UK Board 9th Class Sanskrit – Chapter 5 सूक्तिमौक्तिकम्
UK Board 9th Class Sanskrit – Chapter 5 सूक्तिमौक्तिकम्
UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 5 सूक्तिमौक्तिकम्
सूक्तिमौक्तिकम् (सुन्दर वचनरूपी मोती )
[ पाठ – परिचय – प्रस्तुत पाठ में मनोहारी और बहुमूल्य कुछ सुभाषित संकलित हैं। इनमें सदाचरण की महत्ता, प्रियवाणी की आवश्यकता, परोपकारी पुरुष के स्वभाव, गुणार्जन की प्रेरणा, मित्रता के स्वरूप, उत्तम पुरुष के सम्पर्क से होनेवाली शोभा की प्रशंसा और सत्संगति की महिमा आदि विषयों का प्रतिपादन किया गया है। सभी स्मृति ग्रन्थ, विदुरनीति, चाणक्यनीति, हितोपदेश, पञ्चतन्त्र, नीतिशतक, भामिनीविलास आदि संस्कृत के कुछ प्रसिद्ध नीति ग्रन्थ हैं । ]
समस्त पाठ का भावानुवाद
श्लोक प्रथम – चरित्र की प्रयत्नपूर्वक रक्षा करनी चाहिए, धन तो आता है और चला जाता है। धन के नष्ट होने से कुछ नष्ट नहीं होता, चरित्र से नष्ट हुआ तो मर जाता है।
श्लोक द्वितीय – धर्म अर्थात् कर्तव्य के सार को सुनो और सुनकर ही धारण करो। अपने विपरीत ( जिन कार्यों को समझते हो उन कार्यों) को दूसरों के साथ व्यवहार में नहीं लाना चाहिए। आशय यही है कि व्यक्ति जिस कार्य अथवा आचरण को अपने लिए ठीक नहीं समझता, उसे वैसा आचरण दूसरों के साथ नहीं करना चाहिए।
श्लोक तृतीय – प्रिय वाक्य (वचन) बोलने से सभी प्राणी सन्तुष्ट होते हैं। (व्यक्ति को) वैसे ही (वचन) बोलने चाहिए, बोलने में क्या दरिद्रता (कंजूसी) ।
श्लोक चतुर्थ – नदियाँ अपना जल स्वयं ही नहीं पीती हैं। वृक्ष स्वयं (अपने) फलों को नहीं खाते हैं। मेघ (बादल) (अपने द्वारा उगाए गए) अन्नों को नहीं खाते हैं। निश्चय ही सज्जनों की सम्पत्तियाँ परोपकार के लिए होती हैं।
श्लोक पञ्चम – मनुष्यों के द्वारा सदैव ही गुणों को (धारण) करने में प्रयत्नशील रहना चाहिए; क्योंकि संसार में गुणों से युक्त निर्धन भी गुणों से हीन सम्पन्न व्यक्तियों के बराबर नहीं होता (अपितु उनसे श्रेष्ठ होता है)।
श्लोक षष्ठ – दुर्जनों और सज्जनों की मित्रता मध्याह्न से पूर्व और मध्याह्न से बाद की छाया के समान भिन्न-भिन्न होती है। दुर्जनों की मित्रता पूर्वाह्न की छाया के समान आरम्भ में बड़ी (गाढ़ी) और बाद में क्रमश: घटनेवाली होती है, जबकि सज्जनों की मित्रता अपराह्न की छाया के समान पहले छोटी और बाद में क्रमशः बढ़नेवाली होती है।
श्लोक सप्तम – पृथ्वी की शोभा बढ़ाने के लिए हंस जहाँ कहीं भी चले गए हों (किसी की कोई हानि नहीं होती), हानि तो उन सरोवरों की होती है, हंसों के साथ जिनका वियोग होता है।
श्लोक अष्टम – गुण गुणियों में ( रहकर ही) गुण होते हैं, निर्गुण को प्राप्त करके वे दोष हो जाते हैं। नदियों के जल तभी तक स्वादिष्ट (पीने योग्य) होते हैं, जब तक बहते रहते हैं। समुद्र को प्राप्त करके वे अपेय (न पीने योग्य अर्थात् खारे) हो जाते हैं। आशय यही है कि संगति का व्यक्ति के स्वभाव पर बड़ा प्रभाव पड़ता है, जब तक जल गुणवती नदियों में बहते रहते हैं, वे तभी तक पीने योग्य होते हैं, किन्तु जब वही जल निर्गुणी समुद्र में मिल जाते हैं तो खारे होने के कारण पीने योग्य नहीं रह जाते ।
पाठाधारित अवबोधन-कार्य
(1) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ – मनुस्मृतिः
अन्वयः— वृत्तं यत्नेन संरक्षेद्, वित्तं च एति याति च । वित्ततः (क्षीण:) तु अक्षीण: (किन्तु ) वृत्ततः क्षीण: हतो हतः ।।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) यत्नेन किं ‘संरक्षेत् ?
