UK Board 10th Class Sanskrit – Chapter 9 सूक्तयः
UK Board 10th Class Sanskrit – Chapter 9 सूक्तयः
UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 9 सूक्तयः
[पाठ – परिचय – सूक्ति शब्द ‘सु + उक्ति’ के योग से बना है, जिसका अर्थ है- किसी के द्वारा कहे गए सुन्दर वचन। संस्कृत – साहित्य में रचित सभी नीतिपरक और जीवनोपयोगी श्लोकों की गणना सूक्तियों के अन्तर्गत की जाती है। प्रस्तुत पाठ में संगृहीत सूक्तिपरक श्लोक मूलरूप से तमिल भाषा में रचित ‘तिरुक्कुरल’ नामक ग्रन्थ से लिए गए हैं। तिरुक्कुरल साहित्य की उत्कृष्ट रचना है। इसे तमिल भाषा का ‘वेद’ माना जाता है। इसके प्रणेता तिरुवल्लुवर है। इनका काल प्रथम शताब्दी माना गया है। इसमें मानवजाति के लिए जीवनोपयोगी सत्य प्रतिपादित है। ‘तिरु’ शब्द ‘श्रीवाचक’ है। तिरुक्कुरल शब्द का अभिप्राय है— श्रि युक्त वाणी । इसे धर्म, अर्थ, काम तीन भागों में बाँटा गया है। प्रस्तुत श्लोक सरस, सरल भाषायुक्त तथा प्रेरणाप्रद है । ]
समस्त पाठ का हिन्दी-भावानुवाद
- पिता पुत्र को बचपन में महान् विद्याधन देता है। इसके लिए पिता ने कौन-सी कितनी तपस्या की है, ऐसी उक्ति ही उसकी कृतज्ञता है। अर्थात् बालक को यह कहकर पिता के प्रति अपनी कृतज्ञता व्यक्त करनी चाहिए कि पिता ने इसके लिए बड़ी तपस्या की है।
- व्यक्ति के मन में जैसी सरलता हो, यदि वाणी में वैसी M सरलता हो तो वास्तव में इसी को महात्मा समत्व कहते हैं। अर्थात् मन और वाणी की समानतावाले व्यक्ति ही महात्मा कहलाने के अधिकारी हैं।
- धर्म प्रदान करनेवाली वाणी को त्यागकर जो कठोर वाणी बोलते हैं, वे मूर्ख व्यक्ति पके हुए फल को छोड़कर कच्चा फल खाते हैं ।
- इस संसार में विद्वान् ही नेत्रों से युक्त होते हुए कीर्ति बिखेरते हैं। दूसरों के मुख पर जो नेत्र होते हैं, वे तो नाम के ही माने जाते हैं।
- जिस किसी के द्वारा जो कहा जाता है, उसके तत्त्व (सार) और अर्थ का निर्णय जिसके द्वारा करने में (व्यक्ति) समर्थ हो, वह विवेक कहलाता है।
- जो मन्त्री सभा में बोलने में निपुण, धैर्यवान् (और) निर्भीक है, वह किसी भी प्रकार से दूसरों के द्वारा अपमानित नहीं किया जाता है।
- जो अपना कल्याण और अत्यधिक सुख चाहता है, ( उसे ) दूसरों के लिए अहितकारी कार्य कभी नहीं करना चाहिए।
- आचार (आचरण) प्रथम धर्म है, ऐसा विद्वानों का कथन (वचन) है। प्राणों के द्वारा भी इसकी रक्षा करनी चाहिए, विशेषतः सदाचार की ।
पाठावबोधन-कार्य
(1) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् ।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ॥ 1 ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) महत् धनं किम् ?
(ख) विद्याधनं कः यच्छति ?
(ग) पिता कदा विद्याधनं यच्छति ?
उत्तरम् —
(क) विद्याधनम्,
(ख) पिता,
(ग) बाल्ये।
2. पूर्णवाक्येन उत्तरत-
(क) विद्याधनं कीदृशः कथितः ?
(ख) पिता कस्मै किं यच्छति?
(ग) अस्य पिता किं तपः तेपे इत्युक्तिः का?
उत्तरम् —
(क) विद्याधनं ‘महत्’ कथितः ।
(ख) पिता पुत्राय बाल्ये विद्याधनं यच्छति।
(ग) अस्य पिता किं तपः तेपे इत्युक्तिः कृतज्ञता ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘विद्याधनं महत्’ अत्र विशेष्यपदं किम् ?
