UK Board 9th Class Sanskrit – Chapter 11 पर्यावरणम्
UK Board 9th Class Sanskrit – Chapter 11 पर्यावरणम्
UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 11 पर्यावरणम्
पर्यावरणम् (पर्यावरण)
[, पाठ – परिचय – आधुनिक युग में मनुष्य ने अनेक प्रकार से वैज्ञानिक प्रगति करके उसके दुरुपयोग द्वारा अपना पर्यावरण दूषित कर लिया है, जिससे उसका जीवन ही संकट में पड़ गया है। नालियों के गन्दे जल तथा कारखानों से निकले प्रदूषित जल से नदियों, तालाबों का जल दूषित हो गया है। कारखानों तथा मोटर वाहनों से निकले धुएँ से वायु साँस लेने योग्य नहीं रह गई है, वृक्षों की कटाई ने इसमें और अधिक वृद्धि की है, वृक्षों के कटने से जहाँ वायु प्रदूषण बढ़ रहा है, वहीं मिट्टी के कटान के कारण बाढ़ की समस्याएँ भी बढ़ गई हैं। प्रस्तुत पाठ में उन्हीं सब बातों का वर्णन किया गया है । ]
समस्त पाठ का हिन्दी-अनुवाद
प्रकृति समस्त प्राणियों के संरक्षण के लिए प्रयत्न करती रहती है। यह सबका पोषण करती है और अनेक प्रकार के सुख-साधनों द्वारा सबको तृप्त करती है। पृथ्वी, जल, अग्नि, वायु और आकाश इसके प्रमुख तत्त्व हैं। वे ही मिलकर अथवा पृथक्ता के द्वारा हमारे पर्यावरण की रचना करते हैं। समस्त संसार चारों ओर से जिसके द्वारा आच्छादित किया जाता है, वह पर्यावरण है। जिस प्रकार अजन्मा शिशु माता के गर्भ में सुरक्षित रहता है, उसी प्रकार मनुष्य पर्यावरण की कोख में सुरक्षित रहता है। परिष्कृत और प्रदूषणरहित पर्यावरण हमारे लिए सांसारिक जीवन के सुख, सविचार, सत्सङ्कल्प और माङ्गलिक सामग्री प्रदान करता है। प्रकृति के क्रोध से आतंकित मनुष्य क्या कर सकता है? बाढ़ों, अग्नि के भयों, भूकम्पों, चक्रवातों और उल्कापात आदि के द्वारा सन्तप्त मनुष्य का कल्याण कहाँ है? अर्थात् कहीं भी मनुष्य का कल्याण संम्भव नहीं है।
इसीलिए प्रकृति की हमारे द्वारा रक्षा की जानी चाहिए। इससे हमारे पर्यावरण की स्वयं ही रक्षा हो जाएगी। प्राचीनकाल में जनता का कल्याण चाहनेवाले ऋषि वन में निवास करते थे; क्योंकि वन में ही सुरक्षित पर्यावरण प्राप्त होता था। अनेक प्रकार के पक्षी मधुर कूजन से वहाँ कानों को अच्छा लगनेवाला आनन्द रस देते हैं। नदियाँ, पर्वत और झरने अमृत के समान स्वादिष्ट स्वच्छ जल देते हैं। वृक्ष और लताएँ फल, पुष्प और जलाने की लकड़ियाँ बहुत अधिक मात्रा में उपहार के रूप में देते हैं। शीतल, मन्द तथा सुगन्धित वन – वायु औषधि के रूप में परिवर्तित प्राणवायु बाँटते हैं।
परन्तु आज स्वार्थ में ‘अन्धा मनुष्य उसी पर्यावरण को नष्ट कर रहा है। थोड़े-से लाभ के लिए लोग बहुमूल्य वस्तुओं को नष्ट करते हैं । कारखानों का विषैला जल नदियों में गिराया जा रहा है, जिससे मछली आदि और अन्य जलीय जीव क्षणभर में ही नष्ट हो जाते हैं। नदियों का जल भी सर्वथा अपेय ( न पीने योग्य) हो जाता है। वनों के वृक्ष अकारण ही व्यापार बढ़ाने के लिए काटे जाते हैं, जिससे अवृष्टि (वर्षा न होना) में वृद्धि होती है और वन के शरणरहित पशु गाँवों में उपद्रव करते हैं। वृक्षों को काटने से शुद्ध वायु का भी सङ्कट उत्पन्न हो गया है। इस प्रकार स्वार्थ में अन्धे मनुष्यों द्वारा विकृत की गई प्रकृति निश्चय ही उनका विनाश करनेवाली हो गई है। पर्यावरण में विकार हो जाने पर अनेक प्रकार के रोग और समस्याएँ उत्पन्न हो रही हैं। इसलिए इस ‘समय सब चिन्तनीय दिखाई देता है और पर्यावरण प्रदूषण सबकी चिन्ता का विषय बना दिखाई देता है।
