UK Board 10th Class Sanskrit – Chapter 10 भूकम्पविभीषिका
UK Board 10th Class Sanskrit – Chapter 10 भूकम्पविभीषिका
UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 10 भूकम्पविभीषिका
[पाठ-परिचय — प्रकृति ने हमें जहाँ अनेक प्रकार के भौतिक सुख-साधन उपलब्ध कराए हैं, वहीं अनेक प्रकार की आपदाएँ भी प्रदान की हैं। ऐसी ही एक प्राकृतिक आपदा का नाम भूकम्प है। भूकम्प में अचानक ही पृथ्वी जोर-जोर से काँपने लगती है, जिससे पृथ्वी पर निर्मित भवन, सड़कें और बिजली के खम्भे आदि गिरकर महाविनाश का कारण बनते हैं। प्रस्तुत पाठ इसी भूकम्प पर आधृत है। इसमें बताया गया है कि भूकम्प किस प्रकार महाविनाश उत्पन्न करता है और उसे किस प्रकार से कम किया जा सकता है । ]
समस्त पाठ का हिन्दी-अनुवाद
सन् २००१ ईस्वी वर्ष में गणतन्त्र दिवस के पर्व पर जब सम्पूर्ण भारत देश नाचने-गाने, बजाने आदि के उल्लास में डूबा था, तब अकस्मात् ही गुजरात राज्य व्याकुल, अस्त-व्यस्त, क्रन्दन से व्याकुल और विपत्तिग्रस्त हो गया। भूकम्प की दारुण विभीषिका ने सम्पूर्ण गुजरात क्षेत्र और विशेष रूप से कच्छ जिले को विनाश के अवशेषों में बदल दिया। भूकम्प का केन्द्र बना भुजनगर तो मिट्टी के खिलौने की भाँति खण्ड-खण्ड (टुकड़े-टुकड़े) हो गया। बहुमंजिले भवन क्षणभर में ही धराशायी हो गए। बिजली के खम्भे उखड़ गए। घर और सीढ़ियाँ बिखर गए। भूमि दो खण्डों में बँट गई । अर्थात् भूमि में दरारें पड़ गईं। भूमि के गर्भ से ऊपर निकलती अनियन्त्रित जलधाराओं से भयंकर बाढ़ का दृश्य उपस्थित हो गया। हजारों प्राणी क्षणभर में ही मारे गए। गिरे भवनों में पीड़ित हजारों अन्य (व्यक्ति) सहायता के लिए करुण क्रन्दन कर रहे थे। दुर्भाग्य से दबे-कुचले मृतप्राय कुछ बच्चे तो ईश्वर की दया से ही दो-तीन दिनों तक जीवित रहे।
यह भीषण विभीषिका कच्छ भूकम्प की थी। २००५ ई० वर्ष में भी कश्मीर प्रान्त में और पाकिस्तान देश में बड़ा भूकम्प आया, जिस कारण से लाखों लोग असमय ही मृत्यु को प्राप्त हुए। पृथ्वी किस (कारण) से काँपती है, वैज्ञानिक इस विषय में कहते हैं कि पृथ्वी के भीतर स्थित बहुत बड़ी पत्थरशिलाएँ जब संघर्षवश टूटती हैं, तब भीषण खिसकन (स्खलन, चट्टानों का अपने स्थान से खिसकना) उत्पन्न होती है और खिसकन से कम्पन्न ( उत्पन्न ) होता है। वही भयावह कम्पन धरती के ऊपरी तल पर आकर महाकम्पन पैदा करता है, जिससे महाविनाश का दृश्य उत्पन्न होता है।
ज्वालामुखी पर्वतों के विस्फोट द्वारा भी भूकम्प उत्पन्न होता है, ऐसा भूकम्प – विशेषज्ञ कहते हैं। पृथ्वी के गर्भ में स्थित अग्नि जब खनिज, मिट्टी, चट्टान आदि के संचयों को उबालती है, तब वे सभी लावा बनकर न रोकी जा सकनेवाली गति से पृथ्वी अथवा पर्वत को फोड़कर बाहर निकलते हैं। तब धुँए और धूल से आकाश ढक जाता है । ताप की मात्रा ८००° सेल्सियस तक पहुँचकर यह लावा नदी के वेग से बहता है, तब पास में स्थित गाँव अथवा नगर उसके पेट में क्षणभर में ही समा जाते हैं।
विवश प्राणी मारे जाते हैं। अग्नि को उगलते हुए ये पर्वत भी भीषण भूकम्प उत्पन्न करते हैं।
यद्यपि भाग्य के प्रकोप का नाम भूकम्प है। उसको रोकने का कोई भी स्थिर उपाय नहीं दिखाई देता, प्रकृति के सामने आज भी विज्ञान – गर्वित मनुष्य बौना ही है, फिर भी भूकम्प के रहस्यों को चाहिए। बाँध बनाकर बड़ी मात्रा में नदियों के जल को भी एक स्थान जाननेवाले कहते हैं कि बहुमंजिले भवनों का निर्माण नहीं करना पर एकत्रित नहीं करना चाहिए, नहीं तो असन्तुलन के कारण भूकम्प पाँचों तत्त्व शान्त रहने पर ही भूतल की योग-क्षेम की रचना करते हैं। आना सम्भव है। वास्तव में पृथ्वी, जल, अग्नि, वायु और आकाश ये ये अशान्त होने पर निश्चय ही उस महाविनाश को उपस्थित करते हैं।
