
उत्तरम् :
(i) ‘सः’ इत्यनेन।
(ii) श्रीजवाहरलालः।
(iii) प्रथमः।
(iv) अपठत्।
20. परेषाम् उपकारः परोपकारोऽस्ति। समाजे मानवः परस्य हितसाधनार्थं यत्किंचिद् करोति सर्वं तत् परोपकारो गण्यते। प्राचीन ग्रन्थेषु परोपकारस्य महत्त्वं वर्णितमस्ति। जगतः कल्याणं परोपकारेणैव भवति, मनुष्याणां सुखं शान्तिः च भवति। यः पुरुषः परोपकारं करोति तस्य मनः पवित्रं विनययुक्तं, सदयं, सरसं स्वच्छं च जायते। परोपकारिणः परेषां दुःखं स्वकीयं मत्वा तन्नाशाय यतन्ते। ते दीनेभ्यो दानं ददति, निर्धनेभ्यो धनं, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, बुभुक्षितेभ्यो अन्नम्, अशिक्षितेभ्यश्च शिक्षाम् ददति। सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति। ते परोपकार-करणे स्वीयं दुःखं न गणयन्ति। परोपकारेण जनः सर्वत्र यशः प्राप्नोति।
प्रश्न 1.
उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत –
उत्तरम् :
परोपकारस्य महत्त्वम्।
प्रश्न 2.
(क) एकपदेन उत्तरत
(i) परेषाम् उपकारः कः अस्ति?
(ii) जगतः कल्याणं केनैव भवति?
(iii) परोपकारेण जनः सर्वत्र किं प्राप्नोति?
(iv) सजनाः केन प्रसन्नाः भवन्ति?
उत्तरम् :
(i) परोपकारः।
(ii) परोपकारेणैव।
(iii) यशः।
(iv) परोपकारेण।
(ख) पूर्णवाक्येन उत्तरत –
(i) किम् परोपकारो गण्यते?
(ii) यः पुरुषः परोपकारं करोति तस्य मनः कीदृशः जायते?
(iii) प्राचीनग्रन्थेषु कस्य महत्त्वं वर्णितमस्ति?
(iv) के कथञ्च स्वीयं दुःखं न गणयन्ति?
उत्तरम् :
(i) समाजे मानवः परस्य हितसाधनार्थं यत् किंचिद् करोति तत् सर्वं परोपकारो गण्यते।
(ii) तस्य मनः पवित्रं, विनययुक्तं, सदयं, सरसं स्वच्छं च जायते।
(ii) प्राचीनग्रन्थेषु परोपकारस्य महत्त्वं वर्णितमस्ति।
(iv) परोपकारिणः परोपकारकरणे स्वीयं दुःखं न गणयन्ति।
प्रश्न 3.
भाषिककार्यम् –
(i) “ते दीनेभ्यो दानं ददति” इत्यत्र ‘ते’ इति सर्वनामपदस्य संज्ञापदं किम्?
(ii) “…..परोपकारेणैव प्रसन्नाः भवन्ति” इत्यत्र कर्तृपदं किम्?
(iii) “ते निर्धनेभ्यो धन. ….।” इत्यस्मिन् वाक्ये क्रियापदं किम्?
(iv) ‘मत्वा’ इत्यस्मिन् पदे कः प्रत्यय?
उत्तरम् :
(i) परोपकारिणः।
(ii) सज्जनाः।
(iii) ददति।
(iv) क्त्वा।
(ii) 40-50 शब्दपरिमिताः सरलगद्यांशाः
निर्देश:-अधोलिखितगद्यांशान् पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखत –
1. भारतीय-संस्कृतौ होलिकोत्सवस्य विशिष्टं महत्त्वं वर्तते। हिरण्यकशिपोः भगिन्याः होलिकायाः दहनेन अयम् उत्सवः सम्बद्धः अस्ति। सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म। अतएव हिरण्यकशिपोः निर्देशेन सा प्रह्लादम् अङ्के उपावेश्य अग्नौ उपविष्टवती। परन्तु प्रहादस्य भक्त्या प्रसन्नो
भूत्वा नारायणः प्रह्लादं रक्षितवान्।
प्रज्वलितेन अग्निना सा स्वयमेव दग्धा। तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्ष फाल्गुन-पूर्णिमावसरे होलिकोत्सवः भवति। अस्मिन् अवसरे जनाः परस्परं प्रेम्णा मिलन्ति। एतेन तेषां प्रीतिः वर्धते।
प्रश्न 1.
एकपदेन उत्तरत –
(क) भारतीय संस्कृतौ होलिकोत्सवस्य कीदृशं महत्त्वं वर्तते?
(ख) होलिका कस्य भगिनी आसीत्?
उत्तरम् :
(क) विशिष्टम्।
(ख) हिरण्यकशिपोः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत –
(क) होलिका कम् अङ्के उपावेश्य अग्नौ उपविष्टवती?
(ख) होलिकोत्सवः कदा आयोजितः भवति?
उत्तरम् :
(क) होलिका प्रह्लादम् अङ्के उपावेश्य अग्नौ उपविष्टवती।
(ख) होलिकोत्सवः प्रतिवर्षं फाल्गुन-पूर्णिमावसरे आयोजितः भवति।
प्रश्न 3.
भाषिक-कार्यम् –
(i) “सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म।”
अस्मिन् वाक्ये रेखांकितसर्वनामपदस्थाने संज्ञापदं किम्?
(ii) “अस्मिन अवसरे जनाः परस्परं प्रेम्णा मिलन्ति।”
उपर्युक्तवाक्ये कर्तृपदं किमस्ति?
(iii) ‘प्रज्वलितेन अग्निना’ इत्यनयोः पदयोः विशेष्यपदं किम्?
