UK Board 10th Class Sanskrit – Chapter 2 बुद्धिर्बलवती सदा
UK Board 10th Class Sanskrit – Chapter 2 बुद्धिर्बलवती सदा
UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 2 बुद्धिर्बलवती सदा
[ पाठ- परिचय – ‘शुकसप्ततिः’ संस्कृत कथा-साहित्य की परवर्ती रचना है। इसमें एक सुग्गे ( शुक – Parrot) के द्वारा एक अकेली स्त्री को मन लगाने के लिए रोचक कथाएँ कही गई हैं। प्रस्तुत पाठ इसी ‘शुकसप्ततिः’ नामक कथाग्रन्थ से सम्पादित कर लिया गया है। इसमें अपने दो छोटे-छोटे पुत्रों के साथ जंगल के मार्ग से पिता के घर जा रही बुद्धिमती नामक नारी के बुद्धिकौशल को दिखाया गया है। वह अपने सामने आए हुए शेर को डराकर भगा देती है। इसी प्रकार इस कथाग्रन्थ में नीतिनिपुण शुक और सारिका की कहानियों के द्वारा अप्रत्यक्ष रूप से सद्वृत्ति का विकास कराने का प्रयत्न किया गया है। ]
समस्त पाठ का हिन्दी-अनुवाद
देउल नामक ग्राम है। वहाँ राजसिंह नाम का राजपूत रहता था। एक बार किसी आवश्यक कार्य से इसकी पत्नी बुद्धिमती दो पुत्रों के साथ पिता के घर को चली। मार्ग में घने वन में उसने एक बाघ देखा। वह बाघ को आता हुआ देखकर ढिठाई से पुत्रों को चाँटों से मारकर बोली – “क्यों एक-एक बाघ को खाने के लिए झगड़ा कर रहे हो? यह एक है तो बाँटकर खा लो। बाद में अन्य कोई दूसरा ढूँढा जाएगा।”
ऐसा सुनकर, यह कोई व्याघ्रमारी ( बाघ को मारनेवाली) है, मानकर भय से व्याकुल चित्तवाला बाघ भाग गया।
वह रूपवती स्त्री अपनी बुद्धि के द्वारा बाघ के भय से मुक्त हो गई। संसार में दूसरे बुद्धिमान् भी अत्यधिक (बड़े) भय से ( इस उपाय द्वारा) मुक्त कराए गए हैं।
भय से व्याकुल बाघ को देखकर कोई दुष्ट सियार ( गीदड़ ) हँसता हुआ बोला- “ आप भय से कहाँ भागे जाते हैं?”
बाघ – जाओ गीदड़ ! तुम भी किसी गुप्तस्थान में जाओ । क्योंकि व्याघ्रमारीं, जो शास्त्रों में सुनी जाती है, उसके द्वारा मैं मारने के लिए हमला किया गया, परन्तु जान हथेली पर रखकर उसके सामने से शीघ्र भाग गया।
गीदड़ – बाघ ! तुम्हारे द्वारा आश्चर्य की बात कही गई है कि तुम मनुष्य से भी डर गए हो?