(ख) ‘पिता यच्छति पुत्राय बाले’ अत्र प्रयुक्तं क्रियापदं किम् ?
(ग) ‘कृतज्ञता’ अस्मिन् पदे प्रयुक्तः प्रत्ययः कः ?
(घ) ‘ इति + उक्तिः’ अत्र सन्धि कुरुत ।
उत्तरम् —
(क) विद्याधनम्,
(ख) यच्छति,
(ग) तल्,
(घ) इत्युक्तिः ।
(2) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि ।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः ॥2॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) चित्ते का भवेत् ?
(ख) किं महात्मानः आहुः ?
उत्तरम्-
(क) अवक्रता,
(ख) समत्वम्।
2. पूर्णवाक्येन उत्तरत-
(क) चित्ते वाचि च का भवेत् ?
(ख) तथ्यत: के समत्वम् आहुः ?
(ग) समत्वम् किं भवति ?
उत्तरम् –
(क) चित्ते वाचि च अवक्रता भवेत् ।
(ख) तथ्यतः महात्मानः समत्वम् आहुः ।
(ग) चित्ते वाचि च या अवक्रता भवति सा एव समत्वम् भवति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अवक्रता’ अस्य समास – विग्रहं कुरुत ।
(ख) ‘वाचि’ अस्मिन् पदे प्रयुक्ता विभक्ति: का?
(ग) ‘ऋजुता’ अस्य प्रयुक्तं पर्यायवाचिपदं किम् ?
(घ) ‘तदेवाहुः’ अस्य सन्धिविच्छेदं कुरुत ।
उत्तरम् –
(क) न वक्रता,
(ख) सप्तमी,
(ग) अवक्रता,
(घ) तत् + एव + आहुः ।
(3) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ॥ 3 ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) कीदृशं वाचम् अभ्युदीरयेत् ?
(ख) अपक्वं फलं कः भुङ्क्ते ?
(ग) कीदृशं फलं भुञ्जीत ?
उत्तरम् —
(क) धर्मप्रदाम्,
(ख) विमूढधीः,
(ग) पक्वम् ।
2. पूर्णवाक्येन उत्तरत-
(क) विमूढधीः किम् अभ्युदीरयेत् ?
(ख) किं कृत्वा विमूढधीः अपक्वं फलं भुङ्क्ते ?
उत्तरम्-
(क) विमूढधीः धर्मप्रदां वाचं त्यक्त्वा परुषां अभ्युदीरयेत्।
(ख) पक्वं फलं परित्यज्य विमूढधीः अपक्वं फलं भुङ्क्ते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘त्यक्त्वा’ इत्यर्थे प्रयुक्तं पदं किम् अत्र ?
(ख) ‘परित्यज्य’ अस्मिन् पदे प्रकृतिप्रत्ययनिर्देशं कुरु ।
(ग) ‘पक्वं’ अस्य विलोमपदं श्लोकात् चिनुत ।
उत्तरम् —
(क) परित्यज्य,
(ख) परि + √त्यज् + ल्यप्
(ग) अपक्वम्।
(4) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥4॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) के चक्षुष्मन्तः ?
(ख) केषां वदने चक्षुः नामनी मते ?
उत्तरम्-
(क) विद्वांसः
(ख) अन्येषाम्।
2. पूर्णवाक्येन उत्तरत-
(क) विद्वांसः लोके अस्मिन् कीदृशः प्रकीर्तिता: ?
(ख) कुत्र चक्षुर्नामन्री मते ?
उत्तरम् –
(क) विद्वांसः लोके अस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
(ख) अन्येषां वदने चक्षुर्नामनी मते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘विद्वांस: ‘अस्मिन् पदे प्रयुक्तं वचनं किम् ?
(ख) ‘विद्वांसः’ अस्य क्रियापदं प्रयुक्तं किम् अत्र ?
(ग) मुखे’ अस्य पर्यायवाचिपदं श्लोकात् चित्वा लिखत ।
उत्तरम् —
(क) बहुवचनम्,
(ख) प्रकीर्तिताः,
(ग) वदने ।
(5) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः ।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः ॥ 5 ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) विवेकेन कः भवति ?
(ख) तत्त्वार्थनिर्णयस्य शक्तिः कः ईरितः ?
उत्तरम्—
(क) तत्त्वार्थनिर्णयः,
(ख) विवेकः ।
2. पूर्णवाक्येन उत्तरत-
(क) कस्य तत्त्वार्थनिर्णयं कर्तुं कथितः ?
