UK Board 9th Class Sanskrit – Chapter 2 स्वर्णकाकः
UK Board 9th Class Sanskrit – Chapter 2 स्वर्णकाकः
UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 2 स्वर्णकाकः
स्वर्णकाकः (सोने का कौआ)
[ पाठ-परिचय — प्रस्तुत पाठ एक लोककथा का संस्कृतानुवाद है। यह बर्मा देश की एक श्रेष्ठ लोककथा है। इसका संस्कृत में अनुवाद श्री पद्मशास्त्री द्वारा किया गया है। यह कथा उनकी अनूदित रचना ‘विश्वकथाशतकम्’ से यहाँ उद्धृत है। ‘विश्वकथाशतकम्’ विभिन्न देशों की सौ लोककथाओं का अनुपम संग्रह है। पाठ के रूप में संकलित इस कथा में एक सुनहरे कौए और दो बालिकाओं के माध्यम से ईमानदारी एवं लोभी प्रवृत्ति के दुष्परिणामों एवं सुपरिणामों को समझाया गया है।]
समस्त पाठ का हिन्दी – अनुवाद
प्राचीनकाल में किसी गाँव में एक निर्धन बुढ़िया रहती थी । उसकी एक विनम्र और सुन्दर पुत्री थी। एक बार माता ने थाली में चावल फैलाकर पुत्री को आदेश दिया- धूप में सूखते चावलों की पक्षियों से रक्षा करो। कुछ देर बाद एक अद्भुत (विचित्र) कौआ उड़ता हुआ उसके पास पहुँचा ।
सोने के पंख, चाँदी की चोंचवाला ऐसा सुनहरा (सोने का ) कौआ उसने पहले नहीं देखा था। चावलों को खाते और हँसते हुए उस (कौए) को देखकर बालिका ने रोना आरम्भ कर दिया। उसको हटाती हुई उस (बालिका) ने (कौए से) प्रार्थना की— चावलों को मत खाओ। मेरी माता बहुत अधिक निर्धन है। सोने के पंखवाले कौए ने कहा, दुःख मत करो। सूर्य उगने से पहले गाँव से बाहर पीपल के वृक्ष पर तुम अवश्य आना। मैं तुम्हें चावलों का मूल्य दूँगा। प्रसन्न (आनन्दित ) बालिका सो भी नहीं पाई।
सूर्य उगने से पहले वह वहाँ उपस्थित हो गई। वृक्ष के ऊपर देखकर वह आश्चर्यचकित हुई कि वहाँ सोने का महल है। जब कौआ सोकर जागा, तब उसने सोने की खिड़की में से कहा- हं-हो, बालिका तुम आ गई हो, ठहरो, मैं तुम्हारे लिए सीढ़ी (नीचे) उतारता हूँ, तो कहो सोने की, चाँदी की अथवा ताँबे की (सीढ़ी) में से कौन-सी सीढ़ी नीचे भेजूँ? कन्या बोली- मैं निर्धन माता की पुत्री हूँ। (मैं) ताँबे की सीढ़ी से ही आ जाऊँगी। परन्तु सोने की सीढ़ी से वह सोने के महल में पहुँची।
बहुत देर तक भवन में सजी हुई चित्र-विचित्र ( अनोखी ) वस्तुओं को देखकर वह आश्चर्यचकित हुई। उसे थकी हुई देखकर कौए ने कहा—पहले थोड़ा नाश्ता करो- बोलो तुम सोने की थाली में भोजन करोगी, क्या चाँदी की अथवा ताँबे की (थाली में ) ? बालिका ने कहा— ताँबे की थाली में ही मैं निर्धन भोजन करूँगी। तब वह कन्या आश्चर्यचकित हुई, जब सोने के कौए द्वारा उसे सोने की थाली में भोजन परोसा गया। ऐसा स्वादिष्ट भोजन बालिका ने आज तक न खाया था। कौआ बोला — बालिके ! मैं चाहता हूँ कि तुम सदैव यहीं पर रहो, परन्तु तुम्हारी माता अकेली है। तुम शीघ्र ही अपने घर जाओ ।