(iv) “एतेन तेषां प्रीति:….।” अत्र रिक्तस्थाने पूरणीयक्रियापदं गद्यांशात् चित्वा लिखत।
उत्तरम् :
(i) होलिका।
(ii) जनाः।
(iii) अग्निना।
(iv) वर्धते।
2. अस्माकं पुस्तकालयः नगरस्य रमणीय स्थाने वर्तते। अस्य भवनं विशालं सुन्दरं चास्ति। अस्मिन् पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति तथा च अत्र विविध पत्र-पत्रिकादयः प्रतिदिनं आयान्ति। बहवः जनाः, छात्राः, युवतयश्च अत्र आगत्य स्वाध्यायं कुर्वन्ति। अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका वर्तते।
प्रश्न 1.
एकपदेन उत्तरत –
(क) अस्माकं पुस्तकालयस्य भवनं कीदृशं वर्तते?
(ख) अस्माकं पुस्तकालये कति पुस्तकानि सन्ति?
उत्तरम् :
(क) विशालं सुन्दरं च।
(ख) दशसहस्राणि।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) अस्माकं पुस्तकालये के आगत्य स्वाध्यायं कुर्वन्ति?
(ख) अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च केषां महती भूमिका वर्तते?
उत्तरम् :
(क) अस्माकं पुस्तकालये बहवः जनाः, छात्राः, युवतयश्च आगत्य स्वाध्यायं कुर्वन्ति।
(ख) अस्माकं ज्ञानवर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका वर्तते।
प्रश्न 3.
भाषिक-कार्यम्
(i) “अस्य भवनं विशालं सुन्दरं चास्ति।” उपर्युक्त वाक्ये सर्वनामपद ‘अस्य’ स्थाने संज्ञापदं किमस्ति?
(ii) “दशसहस्राणि पुस्तकानि” इत्यत्र विशेषणपदं किम्?
(iii) “जनाः अत्र आगत्य स्वाध्यायं कुर्वन्ति।”
उपर्युक्तवाक्ये क्रियापदं किम्?
(iv) “अत्र विविध पत्र-पत्रिकादयः प्रतिदिन………..”
उपर्युक्तवाक्ये रिक्तस्थाने पूरणीयक्रियापदं किम् प्रयुक्तम्?
उत्तरम् :
(i) पुस्तकालयस्य।
(ii) दशसहस्राणि।
(iii) कुर्वन्ति।
(iv) आयान्ति।
3. यत् परितः अस्मान् आवृणोति तत् पर्यावरणं कथ्यते। पृथ्वीजलाकाशवनस्पतयः जीवाश्च पर्यावरणसर्जकाः सन्ति। वर्तमानकाले प्राकृतिकसंसाधनानां असन्तुलितदोहनेन औद्योगिक-विस्तारेण च पर्यावरणं प्रदूषितं जातम्। अद्य वायु-जल-ध्वनिप्रदूषणेन मानवजीवनं दुःखमयं सञ्जातम्। अद्य मानवसभ्यतायाः संरक्षणार्थं स्वास्थ्य संवर्द्धनार्थञ्च पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यकं वर्तते।
प्रश्न 1.
एकपदेन उत्तरत –
(क) यत् परितः अस्मान् आवृणोति तत् किं कथ्यते?
(ख) पृथ्वीजलाकाशवनस्पतयः जीवाश्च कस्य सर्जकाः सन्ति?
उत्तरम् :
(क) पर्यावरणम्।
(ख) पर्यावरणस्य।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) वर्तमानकाले केन कारणेन पर्यावरणं प्रदूषितं जातम्?
(ख) किमर्थं पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यकं वर्तते?
उत्तरम् :
(क) वर्तमानकाले प्राकृतिकसंसाधनानां असन्तुलितदोहनेन औद्योगिक-विस्तारेण च पर्यावरणं प्रदूषितं जातम्।
(ख) मानवसभ्यतायाः संरक्षणार्थं स्वास्थ्य-संवर्द्धनार्थञ्च पर्यावरणस्य सन्तुलनं संरक्षणं च आवश्यकं वर्तते।
प्रश्न 3.
भाषिक-कार्यम्
(i) “यत् परितः अस्मान् आवृणोति” इति वाक्ये क्रियापदं किम्?
(ii) उपर्युक्त अनुच्छेदे ‘सुखमयम्’ इति पदस्य विलोमशब्दः कः?
(iii) “पर्यावरणं प्रदूषितं जातम्” इत्यत्र कर्तृपदं किम्?
(iv) ‘मानवसभ्यतायाः’ इत्यत्र विशेषणपदं किम्?
उत्तरम् :
(i) आवृणोति।
(ii) दुःखमयम्।
(iii) पर्यावरणम्।
(iv) मानव।
4. अस्माकं भारतवर्षः प्राकृतिक सुषमायाः भण्डारो वर्तते। अत्र प्रकृति नटी प्रतिक्षणं नव्यं भव्यं च नाटयति। अत्र एकस्मिन् वर्षे षऋतवो भवन्ति–वसन्तः, ग्रीष्मः, वर्षा, शरत्, शिशिर, हेमन्तश्च। एषु वसन्तस्यैव प्राधान्य वर्तते। समागमे वसन्ते नातिशीतं नात्युष्णं भवति। साधुः एष ऋतुः ऋतुषु ऋतुराज इति कथ्यते। अस्मिन् ऋतौ वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति। सर्वमपि चारुतरं प्रतिभाति।
प्रश्न 1.
एकपदेन उत्तरत –
(क) अत्र एकस्मिन् वर्षे कति ऋतवो भवन्ति?
(ख) कस्मिन् समागमे नातिशीतं नात्युष्णं भवति?
उत्तरम् :
(क) षड्।
(ख) वसन्ते।
प्रश्न 2.
पूर्णवाक्येन उत्तरत –
(क) कः प्राकृतिकसुषमायाः भण्डारो वर्तते?
(ख) कदा वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति?
उत्तरम् :
(क) भारतवर्षः प्राकृतिकसुषमायाः भण्डारो वर्तते।
(ख) वसन्त-ऋतौ वसुन्धरा सुसज्जितं मनोरमं रूपं धारयति।
प्रश्न 3.
भाषिक-कार्यम्
(i) “एष ऋतुः ऋतुराज इति कथ्यते”_इत्यत्र सर्वनामपदं ‘एषः’ स्थाने संज्ञापदं किमस्ति?