‘रक्षा किया गया धर्म रक्षा करता है’ ऐसे ऋषियों के वचन हैं। पर्यावरण की रक्षा भी धर्म का हो अङ्ग है, ऐसा ऋषियों ने प्रतिपादित क्रिया है। इसीलिए बावड़ी, कुआँ, तालाब आदि का निर्माण, मन्दिर और विश्रामगृहों की स्थापना धर्म-सिद्धि के साधनों के रूप में ही स्वीकार किए गए हैं। कुत्ता, सूअर, साँप, नेवला आदि स्थलीय जीव; मछली, कछुआ और मगरमच्छ जैसे जलीय जीव भी रक्षा करने योग्य हैं; क्योंकि वे स्थल की गन्दगी (मलिनता) तथा जल की मलिनता को दूर करनेवाले हैं। प्रकृति की रक्षा से ही संसार की रक्षा हो सकती है, इसमें सन्देह नहीं है।
पाठाधारित अवबोधन-कार्य
(1) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् ‘पुष्णाति विविधैः प्रकारैः, तर्पयति च सुखसाधनैः । पृथिवी, जलं, तेजो, वायुः, आकाशश्चास्याः प्रमुखानि तत्त्वानि । तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति । आव्रियते परितः समन्तात् लोकोऽनेनेति पर्यावरणम् । यथाऽजातश्शिशुः मातृगर्भे सुरक्षितस्तिष्ठति तथैव मानवः पर्यावरणकुक्षौ । परिष्कृतं प्रदूषणरहितं च पर्यावरणमस्मभ्यं सांसारिकं जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति । प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ?
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) प्रकृतिः केषां संरक्षणाय यतते ?
(ख) प्रमुख तत्त्वानि मिलित्वा अस्माकं किं रचयन्ति ?
(ग) शिशुः कुत्र सुरक्षितस्तिष्ठति ?
(घ) प्रकृतिकोपस्य एकम् उदाहरणम् लिखत।
उत्तरम् – (क) प्राणिनाम्।
(ख) पर्यावरणम् ।
(ग) मातृगर्भे।
(घ) भूकम्पः ।
2. पूर्णवाक्येन उत्तरत-
(क) प्रमुखानि तत्त्वानि कानि सन्ति?
(ख) पर्यावरणम् कीदृशं मानवं रक्षति ?
(ग) प्रदूषणरहितं पर्यावरणम् अस्मभ्यं किं प्रददाति ?
(घ) कै: सन्तप्तस्य मानवस्य मङ्गलम् असम्भवम् भवति ?
उत्तरम् — (क) पृथिवी, जलं, तेजो, वायु, आकाशश्च प्रमुखानि तत्त्वानि सन्ति ।
(ख) यथाऽजातश्शिशुः मातृगर्भे सुरक्षितस्तिष्ठति तथैव मानव: पर्यावरणकुक्षौ।
(ग) प्रदूषणरहितं पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं सविचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति ।
(घ) जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य मङ्गलम् असम्भवम् भवति।
3. निर्देशानुसारम् उत्तरत-
(क) ‘पृथक्त्वा’ इति अस्य विलोमपदं किं गद्यांशे प्रयुक्तम् ?
(ख) ‘प्रकृतिः’ अस्य क्रियापदं किम् ?
(ग) ‘गर्भे’ इत्यस्य समानार्थकपदं गद्यांशात् चिनुत ।
(घ) आव्रियते ……… समन्तात् लोकोऽनेनेति पर्यावरणम् – रिक्तस्थानं पूरयत ।
उत्तरम् — (क) मिलित्वा ।
(ख) यतते ।
(ग) कुक्षौ ।
(घ) परितः ।
(2)अतएव प्रकृतिरस्माभिः रक्षणीया । तेन च पर्यावरणं रक्षितं भविष्यति । प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने एव सुरक्षितं पर्यावरणमुपलभ्यते स्म । विविधा विहगाः कलकूजितैस्तत्र श्रोत्ररसायनं ददति ।
सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति । वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति । शीतलमन्दसुगन्धवनपवना प्राणवायुं वितरन्ति । औषधकल्पं
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अस्माभिः रक्षणीया का ?