ऐसा कहकर कौए ने कमरे के भीतर से तीन पेटियाँ (सन्दूकचियाँ) निकालकर उससे कहा – बालिके! (अपनी) इच्छा के अनुसार एक पेटी ले लो। सबसे छोटी पेटी को लेकर बालिका द्वारा कहा गया कि इतना ही मेरे चावलों का मूल्य है।
घर आकर उसके द्वारा पेटी खोली गई, उसमें बहुमूल्य हीरों को देखकर वह आनन्दित हुई और उसी दिन से धनवती हो गई।
उसी गाँव में एक दूसरी लालची बुढ़िया रहती थी। उसकी भी एक पुत्री थी। ईर्ष्या से वह सोने के कौए के रहस्य को जान गई । धूप में चावलों को रखकर उसने भी अपनी पुत्री को उनकी रक्षा (रखवाली) में लगाया। वैसे ही सोने के पंखवाले कौए ने चावलों को खाते हुए उसको भी वैसा ही किया। प्रातः वहाँ जाकर वह कौए की निन्दा करती हुई बोली- अरे नीच कौए ! मैं आ गई हूँ, मुझे चावलों का मूल्य दो। कौआ बोला- मैं तुम्हारे लिए सीढ़ी उतार रहा हूँ, तो कहो सोने की, चाँदी की अथवा ताँबे की (सीढ़ी में से कौन-सी सीढ़ी तुम्हारे लिए उतारूं ) ? घमण्ड से बालिका बोली-सोने की सीढ़ी से मैं आना चाहती हूँ, परन्तु सोने के कौए ने उसके लिए ताँबे की सीढ़ी ही दी। सोने के कौए ने उसको भोजन भी ताँबे के बर्तन में कराया ।
वापस लौटने के समय सोने के कौए द्वारा कमरे के भीतर से तीन पेटियाँ उसके सामने रखी गई। लोभ से घिरी उसने सबसे बड़ी पेटी ग्रहण की। घर आकर उसने जब पेटी खोली तो उसमें उसने भयंकर काला साँप देखा। लोभी बालिका को लोभ का फल प्राप्त हो गया। उसके बाद उसने लोभ त्याग दिया।
पाठाधारित अवबोधन-कार्य
निर्देश – अधोलिखितं गद्यांशं पठित्वा तत-आधारितान् प्रश्नान् उत्तरपुस्तिकायाम् उत्तरत-
(1) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्याश्चैका दुहिता विनम्रा मनोहरा चासीत् । एकदा माता स्थाल्यां तण्डुलान्निक्षिप्य पुत्रीमादिदेश – सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित्कालादनन्तरम् एको विचित्रः काकः समुड्डीय तामुपाजगाम ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) वृद्धा स्त्री कुत्र न्यवसत् ?
(ख) माता काम् आदिदेश ?
(ग) तण्डुलान् केभ्यः रक्षयितुं कथित: ?
(घ) तत्र कः समुड्डीय तामुपाजगाम ?
उत्तरम्- (क) ग्रामे ।
(ख) पुत्रीम् ।
(ग) खगेभ्यः ।
(घ) काकः ।
2. पूर्णवाक्येन उत्तरत-
(क) ग्रामे का न्यवसत् ?
(ख) दुहिता कीदृशी आसीत् ?
(ग) माता किम् अकरोत् ?
(घ) किञ्चित् कालादनन्तरम् किम् अभवत्?
उत्तरम्— (क) ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(ख) दुहिता विनम्रा मनोहरा चासीत् ।
(ग) माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिदेश ।
(घ) किञ्चित् कालादनन्तरम् एकः विचित्रः काकः समुठ्ठीय तामुपाजगाम ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘तस्याश्चैका दुहिता विनम्रा मनोहरा चासीत्’ अत्र ‘तस्या:’ इति पदं कस्यै प्रयुक्तम् ?
