UK Board 10th Class Sanskrit – Chapter 8 विचित्रः साक्षी
UK Board 10th Class Sanskrit – Chapter 8 विचित्रः साक्षी
UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 8 विचित्रः साक्षी
[ पाठ परिचय – प्रस्तुत पाठ बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश के रूप में दिए गए एक निर्णय पर आधारित है। इसमें बताया गया है कि न्यायाधीश चटर्जी ने किस प्रकार से विवाद में साक्ष्यों के अभाव के चलते एक युक्ति अपनाई कि साक्षी स्वयं प्रकट हो गया और न्यायाधीश ने राजहंस के समान दूध का दूध और पानी का पानी कर दिया। यह पाठ ओमप्रकाश ठाकुर द्वारा रचित चटर्जी के निर्णय को आधार करके लिखी गई कथा का सम्पादित रूप है । ]
समस्त पाठ का हिन्दी अनुवाद
किसी निर्धन व्यक्ति ने अत्यधिक परिश्रम करके कुछ धन जमा किया। उससे अपने पुत्र को एक महाविद्यालय में प्रवेश दिलाने में सफल हुआ। तत्पश्चात् पुत्र वहीं छात्रावास में रहकर अध्ययन में संलग्न हो गया। एक बार वह पिता पुत्र की बीमारी को सुनकर व्याकुल हुआ पुत्र को देखने के लिए चल पड़ा। धन की अत्यधिक कमी से पीड़ित वह बस को छोड़कर पैदल ही चल दिया।
लगातार पैदल चलता हुआ शाम के समय भी वह गन्तव्य से दूर था। रात का अँधेरा फैलने पर एकान्त प्रदेश में पैदल यात्रां कल्याणकारी नहीं है। इस प्रकार सोचकर वह पास में स्थित ग्राम में रात्रि – निवास करने के लिए किसी गृहस्थ के पास गया। करुणापरायण (दयालु) गृहस्थी ने उसको आश्रय प्रदान कर दिया।
भाग्य की गति विचित्र है। उसी रात्रि में उस घर में कोई चोर घर के भीतर घुस गया। वहाँ रखी एक सन्दूकची (पेटी) को लेकर भाग गया। चोर के पैरों की ध्वनि से अतिथि जाग गया और चोर की आशंका से उस दौड़ते हुए को पकड़ लिया, परन्तु विचित्र घटना घटी। चोर ने ही ऊँची आवाज में चिल्लाना आरम्भ किया “यह चोर है, यह चोर है।” उसके तेज स्वर से जागे ग्रामवासी अपने घर से निकलकर वहाँ आ गए और बेचारे अतिथि को ही चोर मानकर निन्दा करने लगे। यद्यपि गाँव का चौकीदार (सिपाही) ही चोर था। उसी क्षण रक्षा – पुरुष ने उस अतिथि को ‘यह चोर है,’ ऐसा जानकर जेल में डाल दिया।
अगले दिन वह चौकीदार चोरी के अपराध में उसको न्यायालय ले गया। न्यायाधीश बंकिमचन्द्र ने उनसे अलग-अलग विवरण सुना । सब समाचार जानकर उन्होंने उसको निर्दोष और चौकीदार को अपराध का पात्र माना, किन्तु प्रमाणों के अभाव में वह निर्णय न कर सके। इसके पश्चात् उन्होंने दोनों को अगले दिन उपस्थित होने का आदेश दिया। दूसरे दिन उन दोनों ने न्यायालय में अपना-अपना पक्ष फिर से प्रस्तुत किया। तभी वहीं के कर्मचारी ने आकर निवेदन किया कि यहाँ से दो कोश की दूरी पर कोई व्यक्ति किसी के द्वारा मारा गया है। उसका मृतशरीर राजमार्ग के समीप ही है। आदेश दें कि क्या किया जाए। न्यायाधीश ने चौकीदार और अपराधी को उस शव को न्यायालय में लेकर आने का आदेश दिया।