(ख) विहगाः कलकूजितैः किं ददति ?
(ग) कस्मिन्नेव सुरक्षितं पर्यावरणम् उपलभ्यते स्म ?
(घ) वृक्षा लताश्च किं वायुं वितरन्ति ?
उत्तरम् — (क) प्रकृतिः ।
(ख) श्रोत्ररसायनम् ।
(ग) वने एव ।
(घ) प्राणवायुम् ।
2. पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले के वने निवसन्ति स्म ?
(ख) ऋषयः कथं वने निवसन्ति स्म ?
(ग) सरितो गिरिनिर्झराश्च किं प्रयच्छन्ति ?
(घ) वृक्षाः लताश्च कानि बाहुल्येन समुपहरन्ति ?
उत्तरम् — (क) प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म।
(ख) ऋषयः वने निवसन्ति स्म यतः वने एव सुरक्षितं पर्यावरणमुपलभ्यते स्म ।
(ग) सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति ।
(घ) वृक्षाः लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘उपलभ्यते’ अत्र कः उपसर्गः प्रयुक्तः ?
(ख) ‘निर्मलं जलम्’ अत्र विशेषणपदं किम् ?
(ग) ‘असुरक्षितम्’ अस्य विलोमपदं किम् ?
(घ) ‘खगाः’ अस्य पर्यायपदं लिखत ।
उत्तरम् – (क) उप।
(ख) निर्मलम् ।
(ग) सुरक्षितम् ।
(घ) विहगाः ।
(3) परन्तु स्वार्थान्धो मानवस्तदेव पर्यावरणमद्य नाशयति । स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति । यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते येन मत्स्यादीनां उत्तरम्जलचराणां च क्षणेनैव नाशो जायते । नदीजलमपि तत्सर्वथाऽपेयं जायते । वनवृक्षा निर्विवेकं छिद्यन्ते व्यापारवर्धनाय येन अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति । शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जातः । एवं हि स्वार्थान्धमानवैर्विकृतिमुपगता प्रकृतिरेव तेषां विनाशकर्त्री सञ्जाता। पर्यावरणे विकृतिमुपगते जायन्ते विविधा रोगा भीषणसमस्याश्च । तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कीदृशः मानवः पर्यावरणम् नाशयति ?
(ख) केषाम् विषाक्तं जलं नद्यां निपात्यते ?
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते येन कः प्रवर्धते ?
(घ) कः वृक्षकर्तनात् सङ्कटापन्नो जात: ?
उत्तरम् – (क) स्वार्थान्धः ।
(ख) यन्त्रागाराणाम्।
(ग) अवृष्टिः।
(घ) शुद्धवायुः ।
2. पूर्णवाक्येन उत्तरत-
(क) विषाक्तजलेन केषां नाशः जायते ?
(ख) वनवृक्षाः कर्तनेन किं भवति ?
(ग) कीदृशी प्रकृति : मानवानां विनाशकर्त्री सञ्जाता ?
(घ) विविधा रोगा कथं जायन्ते ?
उत्तरम् – (क) विषाक्तजलेन मत्स्यादीनां जलचराणां च नाश: जायते ।
(ख) वनवृक्षाः कर्तनेन अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति ।
(ग) स्वार्थान्धमानवैर्विकृतिमुपगता प्रकृतिः मानवानां विनाशकर्त्री सञ्जाता।
(घ) पर्यावरणे विकृतिमुपगते विविधाः रोगाः जायन्ते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘विकृतिमुपगते जायन्ते विविधा रोगा ।’ अत्र किं कर्तृपदम् ?
(ख) ‘बहुमूल्यानि वस्तूनि’ अत्र विशेषणपदं किम् ?
(ग) प्रकृतिः तेषां विनाशकर्त्री सञ्जाता’ अत्र ‘तेषां’ केभ्यः प्रयुक्तम् ?
(घ) ‘अचिन्तनीयम्’ अस्य विलोमपदं किम् ?