(ख) ‘निक्षिप्य’ इति पदे कः प्रत्ययः ?
(ग) ‘मनोहरा’ इति पदं कस्य विशेषणम् ?
(घ) ‘उपाजगाम’ इति क्रियापदस्य कर्त्ता क: ?
(ङ) ‘माता’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
उत्तरम्- (क) वृद्धायै।
(ख) ल्यप् ।
(ग) दुहितायाः ।
(घ) काकः ।
(ङ) पुत्री, दुहिता ।
(2) नैतादृश: स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः । तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा । तं निवारयन्ती सा प्रार्थयत् — तण्डुलान् मा भक्षय । मदीया माता अतीव निर्धना वर्तते । स्वर्णपक्षः काकः प्रोवाच, मा शुचः । सूर्योदयात्प्राग् ग्रामाद्बहिः पिप्पलवृक्षमनु त्वयागन्तव्यंम् । अहं तुभ्यं तण्डुलमूल्यं दास्यामि । प्रहर्षिता बालिका निद्रामपि न लेभे ।
प्रश्नाः -1. एकपदेन उत्तरत—
(क) बालिका किं कर्तुमारब्धा ?
(ख) कं निवारयन्ती बालिका प्रार्थयत् ?
(ग) काकः किं दातुं कथयति ?
(घ) प्रहर्षिता बालिका काम् न लेभे ?
उत्तरम् – (क) रोदितुम्।
(ख) काकम् ।
(ग) तण्डुलमूल्यम् ।
(घ) निद्राम् ।
2. पूर्णवाक्येन उत्तरत-
(क) बालिकया कीदृशः पूर्वं न दृष्टः ?
(ख) बालिका काकं किं प्रार्थयत् ?
(ग) काकः बालिकां किं प्रोवाच ?
(घ) किं विलोक्य बालिका रोदितुम् आरब्धा ?
उत्तरम् – (क) बालिका स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकः पूर्वं न दृष्टः ।
(ख) बालिका काकं प्रार्थयत् — तण्डुलान् मा भक्षय । मदीया माता अतीव निर्धना वर्तते ।
(ग) काकः बालिकां प्रोवाच — मा शुचः । सूर्योदयात् प्राग् ग्रामाद्बहिः पिप्पलवृक्षम् नु त्वयागन्तव्यम् । अहं तुभ्यं तण्डुलमूल्यं दास्यामि ।
(घ) काकं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुम् आरब्धा।
3. निर्देशानुसारम् उत्तरत-
(क) तण्डुलान् ……… भक्षय। (रिक्तस्थानं पूरयत)
(ख) ‘निवारयन्ती’ अस्य शुद्धम् अर्थम् चिनुत — घातयन्ती, ताडयन्ती, दूरं कुर्वन्ती ।
(ग) ‘रोदन्तम्’ अस्य विलोमपदं किमत्र प्रयुक्तम्?
(घ) ‘प्राग्’ अस्य पर्यायवाचिपदं लिखत ।
उत्तरम्— (क) मा।
(ख) दूरं कुर्वन्ती ।
(ग) हसन्तम्।
(घ) पूर्वम्।
(3) सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता । वृक्षस्योपरि विलोक्य सा चाश्चर्यचकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते । यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं हंहो बाले ! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयमुत ताम्रमयं वा? कन्या प्रावोचत् अहं निर्धनमातुर्दुहिताऽस्मि । ताम्रसोपानेनैव आगमिष्यामि । परं स्वर्णसोपानेन सा स्वर्णभवनमाससाद ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) स्वर्णमय: प्रासादः कुत्र आसीत् ?
(ख) का आश्चर्यचकिता सञ्जाता ?