आदेश पाकर दोनों चल दिए। वहाँ पहुँचकर लकड़ी के तख्ते पर रखे कपड़े से ढंके शरीर को कन्धे पर ढोते हुए दोनों न्यायालय को चल दिए। चौकीदार का शरीर बहुत तन्दुरुस्त था और अभियुक्त अत्यधिक पतले शरीर का । भारी शव को कन्धे पर ढोना उसके लिए कठिन था। वह भार की पीड़ा से रोने लगा। उसका रोना सुनकर प्रसन्न चौकीदार उससे बोला- ‘अरे दुष्ट ! उस दिन मैं तेरे द्वारा चोरी की पेटी लेने से रोका गया था। इस समय अपनी करनी का फल भोग। इस चोरी के मुकदमे में तू तीन वर्ष की जेल की सजा पाएगा। ऐसा कहकर जोर से हँसा । जिस किसी प्रकार से दोनों ने शव को लेकर एक चौराहे पर रख दिया।
न्यायाधीश द्वारा फिर दोनों से घटना के विषय में बताने का आदेश दिया गया। चौकीदार द्वारा अपना पक्ष प्रस्तुत करते हुए आश्चर्य हो गया, उस शव ने लबादे को हटाकर न्यायाधीश को नमस्कार करके निवेदन किया— मान्यवर ! इस चौकीदार द्वारा मार्ग में जो कहा गया, उसका वर्णन करता हूँ- “मैं तेरे द्वारा चोरी की पेटी लेने से रोका गया था; अत: अपनी करनी का फल भोग। इस चोरी के मुकदमे में तू तीन वर्ष की जेल की सजा पाएगा । “
न्यायाधीश ने चौकीदार को जेल की सजा का आदेश देकर उस व्यक्ति को सम्मानसहित मुक्त कर दिया।
इसीलिए कहा गया है – बुद्धि की सम्पत्ति से धनी व्यक्ति नीतिगत युक्ति का सहारा लेकर लीलापूर्वक दुष्कर कार्यों को भी करता है।
पाठावबोधन कार्य
निर्देश: – अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-
(1) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेश दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः । परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।
पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा । एवं विचार्य स पावस्थिते ग्रामे रात्रिनिवासं कर्त्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) निर्धनः जनः स्वपुत्रं कुत्र प्रवेशं दापयितुं सफल: जात: ?
(ख) पिता तनूजस्य किम् आकर्ण्य व्याकुलः जात: ?
(ग) स किं विहाय पदातिरेव प्राचलत् ?
(घ) निशान्धकारे का न शुभावहा?
(ङ) जनः रात्रिनिवासं कर्त्तुं कम् उपागत: ?
उत्तरम् —
(क) महाविद्यालये,
(ख) रुग्णताम्,
(ग) बसयानम्,
(घ) पदयात्रा,
(ङ) गृहस्थम् ।
2. पूर्णवाक्येन उत्तरत-
(क) कश्चन निर्धनो जनः कथं किम् उपार्जितवान् ?
(ख) कथं स जनः बसयानं विहाय पदातिरेव प्राचलत् ?
(ग) पदातिक्रमेण संचलन् सायं समयेऽपि असौ कुत्रासीत् ?
(घ) किं विचार्य जनः रात्रिनिवासं कर्तुं गृहस्थमुपागत: ?
उत्तरम्-
(क) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् ।
(ख) परमर्थकाश्र्थ्येन पीडितः स जन: बसयानं विहाय पदातिरेव प्राचलत्।
(ग) पदातिक्रमेण संचलन् सायं समयेऽपि असौ गन्तव्याद् दूरे आसीत्।
(घ) “ निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा । ” एवं विचार्य जनः रात्रिनिवासं कर्तुं गृहस्थमुपागतः।
3. निर्देशानुसारम् उत्तरत-
(क) ‘किञ्चिद्’ इत्यस्य विशेष्यपदं किम् ?
(ख) ‘गृही तस्मै आश्रयं प्रायच्छत्।’ अत्र कर्तृपदं किम् ?