उत्तरम् – (क) रोगाः ।
(ख) बहुमूल्यानि ।
(ग) मानवेभ्यः ।
(घ) चिन्तनीयम् ।
(4) धर्मो रक्षति रक्षितः इत्यार्षवचनम् । पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः । तत एव वापीकूपतडागादिनिर्माणं देवायतनविश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्त्रोतोरूपेणाङ्गीकृतम्। कुक्कुरसूकरसर्पनकुलादिस्थलचरा, मत्स्यकच्छप- मकरप्रभृतयो जलचराश्चापि रक्षणीयाः, यतस्ते स्थलमलापनोदिनो जलमलापहारिणश्च । प्रकृतिरक्षयैव सम्भवति लोकरक्षेति न संशयः ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) कीदृशः धर्मः रक्षति ?
(ख) पर्यावरणरक्षणम् कस्य अङ्गम् अस्ति ?
(ग) कुक्कुरसूकरसर्पनकुलादि किं कथ्यन्ते ?
(घ) प्रकृतिरक्षयैव का सम्भवति ?
उत्तरम् – (क) रक्षितः ।
(ख) धर्मस्य |
(ग) स्थलचरा ।
(घ) लोकरक्षा ।
2. पूर्णवाक्येन उत्तरत-
(क) आर्षवचनम् किम् ?
(ख) ऋषयं किं प्रतिपादितवन्तः ?
(ग) धर्मसिद्धेः स्त्रोतोरूपेणाङ्गीकृतम् किम् ?
(घ) स्थलचराः जलचराश्च कथं रक्षणीया: ?
उत्तरम् – (क) धर्मोरक्षति रक्षितः इत्यार्षवचनम् ।
(ख) पर्यावरणरक्षणमपि. धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः ।
(ग) वापीकूपतडागादिनिर्माणं देवायतनविश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतो- रूपेणाङ्गीकृतम् ।
(घ) स्थलचराः जलचराश्च रक्षणीयाः, यतः स्थलमलापनोदिनो जलमलापहारिणश्च ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘धर्मो रक्षति रक्षितः । अत्र कर्तृपदं किम् ?
(ख) ‘उद्घाटितवन्तः’ अस्य पर्यायवाचिक्रियापदं लिखत ।
(ग) ‘भक्षणीया:’ इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(घ) ‘इत्यार्षवचनम्’ इति पदस्य सन्धिच्छेदं कुरु ।
उत्तरम् — (क) धर्मः ।
(ख) प्रतिपादितवन्तः ।
(ग) रक्षणीया: ।
(घ) इति + आर्षवचनम् ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
उत्तरम् — पृथिवी, जलं, तेजो, वायुः आकाशश्च प्रकृतेः प्रमुखतत्त्वानि सन्ति ।
(ख) स्वार्थान्ध: मानवः किं करोति ?
उत्तरम् — स्वार्थान्ध: मानवः पर्यावरणम् नाशयति ।
(ग) पर्यावरणे विकृते जाते किं भवति ?
उत्तरम् – पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते ।
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया ?
उत्तरम् – अस्माभिः पर्यावरणस्य रक्षा करणीया यतः प्रकृतिरक्षयैव सम्भवति लोकरक्षेति न संशयः ।
(ङ) लोकरक्षा कथं सम्भवति ?
उत्तरम् — लोकरक्षा प्रकृतिरक्षयैव सम्भवति ।
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति ?
उत्तरम् – परिष्कृतं पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं सविचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति ।
2. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) वनवृक्षाः निर्विवेकं छिद्यन्ते ।
उत्तरम् – के निर्विवेकं छिद्यन्ते?
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते ।
उत्तरम् – कस्मात् शुद्धवायुः न प्राप्यते ?
(ग) प्रकृति: जीवनसुखं प्रददाति ।
उत्तरम् – प्रकृतिः किं प्रददाति ?
(घ) अजातश्शिशुः मातृगर्भे सुरक्षित: तिष्ठति ।
उत्तरम् – अजातश्शिशुः कस्मिन् सुरक्षितः तिष्ठति ?
(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति ।
उत्तरम् – पर्यावरणरक्षणं कस्य अङ्गम् अस्ति ?
3. उदाहरणमनुसृत्य पदरचनां कुरुत-
(क) यथा – जले चरन्ति इति — जलचरा:
स्थले चरन्ति इति — ……………..
निशायां चरन्ति इति — ……………..
व्योम्नि चरन्ति इति — ……………..
गिरौ चरन्ति इति — ……………..
भूमौ चरन्ति इति — ……………..