(ग) कन्या कीदृशं सोपानं प्रेषयितुम् कथयति ?
(घ) कन्या केन स्वर्णभवनमाससाद ?
उत्तरम् — (क) वृक्षस्योपरि ।
(ख) कन्या ।
(ग) ताम्रसोपानम्।
(घ) स्वर्णसोपानेन।
2. पूर्णवाक्येन उत्तरत-
(क) कन्या कदा ग्रामात् बहिः उपस्थिता ?
(ख) किं विलोक्य कन्या आश्चर्यचकिता सञ्जाता ?
(ग) काकेन किं कथितम् ?
(घ) कन्या काकं किं प्रावोचत् ?
उत्तरम् – (क) कन्या सूर्योदयात्पूर्वमेव ग्रामात् बहिः उपस्थिता।
(ख) वृक्षस्योपरि विलोक्य कन्या आश्चर्यचकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते ।
(ग) काकेन कथितम् — हंहो वाले! त्वमागता, विष्ट, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयमुत ताम्रमयं वा ।
(घ) कन्या काकं प्रावोचत् — अहं निर्धनमातुर्दुहिता अस्मि । ताम्रसोपानेनैव आगमिष्यामि ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘स्वर्णमय: प्रासादः’ अत्र विशेषणपदं किम् ?
(ख) ‘सा स्वर्णभवनमाससाद’ अत्र ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(ग) ‘शयितः’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(घ) ‘आससाद’ इति क्रियापदस्य कर्त्ता क: ?
उत्तरम् — (क) स्वर्णमयः ।
(ख) कन्यायै ।
(ग) प्रबुद्धः ।
(घ) कन्या ।
(4) चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता । श्रान्तां तां विलोक्य काकः प्राह – पूर्वं लघुप्रातराशः क्रियताम् — वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्यामुत ताम्रस्थाल्याम्? बालिका व्याजहार-ताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि। तदा सा कन्या चाश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं परिवेषितम् । नैतादृक् स्वादु भोजनमद्यावधि खादितवती । काको ब्रूते – बालिके! अहमिच्छामि यत्त्वं सर्वदा चात्रैव तिष्ठ परं तव माता वर्तते चैकाकिनी । त्वं शीघ्रमेव स्वगृहं गच्छ ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) भवने कानि सज्जितानि आसन् ?
(ख) काकेन कीदृशी कन्या विलोकिता ?
(ग) स्वर्णकाकेन कस्याम् भोजनं परिवेषितम् ?
(घ) का एकाकिनी वर्तते ?
उत्तरम् – (क) चित्रविचित्रवस्तूनि ।
(ख) श्रान्ता ।
(ग) स्वर्णस्थाल्याम्।
(घ) माता ।
2. पूर्णवाक्येन उत्तरत-
(क) श्रान्तां कन्यां विलोक्य काकः किं प्राह ?
(ख) स्थाल्याविषये पृष्टे बालिका किं व्याजहार ?
(ग) कन्या कदा आश्चर्यचकिता सञ्जाता ?
(घ) अन्ते काकः किं ब्रूते ?
उत्तरम् – (क)- श्रान्तां कन्यां विलोक्य काक: प्राह- पूर्व लघुप्रातराशः क्रियताम् — वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्यामुत ताम्रस्थाल्याम्।
(ख) स्थाल्याविषये पृष्टे बालिका व्याजहारताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि ।
(ग) कन्या तदा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं परिवेषितम् ।
(घ) अन्ते काक: ब्रूते – बालिके! अहम् इच्छामि यत् त्वं सर्वदा चात्रैव तिष्ठ परं तव माता एकाकिनी वर्तते ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘लघुप्रातराश:’ इत्यनयोः पदयोः विशेष्यपदं किम् ?