(ख) विवेक: क: ईरित: ?
उत्तरम् —
(क) येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयं कर्तुं कथितः ।
(ख) तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेक: इति ईरितः ।
3. निर्देशानुसारम् उत्तरत—
(क) ‘क्त’ प्रत्यययुक्तम् एकं पदं श्लोकात् चिनुत ।
(ख) ‘केनापि’ अस्मिन् पदे सन्धिविच्छेदं कुरुत ।
(ग) ‘कथित:’ इत्यर्थे प्रयुक्तं पदं किम् अत्र ?
उत्तरम् —
(क) प्रोक्तम्,
(ख) केन + अपि,
(ग) ईरितः ।
(6) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते ॥ 6 ॥
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) अत्र अकातरः कः कथितः ?
(ख) धैर्यवान् कैः न परिभूयते ?
उत्तरम् —
(क) मन्त्री,
(ख) परैः ।
2. पूर्णवाक्येन उत्तरत-
(क) मन्त्री कुत्र अकातरः भवेत् ?
(ख) कः केनापि प्रकारेण परैः न परिभूयते ?
उत्तरम्-
(क) मन्त्री सभायाम् अकातरः भवेत् ।
(ख) वाक्पटुधैर्यवान् सभायामप्यकातरः मन्त्री केनापि प्रकारेण परैः न परिभूयते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘वाक्पटुः’ अस्य विशेष्यपदं प्रयुक्तं किम् अत्र ?
(ख) ‘धैर्यवान्’ अत्र प्रयुक्तः प्रत्ययः कः ?
(ग) ‘परैः + न’ अस्मिन् पदे सन्धि कुरुत।
उत्तरम् —
(क) मन्त्री,
(ख) वतुप्,
(ग) परैर्न ।
(7) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥7॥
प्रश्नाः – १. एकपदेन उत्तरत-
(क) किं कर्म न कुर्यात् ?
(ख) केभ्यः अहितं न कुर्यात् ?
(ग) मनुष्यः कियन्ति सुखानि इच्छति ?
उत्तरम् —
(क) अहितम्,
(ख) परेभ्यः,
(ग) प्रभूतानि ।
2. पूर्णवाक्येन उत्तरत-
(क) मनुष्यः किम् इच्छति ?
(ख) यः मनुष्यः आत्मनः श्रेयः सुखानि च इच्छति, सः किं कुर्यात्?
उत्तरम्—
(क) मनुष्यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति ।
(ख) यः मनुष्यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि न कुर्यात् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘इच्छति’ इति क्रियापदस्य कर्तृपदं किम् अत्र ?
(ख) ‘परेभ्यः’ अस्मिन् पदे प्रयुक्ता विभक्तिः का?
(ग) ‘अहितं’ अस्य विशेष्यपदं किम् अत्र प्रयुक्तम् ?
(घ) ‘इच्छत्यात्मनः’ अत्र सन्धिविच्छेदं कुरुत |
उत्तरम् —
(क) य:,
(ख) चतुर्थी,
(ग) कर्म,
(घ) इच्छति + आत्मनः।
(8) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः ।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः ॥ 8 ॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) प्रथमः धर्मः कः कथितः ?
(ख) मनुष्यः किं रक्षेत् ?
(ग) सदाचारं केभ्यः रक्षेत् ?
उत्तरम्-
(क) आचारः,
(ख) सदाचारम्,
(ग) प्राणेभ्यः ।
2. पूर्णवाक्येन उत्तरत-
(क) विदुषां वचः किम् ?
(ख) मनुष्यः विशेषतः किं रक्षेत् ?
उत्तरम्—
(क) आचारः प्रथमो धर्मः इति एतद् विदुषी वचः ।
(ख) मनुष्यः विशेषतः प्राणेभ्यो सदाचारं रक्षेत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘आचारः प्रथमो धर्म:’ विशेषणपदं किम् अत्र प्रयुक्तम् ?
(ख) ‘विशेषत: ‘ अस्मिन् पदे प्रयुक्ता विभक्ति: का?
(ग) एतद् विदुषां वचः’ अत्र किं विशेष्यपदं प्रयुक्तम् अत्र ?
उत्तरम् —
(क) प्रथम:,
(ख) पञ्चमी,
(ग) वचः ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक – अभ्यासार्थम्)
(क) पिता पुत्राय बाल्ये किं यच्छति ?
(ख) विमूढधीः कीदृशीं वाचं परित्यजति ?