(ख) किम् एति च याति च ?
उत्तरम् — (क) वृत्तम् ।
(ख) वित्तम् ।
2. पूर्णवाक्येन उत्तरत-
(क) वित्तस्य प्रवृत्तिः का अस्ति ?
(ख) वित्ततः क्षीणः मनुष्यः किं भवति ?
(ग) वृत्ततः क्षीण: किं भवति ?
(घ) वृत्तं केन संरक्षेत् ?
उत्तरम् – (क) वित्तस्य प्रवृत्तिः अस्ति यत् तत् एति च याति च।
(ख) वित्ततः क्षीणः मनुष्यः अक्षीणः भवति ।
(ग) वृत्ततः क्षीणः हतो हत: ?
(घ) वृत्तं यत्नेन संरक्षेत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘याति’ इति क्रियापदस्य कर्त्ता क: ?
(ख) ‘संरक्षेत्’ इति क्रियापदे प्रयुक्तः लकारः कः?
(ग) ‘एति’ अस्य विलोमपदम् अत्र प्रयुक्तम् किम्?
(घ) ‘धनम्’ अस्य पर्यायवाचिपदं किम् अत्र ?
उत्तरम् — (क) वित्तम् ।
(ख) विधिलिङ्लकारः ।
(ग) याति ।
(घ) वित्तम् ।
(2) श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ – विदुरनीति:
अन्वयः– धर्मसर्वस्वं श्रूयतां च श्रुत्वा एव अवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) किं श्रूयताम् ?
(ख) धर्मसर्वस्वं श्रुत्वा किं कुर्वताम् ?
(ग) आत्मनः प्रतिकूलानि केषां न समाचरेत् ? ।
उत्तरम् — (क) धर्मसर्वस्वम् ।
(ख) अवधार्यताम्।
(ग) परेषाम्।
2. पूर्णवाक्येन उत्तरत-
(क) किम् कृत्वा किम् अवधार्यताम् ?
(ख) किं न समाचरेत् ?
उत्तरम् – (क) धर्मसर्वस्वं श्रुत्वा तम् अवधार्यताम्।
(ख) आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
3. निर्देशानुसारम् उत्तरत-
(क) ‘श्रुत्वा’ इति पदे कः प्रत्ययः प्रयुक्तः ?
(ख) ‘आत्मनः’ अत्र अस्य शुद्धम् अर्थम् चिनुत- आत्मा सम्बन्धिनः, परमात्म-सम्बन्धिनः, स्वस्य ।
(ग) ‘अनुकूलानि’ अस्य विलोमपदं किमत्र प्रयुक्तम् ?
(घ) ‘अन्येषाम्’ अस्य पर्यायवाचिपदं लिखत ।
उत्तरम् — (क) क्त्वा।
(ख) स्वस्य।
(ग) प्रतिकूलानि।
(घ) परेषाम्।
(3) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता ॥ – चाणक्यनीतिः
अन्वय – सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति । तस्मान् (सर्वैः ) तदेव वक्तव्यम् वचने का दरिद्रता ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) किं प्रदानेन जन्तवः तुष्यन्ति ?
(ख) किं वक्तव्यम् ?
(ग) प्रियवाक्यप्रदानेन के तुष्यन्ति ?
उत्तरम् – (क) प्रियवाक्यम्।
(ख) प्रियवाक्यम्।
(ग) जन्तवः ।
2. पूर्णवाक्येन उत्तरत-
(क) प्रियवाक्यप्रदानेन किं भवन्ति ?
(ख) कस्मिन् विषये दरिद्रता न कर्त्तव्यम् ?
उत्तरम् — (क) प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति ?
(ख) प्रियंवचने दरिद्रता न कर्त्तव्यम् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘प्रियवाक्यम्’ अनयोः पदयोः विशेषणपदं किम् ?
(ख) ‘तदेव’ अस्य पदस्य सन्धिच्छेदं कुरुत |
(ग) ‘तत्’ पदं कस्मै प्रयुक्तम् ?
(घ) ‘वचने’ अस्मिन् पदे का विभक्तिः ?