(ख) ‘विलोक्य’ इति शब्दस्य कोऽर्थ:-
‘दृष्ट्वा, आगत्वा, ‘चकित्वा’ शुद्धम् उत्तरम् लिख्यताम् ।
(ग) ‘परिवेषितम्’ अत्र कः प्रत्ययः प्रयुक्तः ?
(घ) ‘खादितवती’ इति क्रियापदस्य कर्त्ता क: ?
उत्तरम् — (क) प्रातराश: ।
(ख) दृष्ट्वा ।
(ग) क्त।
(घ) बालिका।
(5) इत्युक्त्वा काकः कक्षाभ्यन्तरात्तिस्त्रो मञ्जूषा निस्सार्य तां प्रत्यवदत् – बालिके! यथेच्छं गृहाण मञ्जूषामेकाम् । लघुतमां मञ्जूषां प्रगृह्य बालिकया कथितमियदेव मदीयतण्डुलानां मूल्यम् ।
गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दिनाद्धनिका च सञ्जाता।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) काकः कति मञ्जूषा निस्सार्य कन्याम् अवदत् ?
(ख) काकः कतिमञ्जूषां गृहीतुं कथयति ?
(ग) कां मञ्जूषां बालिका अगृह्णात् ?
(घ) मञ्जूषायां कानि वस्तूनि विलोक्य बालिका प्रहर्षिता ?
उत्तरम् — (क) तिस्र: ।
(ख) एकाम् ।
(ग) लघुतमाम्।
(घ) महार्हाणि हीरकाणि ।
2. पूर्णवाक्येन उत्तरत-
(क) किं कृत्वा काकः बालिकाम् अवदत् ?
(ख) काक: बालिकां किम् अवदत् ?
(ग) मञ्जूषां प्रगृह्य बालिकया किं कथितम् ?
(घ) मञ्जूषाम् उद्घाटिते बालिका का सञ्जाता ?
उत्तरम् — (क) काकः कक्षाभ्यन्तरात्तिस्रो मञ्जूषा निस्सार्य बालिकाम् अवदत् ।
(ख) काकः बालिकाम् अवदत् – बालिके ! यथेच्छं गृहाण मञ्जूषामेकाम्।
(ग) मञ्जूषां प्रगृह्य बालिका कथितम् — इयत् एव मदीयतण्डुलानां मूल्यम्।
(घ) मञ्जूषाम् उद्घाटिते बालिका प्रहर्षिता धनिका च सञ्जाता।
3. निर्देशानुसारम् उत्तरत-
(क) ‘यथेच्छम्’ इत्यस्य पदस्य सन्धिच्छेदं कुरुत ।
(ख) ‘प्रत्यवदत्’ अत्र प्रयुक्तः लकारः कः ?
(ग) ‘प्रगृह्य’ अत्र कः प्रत्ययः ?
(घ) प्रथमवाक्यात् एकम् अव्ययपदं चित्वा लिखत ।
उत्तरम् — (क) यथेच्छम् = यथा + इच्छम्।
(ख) लङ्लकारः ।
(ग) ल्यप् ।
(घ) प्रति ।
(6) तस्मिन्नेव ग्रामे एकाऽपरा लुब्धा वृद्धा न्यवसत् । तस्या अपि एका पुत्री आसीत् । ईर्ष्यया सा तस्य स्वर्णकाकस्य रहस्यमभिज्ञातवती। सूर्यातपे तण्डुलान्निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता । तथैव स्वर्णपक्षः काकः तण्डुलान्भक्षयन् तामपि तत्रैवाकारयत् । प्रातस्तत्र गत्वा सा काक निर्भर्त्सयन्ती प्रावोचत् – भो नीचकाक! अहमागता, मह्यं त्वत्कृते तण्डुलमूल्यं प्रयच्छ । काकोऽब्रवीत् — अहं सोपानमुत्तारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा। गर्वितया बालिकया प्रोक्तम् — स्वर्णमयेन सोपानेनाहमागच्छामि परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत् । स्वर्णकाकस्तां भोजनमपि ताम्रभाजने उत्तरम्ह्यकारयत् ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) तस्मिन्नेव ग्रामे अपरा का न्यवसत् ?