(ii) “अत्र प्रकृतिनटी प्रतिक्षणं नव्यं भव्यं च नाटयति।”
उपर्युक्तवाक्ये क्रियापदं किम्?
(iii) ‘एकस्मिन् वर्षे’ इत्यत्र विशेष्यपदं किम्?
(iv) उपर्युक्तगद्यांशे ‘अतिशीतम्’ इत्यस्य विलोमपदं किं प्रयुक्तम्?
उत्तरम् :
(i) वसन्तः।
(ii) नाटयति।
(iii) वर्षे।
(iv) अत्युष्णम्।
5. आँग्लदेशीयाः पूर्वम् भारतदेशे शासनम् अकुर्वन्। स्वाधीनतायै अनेकानि आन्दोलनानि अभवन्। लक्ष्मीबाई एका प्रमुखा सेनानायिका आसीत्। तस्याः जनकः जननी च बिठूरराज्ये अवसताम्। लक्ष्मीबाई शस्त्रज्ञाने अश्वारोहणे च निपुणा आसीत्। तस्याः विवाहः गंगाधरेण सह अभवत्। गंगाधरस्य असमये एव मृत्युः अभवत्। आँग्लसेनानायकः ह्यूरोजः अकथयत्-‘राज्ञी आत्मसमर्पणं करोतु’ इति। लक्ष्मीबाई अवदत् ‘झाँसीराज्यं मम अस्ति। अहं झाँसी-राज्यं न दास्यामि’ इति। सा आँग्लैः सह भीषणं युद्धम् अकरोत्। अन्ते सा प्राणान् अत्यजत्।
प्रश्न 1.
एकपदेन उत्तरत –
(क) आँग्लदेशीयाः पूर्वम् कुत्र शासनम् अकुर्वन्?
(ख) ‘झाँसीराज्यं मम अस्ति। अहं तं न दास्यामि’ इति का अवदत्?
उत्तरम् :
(क) भारतदेशे।
(ख) लक्ष्मीबाई।
प्रश्न 2.
पूर्णवाक्येन उत्तरत –
(क) लक्ष्मीबाई कस्मिन् निपुणा आसीत्?
(ख) ‘लक्ष्मीबाई’ इत्यस्याः विवाहः केन सह अभवत्?
उत्तरम् :
(क) लक्ष्मीबाई शस्त्रज्ञाने अश्वारोहणे च निपुणा आसीत्।
(ख) ‘लक्ष्मीबाई’ इत्यस्याः विवाहः गंगाधरेण सह अभवत्।
प्रश्न 3.
भाषिक-कार्यम्
(i) “सा आँग्लैः सह भीषणं युद्धम् अकरोत्।”
उपर्युक्तवाक्ये सर्वनामपदं ‘सा’ स्थाने संज्ञापदं किम्?
(ii) ‘एका प्रमुखा’-इत्यत्र विशेषणपदं किम्?
“अन्ते स प्राणान्…..” रिक्तस्थाने पूरणीयक्रियापदं गद्यांशात् चित्वा लिखत।
(iv) “अहं झाँसी-राज्यं न दास्यामि” इत्यत्र कर्तृपदं किम्?
उत्तरम् :
(i) लक्ष्मीबाई।
(ii) एका।
(iii) अत्यजत्।
(iv) अहम्।
6. इयं संस्कृत-भाषा विश्वस्य सर्वासु भाषासु श्रेष्ठतमा अस्ति। प्राचीन-भारते इयं संस्कृतभाषा लोकभाषा आसीत्। अनया च सम्पूर्ण भारतवर्ष एकसूत्रे निबद्धम् आसीत्। भारतस्य संस्कृतिः संस्कृतादेव निःसृता अद्यापि भारतवर्षम् उपकरोति। वस्तुतः संस्कृतभाषैव भारतस्य प्राणभूता भाषाऽस्ति। अस्माकं प्राचीनं ज्ञानं संस्कृतभाषायां निबद्धं वर्तते, अतः अस्याः भाषायाः ज्ञानं सर्वेषां कृते आवश्यकं वर्तते।
प्रश्न 1.
एकपदेन उत्तरत –
(क) प्राचीनभारते का लोकभाषा आसीत्?
(ख) अस्माकं प्राचीनं ज्ञानं कस्यां भाषायां निबद्धं वर्तते?
उत्तरम् :
(क) संस्कृतभाषा।
(ख) संस्कृतभाषायाम्।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) कया भारतवर्ष एकसूत्रे निबद्धम् आसी?
(ख) कस्याः ज्ञानं सर्वेषां कृते आवश्यकं वर्तते?
उत्तरम् :
(क) संस्कृतभाषया भारतवर्ष एकसूत्रे निबद्धम् आसीत्।
(ख) संस्कृतभाषायाः ज्ञानं सर्वेषां कृते आवश्यकं वर्तते।
प्रश्न 3.
भाषिक-कार्यम्
(i) उपर्युक्तगद्यांशे ‘अनया’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम्?
(ii) ‘प्राचीनं ज्ञानम्’ इत्यत्र विशेष्यपदं किम्?
(iii) …….भाषायाः ज्ञानं सर्वेषां कृते आवश्यकं वर्तते। .
उपर्युक्तवाक्ये रिक्तस्थाने पूरणीयसर्वनामपदं किम्?
(iv) “भारतस्य संस्कृतिः संस्कृतादेव निःसृता।” इत्यत्र संज्ञापदं किम्?
उत्तरम् :
(i) संस्कृतभाषया।
(ii) ज्ञानम्।
(iii) अस्याः।
(iv) संस्कृतिः।
7. अस्माकं विद्यालयः अपरा काशीनाम्ना विख्यातस्य जयपुरनगरस्य मध्ये रमणीये स्थाने स्थितः। अयम् उच्चमाध्यमिकविद्यालयः अस्ति। अस्य भवनं द्विभूमिकं विस्तृतं भव्यं सुसज्जितम् चास्ति। अस्य पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति, विविधाः पत्र-पत्रिकाः च समायान्ति। अयं विद्यालयः पठन पाठनदृष्ट्या सुव्यवस्थितः सुशासितश्च वर्तते। अत्रत्याः छात्राः योग्यतमाः सन्ति। अयम् आदर्शविद्यालयः अस्ति।
प्रश्न 1.