(ग) ‘तनूजः’ अस्य पदस्य समानार्थकपदं चित्वा लिखत ।
(घ) ‘पार्श्वे’ अस्य पदस्य विलोमपदं किम् अत्र प्रयुक्तम् ?
(ङ) ‘व्याकुलः जातः पिता पुत्रं द्रष्टुं प्रस्थितः ‘ अत्र क्रियापदं किम् ?
(च) ‘पदातिरेव’ अस्य पदस्य सन्धिविच्छेदं कुरुत।
उत्तरम् –
(क) वित्तम्,
(ख) गृही,
(ग) तनयः,
(घ) दूरे,
(ङ) प्रस्थितः,
(च) पदातिः + एव।
(2) विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) विचित्रा का ?
(ख) कः गृहाभ्यन्तरं प्रविष्टः ?
(ग) केन प्रबुद्धः अतिथि: ?
(घ) ग्रामवासिनः अतिथिं चौरं मत्वा किमकुर्वन् ?
(ङ) चौरः कः आसीत् ?
उत्तरम् —
(क) दैवगति:,
(ख) चौर:,
(ग) पादध्वनिना,
(घ) अभर्त्सयन्,
(ङ) आरक्षी ।
2. पूर्णवाक्येन उत्तरत-
(क) तस्यां रात्रौ तस्मिन् गृहे किम् अभवत्?
(ख) चोरस्य पादध्वनिना प्रबुद्धः अतिथिः किम् अकरोत् ?
(ग) किं विचित्रम् अघटेत् ?
(घ) रक्षापुरुषः किम् अकरोत् ?
उत्तरम्—
(क) तस्यां रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः ।
(ख) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णात् ।
(ग) “चौरः एव उच्चैः क्रोशितुमारभत चौरोऽयं चौरोऽयम्” इति विचित्रम् अघटत् ।
(घ) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘रात्रौ’ अस्मिन् पदे प्रयुक्ता विभक्तिः का?
(ख) ‘चौरोऽयम्’ अत्र ‘अयम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(ग) ‘गृहीत्वा’ इत्यर्थे किं पदं प्रयुक्तम् अत्र ?
(घ) ‘प्रबुद्धाः ग्रामवासिन:’ अनयोः पदयोः विशेषणपदं किम् ?
(ङ) ‘प्राक्षिपत्’ इति क्रियापदस्य कर्त्ता क: ?
उत्तरम् —
(क) सप्तमी,
(ख) अतिथये,
(ग) आदाय,
(घ) प्रबुद्धा:,
(ङ) रक्षापुरुषः ।
(3) अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम् । किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ । तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते । आदिश्यतां किं करणीयमिति । न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कस्मिन् अभियोगे आरक्षी अतिथिं न्यायालयं नीतवान् ?
(ख) न्यायाधीशः कः आसीत् ?
(ग) न्यायाधीशः दोषभाजनं कम् अमन्यत् ?
(घ) मृतशरीरं कं निकषा वर्तते ?
उत्तरम् —
(क) चौर्याभियोगे,
(ख) बंकिमचन्द्र:,
(ग) आरक्षिणम्,
(घ) राममार्गम्।
2. पूर्णवाक्येन उत्तरत-
(क) सर्वं वृत्तमवगत्य न्यायाधीशः किम् अमन्यत् ?
(ख) न्यायाधीशः कस्मात् कारणात् निर्णेतुं नाशक्नोत् ?
(ग) कर्मचारी समागत्य किं न्यवेदयत् ?
(घ) न्यायाधीश: आरक्षिणम् अभियुक्तं च किं कर्तुम् आदिष्टवान् ?
उत्तरम्—
(क) सर्वं वृत्तमवगत्य न्यायाधीशः अतिथिं निर्दोषम् अमन्यत् आरक्षिणं च दोषभाजनम् ।
(ख) न्यायाधीशः प्रमाणाभावात् निर्णेतुं नाशक्नोत् ।
(ग) कर्मचारी समागत्य न्यवेदयत् — इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्गं निकषा वर्तते ।
(घ) न्यायाधीशः आरक्षिणम् अभियुक्तं च शवं न्यायालये आनेतुम् आदिष्टवान् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अग्रिमे’ इत्यस्य पदस्य विशेष्यपदं लिखत?