(ख) वृद्धा कस्य रहस्यम् अभिज्ञातवती ?
(ग) अपरा बालिका किं कुर्वन्ती प्रावोचत् ?
(घ) स्वर्णकाकः कस्मिन् भाजने बालिकां भोजनम् अकारयत् ?
उत्तरम्- (क) लुब्धा वृद्धा।
(ख) स्वर्णकाकस्य ।
(ग) काकं निर्भर्त्सयन्ती।
(घ) ताम्रभाजने।
2. पूर्णवाक्येन उत्तरत-
(क) कया का च स्वर्णकाकस्य रहस्यम् अभिज्ञातवती ?
(ख) काकं निर्भर्त्सयन्ती अपरा बालिका कि प्रावोचत् ?
(ग) परं स्वर्णकाकः बालिकायै किं प्रायच्छत्?
(घ) गर्वितबालिका केन सोपानेन गन्तुम् ऐच्छत् ?
उत्तरम् — (क) ईर्ष्यया लुब्धा वृद्धा च स्वर्णकाकस्य रहस्यम अभिज्ञातवती।
(ख) काकं निर्भर्त्सयन्ती अपरा बालिका प्रावोचत् — भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।
(ग) परं स्वर्णकाकः बालिकायै ताम्रमयं सोपानमेव प्रायच्छत् ।
(घ) गर्वितबालिका स्वर्णमयेन सोपानेन गन्तुम् ऐच्छत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अभिज्ञातवती’ इति क्रियापदस्य कर्त्ता का ?
(ख) सुताया: किम् अन्यत् पर्यायपदम् अत्र प्रयुक्तम् ?
(ग) ‘अन्या’ इति स्थाने किं पदम् अत्र प्रयुक्तम् ?
(घ) ‘तत्र एव अकारयत्’ अत्र सन्धियुक्तं किं पदं प्रयुक्तम् ?
उत्तरम् — (क) लुब्धा वृद्धा ।
(ख) आम्— पुत्री ।
(ग) अपरा।
(घ) तत्रैवाकारयत्।
(7) प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात्तिस्त्रो मञ्जूषा: तत्पुरः समुत्क्षिप्ताः । लोभाविष्टा सा बृहत्तमां मञ्जूषां गृहीतवती । गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति। तावत्तस्यां भीषणः कृष्णसर्पो विलोकितः । लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभं पर्यत्यजत् ।
प्रश्नाः — 1. एकपदेन उत्तरत-
(क) कदा स्वर्णकाकेन मञ्जूषाः समुत्क्षिप्ताः ?
(ख) केन आविष्टा सा कन्या ?
(ग) कस्यां कृष्णसर्प: विलोकित: ?
(घ) बालिका किं पर्यत्यजत् ?
उत्तरम् — (क) प्रतिनिवृत्तिकाले ।
(ख) लोभेन ।
(ग) मञ्जूषायाम् !
(घ) लोभम्।
2. पूर्णवाक्येन उत्तरत-
(क) कन्या कीदृशीं मञ्जूषां गृहीतवती ?
(ख) गृहमागत्य तर्षिता कन्या किं करोति ?
(ग) लुब्धया बालिकया कस्य फलं प्राप्तम् ?
(घ) अनया कथया का शिक्षा मिलति ?
उत्तरम् – (क) कन्या बृहत्तमां मञ्जूषां गृहीतवती ।
(ख) गृहमागत्य तर्षिता कन्या मज्जषाम उदघाटयति।
(ग) लुब्धया बालिकया लोभस्य फलं प्राप्तम्।
(घ) ‘लोभः न कर्त्तव्यम्’ इति शिक्षा अनया कथया मिलति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘समुत्क्षिप्ताः’ इति क्रियापदस्य कर्त्ता क: ?