एकपदेन उत्तरत –
(क) अपरा काशी नाम्ना कः विख्यातः?
(ख) अस्माकं विद्यालयस्य छात्राः कीदृशाः सन्ति?
उत्तरम् :
(क) जयपरनगरम।
(ख) योग्यतमाः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत –
(क) विद्यालयस्य भवनं कीदृशम् अस्ति?
(ख) अस्माकं विद्यालयः कुत्र स्थितः?
उत्तरम् :
(क) विद्यालयस्य भवनं द्विभूमिकं विस्तृतं भव्यं सुसज्जितं चास्ति।
(ख) अस्माकं विद्यालयः जयपुरनगरस्य मध्ये रमणीये स्थाने स्थितः।
प्रश्न 3.
भाषिक-कार्यम् –
(i) उपर्युक्तगद्यांशे अस्य’ सर्वनामपदस्थाने संज्ञापदं किम्?
(ii) ‘विविधाः पत्र-पत्रिका:’-इत्यत्र विशेषणपदं किम्?
(iii) “अयम् आदर्शविद्यालयः अस्ति।”
उपर्युक्तवाक्ये क्रियापदं किम्?
(iv) “अस्य पुस्तकालये दशसहस्राणि पुस्तकानि सन्ति।”
उपर्युक्तवाक्ये सर्वनामपदं किमस्ति?
उत्तरम् :
(i) विद्यालयस्य।
(ii) विविधाः।
(iii) अस्ति।
(iv) अस्य।
8. परेषाम् प्राणिनामुपकारः परोपकारोऽस्ति। परस्य हितसम्पादनं मनसा वाचा कर्मणा चान्येषां हितानुष्ठानमेव परोपकारशब्देन गृह्यते। संसारे परोपकारः एव स गुणो विद्यते, येन मनुष्येषु सुखस्य प्रतिष्ठा वर्तते। परोपकारेण हृदयं पवित्रं सरलं सरसं सदयं च भवति। सत्पुरुषाः कदापि न स्वार्थतत्पराः भवन्ति। ते परेषां दुःखं स्वीयं दुःखं मत्वा तन्नाशाय यतन्ते। ये दीनेभ्यो दानं ददति, निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, बुभुक्षितेभ्योऽन्नम्, अशिक्षितेभ्यश्च शिक्षा ददति।
प्रश्न 1.
एकपदेन उत्तरत
(क) केन हृदयं पवित्रं सरलं सरसं च भवति?
(ख) के कदापि न स्वार्थतत्पराः भवन्ति?
उत्तरम् :
(क) परोपकारेण।
(ख) सत्पुरुषाः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) कः परोपकारोऽस्ति?
(ख) केन मनुष्येषु सुखस्य प्रतिष्ठा वर्तते?
उत्तरम् :
(क) परेषाम् प्राणिनामुपकारः परोपकारोऽस्ति।
(ख) परोपकारेण मनुष्येषु सुखस्य प्रतिष्ठा वर्तते।
प्रश्न 3.
भाषिक-कार्यम्
(i) “संसारे परोपकारः एव स गुणः” इत्यत्र ‘सः’ सर्वनामपदस्थाने किम् संज्ञापदं प्रयुक्तम्?
(ii) “ते दीनेभ्यो दान……… ।” इत्यत्र रिक्तस्थाने पूरणीयक्रियापदं किम्?
(iii) “…….. वस्त्रहीनेभ्यो वस्त्रम् ददति।” उपर्युक्तवाक्ये रिक्तस्थाने पूरणीयकर्तृपदं किम्?
(iv) उपर्युक्तगद्यांशे ‘शिक्षितेभ्यः’ इत्यस्य विलोमपदं किं प्रयुक्तम्?
उत्तरम् :
(i) परोपकारः।
(ii) ददति।
(iii) सत्पुरुषाः।
(iv) अशिक्षितेभ्यः।
9. अस्माकं देशे षड् ऋतवः नवचेतनासञ्चराणाय समायान्ति। तत्रापि वर्षाकालं दृष्ट्वा सर्वे नन्दन्ति। अयं ग्रीष्मानन्तरं समायाति। वर्षाकाले आकाशे मेघाः आयान्ति। ते गर्जन्ति वर्षन्ति च। सौदामिन्यः स्फरन्ति। सर्वत्र जलं भवति। वर्षाजलैः स्नाता वसुन्धरा मोदते। सर्वत्र हरीतिमा विभाति। वर्षाकाले मण्डूकाः रटन्ति। मयूराः नृत्यन्ति। वृक्षाः पल्लविताः भवन्ति। निर्झराः मधुरं नदन्ति, नद्यः वेगेन प्रवहन्ति। वर्षाकाले ग्राम मार्गाः पङ्कमयाः भवन्ति। जलाशयाः, कूपाः अपि पूर्णाः भवन्ति।
प्रश्न 1.
एकपदेन उत्तरत –
(क) कं कालं दृष्ट्वा सर्वे नन्दन्ति?
(ख) कदा ग्रामे मार्गाः पङ्कमयाः भवन्ति?
उत्तरम् :
(क) वर्षाकालम्।
(ख) वर्षाकाले।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) अस्माकं देशे षड् ऋतवः किं कर्तुं समायान्ति?
(ख) कैः स्नाता वसुन्धरा मोदते?
उत्तरम् :
(क) अस्माकं देशे षड् ऋतवः नवचेतनासञ्चराणाय समायान्ति।
(ख) वर्षाजलैः स्नाता वसुन्धरा मोदते।
प्रश्न 3.
भाषिक-कार्यम्
(i) ‘अयं ग्रीष्मानन्तरं समायाति’ – इत्यस्मिन् वाक्ये ‘अयं’ सर्वनाम पदस्थाने संज्ञापदं किम्?