(ख) ‘समागत्य’ अस्मिन् पदे प्रयुक्तः प्रत्ययः कः ?
(ग) ‘समया’ इत्यर्थे किं पदं गद्यांशे प्रयुक्तम् ?
(घ) ‘स निर्णेतुं नाशक्नोत् अत्र क्रियापदं किम् ?
उत्तरम् –
(क) दिने,
(ख) ल्यप्,
(ग) निकषा,
(घ) नाशक्नोत् ।
(4) आदेशं प्राप्य उभौ प्राचलताम् । तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ । आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः । भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् । स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच – “रे दुष्ट ! तस्मिन् ‘ दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।” इति प्रोच्य उच्चैः अहसत् । यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) देहं कस्मिन् निहितम् ?
(ख) अभियुक्तः कीदृशः आसीत्?
(ग) अभियुक्तस्य क्रन्दनं निशम्य कः मुदित: ?
(घ) चौर्याभियोगे त्वं कं लप्स्यसे?
उत्तरम् —
(क) काष्ठपटले,
(ख) कृशकाय:,
(ग) आरक्षी,
(घ) कारादण्डम्।
2. पूर्णवाक्येन उत्तरत-
(क) आरक्षी कीदृशः आसीत्?
(ख) अभियुक्तः कया क्रन्दति स्म ?
(ग) क्रन्दनं निशम्य आरक्षी किम् उवाच ?
(घ) उभौ शवमानीय कुत्र स्थापितवन्तौ ?
उत्तरम् –
(क) आरक्षी सुपुष्टदेहः आसीत्।
(ख) अभियुक्तः भारवेदनया क्रन्दति स्म ।
(ग) क्रन्दनं निशम्य आरक्षी अभियुक्तम् उवाच – “रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे । ” इति ।
(घ) उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘देह:’ अस्य पर्यायवाचिपदं लिखत ।
(ख) ‘सुकरम्’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(ग) ‘त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः ।’ अत्र क्रियापदं किम् ?
(घ) ‘निशम्य’ अस्य पदस्य प्रकृतिः प्रत्ययः लिखत ।
उत्तरम् –
(क) काय:,
(ख) दुष्करम्,
(ग) वारितः,
(घ) नि + शम् + ल्यप्।
(5) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् – मान्यवर ! – एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति ।
न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।
अतएवोच्यते- दुष्कराण्यपि कर्माणि मतिवैभवशालिनः ।
नीतिं युक्ति समालम्ब्य लीलयैव प्रकुर्वते ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) आरक्षिणि निजपक्षं प्रस्तुतवति किम् अघटत् ?
(ख) स शवः किं कृत्वा न्यायाधीशं निवेदितवान् ?
(ग) कस्य फलं भुङ्क्ष्व ?
(घ) न्यायाधीशः कस्मै कारादण्डम् आदिश्य ?
उत्तरम्-
(क) आश्चर्यम्,
(ख) प्रावाराकमपसार्य,
(ग) निजकृत्यस्य,
(घ) आरक्षिणे ।
2. पूर्णवाक्येन उत्तरत-
(क) न्यायाधीशेन पुनस्तौ किं कर्तुम् आदिष्टौ ?
(ख) न्यायालये किम् आश्चर्यम् अघटत् ?
(ग) सः शवः किं निवेदितवान् ?
(घ) न्यायाधीशः किम् अकरोत् ?
(ङ) मतिवैभवशालिनः कया प्रकुर्वते ?
उत्तरम्-
(क) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुम् आदिष्टौ ।
(ख) न्यायालये इदम् आश्चर्यम् अघटत् यत् स शव: प्रावारकमपसार्य न्यायाधीशम् अभिवाद्य निवेदितवान् ।
(ग) सः शवः निवेदितवान् — “ मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि । “
(घ) अन्ते न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।
(ङ) मतिवैभवशालिनः नीतिं युक्तिं समालम्ब्य दुष्कराण्यपि कर्माणि लीलयैव प्रकुर्वते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कर्माणि’ इत्यस्य पदस्य विशेषणपदं चित्वा लिखत ।
(ख) ‘निवारितः’ इत्यर्थे किं पदम् अत्र प्रयुक्तम् ?
