UK Board 10th Class Sanskrit – Chapter 6 सुभाषितानि
UK Board 10th Class Sanskrit – Chapter 6 सुभाषितानि
UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 6 सुभाषितानि
[ पाठ परिचय – प्रस्तुत पाठ में विभिन्न संस्कृत-ग्रन्थों से दस सुभाषितों का संकलन किया गया है। इन सुभाषितों में परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं की उपादेयता और बुद्धि की विशेषता आदि जीवनोपयोगी जीवन मूल्यों का वर्णन है। इन्हें जीवन में उतारकर व्यक्ति न केवल अपना, बल्कि प्राणिमात्र का कल्याण कर सकता है।]
समस्त पाठ का हिन्दी- भावानुवाद
- आलस्य मनुष्यों के शरीर में स्थित महान् शत्रु है। परिश्रम के समान बन्धु नहीं है, जिसको करके (मनुष्य) दुःखी नहीं होता है।
- गुणवान् गुण को जानता है, निर्गुणी (गुण) को नहीं जानता । बलवान् बल को जानता है, निर्बल (कमजोर बल को) नहीं जानता है। कोयल वसन्त के गुण को जानती है, न कि कौआ । हाथी, सिंह के बल को जानता है, न कि चूहा।
- जो कारण को उद्देश्य करके अत्यधिक क्रोध करता है, वह उसके समाप्त हो जाने पर निश्चित रूप से प्रसन्न होता है। जिसका मन बिना कारण के द्वेष करनेवाला होता है, उसको व्यक्ति कैसे सन्तुष्ट करेगा।
- पशुओं के द्वारा भी कहा हुआ अर्थ ग्रहण किया जाता है; हाथी और घोड़े बताए हुए निर्धारित (भार) को ढोते हैं, विद्वान् व्यक्ति बिना कहे भी अनुमान लगाता है, बुद्धिमान् दूसरों के सङ्केतजन्य ज्ञानरूपी फलवाले होते हैं। अर्थात् बुद्धिमान् तो दूसरों के सङ्केतों से ही ज्ञान प्राप्त कर लेते हैं।
- मनुष्यों के शरीर नाश के लिए प्रथम शत्रु शरीर में स्थित क्रोध है। जिस प्रकार लकड़ी में स्थित अग्नि लकड़ी को ही जलाती है ( उसी प्रकार शरीर में स्थित क्रोध) शरीर को जला डालता है।
- हिरन – हिरनों के साथ, गायें गायों के साथ और घोड़े घोड़ों के साथ उनके पीछे-पीछे घूमते हैं। मूर्ख मूर्खों के साथ और बुद्धिमान् बुद्धिमानों के साथ घूमते हैं। एकसमान आचरण और स्वभाववालों में (ही) मित्रता होती है।
- फल और छाया से युक्त महावृक्ष का आश्रय लेना चाहिए। दुर्भाग्य से यदि फल नहीं (आता) है (तो) वृक्ष की छाया किसके द्वारा रोकी जाती है।
- मननहीन अर्थात् अविवेकी को (समझाने योग्य कोई) अक्षर नहीं है, जिस पर कोई वस्तु प्रभाव न डालती हो (लाइलाज अर्थात् मूर्ख हो, उस पर प्रभाव डालने अथवा समझाने अथवा उसकी समस्याओं को सुलझाने के लिए) उसका उपाय / निदान / औषधि अथवा जड़ नहीं है, अयोग्य अथवा निरर्थक अथवा उद्देश्यहीन पुरुष (कहलाने योग्य) नहीं है, वहाँ जोड़नेवाला अर्थात् ऐसे लोगों में समन्वय स्थापित करनेवाला दुर्लभ है।
विशेष- वेद, नीति अर्थात् उचित-अनुचित के विषय में सोचनेवाली स्थिति को अमन्त्र कहा जाता है। मृढ़ अर्थात् मूर्ख को अनौषध ( लाइलाज ) कहा गया है; क्योंकि उस पर किसी, भी समझानेवाली बात का कोई असर उसी प्रकार नहीं होता, जिस प्रकार लाइलाज व्यक्ति पर कोई जड़ (दवा, जड़ी-बूटी) असर नहीं दिखाती। निरर्थक, सार अथवा उद्देश्यहीन को अयोग्य कहा जाता है; संसार में वही व्यक्ति वास्तव में पुरुष कहलाने का अधिकारी है, जिसके जीवन का कोई उद्देश्य है।
- महापुरुषों में सुख और दुःख में एकरूपता होती है अर्थात् महापुरुष सुख-दुःख दोनों स्थितियों में एकसमान रहते हैं, वे सुख में न तो प्रसन्न होते हैं और न दुःख में दुःखी होते हैं। उनकी यह एकरूपता सूर्य के समान होती है। जैसे सूर्य उदयकाल में लाल होता है वैसे (ही) अस्तकाल में (भी) लाल होता है।
- (इस) अद्भुत संसार में निश्चय ही कोई (वस्तु) निरर्थक नहीं है। घोड़ा यदि दौड़ने में वीर है तो भार को ढोने में गधा वीर है।
पाठावबोधन-कार्य
निर्देश:- अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत-
(1) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र किम् महान् रिपुः कथ्यते ?
(ख) आलस्यं केषां रिपुः अस्ति ?
(ग) अत्र बन्धुः कः ?
(घ) केन समः बन्धुः नास्ति ?
उत्तरम्-
(क) आलस्यम्,
(ख) मनुष्याणाम्,
(ग) उद्यमः,
(घ) उद्यमेन ।
2. पूर्णवाक्येन उत्तरत-
(क) आलस्यं कीदृशः रिपुः अस्ति ?
(ख) किं कृत्वा मनुष्यः नावसीदति ?
उत्तरम् —
(क) आलस्यं मनुष्याणां शरीरस्थः महान् रिपुः ।
(ख) उद्यमं कृत्वा मनुष्यः नावसीदति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘शरीरस्थः’ अस्य पदस्य विशेष्यपदं किम् ?
(ख) ‘नास्ति’ अस्य क्रियापदस्य कर्त्ता क: ?
(ग) ‘अनालस्यम्’ अस्य विलोमपदं किं प्रयुक्तं श्लोके ?
(घ) रिक्तस्थानं पूरयत-
यं कृत्वा न ………. | (क्रियापदं लिखत )
उत्तरम् –
(क) रिपुः,
(ख) बन्धुः,
(ग) आलस्यम्,
(घ) अवसीदति।
(2) गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) गुणं क: वेत्ति ?
(ख) निर्बलः किं न वेत्ति ?
(ग) कस्य गुणं वेत्ति पिक: ?
(घ) कस्य बल न वेत्ति मूषकः ।
उत्तरम् –
(क) गुणी,
(ख) गुणम्,
(ग) वसन्तस्य,
(घ) सिंहस्य |
2. पूर्णवाक्येन उत्तरत-
(क) बलं क: वेत्ति कः न वेत्ति ?
(ख) वायसः कस्य गुणं न वेत्ति ?
(ग) सिंहस्य बलं कः न वेत्ति, क: वेत्ति च ?
उत्तरम् —
(क) बलं बली वेत्ति, निर्बलः न वेत्ति ।
(ख) वायसः वसन्तस्य गुणं न वेत्ति ।
(ग) सिंहस्य बलं मूषकः न वेत्ति, करी च वेत्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘गुणी’ इति पदस्य विलोमपदं किम् अत्र प्रयुक्तम् ?
(ख) ‘कोकिलः’ इति पदस्य पर्यायवाचिपदं श्लोकात् चित्वा लिखत ।
(ग) ‘जानाति’ इत्यर्थे किं क्रियापदम् अत्र प्रयुक्तम् अस्ति ?
उत्तरम् —
(क) निर्गुणः,
(ख) पिक:,
(ग) वेत्ति ।
(3) निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) व्यक्तिः किम् उद्दिश्य प्रकुप्यति ?
(ख) तस्यापगमे स किं करोति ?
(ग) कः न परितोषयिष्यति ?
उत्तरम् —
(क) निमित्तम्,
(ख) प्रसीदति,
(ग) अकारणद्वेषि।
2. पूर्णवाक्येन उत्तरत-
(क) व्यक्तिः कदा प्रसीदति ?
(ख) अकारणद्वेषि मन: यस्य सः जनः किं न अनुभवति ?
उत्तरम् –
(क) कोपस्य निमित्तम् अपगमे व्यक्तिः प्रसीदति ।
(ख) अकारणद्वेषि मन: यस्य सः जनः न परितोषयति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कारणम्’ इत्यर्थे किं पदं श्लोके प्रयुक्तम् ?
(ख) ‘प्रकुप्यति’ इत्यस्य क्रियापदस्य विलोमपदं किम् ?
उत्तरम् –
(क) निमित्तम्,
(ख) प्रसीदति ।
(4) उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः ।
अनुक्तमप्यूहति पण्डितोजन:,
परेङ्गितज्ञानफला हि बुद्धयः ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) केनापि उदीरितोऽर्थः गृह्यते ?
(ख) हया: के वहन्ति ?
(ग) कः अनुक्तमप्यूहति ?
(घ) परेङ्गितज्ञानफलाः के?
उत्तरम् —
(क) पशुनापि,
(ख) बोधिताः,
(ग) पण्डितजन:,
(घ) बुद्धयः ।
2. पूर्णवाक्येन उत्तरत-
(क) पशुना कः गृह्यते ?
(ख) बोधिताः के के वहन्ति ?
(ग) किम् ऊहति पण्डितजन : ?
(घ) बुद्धयः कीदृशाः भवन्ति ?
उत्तरम् –
(क) पशुनापि उदीरितोऽर्थः गृह्यते ।
(ख) बोधिता : हयाश्च: नागाश्च वहन्ति ।
(ग) अनुक्तम् ऊहति पण्डितजनः ।
(घ) बुद्धयः परेङ्गितज्ञानफलाः भवन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अश्वा:’ इति पदस्य पर्यायपदं किम् ?
(ख) ‘अनुक्तमप्यूहति पण्डितोजनः’ अत्र क्रियापदं किम् ?
(ग) श्लोकात् उचितपदद्वयं चित्वा रिक्तस्थानपूर्ति कुरुत-
हयाश्च नागाश्च ………. बोधिताः ।
(घ) ‘उदीरितोऽर्थः पशुनापि गृह्यते’ अत्र प्रयुक्तः अव्ययः कः ?
उत्तरम् —
(क) हया:,
(ख) ऊहति,
(ग) वहन्ति,
(घ) अपि ।
(5) क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय ।
यथास्थितः काष्ठगतो हि वह्निः
स एव वह्निर्दहते शरीरम् ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) नराणां प्रथमः शत्रुः कः ?
(ख) वह्निः कुत्र स्थित: ?
(ग) क्रोधः कं दहते?
उत्तरम् —
(क) क्रोध:,
(ख) काष्ठगतः,
(ग) शरीरम् ।
2. पूर्णवाक्येन उत्तरत-
(क) क्रोधः नराणां कीदृशः शत्रुः ?
(ख) क्रोधः कस्मै भवति ?
(ग) कः दहते शरीरम् ?
उत्तरम् —
(क) क्रोधः नराणां देहस्थितः प्रथमः शत्रुः ।
(ख) क्रोध: देहविनाशनाय भवति ।
(ग) क्रोध: दहते शरीरम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘देहस्थितः’ अस्य पदस्य विशेष्यपदं किम् ?
(ख) ‘नष्टार्थम्’ इत्यर्थे किं पदं श्लोके प्रयुक्तम् ?
(ग) ‘स्थितः’ अत्र प्रयुक्तः प्रत्ययः कः ?
उत्तरम् —
(क) क्रोधः
(ख) विनाशनाय,
(ग) क्त।
(6) मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खे: सुधियः सुधीभिः,
समान – शील- व्यसनेषु सख्यम् ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) मृगैः सङ्गम् के अनुव्रजन्ति ?
(ख) सुधियः काभिः सह अनुव्रजन्ति ?
(ग) समान – शील- व्यसनेषु किं भवति ?
उत्तरम् —
(क) मृगाः,
(ख) सुधीभि:,
(ग) सख्यम्।
2. पूर्णवाक्येन उत्तरत-
(क) के कै: सङ्गमनुव्रजन्ति ?
(ख) सख्यम् केषु भवति ?
उत्तरम् —
(क) मृगा मृगैः, गाव: गोभि:, तुरगाः तुरङ्गैः, मूर्खाः मूर्खे: सुधियः सुधीभिः च सङ्गमनुव्रजन्ति ।
(ख) सख्यम् समान-शील – व्यसनेषु भवति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अनुसरणं कुर्वन्ति’ इत्यर्थे किं क्रियापदं श्लोके प्रयुक्तम् ?
(ख) ‘पण्डिताः’ इत्यस्य विलोमपदं श्लोकात् चित्वा लिखत ।
(ग) ‘अश्वैः’ इत्यस्य पर्यायपदं किं प्रयुक्तम् ?
उत्तरम् —
(क) अनुव्रजन्ति,
(ख) मूर्खा:,
(ग) तुरगैः ।
(7) सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) सेवितव्यः कः ?
(ख) दैवात् किं नास्ति ?
(ग) का न निवार्यते ?
उत्तरम् —
(क) महावृक्ष:,
(ख) फलम्,
(ग) छाया।
2. पूर्णवाक्येन उत्तरत-
(क) कीदृशेषु वृक्षः सेवितव्यः ?
(ख) महावृक्षः कथं सेवितव्यः ?
उत्तरम् –
(क) फलच्छायासमन्वितः महावृक्षः सेवितव्यः ।
(ख) महावृक्षः सेवितव्यः यतः यदि दैवात् फलं नास्ति, तर्हि छाया केनापि न निवार्यते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘सेवितव्यः’ अस्मिन् पदे कः प्रत्ययः प्रयुक्तः ?
(ख) ‘महावृक्षः फलच्छायासमन्वितः ‘ अत्र विशेषणपदं किम् ?
(ग) अत्र ‘निवार्यते’ इति क्रियापदस्य कः कर्त्ता ?
(घ) ‘दैवात्’ अस्मिन् पदे प्रयुक्ता विभक्तिः का?
उत्तरम् —
(क) तव्यत्,
(ख) फलच्छायासमन्वितः,
(ग) छाया,
(घ) पञ्चमी ।
(8) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) अक्षरं कं नास्ति ?
(ख) पुरुषः कः नास्ति ?
(ग) तत्र दुर्लभः कः ?
उत्तरम्-
(क) अमन्त्रम्,
(ख) अयोग्यः,
(ग) योजकः ।
2. पूर्णवाक्येन उत्तरत-
(क) अनौषधम् किम् नास्ति ?
(ख) कीदृश: योजकः दुर्लभः ?
उत्तरम्-
(क) अनौषधं मूलं नास्ति ।
(ख) अमन्त्रम्, अनौषधम् अयोग्यं पुरुषं योजकः दुर्लभः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘न औषधम्’ अत्र समासं कुरु ।
(ख) ‘योजक:’ इत्यस्य पदस्य क्रियापदं किम् ?
(ग) रिक्तस्थानं पूरयत-
योजक: …….. दुर्लभः ।
उत्तरम् —
(क) अनौषधम्,
(ख) अस्ति,
(ग) तत्र ।
(9) संपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) केषाम् एकरूपता भवति ?
(ख) क: उदये रक्तः ?
(ग) अस्तमये कीदृशः भवति सविता ?
उत्तरम् –
(क) महताम्,
(ख) सविता,
(ग) रक्तः ।
2. पूर्णवाक्येन उत्तरत-
(क) कस्मिन् काले महताम् एकरूपता ?
(ख) सविता रक्तः कदा भवति ?
उत्तरम् —
(क) सम्पत्तौ विपत्तौ च महताम् एकरूपता ।
(ख) सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘संपत्तौ ‘ अस्मिन् पदे का विभक्तिः प्रयुक्ता ?
(ख) ‘विपत्तौ’ अस्य विलोमपदं किमत्र प्रयुक्तम् ?
(ग) ‘रक्तः’ अस्य पदस्य श्लोके कः अर्थः-
अरुण:, रुधिरः, नीलः ।
उत्तरम् —
(क) सप्तमी,
(ख) सम्पत्तौ,
(ग) अरुण: ।
(10) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) संसारः कीदृशः अस्ति ?
(ख) धावने वीरः कः ?
(ग) कस्य वहने खर: वीर : ?
उत्तरम् —
(क) विचित्र:,
(ख) अश्व:,
(ग) भारस्य ।
2. पूर्णवाक्येन उत्तरत-
(क) विचित्रे संसारे किं निरर्थकं नास्ति ?
(ख) अश्वः कस्मिन् वीरः अस्ति ?
(ग) भारस्य वहने कः वीरः अस्ति ?
उत्तरम्—
(क) विचित्रे संसारे किञ्चित् निरर्थकं नास्ति ।
(ख) अश्वः धावने वीरः अस्ति ।
(ग) भारस्य वहने खरः वीरः अस्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘लोके’ अस्य कः पर्यायः अत्र प्रयुक्तः ?
(ख) ‘यदि’ इत्यर्थे कः अव्ययः श्लोके प्रयुक्तः ?
(ग) ‘विचित्रे संसारे ‘ अनयोः किं विशेषणम् ?
(घ) ‘सार्थकम्’अस्य विलोमपदं श्लोकात् चित्वा लिखत।
उत्तरम् —
(क) संसारे,
(ख) चेत्,
(ग) विचित्रे,
(घ) निरर्थकम्।
श्लोकानाम् अन्वयाः
- मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्। उद्यमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्य) न अवसीदति ।
- गुणी गुणं वेत्ति, निर्गुण: (गुणं) न वेत्ति, बली बलं वेत्ति, निर्बल: (बलं) न वेत्ति, वसन्तस्य गुणं पिक: (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं करी (वेत्ति), मूषक: न।
- यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुवं प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) तं जनः कथं परितोषयिष्यति ।
- पशुना अपि उदीरितः अर्थः गृह्यते, हयाः नागा: च बोधिताः (भारं) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति ।
- नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः क्रोधः । यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते ( तथैव शरीरस्थः क्रोधः ) शरीरं दहते।
- मृगाः मृगैः सह, गावश्च गोभिः सह, तुरगाः तुरङ्गैः सह, मूर्खा: मूखै: सह, सुधियः सुधीभिः सह अनुव्रजन्ति। समानशीलव्यसनेषु सख्यम् (भवति)।
- फलच्छाया समन्वितः महावृक्षः सेवितव्यः । दैवात् यदि फलं नास्ति (वृक्षस्य ) छाया केन निवार्यते ।
- अमन्त्रम् अक्षरं नास्ति, अनौषधं मूलं नास्ति, अयोग्यः पुरुष: नास्ति, तत्र योजकः दुर्लभः ।
- महतां संपत्तौ विपत्तौ च एकरूपता भवति । यथा – सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति ।
- विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीर: ) अस्ति ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धु नास्ति ?
उत्तरम्— उद्यमसमः बन्धुः नास्ति ।
(ख) वसन्तस्य गुणं कः जानाति ?
उत्तरम् – वसन्तस्य गुणं पिकः जानाति ।
(ग) बुद्धयः कीदृश्यः भवन्ति ?
उत्तरम् — बुद्धयः परेङ्गितज्ञानफलाः भवन्ति ।
(घ) नराणां प्रथमः शत्रुः कः ?
उत्तरम्— नराणां प्रथमः शत्रुः देहस्थितः क्रोधः अस्ति।
(ङ) सुधियः सख्यं केन सह भवति ?
उत्तरम् – सुधियः सख्यं सुधीभिः सह भवति ।
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः ?
उत्तरम् – अस्माभिः फलच्छाया – समन्वितः महावृक्षः सेवितव्यः ।
2. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-
(क) य: ………. उद्दिश्य प्रकुप्यति, तस्य ………… सः ध्रुवं प्रसीदति । यस्य मनः अकारणद्वेषि अस्ति, ……… तं कथं परितोषयिष्यति ?
(ख) ………. खलु संसारे ………. निरर्थकम् नास्ति । अश्वः चेत् ……… वीरः, खरः ……… वहने (वीर: ) (भवति) ।
उत्तरम्—
(क) यः निमित्तम् उद्दिश्य प्रकुप्यति, तस्य अपगमे सः ध्रुवं प्रसीदति । यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति ?
(ख) विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खर: (वीर: ) भवति ।
3. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एवं भवति यः अनुक्तम् अपि तथ्यं जानाति ।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति ।
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति ।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति ।
उत्तरम् – (क) अनुक्तमप्यूहति पण्डितोजनः ।
(ख) समान-शील – व्यसनेषु सख्यम् ।
(ग) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।
(घ) संपत्तौ च विपत्तौ च महतामेकरूपता ।
4. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति । ( बहुवचने)
उत्तरम् — गुणिनः गुणान् जानन्ति ।
(ख) पशुः उदीरितम् अर्थं गृह्णाति । ( कर्मवाच्ये)
उत्तरम् – पशुना उदीरितः अर्थः गृह्यते ।
(ग) मृगाः मृगैः सह अनुव्रजन्ति । (एकवचने)
उत्तरम् — मृग: मृगेण सह अनुव्रजति ।
(घ) कः छायां निवारयति ? ( कर्मवाच्ये)
उत्तरम् — केन छाया निवार्यते ?
(ङ) तेन एव वह्निना शरीरं दह्यते ।
उत्तरम् – स एव वह्निः शरीरं दहते ।
5. (अ) सन्धिं / सन्धिविच्छेदं कुरुत-
(क) न + अस्ति + उद्यमसमः — ……….
(ख) …….. + — तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति — ………
(घ) ……… + ……… — गावश्च
(ङ) ……… + ……… — नास्ति
(च) रक्तः + च + अस्तमये — ………
(छ) ……… + ……… — योजकस्तत्र
उत्तरम्—
(क) न + अस्ति + उद्यमसमः — नास्त्युद्यमसमः
(ख) तस्य + अपगमे — तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति — अनुक्तमप्यूहति
(घ) गावः + च — गावश्च
(ङ) न + अस्ति — नास्ति
(च) रक्तः + च + अस्तमये — रक्त्श्चास्तमये
(छ) योजकः + तत्र — योजकस्तत्र
(आ) समस्तपदं / विग्रहं लिखत-
(क) उद्यमसमः …………………..
(ख) शरीरे स्थितः …………………..
(ग) निर्बल: …………………..
(घ) देहस्य विनाशनाय …………………..
(ङ) महावृक्षः …………………..
(च) समानं शीलं व्यसनं येषां तेषु …………………..
(छ) अयोग्यः …………………..
उत्तरम् —
(क) उद्यमसमः उद्यमेन समः
(ख) शरीरे स्थितः शरीस्थ:
(ग) निर्बल: बलस्य अभाव:
(घ) देहस्य विनाशनाय देहविनाशनाय
(ङ) महावृक्षः महान् चासौ वृक्ष:
(च) समानं शीलं व्यसनं येषां तेषु समान- शील- व्यसनेषु
(छ) अयोग्य: न योग्य:
6. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) प्रसीदति …………………..
(ख) मूर्ख: …………………..
(ग) बली …………………..
(घ) सुलभः …………………..
(ङ) संपत्तौ …………………..
(च) अस्तमये …………………..
(छ) सार्थकम् …………………..
उत्तरम् – पदानाम् विलोमपदानि
(क) प्रसीदति अवसीदति
(ख) मूर्ख: पण्डितः
(ग) बली निर्बल:
(घ) सुलभः दुर्लभः
(ङ) संपत्तौ विपत्तौ
(च) अस्तमये उदये
(छ) सार्थकम् निरर्थकम्
7. संस्कृतेन वाक्यप्रयोगं कुरुत-
(क) वायसः …………………..
(ख) निमित्तम् …………………..
(ग) सूर्य: …………………..
(घ) पिक: …………………..
(ङ) वह्निः …………………..
उत्तरम् –
(क) वायसः कर्कशशब्दं करोति ।
(ख) रोगनिमित्तम् समये निवारणीयम् ।
(ग) सूर्यः प्रातःकाले पूर्वदिशि उदयति ।
(घ) पिकः मधुरस्वरेण कूजति ।
(ङ) वह्निः सर्वाणि वस्तूनि दहति ।