(ii) “मयूरा:………” गद्यांशात् चित्वा उचितक्रियापदेन रिक्तस्थानं पूरय।
(iii) ‘षड् ऋतव:’.-.इत्यत्र विशेषणपदं किमस्ति?
(iv) ‘वर्षाकाले आकाशे मेघाः आयान्ति।’
उपर्युक्तवाक्ये संज्ञापदं किम्?
उत्तरम् :
(i) वर्षाकालः।
(ii) नृत्यन्ति।
(iii) षड्।
(iv) मेघाः।
10. इदं हि विज्ञानप्रधानं युगम्। ‘विशिष्टं ज्ञानं विज्ञानम्’ इति कथ्यते। अस्यां शताब्दयां सर्वत्र विज्ञानस्यैव प्रभावो दरीदृश्यते। अधुना नहि तादृशं किमपि कार्यं यत्र विज्ञानस्य साहाय्यं नापेक्ष्यते। आवागमने, समाचारप्रेषणे, दूरदर्शने, सम्भाषणे, शिक्षणे, चिकित्साक्षेत्रे, मनोरंजनकार्ये, अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि तथैवान्यकार्यकलापेषु विज्ञानस्य प्रभावस्तदपेक्षा च सर्वत्रैवानुभूयते।
प्रश्न 1.
एकपदेन उत्तरत –
(क) इदं हि कीदृशं युगम्?
(ख) सर्वत्र कस्यैव प्रभावो दरीदृश्यते?
उत्तरम् :
(क) विज्ञानप्रधानम्।
(ख) विज्ञानस्यैव।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) विज्ञानं किम् कथ्यते?
(ख) सर्वकार्यकलापेषु कस्य प्रभावः च सर्वत्रैवानुभूयते?
उत्तरम् :
(क) ‘विशिष्टं ज्ञानं विज्ञानम्’ कथ्यते।
(ख) सर्वकार्यकलापेषु विज्ञानस्य प्रभावः च सर्वत्रैवानुभूयते।
प्रश्न 3.
भाषिक कार्यम्
(i) उपर्युक्तगद्यांशे ‘इदम्’ सर्वनामपदस्य संज्ञापदं किमस्ति?
(ii) …….. शताब्याम्’ इत्यत्र रिक्तस्थाने पूरणीयं समुचितं सर्वनामपदं गद्यांशात् चित्वा लिखत।
(iii) “विज्ञानस्य साहाय्यं ना……. !” इत्यत्र रिक्तस्थाने पूरणीयं समुचितं क्रियापदं गद्यांशात् चित्वा लिखत।
(iv) उपर्युक्तगद्यांशे ‘अनुभूयते’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
उत्तरम् :
(i) युगम्।
(ii) अस्याम्।
(iii) अपेक्ष्यते।
(iv) प्रभावः।
11. उत्साहः, उदासीनता, निराशा चेति तिस्रः मनसः अवस्थाः। शिशवः सदा उत्साहशीलाः इति विदितमेव। युवानः अपि प्रायेण उत्साहशीलाः। अनेके वृद्धाः अपि तथैव। वयसः उत्साहस्य च नास्ति सम्बन्धः। उत्साहः मानवस्य सहजः स्वभावः। स मनसः शरीरस्य च विकासाय भवति। शिशुः उत्साहेन सर्वं ग्रहीतुं, सर्वं खादितुं सर्वं सह खेलितुं च प्रवर्तते, प्रतिबन्धे कृते रोदिति। उपहासे कृते क्रोधं प्रकटयति किन्तु निराशो न भवति।
प्रश्न 1.
एकपदेन उत्तरत
(i) मनसः कति अवस्थाः सन्ति?
(ii) कः मानवस्य सहजः स्वभावः?
उत्तरम् :
(i) तिस्रः।
(ii) उत्साहः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) कस्य कस्य नास्ति सम्बन्धः?
(ii) मनसः तिस्रः अवस्थाः का?
उत्तरम् :
(i) वयसः उत्साहस्य च नास्ति सम्बन्धः।
(ii) उत्साहः, उदासीनता, निराशा चेति तिस्रः मनसः अवस्थाः।
प्रश्न 3.
भाषिक-कार्यम्
(i) ‘अनेके वृद्धाः’ इत्यनयोः पदयोः विशेषणपदं किम्?
(ii) ‘स मनसः शरीरस्य च विकासाय भवति’ इत्यत्र ‘सः’ सर्वनाम्नः संज्ञापदं किम?
(iii) ‘शिशुः उत्साहेन सर्वं ग्रहीतुं प्रवर्तते’ इत्यत्र कर्तृपदं किम्?
(iv) उपर्युक्तगद्यांशे ‘युवानः’ इत्यस्य विलोमपदं किम् प्रयुक्तम्?
उत्तरम् :
(i) अनेकेः।
(ii) उत्साहः।
(iii) शिशुः।
(iv) वृद्धाः।
12. कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म। नदीतीरे कश्चन संन्यासी स्वशिष्यैः सह आश्रमं निर्माय वसति स्म। एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरूढवान्। वेगेन प्रवहन्त्यां नद्याम् अकस्मात एका अपरा नौका शिलायाः घट्टनेन नद्यां निमग्ना अभवत्। तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः। संन्यासी अकथयत्-तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये। अतः ते सर्वे मरणं प्राप्तवन्तः।
प्रश्न 1.
एकपदेन उत्तरत
(i) संन्यासी कैः सह वसति स्म?
(ii) के मरणं प्राप्तवन्तः?
उत्तरम् :
(i) शिष्यैः।
(ii) सर्वे जनाः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) संन्यासी शिष्यैः सह कुत्र गन्तुं नौकाम् आरूढवान्?
(ii) अपरा नौका कथं नद्यां निमग्ना अभवत्?
उत्तरम् :
(i) संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुं नौकाम् आरूढवान्।
(ii) अपरा नौका शिलायाः घट्टनेन नद्यां निमग्ना अभवत्।
प्रश्न 3.
भाषिक-कार्यम्
(i) ‘प्रवहति स्म’ इति क्रियापदस्य कर्तपदम किम?
