UK 9th Hindi

UK Board 9 Class Hindi – (संस्कृत व्याकरण) – श्लोक-लेखनम् अथवा वाक्य-रचना

UK Board 9 Class Hindi – (संस्कृत व्याकरण) – श्लोक-लेखनम् अथवा वाक्य-रचना

UK Board Solutions for Class 9th Hindi – (संस्कृत व्याकरण और अनुवाद) – श्लोक-लेखनम् अथवा वाक्य-रचना

प्रश्न – अपनी पाठ्यपुस्तक से कोई एक श्लोक लिखिए, जो प्रश्न-पत्र में न आया हो ?
(1) या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता,
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
(2) शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं,
वीणा-पुस्तक – धारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्,
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
(3) अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥
(4) एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः ।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः ॥
(5) वृक्षाग्रवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥
(6) कं संजघान कृष्णः का शीतलवाहिनी गंगा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥
अथवा
प्रश्न – अग्रांकित शब्दानाम् आधारेण चतुर्णाम् (4) वाक्यानां निर्माणं कुरुत (निम्नांकित शब्दों में से किन्हीं 4 का वाक्यों में प्रयोग कीजिए ) –
प्रश्न- खण्ड उत्तर- खण्ड
पद वाक्य-प्रयोग
अम्भोदाः गगने बहवः अम्भोदाः सन्ति ।
वाक्पटुता वाक्पटुता पण्डितानां प्रमुखः गुणः अस्ति ।
वसुधा नृपः वसुधां पालयति ।
क्षमया क्षमया सर्वे जनाः प्रसन्नाः भवन्ति ।
भाषसे कोकिलः भाषसे मधुरः भवति ।
यस्य सर्वे जनाः यस्य प्रशंसां कुर्वन्ति, सः उत्तमपुरुष: भवति ।
तिष्ठन्ति छात्राः कार्यालये तिष्ठन्ति ।
कदाचित् सः कदाचित् कोऽपि दुष्कार्यं न करिष्यति ।
स्पर्धा द्रौपदी स्वयंवरे एका स्पर्धा आयोजिता ।
आरोहणप्रयत्नः निरन्तर: आरोहणप्रयत्नः एव पर्वतारोहिणः साफल्यस्य कारणं भवति ।
लक्ष्यैकदृष्टिः लक्ष्यैकदृष्टिः सफलतायाः मूलमन्त्रम् अस्ति।
एकाग्रता लक्ष्य प्राप्तो एकाग्रता अनिवार्या ।
न्यायालयः देशस्य उच्चतम न्यायालयः दिल्लीनगरे अस्ति ।
बालकः बालकः कन्दुकेन क्रीडति ।
छात्रः छात्रः परिश्रमशीलः भवति ।
नगरम् अहं नगरं द्रष्टुम् इच्छामि।
जिघ्रति पुरुष: पुष्पं जिघ्रति ।
पिबति शोभना जलं पिबति ।
पश्यति छात्रः मनोहरं चित्रं पश्यति ।
क्रीडति क्रीडकः कन्दुकेन क्रीडति ।
वदति शुकः रामः रामः इति वदति ।
खेलति क्रीडाक्षेत्रे कोऽपि बालकः न खेलति ।
सिञ्चति मालाकारः पादपान् सिञ्चति ।
गच्छति माता आपणं गच्छति ।
हसति अयं नेपथ्ये कः हसति ?
ददाति जनकः भिक्षुकाय वस्त्रं ददाति ।
कदा त्वं तत्र कदा गच्छसि ?
सह/साकम् मया सह/साकं मम भ्राता अपि पठति ।
विद्वद्भिः विद्वद्भिः सह विवादं न कुर्यात् ।
मह्यम् मह्यं भ्रमणं रोचते ।
विना त्वया विना अहं न गमिष्यामि ।
श्रोतुम् भक्तः भगवतः कथां श्रोतुं मन्दिरं गच्छति ।
ह्यः नद्यां ह्यः एकः नक्रः आसीत् ।
कृत्वा उमा कार्यं कृत्वा एवं तत्र गमिष्यति ।
पीत्वा सः दुग्धं पीत्वा पठति ।
मया मया सह चन्द्रचूडः अपि पठति ।
सर्वेषाम् सर्वेषां सम्मानः कार्यः ।
श्वः श्वः अहम् अपि गमिष्यामि।
यूयम् यूयं गृहं गच्छत ।
पठनाय विद्यालयम् छात्रः पठनाय विद्यालयं गमिष्यति ।
अपरेद्युः सुस्मिता अपरेद्युः तत्र अगच्छत्।
अद्यैव बालक: अद्यैव गमिष्यति।
अस्माभिः अस्माभिः किं कर्त्तव्यम् ?
गन्तुम् सः गृहं गन्तुम् इच्छति।
इतस्ततः अकारणमेव इतस्ततः मा भ्रम।
विद्यमानः अत्र रामः अपि विद्यमानः अस्ति ।
अत्र अत्र छात्राः पठन्ति ।
कुत्र त्वं कुत्र पठसि ?
इतः अहं कदापि इतः न आगमिष्यामि ।
तत्र तत्र कोऽपि न अस्ति ।
यत्र यत्र नार्यः पूज्यन्ते, तत्र देवता रमन्ते ।
किम् इदं किम् अस्ति ?
इदानीम् सः इदानीम् अट्टहासं करोति ।
कस्मिन् त्वं कस्मिन् नगरे निवससि ?

Leave a Reply

Your email address will not be published. Required fields are marked *