(ग) ‘पुरस्कारम्’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(घ) ‘प्रकुर्वते’ इत्यस्याः क्रियायाः कर्त्ताः कः ?
उत्तरम् —
(क) दुष्कराण्यपि,
(ख) वारितः,
(ग) दण्डम्,
(घ) मतिवैभवशालिनः ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तरम् — निर्धनः जनः भूरि परिश्रम्य वित्तम् उपार्जितवान् ।
(ख) जनः किमर्थं पदातिः गच्छति?
उत्तरम् — परमर्थकाश्र्थ्येन पीडितः जनः पदातिः गच्छति ।
(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत् ?
उत्तरम् – ‘प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न शुभावहा । ‘ स इति अचिन्तयत् ।
(घ) वस्तुत: चौरः कः आसीत् ?
उत्तरम्— वस्तुतः चौरः आरक्षी आसीत्।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?
उत्तरम्— जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान् — “रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।
(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति ?
उत्तरम्— मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्तिं समालम्ब्य लीलयैव साधयन्ति ।
2. यथानिर्देशमुत्तरत-
(क) ‘आदेशं प्राप्य उभौ अचलताम् अत्र किं कर्तृपदम्?
(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’ – अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम् ?
(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’ – अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्ट्वान्’ अस्मिन् वाक्ये किं क्रियापदम् ?
(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:” – अत्र विशेष्यपदं किम् ?
उत्तरम् —
(क) अत्र कर्तृपदम् ‘उभौ’ इति अस्ति।
(ख) अत्र ‘मार्गे’ इत्यर्थे ‘अध्वनि’ पदं प्रयुक्तम् ।
(ग) अत्र ‘तस्मै’ इति सर्वनामपदं ‘अतिथये’ प्रयुक्तम्।
(घ) अस्मिन् वाक्ये ‘आदिष्टवान्’ इति क्रियापदम् ।
(ङ) अत्र ‘कर्माणि’ इति विशेष्यपदम् अस्ति ।
3. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान् ।
उत्तरम् – ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः ।
(ख) चौर: ग्रामे नियुक्तः राजपुरुषः आसीत्।
उत्तरम् – चौर: ग्रामेषु नियुक्ताः राजपुरुषः आसन् ।
(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः ।
उत्तरम्— कश्चन चौरा: गृहाभ्यन्तरं प्रविष्टाः।
(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तरम् — अन्येद्युः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्तः ।
(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) स: ………… निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पञ्चमी)
(ख) गृहस्थ: ………… आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
(ग) तौ ……….. प्रति प्रस्थितौ । (न्यायाधीशकारिन् शब्दे द्वितीया )
(घ) …………… चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे । (इदम् शब्दे सप्तमी)
(ङ) चौरस्य ……….. प्रबुद्धः अतिथिः । ( पादध्वनिशब्दे तृतीया)
उत्तरम्—
(क) स: गृहाद् निष्क्रम्य बहिरगच्छत्।
(ख) गृहस्थः अतिथये आश्रयं प्रायच्छत्।
(ग) तौ न्यायाधीशं प्रति प्रस्थितौ ।
(घ) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।
(ङ) चौरस्य पादध्वनिना प्रबुद्धः अतिथिः ।
4. भिन्नप्रकृतिकं पदं चिनुत-
(क) विचित्रा, शुभावहा, शङ्कया, मञ्जूषा
(ख) कश्चन, किञ्चित्, त्वरितं, यदुक्तम्
(ग) पुत्र:, तनयः, व्याकुल:, तनूजः.
(घ) करुणापरः, अतिथिपरायणः, प्रबुद्धः, जनः
उत्तरम्—
(क) शङ्कया,
(ख) त्वरितम्,
(ग) व्याकुल:,
(घ) जनः।