(ii) एकां नौकाम्’ इत्यनयोः पदयोः विशेष्यपदं किम्?
(iii) ते सर्वे मरणं प्राप्तवन्तः’ इत्यत्र ‘ते’ सर्वनामपदस्थाने संज्ञापदं किम्?
(iv) ‘शिष्यैः सह’ अत्र ‘सह’ योगे का विभक्तिः प्रयुक्ता?
उत्तरम् :
(i) नदी।
(ii) नौकाम्।
(iii) जनाः।
(iv) तृतीया।
13. कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्। सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। प्राणिनां मांसं चर्म च विक्रीय जीवनं यापयति स्म। एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्। इतस्ततः अटने एव सायंकालः जातः। तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्। भीतः व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढवान्।
प्रश्न 1.
एकपदेन उत्तरत
(i) व्याधः प्रतिदिनम् अरण्ये किं करोति स्म?
(ii) कः व्याधस्य मार्गम् अवरुद्धवान्?
उत्तरम् :
(i) आखेटम्।
(ii) व्याघ्रः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत –
(i) व्याधः कथं जीवनं यापयति स्म?
(ii) भीतः व्याधः किं कृतवान्?
उत्तरम् :
(i) व्याधः प्राणिनां मांसं चर्म च विक्रीय जीवनं यापयति स्म।
(ii) भीत: व्याधः समीपे विद्यमानं कञ्चित् वृक्षम् आरूढवान्।
प्रश्न 3.
भाषिक-कार्यम्
(i) ‘अयापयत्’ इति पदं कस्य पर्यायपदम्?
(ii) अवरुद्धवान्’ इति पदे कः प्रत्ययः प्रयुक्तः?
(iii) आसीत्’ इति क्रियापदस्य कः कर्ता?
(iv) ‘करोति स्म’ इति क्रियापदस्य किं कर्मपदम्?
उत्तरम् :
(i) यापयति स्म’ इत्यस्य।
(ii) क्तवतु।
(iii) व्याधः।
(iv) आखेटम्।
14. यः स्वदोषाणां कृते अनुतपति तस्य सत्पथगमनस्य द्वारम् उद्घाटितं भवति। अनुतापानलेन पापानि भस्मीभवन्ति, ग्लानिः नश्यति, चित्तं निर्मलं प्रसन्नं च भवति, सद्विचारः समुदेति। इत्थम् आत्मानुशीलनस्य महत्त्वं जीवने अनुभूयते। तेन कृतेषु कार्येषु त्रुटयः न भवन्ति। अतः कृतदोषोऽपि जनः अनुतप्य सत्कर्मसम्पादनेन जीवने महान् भवितुम् अर्हति।
प्रश्न 1.
एकपदेन उत्तरत
(i) केन पापानि भस्मी भवन्ति?
(ii) कस्य महत्त्वं जीवने अनुभूयते?
उत्तरम् :
(i) अनुतापानलेन।
(ii) आत्मानुशीलनस्य।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) कस्य सत्पथगमनस्य द्वारम् उद्घाटितं भवति?
(ii) केन कृतेषु कार्येषु त्रुटयः न भवन्ति?
उत्तरम् :
(i) यः स्वदोषाणां कृते अनुतपति तस्य सत्पथगमनस्य द्वारम् उद्घाटितं भवति।
(ii) आत्मानुशीलनेन कृतेषु कार्येषु त्रुटयः न भवन्ति।
प्रश्न 3.
भाषिक-कार्यम्
(i) ‘अर्हति’ इति क्रियापदस्य कः कर्ता?
(ii) ‘जनः’ इति पदस्य किं विशेषणपदम् अत्र प्रयुक्तम्?
(iii) ‘कुविचारः’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(iv) शक्नोति’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
उत्तरम् :
(i) जनः।
(i) कृतदोषः।
(iii) सद्विचारः।
(iv) अर्हति।
15. प्रातःकालादारभ्य सायं पर्यन्तं मानवः अनेकानि कार्याणि करोति। एतेषु कार्येषु किं समीचीनं किं वा असमीचीनं इति विषये शयनकाले अवश्यं चिन्तनीयम्। एतादृशेन आत्मावलोकनेन स्वकीये आचरणे अज्ञानेन अनवधानेन रागद्वेषाभ्यां वा यदि कश्चन प्रमादः सञ्जातः, अपचारः द्रोहो वा निष्पन्नः तर्हि तेषां परिमार्जनोपायः अवश्यः आलोचनीयः। पश्चात्तापः अनुभवितव्यः। श्व प्रभृति एतादृशं प्रमादं न करिष्यामि इति दृढसड्कल्पः करणीयः।
प्रश्न 1.
एकपदेन उत्तरत
(i) कृतकार्यविषये कदा चिन्तनीयम्?
(ii) कीदृशः संकल्पः अस्माभिः करणीयः?
उत्तरम् :
(i) शयनकाले।
(ii) दृढ़ः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) प्रात:कालादारभ्यः सायं पर्यन्तं मानवः किं करोति?
(ii) आत्मावलोकनात् परं किम् आलोचनीयम्?
उत्तरम् :
(i) मानवः अनेकानि कार्याणि करोति।
(ii) पाप-परिमार्जनोपायः आलोचनीयः।
प्रश्न 3.
भाषिक-कार्यम्
(i) ‘कार्येषु’ इति पदस्य किं विशेषणपदम्?
(ii) करिष्यामि’ इति क्रियापदस्य किं कर्मपदम्?
(iii) उपर्युक्ते अनुच्छेदे ‘समुचितम्’ इति पदस्य किं पर्यायपदम् प्रयुक्तम्?
(iv) उपर्युक्ते अनुच्छेदे ‘करोति’ इति क्रियापदस्य कः कर्ता?