पाठावबोधन-कार्य
निर्देश: – अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-
(1) एकोत्तर द्विसहस्रख्रीष्टाब्दे (२००१ ईस्वीये वर्षे ) गणतन्त्रदिवस – पर्वणि यदा समग्रमपि भारत राष्ट्रं नृत्य गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर – राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम् । भूकम्पस्य दारुण-विभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम् । बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि । उत्खाता विद्युद्दीपस्तस्भाः । विशीर्णाः गृहसोपान – मार्गाः । फालद्वये विभक्ता भूमिः । भूमिगर्भादुपरि निस्सरन्तीभिः दुर्वार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम् । सहस्रमिताः प्राणिनस्तु क्षणेनैव मृताः । ध्वस्तभवनेषु सम्पीडिता सहस्त्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म । हा दैव ! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) कस्मिन् पर्वणि भारत राष्ट्र उल्लासे मग्नमासीत् ?
(ख) किं राज्यं विपन्नं जातम् ?
(ग) भूकम्पस्य केन्द्रभूतं किं नगरम् आसीत्?
(घ) फालद्वये विभक्ता का ?
(ङ) सहस्रमिताः प्राणिनः क्षणेनैव किम् अभवन् ?
उत्तरम्-
(कं) गणतन्त्र दिवस – पर्वणि,
(ख) गुर्जर – राज्यम्,
(ग) भुजनगरम्,
(घ) भूमिः,
(ङ) मृताः ।
2. पूर्णवाक्येन उत्तरत-
(क) अकस्मात् गुर्जर – राज्यं किम् अभवत्?
(ख) कच्छजनपदं ध्वंसावशेषु कथं परिवर्तितवती ?
(ग) भूकम्पस्य केन्द्रभूतं भुजनगरं कमिव खण्डं जातम् ?
(घ) काभिः महाप्लावनदृश्यम् उपस्थितम्?
(ङ) कीदृशाः शिशवः ईश्वरकृपया कर्तिदिनानि जीवनं धारितवन्तः ?
उत्तरम्-
(क) अकस्मात् गुर्जर – राज्यं पर्याकुलं विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम्।
(ख) भूकम्पस्य दारुण – विभीषिका समस्तमपि कच्छजनपदं ध्वंसावशेषु परिवर्तितंवती ।
(ग) भूकम्पस्य केन्द्रभूतं भुजनगरं मृत्तिकाक्रीडनकमिव खण्ड-खण्डं जातम् ।
(घ) भूमिगर्भादुपरि निस्सरन्तीभिः दुर्वार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम् ।
(ङ) क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवः ईश्वरकृपया द्वित्राणि दिनानि जीवनं धारितवन्तः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘दारुण-विभीषिका’ अनयोः पदयोः विशेषणपदं किम् ?
(ख) ‘परिवर्तितवती’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) ‘सहायतायै’ इत्यर्थे अत्र प्रयुक्तं पदं किम् ?
(घ) ‘नुजनगरं खण्डखण्डं जातम्।’ अत्र क्रियापदं किम् ?
उत्तरम्-
(क) दारुण,
(ख) क्तवतु + ङीप्,
(ग) सहायतार्थम्,
(घ) जातम्।
(2) इयमासीत् भैरवविभीषिका कच्छ भूकम्पस्य । पञ्चोत्तर द्विसहस्रख्रीष्टाब्दे ( २००५ ईस्वीये वर्षे ) अपि कश्मीर प्रान्ते पाकिस्तानदेशे च धरायाः महत्कम्पनं जातम् । यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः । पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाणशिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च । तदैव भयावहकम्पनं धराया उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) २००५ ईस्वीये वर्षे कस्मिन् देशे भूकम्पनं जातम् ?
(ख) भूकम्पकारणात् के अकालकालकवलिताः ?
(ग) संघर्षणवशात् का: त्रुट्यन्ति ?
(घ) महाकम्पनेन किं समुत्पद्यते ?
उत्तरम् —
(क) पाकिस्तानदेशे,
(ख) लक्षपरिमिताः जनाः,
(ग) पाषाणशिलाः,
(घ) महाविनाशदृश्यम् ।
2. पूर्णवाक्येन उत्तरत-
(क) कश्मीरप्रान्ते कदा महत्कम्पनं जातम् ?
(ख) वैज्ञानिकमतौ पृथ्वी कस्मात् प्रकम्पते ?
(ग) भूकम्पात् किं भवति ?
उत्तरम्—
(क) कश्मीरप्रान्ते पञ्चोत्तर द्विसहस्रख्रीष्टाब्दे महत्कम्पनं जातम् ।
(ख) वैज्ञानिकमतौ पृथ्वी प्रकम्पते यतः पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्य: पाषाणशिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च ।
(ग) भूकम्पात् लक्षपरिमिताः जनाः अकालकालकवलिताः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘लक्षपरिमिताः जनाः’ अत्र विशेष्यपदं किम् ?
(ख) ‘अकालः’ अस्य पदस्य गद्यांशे कः अर्थः-
अवृष्टिः, अनिष्टकाल:, असमयः ।
(ग) ‘निर्माणम्’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(घ) ‘उत्पादयति’ इत्यर्थे श्लोके किं पदं प्रयुक्तम् ?
उत्तरम्—
(क) जना,
(ख) असमय:,
(ग) विनाशम्,
(घ) जनयति ।
(3) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरां पर्वतं वा विदार्य बहिर्निष्क्रामति । धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ।
निहन्यन्ते च विवशाः प्राणिनः । ज्वालामुद्गिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) केषाम् विस्फोटै: भूकम्पः जायत ?
(ख) अग्निः शिलादिसञ्चयं किं करोति ?
(ग) केन आवृतं जायते तदा गगनम् ?
(घ) निहन्यन्ते कीदृशाः प्राणिन: ?
उत्तरम् —
(क) ज्वालामुखपर्वतानाम्,
(ख) क्वथयति,
(ग) धूमभस्मावृतम्,
(घ) विवशाः ।
2. पूर्णवाक्येन उत्तरत-
(क) भूकम्पविशेषज्ञाः किं कथयन्ति ?
(ख) अग्निः यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति, तदा किं भवति ?
(ग) कदा ग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ?
(घ) कीदृशाः पर्वताः भीषणं भूकम्पं जनयन्ति ?
उत्तरम् –
(क) भूकम्पविशेषज्ञाः कथयन्ति यत् ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पः जायत।
(ख) अग्निः यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरां पर्वतं वा विदार्य बहिर्निष्क्रामति ।
(ग) यदा लावारसो नदीवेगेन प्रवहति तदा पार्श्वस्थ ग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ।
(घ) ज्वालामुद्गिरन्तः पर्वताः अपि भीषणं भूकम्पं जनयन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘विद्यमान: ‘ शब्दस्य अर्थः विद्यायुक्तः उपस्थितः वा?
(ख) ‘विदार्य’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) ‘उत्खननात् प्राप्तं द्रव्यं यः’ इत्यर्थे गद्यांशे किं पदं प्रयुक्तम् ?
(घ) ‘एते’ इति पदं कस्मै प्रयुक्तम् ?
उत्तरम्—
(क) उपस्थित:,
(ख) ल्यप्,
(ग) खनिजम्,
(घ) पर्वतेभ्यः ।
(4) यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते । प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम् । तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति । वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरंगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते । अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति ।
प्रश्नः – 1. एकपदेन उत्तरत-
(क) दैवः प्रकोप : नाम क: ?
(ख) कीदृश: मानवः वामनकल्प एव अस्ति ?
(ग) भूकम्परहस्यज्ञाः अनुसारम् किं न करणीयम् ?
(घ) अशान्तानि तानि कानि महाविनाशम् उपस्थापयन्ति ?
उत्तरम् —
(क) भूकम्प:,
(ख) विज्ञानगर्वितः,
(ग) बहुभूमिकभवननिर्माणम्,
(घ) पञ्चतत्त्वानि ।
2. पूर्णवाक्येन उत्तरत-
(क) कस्य स्थिरोपायो न दृश्यते ?
(ख) कुत्र मानवः वामनकल्प एव अस्ति ?
(ग) भूकम्पशमनोपायविषये भूकम्परहस्यज्ञाः किं कथयति ?
(घ) वस्तुतः कानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते?
उत्तरम्—
(क) भूकम्पोपशमनस्य कोऽपि स्थिरोपायो न दृश्यते ।
(ख) प्रकृतिसमक्षं मानवः वामनकल्प एव अस्ति ।
(ग) भूकम्पशमनोपायविषये भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिक भवननिर्माणं न करणीयम् । तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति ।
(घ) वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्तें।
3. निर्देशानुसारम् उत्तर-
(क) ‘अपायः’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(ख) ‘नैकस्मिन् स्थले’ अनयोः विशेषणं किम् ?
(ग) एकत्रीकरणीयम् सञ्चनीयम् वा इत्यर्थे किं पदम् अत्र प्रयुक्तम् ?
(घ) ‘पृथ्वी’ अस्य पर्यायपदं गद्यांशात् चित्वा लिखत ।
उत्तरम् —
(क) उपाय:,
(ख) नैकस्मिन्,
(ग) पुञ्जीकरणीयम्,
(घ) क्षितिः ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) समस्तराष्ट्रं कीदृक् उल्लासे मग्नम् आसीत्?
उत्तरम् – समस्तराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
उत्तरम् – भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत् ।
(ग) पृथिव्याः स्खलनात् किं जायते ?
उत्तरम् — पृथिव्याः स्खलनात् बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि । उत्खाता विद्युद्दीपस्तम्भाः । विशीर्णः गृहसोपान- मार्गाः। फालद्वये विभक्ता भूमिः । भूमिगर्भादुपरि निस्सरन्तीभि: दुर्वार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम् ।
(घ) समग्रं विश्वं कै: आतंकितः दृश्यते ?
उत्तरम् – समग्रं विश्वं भूकम्पै: आतंकित: दृश्यते ।
(ङ) केषां विस्फोटैरपि भूकम्पो जायते ?
उत्तरम् – ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते ।
(च) कीदृशानि भवनानि धराशायीनि जायन्ते ?
उत्तरम् – बहुभूमिकानि भवनानि धराशायीनि जायन्ते ।
2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती ।
उत्तरम् – भूकम्पविभीषिका विशेषेण परिवर्तितवती ? कच्छजनपदं केषु
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते ।
उत्तरम् – के कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते ?
(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते ।
उत्तरम् – विवशाः प्राणिनः कस्मिन् पिपीलिकाः इव निहन्यन्ते ?
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता ।
उत्तरम् – कीदृशी भयावहघटना गढवालक्षेत्रे घटिता ?
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति ।
उत्तरम् – तदिदानीम् किं विचारणीयं तिष्ठति ?
3. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत ।
उत्तरम् – यदा पृथ्वी प्रकम्पते तर्हि भूकम्पः कथ्यते । अस्य भीषणः परिणामः सर्वत्र विनाशं जनयति । प्रकृतेः असन्तुलनं भूकम्पस्य धराशायीनि भवन्ति सहस्रमिताः प्राणिनः मृत्युं प्राप्नुवन्ति । सर्वत्र प्रमुखं कारणम् अस्ति। भूकम्पे क्षणमात्रेण बहुभूमिकानि भवनानि ध्वस्त भवनेषु सम्पीडित सहायतार्थं करुणकरुणं क्रन्दन्ति । ज्वालामुखपर्वतानां विस्फोटनेनापि भूकम्पो जायत। विस्फोटे अपारक्षति भवति । अस्य पार्श्वक्षेत्रे बहुवर्षपर्यन्तं पादपाः न जायन्ते । ध्वस्तानि नगराणि स्मृतिशेषाणि भवन्ति ।
4. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत-
(क) समग्रं भारतम् उल्लासे मग्नः ………….
(अस् + लट्लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं ………….
(कृ + क्तवतु + ङीप् )
(ग) क्षणेनैव प्राणिनः गृहविहीनाः …………..
(भू + लङ, प्रथमपुरुषः बहुवचनम् )
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ………….
(भू + लट्, प्रथमपुरुषः बहुवचनम् )
(ङ) मानवाः ………… यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
(पृच्छ् + लट्, प्रथमपुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे …………….।
(सम् + आ + विश् + विधिलिङ, प्रथमपुरुषः एकवचनम् )
उत्तरम्-
(क) समग्रं भारतम् उल्लासे मग्नः अस्ति ।
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं कृतवती ।
(ग) क्षणेनैव प्राणिनः गृहविहीनाः अभवन्।
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति ।
(ङ) मानवाः पृच्छन्ति यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
(च) नदीवेगेन ग्रामाः तदुदरे समाविशेयुः ।
5. पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पनं = …………………….
दारुणा च सा विभीषिका = …………………….
ध्वस्तेषु च तेषु भवनेषु = …………………….
प्राक्तने च तस्मिन् युगे = …………………….
महत् च तत् राष्ट्रं तस्मिन् = …………………….
उत्तरम् —
महत् च तत् कम्पनं = महत्कम्पनम्
दारुणा च सा विभीषिका = दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु = ध्वस्तभवनेषु
प्राक्तने च तस्मिन् युगे = प्राक्तनयुगे
महत् च तत् राष्ट्रं तस्मिन् = महाराष्ट्रे