(ख) ‘ तावत्तस्यां भीषणः कृष्णसर्पः विलोकित:’ अत्र ‘तस्यां’ इति सर्वनामपदं कस्य स्थाने प्रयुक्तम् ?
(ग) ‘बृहत्तमां मञ्जूषाम् अत्र विशेषणपदं किम् ?
(घ) ‘लघुतमां’ इति अस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
उत्तरम्- (क) ‘स्वर्णकाकेन’।
(ख) मञ्जूषायाम्।
(ग) बृहत्तमाम् ।
(घ) बृहत्तमाम्।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
उत्तरम् — निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत् ।
(ख) बालिकया पूर्वं किं न दृष्टम् आसीत्?
उत्तरम् – बालिकया स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः पूर्वं न दृष्टः ।
(ग) रुदन्तीं बालिकां काकः कथम् आश्वासयत् ?
उत्तरम् — रुदन्तीं बालिकां काक: आश्वासयत् – मा शुचः । सूर्योदयात्प्राग् ग्रामाद्द्बहिः पिप्पलवृक्षम् नु त्वयागन्तव्यम् । अहं तुभ्यं तण्डुलमूल्यं दास्यामि ।
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
उत्तरम्— वृक्षस्योपरि स्वर्णमयः प्रासादो वर्तते’ इति दृष्ट्वा बालिका आश्चर्यचकिता जाता ।
(ङ) बालिका केन सोपानेन स्वर्णभवनम् आससाद ?
उत्तरम् – बालिका स्वर्णसोपानेन स्वर्णभवनम् आससाद ।
(च) सा ताम्रस्थालीं चयनाय किं तर्कं ददाति?
उत्तरम् – सा ताम्रस्थालीं चयनाय तर्कं ददाति यत् अहं निर्धना अस्मि; अत: ताम्रस्थाल्याम् एव भोजनं करिष्यामि।
(छ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च अप्राप्नोत?
उत्तरम् – गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् ताम्रमयं सोपानं च अप्राप्नोत ।
2. सन्धि कुरुत-
(i) नि + अवसत् — ………
(ii) सूर्य + उदय: — ………
(iii) वृक्षस्य + उपरि — ………
(iv) हि + अकारयत् — ………
(v) च + एकाकिनी — ………
(vi) इति + उक्त्वा — ………
(vii) प्रति + अवदत् — ………
(viii) प्र + उक्तम् — ………
(ix) अत्र + एव — ………
(x) तत्र + उपस्थिता — ………
(xi) यथा + इच्छम् — ………
उत्तरम् – सन्धिच्छेदः — ………
उत्तरम् – सन्धिच्छेदः सन्धितपदम्
(i) नि + अवसत् — न्यवसत्
(ii) सूर्य + उदय: — सूर्योदय:
(iii) वृक्षस्य + उपरि — वृक्षस्योपरि
(iv) हि + अकारयत् — ह्यकारयत्
(v) च + एकाकिनी — चैकाकिनी
(vi) इति + उक्त्वा — इत्युक्त्वा
(vii) प्रति + अवदत् — प्रत्यवदत्
(viii) प्र + उक्तम् — प्रोक्तम्
(ix) अत्र + एव — अत्रैव
(x) तत्र + उपस्थिता — तत्रोपस्थिता ।
(xi) यथा + इच्छम् — यथेच्छम्।
3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) ग्रामे निर्धना स्त्री अवसत् ।
उत्तरम् – ग्रामे का अवसत् ?
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत् ।
उत्तरम् – कं निवारयन्ती बालिका प्रार्थयत् ?
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
उत्तरम् – कस्मात् पूर्वमेव बालिका तत्रोपस्थिता ?
(घ) बालिका निर्धनमातुः दुहिता आसीत् ।
उत्तरम् – बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती ।
उत्तरम् — लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती ?