UK 10th Sanskrit

UK Board 10th Class Sanskrit – Chapter 12 अन्योक्तयः

UK Board 10th Class Sanskrit – Chapter 12 अन्योक्तयः

UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 12 अन्योक्तयः

[पाठ-परिचय—अन्योक्ति का अर्थ है— अन्य (दूसरे) को लक्ष्य करके कही गई बात अर्थात् किसी की प्रशंसा अथवा निन्दा प्रत्यक्ष रूप से करने की अपेक्षा किसी अन्य को माध्यम बनाकर करना । पाठ में सङ्कलित अन्योक्तियों में तीसरी अन्योक्ति को छोड़कर शेष सभी अन्योक्तियाँ संस्कृत भाषा के उत्कृष्ट कवि पण्डितराज जगन्नाथ की सुप्रसिद्ध रचना ‘भामिनीविलास’ से सङ्कलित हैं। पण्डितराज आन्ध्रप्रदेशीय तैलङ्ग ब्राह्मण थे। इन्होंने अपने सर्वविद्या कुशल पिता से ही शास्त्रों का अध्ययन किया था। मुगल नरेश शाहजहाँ ने अपने बड़े पुत्र दाराशिकोह की संस्कृत शिक्षा के लिए इन्हें नियुक्त किया था तथा उन्हें “पण्डितराज” की उपाधि दी थी । ” भामिनीविलास” इन्हीं के अन्योक्तिमूलक मुक्तक पद्यों का संग्रह है । ]
समस्त श्लोकों का हिन्दी-भावानुवाद
  1. एक राजहंस के द्वारा तालाब की जो शोभा होती है, वह, ( उसके ) चारों ओर किनारे पर रहनेवाले हजारों बगुलों के द्वारा भी नहीं होती है।
    आशय यही है कि कुल, देश अथवा समाज की उन्नति अथवा यश को बढ़ाने के लिए गुणहीन भीड़ की आवश्यकता नहीं होती, बल्कि उसके लिए तो गुणवान् एक व्यक्ति ही पर्याप्त होता है।
  2. अरे राजहंस! जहाँ (तुमने) कमलनाल खाए हैं, कमलनियों का सेवन किया है, जल पीया है; कहो, उस सरोवर का प्रत्युपकार आपके द्वारा किस प्रकार के करने योग्य कार्यों द्वारा किया जाएगा?
    आशय यही है कि तुमने जिस देश, समाज अथवा मातृभूमि का अन्न-जल तथा दूसरी सुविधाएँ भोगी हैं, जिसने तुम्हें पाल-पोसकर इतना बड़ा किया है, बताओ तुम किस प्रकार से उसका प्रत्युपकार कर सकते हो। अर्थात् कितने भी करणीय कृत्य करके व्यक्ति इनके उपकार को नहीं चुका सकता।
  3. हे माली! आपके द्वारा ग्रीष्मकाल में भयंकर गर्मी में करुणावश (करुणा द्वारा ) थोड़े जल द्वारा भी वृक्षों की जो पुष्टि ( सन्तुष्टि) की जाती है, वह क्या संसार के लिए जलों को धाराप्रवाह रूप में भी बिखेरते ( बरसाते ) हुए अत्यधिक वर्षा करनेवाले बादल द्वारा इस संसार में पैदा की जा सकती है?
    अर्थात् दयाभाव के कारण मृतप्राय व्यक्ति की बहुत थोड़ी-सी भी प्राण बचाने योग्य सहायता सारे संसार का कल्याण करनेवाले दान से अधिक महत्त्वपूर्ण है। उसकी तुलना किसी भी दान-धर्म से नहीं की जा सकती।
  4. तालाब के सूख जाने पर पक्षी आकाश में चारों ओर को चले जाते हैं, भौरे आम की मंजरियों का आश्रय ले लेते हैं। तुझमें (रहनेवाली) मछली तो मर जाती है, विपत्तिग्रस्त दुःखी ( वह) कौन – सी गति जाए?
    आशय यही है कि तालाब के सूख जाने पर उसमें रहनेवाले हंस आकाश में उड़कर अन्य स्थानों को चले जाते हैं, उसमें खिलनेवाले कमलों पर रहनेवाले भौरे भी उड़कर आम की मंजरियों पर मँडराने लगते हैं, किन्तु मछली उसको छोड़कर कहीं नहीं जाती । वह तो बेचारी दुःख उठाती हुई वहीं अपने प्राण त्याग देती है। इसी प्रकार जो देशभक्त व्यक्ति होता है, वह मुसीबत आने पर भी अपने देश धर्म को छोड़कर कहीं नहीं जाता, बल्कि वहीं रहकर दुःख उठाते हुए प्राण त्याग देता है।
  5. एक ही स्वाभिमानी पक्षी चातक वन में निवास करता है, वह प्यासा होते हुए भी या तो मर जाता है या इन्द्र से माँगता है।
  6. हे बादल ! सूरज की गर्मी से तपे हुए पर्वतों के समूह को और ऊँचे वृक्षों से रहित वनों अथवा बागों को सन्तुष्ट करके अनेक नदियों और सैकड़ों नदों को जल से परिपूर्ण करके (तुम स्वयं) रिक्त (हो गए) हो, वही तुम्हारी सर्वोत्तम शोभा है।
    आशय यही है कि परोपकारी पुरुष दूसरों को सुखी और सम्पन्न बनाने के लिए सर्वस्व लुटा देते हैं और स्वयं अभावग्रस्त रह जाते हैं, यही उनकी सबसे बड़ी विशेषता है, वही उनके यश को बढ़ानेवाला कारक है।
  7. हे मित्र चातक! सावधान मन से क्षणभर सुनो। आकाश में अनेक बादल रहते हैं, पर सभी ऐसे (उदार) नहीं होते। कुछ तो वर्षा से पृथ्वी को गीला कर देते हैं, ( परन्तु) कुछ व्यर्थ ही गरजते हैं। ( अतः तुम ) जिस-जिसको देखते हो, उस-उसके सामने दीन वचन मत बोलों ।
    अर्थात् प्रत्येक से माँगना उचित नहीं होता; क्योंकि प्रत्येक व्यक्ति दानी नहीं होता।
पाठावबोधन-कार्य
निर्देश: – अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत-
(1) एकेन राजहंसेन या शोभा सरसो भवेत् ।
न सा बकसहस्त्रेण परितस्तीरवासिना ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) केन सरसो शोभा भवेत् ?
(ख) बकसहस्रेण कस्य शोभा न भवेत् ?
उत्तरम् –
(क) राजहंसेन,
(ख) सरसः ।
2. पूर्णवाक्येन उत्तरत-
(क) सरसः शोभा केन भवेत् ?
(ख) कीदृशेन बकसहस्त्रेण सरसः शोभा न भवेत् ?
उत्तरम् —
(क) सरसः शोभा एकेन राजहंसेन भवेत् ।
(ख) परितस्तीरवासिना बकसहस्रेण सरसः शोभा न भवेत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘या शोभा सरसो भवेत्’ अत्र ‘या’ सर्वनामपदं कस्यै प्रयुक्तः ?
(ख) ‘या’ इत्यस्मिन् पदे किं वचनं प्रयुक्तम् ?
(ग) श्लोके प्रयुक्तम् एकम् अव्ययपदं किम् ?
(घ) रिक्तस्थानं पूरयत-
सरसः या…………. भवेत्।
उत्तरम् —
(क) शोभायै,
9ख) एकवचनम्,
(ग) परितः,
(घ) शोभा ।
(2) भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस ! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्रे कः सम्बोधित: ?
(ख) निपीतानि कानि ?
(ग) मृणालपटली केन भुक्ता ?
(घ) कस्य कृतोपकारः कर्तुम् कथितः ?
उत्तरम्-
(क) राजहंसः,
(ख) अम्बूनि,
(ग) राजहंसेन,
(घ) सरोवरस्य ।
2. पूर्णवाक्येन उत्तरत-
(क) कः कं निषेवितानि ?
(ख) किं कथितः राजहंसम् ?
उत्तरम् –
(क) राजहंसः नलिनानि निषेवितानि ।
(ख) “वद, तस्य सरोवरस्य, कृतोपकारः भवता केन कृत्येन भवितासि ? ” इति कथितः राजहंसम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘नलिनानि’ इत्यस्य पदस्य लिङ्गनिर्धारणं कुरुत ?
(ख) ‘जलानि’ अस्य पर्यायवाचिपदं लिखत ।
(ग) ‘कृतोपकारः’ इत्यस्य पदस्य सन्धिच्छेदं कुरुत ।
(घ) कृत्येन केन …………. कृतोपकारः । (रिक्तस्थानं पूरयत)
उत्तरम् —
(क) नपुंसकलिङ्गः,
(ख) अम्बूनि,
(ग) कृत + उपकारः,
(घ) भवितासि ।
(3) तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार ! व्यरचि भवता या तरोरस्य पुष्टिः ।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कै: तरोरस्य पुष्टिः व्यरचि ?
(ख) मालाकारः कया तोयैः वृक्षस्य पुष्टिः व्यरचि?
(ग) वारां कः विकिरति ?
उत्तरम्-
(क) तोयै:,
(ख) करुणया,
(ग) वारिदः ।
2. पूर्णवाक्येन उत्तरत-
(क) तरोरस्य पुष्टिः व्यरचि कदा मालाकार : ?
(ख) विश्वतः कान् विकिरति वारिद: ?
(ग) तरोरस्य पुष्टिः केन इह जनयितुं शक्या ?
उत्तरम्—
(क) भीमभानौ निदाघे तरोरस्य पुष्टिः व्यरचि मालाकारः ।
(ख) विश्वतः वारां धारासारान् विकिरति वारिदः ।
(ग) तरोरस्य पुष्टिः प्रावृषेण्येन वारिदेन इह जनयितुं शक्या ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘तोयै: अल्पैः’ अत्र किं विशेषणपदम् ?
(ख) अस्मिन् श्लोके सम्बोधनपदं किम् ?
(ग) ‘तुमुन्’ प्रत्ययान्तपदं चित्वा लिखत ।
(घ) ‘भवता या तरोरस्य पुष्टिः’ अत्र ‘या’ सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम् –
(क) अल्पैः,
(ख) मालाकार,
(ग) जनयितुम्,
(घ) पुष्ट्यै।
(4) आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते ।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) के अम्बरपथम् आपेदिरे ?
(ख) भृङ्गाः कानि समाश्रयन्ते ?
(ग) दीनदीनः कः कथ्यते ?
(घ) सङ्कोचमञ्चति कः ?
उत्तरम् —
(क) पतङ्गाः,
(ख) रसालमुकुलानि,
(ग) मीन:,
(घ) सरः ।
2. पूर्णवाक्येन उत्तरत-
(क) यदा सरः सङ्कोचमञ्चति, तदा पतङ्गाः कमू आपेदिरे ?
(ख) सरः सङ्कोचमञ्चति भृङ्गाः किं कुर्वन्ति ?
(ग) मीनः कदा हन्त ?
उत्तरम् –
(क) यदा सरः सङ्कोचमञ्चति, तदा पतङ्गाः अम्बरपथम् परितः आपेदिरे।
(ख) सरः सङ्कोचमञ्चति भृङ्गाः रसालमुकुलानि समाश्रयन्ते ।
(ग) मीनः सरः सङ्कोचमञ्चते हन्त ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘खगाः’ इति अर्थे अस्मिन् श्लोके किं पदं प्रयुक्तम् अस्ति ?
(ख) ‘सङ्कोचमञ्चति सरस्त्वयि दीनदीनो’ अत्र कर्तृपदं किम् ?
(ग) ‘आपेदिरेऽम्बरपथं परितः पतङ्गाः’ अत्र क्रियापदं प्रयुक्तं किम् ?
(घ) ‘सरस्त्वयि’ अत्र ‘त्वयि’ सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् —
(क) पतङ्गाः,
(ख) सरः,
(ग) आपेदिरे,
(घ) सरसे।
(5) एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम्।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) एक एव मानी खगः कः ?
(ख) कुत्र वसति चातक: ?
(ग) चातकः कं याचते ?
उत्तरम् —
(क) चातकः,
(ख) वने,
(ग) पुरन्दरम्।
2. पूर्णवाक्येन उत्तरत-
(क) चातकः कीदृशः खगः अस्ति ?
(ख) पिपासितः चातकः किं कुरुते ?
उत्तरम् —
(क) चातकः एकः मानी खगः अस्ति ।
(ख) पिपासितः चातकः म्रियते वा पुरन्दरम् वा याचते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘खगो मानी’ अनयोः विशेषणपदं किम् ?
(ख) ‘वने वसति चातकः’ अत्र कर्तुः वचनं किम् ?
(ग) ‘अरण्ये’ अस्य पर्यायवाचिपदम् अत्र प्रयुक्तं किम् ?
(घ) ‘ अथवा ‘ इत्यर्थे किम् अव्ययपदं प्रयुक्तम् ?
उत्तरम् —
(क) मानी,
(ख) एकवचनम्,
(ग) वने,
(घ) वा।
(6) आश्वास्य पर्वतकुलं तपनोष्णतप्त-, 
मुद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद ! सैव तवोत्तमा श्रीः ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) तपनोष्णतप्तम् अत्र किम् ?
(ख) काननानि कः आश्वास्यति ?
(ग) जलतः कान् जलैः पूरयति ?
उत्तरम् —
(क) पर्वतकुलम्,
(ख) जलद:,
(ग) नदीनदशतानि ।
2. पूर्णवाक्येन उत्तरत-
(क) जलदः कीदृशानि काननानि आश्वास्यति ?
(ख) किं कृत्वा जलद : रिक्तः अस्ति ?
(ग) जलदस्य उत्तमा श्रीः का?
उत्तरम् –
(क) जलदः उद्दामदावविधुराणि काननानि आश्वास्यति ।
(ख) नदीनदशतानि (जलैः) पूरयित्वा जलदः रिक्तः अस्ति ।
(ग) पर्वतकुलं काननानि च आश्वास्य, नदीनदशतानि पूरयित्वा जलदः यत् रिक्तः अभवत् सैव तस्य उत्तमा श्रीः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘पर्वतकुलम्’ अस्य पदस्य विशेषणपदं किं प्रयुक्तम् ?
(ख) ‘रहितानि ‘ इत्यर्थे प्रयुक्तं पदं किम् अत्र ?
(ग) ‘रिक्तोऽसि यज्जलद !’ अत्र क्रियापदं किम् ?
(घ) ‘ल्यप्’ प्रत्यययुक्तम् एकं पदं चित्वा लिखत ।
(ङ) ‘सैव’ अस्य पदस्य सन्धिच्छेदं कुरुत ।
उत्तरम् —
(क) तपनोष्णतप्तम्,
(ख) विधुराणि
(ग) असि,
(घ) आश्वास्य,
(ङ) सा + एव।
(7) मेरे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) गगने किं सन्ति ?
(ख) अम्भोदाः काम् आर्द्रयन्ति ?
(ग) कीदृशं वचः मा ब्रूहि ?
(घ) अस्मिन् श्लोके सम्बोधनपदं किम् ?
उत्तरम् —
(क) अम्भोदा:,
(ख) वसुधाम्,
(ग) दीनम्,
(घ) चातक ! ।
2. पूर्णवाक्येन उत्तरत-
(क) कविः चातकं किं कर्तुं कथयति ?
(ख) गगने कीदृशाः अम्भोदाः भवन्ति ?
उत्तरम्-
(क) कविः चातकं सावधानमनसा क्षणं श्रोतुं कथयति ।
(ख) गगने केचिद् अम्भोदा: वृष्टिभिः वसुधाम् आर्द्रयन्ति, केचिद् वृथा गर्जन्ति।
3. निर्देशानुसारम् उत्तरत-
(क) ‘बहव:’ अस्य अव्ययपदस्य विशेष्यपदं किम् ?
(ख) ‘पश्चत:’ अस्य पदस्य विलोमपदं चित्वा लिखत ।
(ग) ‘मा’ अस्य शुद्धम् अर्थं चिनुत-
(i) माता, (ii) माम्, (iii) न हि ।
(घ) ‘मेघाः’ अस्य पर्यायवाचिपदं लिखत ।
उत्तरम् —
(क) अम्भोदाः,
(ख) पुरतः,
(ग) (iii) न हि,
(घ) अम्भोदाः ।
सर्वासाम् अन्योक्तीनाम् अन्वयाः
  1. एकेन राजहंसने सरसः या शोभा भवेत्। परितः तीरवासिना बकसहस्रेण सा (शोभा) न ( भवति ) ।।
  2. यत्र भवता मृणालपटली भुक्ता, अम्बूनि निपीतानि नलिनानि निषेवितानि । रे राजहंस ! तस्य सरोवरस्य केन कृत्येन कृतोप्रकार: भविता असि, वद ।।
  3. हे मालाकार ! भीमभानौ निदाघे अल्पैः तोयैः अपि भवता करुणया अस्य तरोः या पुष्टिः व्यरचि । वाराम् प्रावृषेण्येनं विश्वतः धारासारान् अपि विकिरता वारिदेन इह जनयितुम् सा ( पुष्टि ) किम् शक्या ।।
  4. पतङ्गाः परितः अम्बरपथम् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सङ्कोचम् अञ्चति, हन्त दीनदीन: मीनः नु कतमां गतिम् अभ्युपैतु ।।
  5. एक एव मानी खगः चातकः वने वसति । वा पिपासितः म्रियते पुरन्दरम् याचते वा ।।
  6. तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदीनदशतानि पूरयित्वा च हे जलद ! यत् रिक्तः असि तव सा एव उत्तमा श्रीः ।।
  7. रे रे मित्र चातक ! सावधानमनसा क्षणं श्रूयताम्, गगने हि बहवः अम्भोदाः सन्ति, सर्वे अपि एतादृशाः न (सन्ति) । केचित् धरिणीं वृष्टिभि: आर्द्रयन्ति केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं वचः मा ब्रूहि ।।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) सरसः शोभा केन भवति ?
उत्तरम् — सरसः शोभा एकेन राजहंसेन भवति ।
(ख) चातकः किमर्थं मानी कथ्यते?
उत्तरम् – चातकः वा पिपासितः म्रियते पुरन्दरं याचते वा; अतः सा मानी कथ्यते ।
(ग) मीनः कदा दीनां गतिं प्राप्नोप्ति ?
उत्तरम् — यदा सरः सङ्कोचमञ्चति तदा मीन: दीनां गतिं प्राप्नोति ।
(घ) कानि पूरयित्वा जलदः रिक्तः भवति ?
उत्तरम् – नानानदीनदशतानि पूरयित्वा जलदः रिक्तः भवति ।
(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति ?
उत्तरम् – वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति ।
2. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालाकारः तोयैः तरों: पुष्टि करोति ।
उत्तरम्— मालाकारः कैः तरोः पुष्टि करोति ?
(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते ।
उत्तरम् — भृङ्गाः कानि समाश्रयन्ते ?
(ग) पतङ्गाः अम्बरपथम् आपेदिरे ।
उत्तरम् — के अम्बरपथम् आपेदिरे ?
(घ) जलद : नानानदीनदशतानि पूरयित्वा रिक्तोऽसि ।
उत्तरम् – कः नानानदीनदशतानि पूरयित्वा रिक्तोऽसि ?
(ङ) चातकः वने वसति ।
उत्तरम् – चातकः कुत्र वसति ?
3. अंधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
(अ) तोयैरल्यैरपि ………… वारिदेन ।
उत्तरम् – भावार्थ – हे माली ! आपके द्वारा ग्रीष्मकाल में भयंकर गर्मी में करुणावश (करुणा द्वारा ) थोड़े जल द्वारा भी वृक्षों की जो पुष्टि ( सन्तुष्टि) की जाती है, वह क्या संसार के लिए जलों को धाराप्रवाह रूप में भी बिखेरते ( बरसाते हुए अत्यधिक वर्षा करनेवाले बादल द्वारा इस संसार में पैदा की जा सकती है?
(आ) रे रे चातक …………….. दीनं वचः ।
उत्तरम् – भावार्थ – हे मित्र चातक! सावधान मन से क्षणभर सुनो। आकाश में अनेक बादल रहते हैं, पर सभी ऐसे (उदार) नहीं होते। कुछ तो वर्षा से पृथ्वी को गीला कर देते हैं, ( परन्तु) कुछ व्यर्थ ही गरजते हैं। (अत: तुम ) जिस – जिसको देखते हो, उस-उसके सामने दीन वचन मत बोलो।
अर्थात् प्रत्येक से माँगना उचित नहीं होता; क्योंकि प्रत्येक व्यक्ति दानी नहीं होता ।
4. अधोलिखितयोः श्लोकयोः अन्वय लिखत-
(क) आपेदिरे ………… कतमां गतिमभ्युपैतु ।
(ख) आश्वास्य …………. सैव तवोत्तमा श्रीः।।
उत्तरम् – उपर्युक्त श्लोकों के हिन्दी अन्वय के लिए ‘सर्वासाम् अन्योक्तीनाम् अन्वयाः’ शीर्षक अन्तर्गत क्रमशः क्रमांक (4) एवं (6) देखें।
5. उदाहरणमनुसृत्य सन्धिं / सन्धिविच्छेदं वा कुरुत-
यथा— अन्य + उक्तयः = अन्योक्तयः
(क) ………… + ………… = निपीतान्यम्बूनि
(ख) ………… + उपकार: = कृतोपकार:
(ग) तपन + ………… = तपनोष्णतप्तम्
(घ) तव + उत्तमा = …………
(ङ) न + एतादृशा: = …………
उत्तरम् –
(क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि
(ख) कृतः + उपकारः = कृंतोपकार:
(ग) तपन + उष्णततम् = तपनोष्णतप्तम्
(घ) तव + उत्तमा = तवोत्तमा
(ङ) न + एतादृशा: = नैतादृशाः
(ii) यथा – पिपासितः + अपि = पिपासितोऽपि
(क) ………… + ………… = कोऽपि
(ख) ………… + ………… = रिक्तोऽसि
(ग) मीन: + अयम् = …………
(घ) सर्वे + अपि = …………
उत्तरम् –
(क) कः + अपि = कोऽपि
(ख) रिक्तः + असि = रिक्तोऽसि
(ग) मीन: + अयम् = मीनोऽयम्
(घ) सर्वे + अपि = सर्वेऽपि
(iii) यथा— सरस: + भवेत् = सरसो भवेत्
(क) खगः + मानी = …………
(ख) ………… + नु = मीनो नु
(ग) पिपासितः + वा = …………
(घ) ………… + ………… = पुरतो मा
उत्तरम्-
(क) खगः + मानी = खगो मानी
(ख) मीन: + नु = मीनो नु
(ग) पिपासितः + वा = पिपासितो वा
(घ) पुरतः + मा = पुरतो मा
(iv) यथा – मुनि: + अपि = मुनिरपि
(क) तोयै: + अल्पैः = …………
(ख) ………… + अपि = अल्पैरपि
(ग) तरो : + अपि = …………
(घ) ………… + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति
उत्तरम्-
(क) तोयै: + अल्पैः = तोयैरल्पैः
(ख) अल्पैः + अपि = अल्पैरपि
(ग) तरोः + अपि = तरोरपि
(घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति
6. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि                      समस्तपदानि 
यथा— पीतं च तत् पङ्कजम्      =  पीतपङ्कजम्
(क) राजा च असौ हंस:            = ……………………..
(ख) भीमः च असौ भानुः           = ……………………..
(ग) अम्बरम् एव पन्थाः             = ……………………..
(घ) उत्तमा च इयम् श्रीः            = ……………………..
(ङ) सावधानं च तत् मनः, तेन  = ……………………..
उत्तरम्-
(क) राजा च. असौ हंस:          = राजहंसः
(ख) भीमः च असौ भानुः         = भीमभानुः
(ग) अम्बरम् एव पन्थाः            = अम्बरपन्थाः
(घ) उत्तमा च इयम् श्रीः           = उत्तमाश्रीः
(ङ) सावधानं च तत् मन:, तेन = सावधानमनसा
7. उदाहरणमनुसृत्य निम्नलिखिताभिः धातुभिः सह यथानिर्दिष्टान् प्रत्ययान् संयुज्य शब्दरचनां कुरुत-
यथा-
धातुः क्त्वा क्तवतु तव्यत् अनीयर्
(क) पठ् पठित्वा पठितवान् पठितव्यः पठनीयः
(ख) गम्
(ग) लिख्
(घ) कृ
(ङ) ग्रह्
(च) नी
उत्तरम् —
धातुः क्त्वा क्तवतु तव्यत् अनीयर्
(क) पठ् पठित्वा पठितवान् पठितव्यः पठनीयः
(ख) गम् गत्वा गतवान् गन्तव्यः गमनीयः
(ग) लिख् लिखित्वा लिखितवान् लिखितव्यः लेखनीयः
(घ) कृ कृत्वा कृतवान् कर्त्तव्यः करणीयः
(ङ) ग्रह् गृहीत्वा गृहीतवान् गृहीतव्यः ग्रहणीयः
(च) नी नीत्वा नीतवान् नेतव्यः नयनीयः

Leave a Reply

Your email address will not be published. Required fields are marked *