बाघ – वह सामने ही मेरे द्वारा अपने दोनों पुत्रों को एक-एक करके मुझे खाने के लिए झगड़ते हुओं को चाँटों से पीटती हुई देखी गई है। अर्थात् मैंने उसे अपनी आँखों से देखा है कि वह एक-एक करके मुझको खाने के लिए झगड़ा करते दोनों पुत्रों को चाँटों से मार रही थी।
गीदड़ – स्वामि ! जहाँ वह दुष्टा है, वहाँ चलो। बाघ ! यदि तुम्हारे फिर वहाँ गए हुए के सामने वह दिखती ( पड़ती है तो तुम्हारे द्वारा मुझे मार दिया जाना चाहिए।
बाघ – गीदड़ ! यदि तुम मुझको छोड़कर चले गए, (तब उस समय) भी शर्त होगी।
गीदड़ – यदि ऐसा है तो मुझको अपने गले में बाँधकर शीघ्र चलो। वह बाघ वैसा करके वन में गया। गीदड़सहित बाघ को फिर से आया देखकर दूर से वह बुद्धिमती सोचने लगी — गीदड़ से उकसाए बाघ से छुटकारा कैसे हो? परन्तु हाजिरजवाब ( प्रत्युत्पन्नमति ) वह उँगली उठाकर गीदड़ को फटकारती हुई बोली-
अरे धूर्त! पहले तेरे द्वारा मुझे तीन बाघ दिए गए थे। विश्वास दिलाकर भी आज एक लेकर क्यों आए हो, अब बताओ। ऐसा कहकर भयंकर व्याघ्रमारी तेजी से (शीघ्रता) से दौड़ी। गले में गीदड़ बँधा बाघ भी ‘अचानक भाग गया।
इस प्रकार बुद्धिशालिनी ( वह) दुबारा भी बाघ के भय से मुक्त हो गई। इसलिए ही कहा गया है— हे सुन्दरी! सदैव सब कार्यों में बुद्धि बलशालिनी है।
पाठावबोधन-कार्य
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-
(1) अस्ति देउलाख्यो ग्रामः । तत्र राजसिंहः नाम राजपुत्रः वसतिस्म । एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं चलिता । मार्गे गहनकानने सा एकं व्याघ्रं ददर्श । सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्टर्यात् पुत्रौ चपेटया प्रहृत्य जगाद – ” कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम् । पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते । ” इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः ।
निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी ।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥
भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह- ‘भवान् कुतः भयात् पलायितः ?”
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) देउलाख्यः कः वसतिस्म?
(ख) पितुर्गृहं का चलिता ?
(ग) बुद्धिमती कं ददर्श ?
(घ) कीदृशः व्याघ्रः नष्टः ?
(ङ) व्याघ्रं दृष्ट्वा क: हसन्नाह?
उत्तरम् – (क) राजसिंह:,
(ख) बुद्धिमती,
(ग) व्याघ्रम्,
(घ) भयाकुलचित्तः,
(ङ) शृगालः।
2. पूर्णवाक्येन उत्तरत-
(क) आगच्छन्तं व्याघ्रं दृष्ट्वा बुद्धिमती किम् अकरोत् ?
(ख) पुत्रौ चपेटया प्रहृत्य बुद्धिमती किं जगाद ?
(ग) किं मत्वा भयाकुलचित्तः व्याघ्रः नष्ट : ?
(घ) सा भामिनी केन कस्मात् चं विमुक्ता ?
(ङ) धूर्त: शृगालः व्याघ्रं किमाह ?
उत्तरम्— (क) आगच्छन्तं व्याघ्रं दृष्ट्वा बुद्धिमती धाष्टर्यात् पुत्रौ चपेटया प्रहृत्य जगाद ।
(ख) पुत्रौ चपेटया प्रहृत्य बुद्धिमती जगाद – “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ : ? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।”
(ग) व्याघ्रमारी काचिदियमिति मत्वा भयाकुलचित्तः व्याघ्रः नष्टः ।
(घ) सा भामिनी निजबुद्ध्या व्याघ्रस्य भयात् विमुक्ता ।
(ङ) धूर्त: शृगालः व्याघ्रम् आह— “भवान् कुतः भयात् पलायितः ?”
3. निर्देशानुसारम् उत्तरत-
(क) ‘राज्ञः पुत्रः’ इत्यर्थे किं पदम् अत्र प्रयुक्तम् ।
(ख) ‘चलिता’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) ‘वने’ इत्यस्य पदस्य पर्यायवाचिपदं गद्यांशात् चित्वा लिखत |
(घ) ‘भयाकुलचित्तः’ इत्यस्य पदस्य विशेष्यंपदं किम् ।
(ङ) ‘बुद्धिमाँल्लोके’ इति पदस्य सन्धिच्छेदं कुरुत ।
उत्तरम् – (क) राजपुत्रः,
(ख) क्त,
(ग) कानने।
(घ) व्याघ्र:,
(ङ) बुद्धिमान् + लोके ।
(2) व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः ।
शृगालः – व्याघ्र ! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा ।
जम्बुकः– स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम् । व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति ।
व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात् ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) का शास्त्रे श्रूयते?
(ख) कया प्रहरन्ती व्याघ्रमारी दृष्टा ?
(ग) व्याघ्रः कुत्र गन्तुं कथयति ?
उत्तरम् —
(क) व्याघ्रमारी,
(ख) चपेटया
(ग) गूढप्रदेशम्।
2. पूर्णवाक्येन उत्तरत-
(क) हन्तुमारब्धः व्याघ्रः किं कृतः ?
(ख) व्याघ्रेण कीदृशौ पुत्रौ प्रहरन्ती व्याघ्रमारी दृष्टा ?
(ग) जम्बुकः व्याघ्रं प्रति कः समयः प्रस्तुतः ?
(घ) शङ्कितः व्याघ्रः जम्बुकं किम् अकथयत् ?
उत्तरम् — (क) हन्तुमारब्धः व्याघ्रः गृहीतकरजीवितः नष्टः ।
(ख) व्याघ्रेण एकैकशः तम् अत्तुं कलहायमानौ पुत्रौ प्रहरन्ती व्याघ्रमारी दृष्टा ।
(ग) जम्बुकः व्याघ्रं प्रति अयं समयः प्रस्तुतः – ” तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः” इति ।
(घ) शङ्कितः व्याघ्रः जम्बुकम् अकथयत् — “यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात् । “
3. निर्देशानुसारम् उत्तरत-
(क) ‘कलहायमानौ’ इति पदं कस्य विशेषणम् ?
(ख) ‘सत्वरम्’ इति स्थाने किम् अव्ययपदमत्र प्रयुक्तम् ?
(ग) ‘ त्वया अहं हन्तव्यः’ अत्र ‘अहम्’ इति सर्वनामपदं कस्य स्थाने प्रयुक्तम् ?
(घ) ‘यासि’ इति क्रियापदस्य कर्त्ता क: ?
उत्तरम् – (क) पुत्रौ,
(ख) शीघ्रम्,
(ग) जम्बूकस्य,
(घ) त्वम् (शृगालः ) ।
(3) जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम् । स व्याघ्रः तथाकृत्वा काननं ययौ । शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती – जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्दयुवाच-
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
विश्वास्यद्यैकमानीय कथं यासि वदाधुना ॥
इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा ।
व्याघ्रोऽपि सहसा नष्टः गलबद्ध शृगालकः ॥
एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्। अत एव उच्यते-
बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र जम्बुककृतोत्साहितः कः ?
(ख) प्रत्युत्पन्नमतिः कः अस्ति ?
(ग) कीदृशः व्याघ्रः अपि सहसा नष्टः ?
(घ) सर्वकार्येषु का बलवती ?
उत्तरम् – (क) व्याघः
(ख) व्याघ्रमारी ( बुद्धिमती)
(ग) गलबद्ध शृगालकः,
(घ) बुद्धिः ।
2. पूर्णवाक्येन उत्तरत-
(क) किं दृष्ट्वा बुद्धिमती चिन्तितवती ?
(ख) बुद्धिमती किं चिन्तितवती ?
(ग) किम् उक्त्वा व्याघ्रमारी तूर्णं धाविता?
(घ) बुद्धिमती पुनः कस्मात् मुक्ताऽभवत्?
उत्तरम्- (क) शृगालेन सहितं पुनरायान्तं व्याघ्रं दृरात् दृष्ट्वा बुद्धिमती चिन्तितवती ।
(ख) बुद्धिमती चिन्तितवती – “जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ?”
(ग) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना ।।
– इति उक्त्वा व्याघ्रमारी तूर्णं धाविता ।
(घ) बुद्धिमती पुनः व्याघ्रजाद् भयात् मुक्ताऽभवत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘स: व्याघ्र: तथाकृत्वा काननं ……….. । (क्रियापदेन पूरयत)
(ख) ‘पुनरायान्तम्’ अस्य विशेष्यपदं किं प्रयुक्तम् ?
(ग) ‘प्रत्युत्पन्नमतिः’ अस्य पदस्य क्रियापदं किम् ?
(घ) ‘सम्प्रति’ इति अव्ययस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
उत्तरम् — (क) ययौ,
(ख) व्याघ्रम्,
(ग) तर्जयन्त्युवाच,
(घ) अधुना ।
श्लोकानाम् अन्वयाः
(1) सा भामिनी निजबुद्ध्या व्याघ्रस्य भयाद् विमुक्ता । लोके अन्योऽपि बुद्धिमान् महतः भयात् मुच्यते ।
(2) रे रे धूर्त! त्वया मह्यं पुरा व्याघ्रत्रयं दत्तम् । विश्वास्य (अपि) अद्य एकम् आनीय कथं यासि इति अधुना वद ।
(3) इति उक्त्वा भयङ्करा व्याघ्रमारी तूर्णं धाविता । गलबद्धशृगालकः व्याघ्रः अपि सहसा नष्टः ।
(4) अन्तिम पंक्ति का अन्यय – हे तन्वि ! सर्वदा सर्वकार्येषु बुद्धिर्बलवती ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?
उत्तरम् – बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
(ख) व्याघ्रः किं विचार्य पलायितः ?
उत्तरम् – व्याघ्रमारी काचिदियमिति विचार्य व्याघ्रः पलायितः ।
(ग) लोके महतो भयात् कः मुच्यते ?
उत्तरम् – बुद्धिमान् लोके महतो भयात् मुच्यते ।
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति ?
उत्तरम्—“भवान् कुतः भयात् पलायितः । ” इति वदन् जम्बुकः व्याघ्रस्य उपहासं करोति ।
(ङ) बुद्धिमती शृगालं किम् उक्तवती ?
उत्तरम् – बुद्धिमती शृगालम् उक्तवती-
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना ।।
2. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र राजसिंहो नाम राजपुत्रः वसतिस्म ।
उत्तरम् — तत्र कः नाम राजपुत्रः वसतिस्म ?
(ख) बुद्धिमती चपेटया पुत्रौ प्रहतवती ।
उत्तरम् – बुद्धिमती कया पुत्रौ प्रहतवती ?
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।
उत्तरम् — कं दृष्ट्वा धूर्त: शृगालः अवदत् ?
(घ) त्वं मानुषात् बिभेषि ।
उत्तरम् — त्वं कस्मात् बिभेषि ?
(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तरम् – पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम् ?
3. अधोलिखितानि वाक्यानि घटनाक्रमानुसार योजयत-
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच ।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत् ।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच – अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(छ) `त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान् ।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः ।
उत्तरम् –
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच – अधुना एकमेव व्याघ्रं विभज्य भुज्यत ।
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(ख) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
(छ) ‘त्वं व्याघ्रत्रयम् आनयितुं’ प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः ।
4. सन्धिं / सन्धि विच्छेदं वा कुरुत-
(क) पितुर्गृहम् = …………. + ………….
(ख) एकैक: = …………. + ………….
(ग) …………. = अन्यः + अपि
(घ) …………. = इति + उक्त्वा
(ङ) …………. = यत्र + आस्ते
उत्तरम् –
(क) पितुर्गृहम् = पितुः + गृहम्
(ख) एकैक: = एक + एक:
(ग) अन्योऽपि = अन्यः + अपि
(घ) इत्युक्त्वा = इति + उक्त्वा
(ङ) यत्रास्ते = यत्र + आस्ते
5. अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) ददर्श — (दर्शितवान्, दृष्टवान्)
(ख) जगाद — (अकथयत्, अगच्छत्)
(ग) ययौ — ( याचितवान्, गतवान् )
(घ) अत्तुम् — (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते — (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते — (पश्यति, इच्छति )
उत्तरम् —
(क) ददर्श — दृष्ट्वान्
(ख) जगाद — अकथयत्
(ग) ययौ — गतवान्
(घ) अत्तुम् — खादितुम्
(ङ) मुच्यते — मुक्तो भवति
(च) ईक्षते — पश्यति
6. (अ) पाठात् चित्वा पर्यायपदं लिखत-
(क) वनम् — ……………
(ख) शृगालः — ……………
(ग) शीघ्रम् — ……………
(घ) पत्नी — ……………
(ङ) गच्छसि — ……………
उत्तरम् –
(क) वनम् — काननम्
(ख) शृगालः — जम्बुक:
(ग) शीघ्रम् — सत्वरम्
(घ) पत्नी — भार्या
(ङ) गच्छसि — यासि ।
(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत-
(क) प्रथमः — ……………
(ख) उक्त्वा — ……………
(ग) अधुना — ……………
(घ) अवेला — ……………
(ङ) बुद्धिहीना — ……………
उत्तरम्- पदम् विपरीतार्थकं पदं
(क) प्रथम: — द्वितीय:
(ख) उक्त्वा — श्रुत्वा
(ग) अधुना — पुरा
(घ) अवेला — वेला
(ङ) बुद्धिहीना — बुद्धिमती |