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिता: ?
(घ) प्राणेभ्योऽपि कः रक्षणीयः ?
(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
(च) वाचि किं भवेत् ?
उत्तरम् —
(क) विद्याधनम्,
(ख) धर्मप्रदाम्,
(ग) विद्वांसः,
(घ) सदाचारः,
(ङ) अहितम्,
(च) अवक्रम्।
2. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वंयम् ‘उचितपदक्रमेण पूरयत-
(क) पिता ……… बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ………….।
(ख) येन ………. यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ………. भवेत्, सः ………. इति ………….।
(ग) य आत्मनः श्रेयः …………… सुखानि च इच्छति, परेभ्यः अहितं ………. कदापि च न ………….।
उत्तरम् –
(क) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः कृतज्ञता ।
(ख) येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति इतीरितः ।
(ग) य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात् ।
3. मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
(क) विद्याधनं महत्
……………………………………………………..
……………………………………………………..
(ख) आचारः प्रथमो धर्मः
……………………………………………………..
……………………………………………………..
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
……………………………………………………..
……………………………………………………..
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।
विद्याधनं सर्वधनप्रधानम् ।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
उत्तरम् –
(क) विद्याधनं महत्
विद्याधनं सर्वधनप्रधानम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
(ख) आचारः प्रथमो धर्मः
आचरेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।
सं वो मनांसि जानताम् ।
(अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं
योग्यताविस्तारः
(क) ‘तिरुक्कुरल – सूक्तिसौरभम्’ इति पाठस्य तमिल मूलपाठः (देवनागरी लिपौ )
सोर्कोट्टम् इल्लदु सेप्पुम् ओरू तलैया उळकोट्टम इन्मै पेरिन् ।
मगन् तन्दैवक्काटुम उद्रवि इवन् तन्दै एन्नोटान् कौमू एननुम सोक्त ।
इनिय उळवाग इन्नाद कूरल् कनि इरूप्पक् काय् कवरंदट् ।
कण्णुडैयर् एन्पवर् कट्रोर मुहत्तिरण्डु पुण्णुडैयर कल्लादवर् ।
एप्पोरूल यार यार वाय् केटूपिनुम् अप्पोरूल मेय् पोरूल काण्पदरिवु ।
सोललवल्लन् सोरविलन् अन्जान् अवनै इहलवैल्लल् यारुक्कुम् अरितु ।
नोय एल्लाम् नोय् सेयदार मेलवान् नोय् सेययार नोय् इन्मै वेण्डुभवर् ।
ओषुक्कम् विषुष्पम् तरलान् ओषुक्कम् उयिरिनुम् ओभ्भप्पडुम्।
(ख) ग्रन्थपरिचयः
तिरुक्कुरल तमिलभाषायां रचिता तमिलसाहित्यस्य उत्कृष्टा कृतिः अस्ति । अस्य प्रणेता तिरुवल्लुवरः अस्ति । ग्रन्थस्य रचनाकालः अस्ति – ईशवीयाब्दस्य प्रथमशताब्दी ।
अस्मिन् ग्रन्थे सकलमानवाजातेः कृते जीवनोपयोगिसत्यम् प्रतिपादितम् ।
तिरु शब्दः ‘श्री’ वाचकः । ‘तिरुक्कुरल्’ पदस्य अभिप्रायः अस्ति श्रिया युक्तं कुरल् छन्दः अथवा श्रिया युक्ता वाणी । अस्मिन् ग्रन्थे धर्म-अर्थ-काम-संज्ञकाः त्रयः भागाः सन्ति । त्रयाणां भागानां पद्यसंख्या १३३० अस्ति ।
ग्रन्थ का परिचय
तिरुक्कुरल तमिल भाषा में रचित तमिल – साहित्य की उत्कृष्ट रचना है। इसके प्रणेता ( रचनाकार) तिरुवल्लुवर हैं। ग्रन्थ का काल है – ईसा की प्रथम शताब्दी ।
इस ग्रन्थ में सम्पूर्ण मानव-जाति के लिए जीवनोपयोगी सत्य का प्रतिपादन किया गया है।
तिरु शब्द ‘श्री’ का वाचक है। ‘तिरुक्कुरल’ पद का अभिप्राय है शोभा से युक्त कुरल् छन्द अथवा शोभायुक्ता वाणी। इस ग्रन्थ में धर्म-अर्थ-काम नामक तीन भाग हैं। तीनों भागों में पद्मों की संख्या १३३० है ।