उत्तरम् – स्थले चरन्ति इति — स्थलचराः
निशायां चरन्ति इति — निशाचरा:
व्योम्नि चरन्ति इति — व्योमचराः
गिरौ चरन्ति इति — गिरिचरा:
भूमौ चरन्ति इति — भूमिचरा:
(ख) यथा- न पेयम् इति — अपेयम्
नवृष्टि इति — ……………..
न सुखम् इति — ……………..
न भावः इति — ……………..
न पूर्णः इति — ……………..
उत्तरम् – न वृष्टि इति — अवृष्टिः
न सुखम् इति — असुखम्
न भावः इति — अभावः
न पूर्ण इति — अपूर्ण
4. उदाहरणमनुसृत्य पदनिर्माणं कुरुत-
यथा — वि + कृ + क्तिन् = विकृति :
(क) प्र + गम् + क्तिन् = …………
(ख) दृश् + क्तिन् = …………
(ग) गम् + क्तिन् = …………
(घ) मन् + क्तिन् = …………
(ङ) शम् + क्तिन् = …………
(च) भी + क्तिन् = …………
(छ) जन् + क्तिन् = …………
(ज) भज् + क्तिन् = …………
(झ) नी + क्तिन् = …………
उत्तरम् – (क) प्र + गम् + क्तिन् = प्रगति:
(ख) दृश् + क्तिन् = दृष्टिः
(ग) गम् + क्तिन् = गतिः
(घ) मन् + क्तिन् = मतिः
(ङ) शम् + क्तिन् = शान्तिः
(च) भी + क्तिन् = भीतिः
(छ) जन् + क्तिन् = जाति:
(ज) भज् + क्तिन् = भक्तिः
(झ) नी + क्तिन् = नीति:
5. निर्देशानुसारं परिवर्तयत-
यथा— स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने) ।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति ।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुत: ? (बहुवचने)
उत्तरम् — सन्तप्तानां मानवानां मङ्गलं कुतः ?
(ख) मानवाः पर्यावरणकुक्षी सुरक्षिताः भवन्ति । ( एकवचने)
उत्तरम् – मानवः पर्यावरणकुक्षी सुरक्षितः भवति ।
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते । ( एकवचने)
उत्तरम् – वनवृक्षः निर्विवेक छिद्यते ।
(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति । ( द्विवचने)
उत्तरम् – गिरिनिर्झरी निर्मलं जलं प्रयच्छतः ।
(ङ) सरित् निर्मलं जलं प्रयच्छति । ( बहुवचने)
उत्तरम् – सरितः निर्मलं जलं प्रयच्छन्ति ।
6. पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्चवाक्यानि लिखत ।
यथा – अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि ।
(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………
उत्तरम् — (क) अहं वृक्षारोपणं करिष्यामि ।
(ख) वयं प्रकृतेः रक्षिष्यामः ।
(ग) वयं व्यापारवर्धनाय वनवृक्षान् न कर्त्तयिष्यामः ।
(घ) वयं वनपशून् न व्यापादयिष्यामः ।
(ङ) वयं वापीकूपतडागादीनां निर्माणं करिष्यामः ।
7. (क) उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत-
यथा – संरक्षणाय — सम्
(i) प्रभवति — ………………
(ii) उपलभ्यते — ………………
(iii) निवसन्ति — ………………
(iv) समुपहरन्ति — ………………
(v) वितरन्ति — ………………
(vi) प्रयच्छन्ति — ………………
(vii) उपगता — ………………
(viii) प्रतिभाति — ………………
उत्तरम् —
(i) प्रभवति — प्र
(ii) उपलभ्यते — उप
(iii) निवसन्ति — नि
(iv) समुपहरन्ति — सम् + उप
(v) वितरन्ति — वि
(vi) प्रयच्छन्ति — प्र
(vii) उपगता — उप
(viii) प्रतिभाति — प्रति
(ख) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-
यथा – तेजोवायुः — तेजः वायुः च ।
गिरिनिर्झराः — गिरयः निर्झराः च ।
(i) पत्रपुष्पे — ………………
(ii) लतावृक्षौ — ………………
(iii) पशुपक्षी — ………………
(iv) कीटपतङ्गौ — ………………
उत्तरम् —
(i) पत्रपुष्पे — पत्रे पुष्पे च
(ii) लतावृक्षौ — लते वृक्षौ च
(iii) पशुपक्षी — पशु पक्षी च
(iv) कीटपतङ्गौ — कीटौ पतङ्गौ च ।