उत्तरम् :
(i) एतेषु।
(ii) प्रमादम्।
(iii) समीचीनम्।
(iv) मानवः।
16. अमर्त्य सेनः इति नाम एव संस्कृतमयम्। अमर्त्य सेनवर्यस्य जन्म शान्तिनिकेतने अभवत्। अस्य नाम गुरुदेवेन रवीन्द्रनाथवर्येण चितम्। अस्य नाम निर्दिशन् सः उक्तवान् आसीत् – ‘अमर्त्य सेनः’ इत्येषः शब्दः संस्कृतमूलः, अतः एतस्य उच्चारणं स्पष्टं स्यात्, यतः अर्थपरिवर्तनं न भवेत्। शान्तिनिकेतने वसन् अमर्त्य सेनः बाल्ये संस्कृताभ्यासं कृतवान्। तस्य तीव्रः अभिलाषः अपि आसीत् यत् मातामहः क्षितीशमोहनसेन इव अहम् अपि प्रसिद्धः संस्कृतविद्वान् भवेयम् इति।
प्रश्न 1.
एकपदेन उत्तरत
(i) अमर्त्य सेनस्य जन्म कुत्र अभवत्?
(ii) अमर्त्यसेनस्य नाम केन चितम्?
उत्तरम् :
(i) शान्तिनिकेतने।
(ii) रवीन्द्रनाथवर्येण।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) ‘अमर्त्यसेनः’ इति नाम कीदृशम्?
(ii) कुत्र वसन् अमर्त्य सेनः बाल्ये संस्कृताभ्यासं कृतवान्?
उत्तरम् :
(i) ‘अमर्त्य सेनः’ इति नाम संस्कृतमयम्।
(ii) शान्तिनिकेतने वसन् अमर्त्य सेनः बाल्ये संस्कृताभ्यासं कृतवान्।
प्रश्न 3.
भाषिककार्यम्
(i) ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ii) ‘भवेयम्’ इति क्रियापदस्य किं कर्तृपदम्?
(iii) प्रादुर्भावः’ इति पदस्य पर्यायपदम् अत्र किं प्रयुक्तम्?
(iv) संस्कृतविद्वान्’ इत्यस्य विशेषणपदम् अत्र किं प्रयुक्तम्?
उत्तरम् :
(i) रवीन्द्रनाथाय।
(ii) अमर्त्य सेनः/अहम्।
(iii) जन्म।
(iv) प्रसिद्धः।
17. मनुष्यः स्वभावतः एव एकः सामाजिकः प्राणी वर्तते। समाजात् पृथक् स्थातुं स न प्रभवति। समाजे निवसन् असौ अन्यान् अनुकरोति। यादृशैः सह असौ उपविशति, हसति, क्रीडति, खादति, पिबति च तादृश एव असौ संजायते। अतः समाजे निवसन् स समये-समये अनेकैः सद्भिः असद्भिर्वा मानवैः सह सम्पर्कम् करोति। गुणवतां सङ्गेन गुणी संजायते, दुष्टानां च संगेन दोषान् एव संचिनोति। दुर्जनः स्वभावतः एव कपटी भवति। सः अन्येषां रहस्यानि ज्ञात्वा तान् वशीकर्तुम् यतते। एवंविधेषु कार्येषु स आत्मगौरवमनुभवति। परन्तु सज्जनः एतस्मात् सर्वथा विपरीतः भवति। स स्वभावतः एव निष्कपटो जायते। अतएव स कदापि कस्यापि हानि न करोति। दूषिताः विचाराः अस्य मनसि एव न आयान्ति। अन्येषां हितकरणे स सदैव आनन्दमनुभवति।
प्रश्न 1.
एकपदेन उत्तरत
(i) मनुष्यः स्वभावतः एव कीदृशः प्राणी वर्तते?
(ii) दुर्जनः स्वभावतः एव कीदृशः भवति?
उत्तरम् :
(i) सामाजिकः।
(ii) कपटी।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) मनुष्यः समाजे निवसन् कैः सह सम्पर्कम् करोति?
(ii) क; अन्येषां रहस्यानि ज्ञात्वा तान् वशीकर्तुं यतते?
उत्तरम् :
(i) मनुष्यः समये-समये अनेकैः सद्भिः असद्भिर्वा मानवैः सह सम्पर्कम् करोति।
(ii) दुर्जनः अन्येषां रहस्यानि ज्ञात्वा तान् वशीकर्तुं यतन्ते।
प्रश्न 3.
भाषिक कार्यम्
(i) ‘असौ’ अन्यान् अनुकरोति ‘अत्र’ असौ कस्य कृते प्रयुक्तम्?
(ii) ‘सद्भिः’ पदस्य कः विलोमशब्दः?
(iii) दूषिताः विचाराः’ अनयोः पदयोः विशेषणं किम्?
(iv) अत्र ‘उपविशति’ इति क्रियापदस्य कः कर्ता?
उत्तरम् :
(i) मनुष्यस्य कृते।
(ii) असद्भिः।
(ii) दूषिताः।
(iv) असौ।
18. एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म। सः नित्यं जम्बूफलानि खादति स्म। कश्चित् मकरः तस्यां नद्यामवसत्। वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्। एवं मकरः तस्य मित्रमभवत्। एकदा तानि फलानि खादित्वा मकरस्य जाया अचिन्तयत्-“अहो ! यः प्रतिदिनम् ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।”
प्रश्न 1.
एकपदेन उत्तरत
(i) नदीतटे कः वृक्षः आसीत्?
(ii) मकरः कस्य मित्रमभवत्?
उत्तरम् :
(i) जम्बूवृक्षः।
(ii) वानरस्य।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) वानरः नित्यं कानि खादति स्म?
(ii) फलानि खादित्वा कस्य जाया अचिन्तयत्?
उत्तरम् :
(i) वानरः नित्यं जम्बूफलानि खादति स्म।
(ii) फलानि खादित्वा मकरस्य जाया अचिन्तयत्।
प्रश्न 3.
भाषिक-कार्यम्
(i) “वानरः तस्मै जम्बूफलानि अयच्छत्” इत्यत्र सर्वनामपदं किम्?
(ii) “मकरः तस्यां नद्यामवसत्” इत्यत्र क्रियापदं किम्?
(iii) ‘एक: वानरः’ इत्यनयोः पदयोः विशेषणपदं किम्?
(iv) ‘तस्याम्’ इति सर्वनामपदस्य संज्ञापदं किम्?
उत्तरम् :
(i) तस्मै।
(ii) अवसत्।
(iii) एकः।
(iv) नद्याम्।
19. पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजः तं वृक्षमधः आगत्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा काष्ठकूट: नाम खगः दुःखेन ताम् अपृच्छत् “भद्रे! किमर्थं विलपसि?” इति। चटका अवदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता।”
प्रश्न 1.
एकपदेन उत्तरत –
(i) पुरा एकस्मिन् वृक्षे का प्रतिवसति स्म?
(ii) चटकायाः नीडं कुत्र अपतत्?
उत्तरम् :
(i) एका चटका।
(ii) भुवि।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) कः शाखां शुण्डेन अत्रोटयत्?
(ii) चटकायाः विलापं श्रुत्वा कः दुःखेन ताम् अपृच्छत्?
उत्तरम् :
(i) कश्चित् प्रमत्तः गजः शाखां शुण्डेन अत्रोटयत्।
(ii) चटकायाः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्।
प्रश्न 3.
भाषिककार्यम्
(i) एका चटका’ इत्यनयोः पदयोः विशेषणपदं किम्?
(ii) कालेन तस्याः सन्ततिः जाता’ इत्यत्र ‘तस्याः’ इति सर्वनामस्थाने संज्ञापदं किं भवति?
(iii) तेन अण्डानि विशीर्णानि’-इत्यत्र क्रियापदं किम्?
(iv) ‘आगत्य’ – इति पदे कः प्रत्ययः?
उत्तरम् :
(i) एका।
(ii) चटकायाः।
(iii) विशीर्णानि।
(iv) ल्यप्।
20. पुरा उत्तानपादो नाम नृपः आसीत्। तस्य द्वे भार्ये आस्ताम्-सुनीतिः सुरुचिः च। सुनीतिः ज्यायसी पत्नी आसीत्, सुरुचिः तु कनीयसी। सुनीतेः सूनुः ध्रुवः सुरुचेस्तु उत्तमः। एकदा उत्तानपादः उत्तमम् अङ्के निधाय लालयन् आसीत्। यदृच्छया तत्रागतः ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्, परन्तु सुरुचिः तं न्यवारयत्। सा सगर्वम् अवदत्-“कुमार! त्वं मम पुत्रः नासि। मम पुत्रः एव नृपतेः अङ्कम् आरोदुम् अर्हति।”
प्रश्न 1.
एकपदेन उत्तरत
(i) परा किं नाम नपः आसीत?
(ii) सुनीतेः सूनुः कः आसीत्?
उत्तरम् :
(i) उत्तानपादः।
(ii) ध्रुवः।
प्रश्न 2.
पूर्णवाक्येन उत्तरत
(i) उत्तानपादः कम् अङ्के निधाय लालयन् आसीत्?
(ii) ध्रुवोऽपि किम् ऐच्छत्?
उत्तरम् :
(i) उत्तानपादः उत्तमम् अङ्के निधाय लालयन् आसीत्।
(ii) ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्।
प्रश्न 3.
भाषिककार्यम्
(i) ‘तस्य द्वे भार्ये आस्ताम्’ इत्यत्र ‘तस्य’ इति सर्वनामस्थाने किं संज्ञापदम्?
(ii) ज्यायसी पत्नी’-इत्यनयोः पदयोः विशेष्यपदं किम्?
(iii) ‘सा सगर्वम् अवदत्’ इत्यत्र क्रियापदं किम्?
(iv) ‘सुरुचिः तं न्यवारयत्’ इत्यत्र कर्तृपदं किम्?
उत्तरम् :
(i) उत्तानपादस्य।
(ii) पत्नी।
(iii) अवदत्।
(iv) सुरुचिः।
21. महात्मागाँधी अस्माकं राष्ट्रपिता अस्ति। अस्य महापुरुषस्य जन्म गुर्जरप्रदेशे पोरबन्दरनाम्नि नगरे अक्टूबरमासस्य द्वितारिकायां 1869 तमे ख्रिस्ताब्दे अभवत्। तस्य पिता कर्मचन्दगाँधी माता च पुतलीबाई आसीत्। अस्य प्रारम्भिकी शिक्षा भारते उच्चशिक्षा च इंग्लैण्डदेशे अभवत्। सः शोषितानां दलितानां च उद्धारम् अकरोत्। अयं सत्याग्रहनाम्नः आन्दोलनस्य सफलं प्रयोगम् अकरोत्।
प्रश्न 1.
एकपदेन उत्तरत
(i) अस्माकं राष्ट्रपिता कः अस्ति?
(ii) महात्मागाँधीमहोदयस्य उच्चशिक्षा कुत्र अभवत्?
उत्तरम् :
(i) महात्मागाँधी।
(ii) इंग्लैण्डदेशे।
प्रश्न 2.
पूर्णवाक्येन उत्तरत्
(i) महात्मागाँधी महोदयस्य मातापितरौ कौ आस्ताम्?
(ii) महात्मागाँधी केषाम् उद्धारम् अकरोत्?
उत्तरम् :
(i) महात्मागाँधीमहोदयस्य माता पुतलीबाई पिता च कर्मचन्दगाँधी आसीत्।
(ii) महात्मागाँधी शोषितानां दलितानां च उद्धारम् अकरोत्।
प्रश्न 3.
भाषिककार्यम्
(i) उपर्युक्तगद्यांशे ‘तस्य’ इति सर्वनामपदस्थाने संज्ञापदं किम्?
(ii) महात्मागाँधी अस्माकं राष्ट्रपिता अस्ति’-इत्यत्र कर्तृपदं किम्?
(iii) ‘अस्य जन्म 1869 तमे ख्रिस्ताब्दे अभवत्’ इत्यत्र क्रियापदं किम्?
(iv) ‘सफलं प्रयोगम्’-इत्यनयोः पदयोः विशेषणपदं किम्?
उत्तरम् :
(i) महात्मागाँधेः।
(ii) महात्मागाँधी।
(iii) अभवत्।
(iv) सफलम्।