उत्तरम् — (क) प्रियम् ।
(ख) तदेव = तत् + एव।
(ग) प्रियवाक्यम् ।
(घ) सप्तमी ।
(4) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः ।
परोपकाराय सर्ता विभूतयः ॥
– सुभाषितरत्नभाण्डागारम्
अन्वयः – नद्यः स्वयमेव अम्भः न पिबन्ति, वृक्षाः फलानि स्वयं न खादन्ति। वारिवाहाः सस्यं खलु न अदन्ति ( एवं ) सतां विभूतयः परोपकाराय ( भवन्ति, न तु आडम्बराय ) ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) अम्भः काः न पिबन्ति ?
(ख) वृक्षाः कानि न खादन्ति ?
(ग) नादन्ति सस्यं का: ?
(घ) सतां विभूतयः कस्मै भवन्ति ?
उत्तरम् — (क) नद्य: ।
(ख) फलानि ।
(ग) वारिवाहाः ।
(घ) परोपकाराय ।
2. पूर्णवाक्येन उत्तरत-
(क) नद्यः किं न कुर्वन्ति ?
(ख) किं न कुर्वन्ति वृक्षा : ?
(ग) सस्यं खलु के न अदन्ति ?
(घ) केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम् — (क) नद्यः स्वयमेव अम्भः न पिबन्ति ?
(ख) स्वयं फलानि न खादन्ति वृक्षाः ।
(ग) सस्यं खलु वारिवाहाः न अदन्ति ।
(घ) सतां विभूतयः परोपकाराय भवन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘जलानि’ अस्य पर्यायवाचिपदं लिखत ।
(ख) ‘नादन्ति’ अस्य शुद्धम् अर्थम् चिनुत- गर्जन्ति, न खादन्ति, न वर्षन्ति ।
(ग) ‘सतां विभूतयः’ अनयोः पदयोः विशेष्यपदं किम् ?
(घ) ‘नादन्ति सस्यं खलु वारिवाहाः’ अत्र प्रयुक्तम् अव्ययपदं किम् ?
उत्तरम् — (क) अम्भः ।
(ख) न खादन्ति ।
(ग) विभूतयः ।
(घ) खलु ।
(5) गुणेष्वेव हि कर्त्तव्यः प्रयत्नः पुरुषैः सदा ।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ – मृच्छकटिकम्
अन्वयः – पुरुषैः सदा हि गुणेषु एव प्रयत्नः कर्त्तव्यः । ( यतः ) गुणयुक्तः दरिद्रः अपि, अगुणैः (युक्तैः ) ईश्वरैः समः न। (अपितु श्रेष्ठः भवति ) ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) पुरुषैः केषु एव प्रयत्नः कर्त्तव्यः ?
(ख) कः दरिद्रः श्रेष्ठः भवति ?
उत्तरम् — (क) गुणेषु ।
(ख) गुणयुक्तः ।
2. पूर्णवाक्येन उत्तरत-
(क) कैः सदा गुणेषु एव प्रयत्नः कर्त्तव्यः ?
(ख) कः अगुणैः ईश्वरैः समः न?
उत्तरम् — (क) पुरुषैः सदा गुणेषु एव प्रयत्नः कर्त्तव्यः ।
(ख) गुणयुक्तः दरिद्रः अपि अगुणैः ईश्वरैः समः न ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘गुणेष्वेव’ अस्य पदस्य सन्धिच्छेदं कुरुत ।
(ख) ‘कर्तव्य’ इति पदे कः प्रत्ययः प्रयुक्तः ?
(ग) ‘अगुणैः’ अस्य पदस्य विशेष्यपदं किम् ?
उत्तरम् – (क) गुणेष्वेव = गुणेषु + एव + इव ।
(ख) तव्यत्।
(ग) ईश्वरैः ।
(6) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥
-नीतिशतकम्
अन्वयः – दिनस्य पूर्वार्द्धपरार्द्ध भिन्ना छाया इव खलसज्जनानां मैत्री – आरम्भगुर्वी (पश्चात् च) क्रमेणक्षयिणी, ( तथा च) पुरा लघ्वी पश्चात् च वृद्धिमती (भवति) ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) खलसज्जनानां मैत्री किमिव भवति ?
(ख) पूर्वार्द्ध दिनस्य छाया आरम्भे कीदृशी भवति ?
(ग) परार्द्ध दिनस्य छाया भवति-
पुरा लघ्वी, आरम्भगुर्वी, क्रमेण क्षयिणी ।
(घ) ‘पुरा लघ्वी पश्चात् वृद्धिमती’ इति कस्य मित्रता भवति ।
उत्तरम् – (क) छायेव ।
(ख) आरम्भगुर्वी ।
(ग) पुरा लघ्वी ।
(घ) सज्जनानाम् ।
2. पूर्णवाक्येन उत्तरत-
(क) सज्जनानां मैत्री कीदृशी भवति ?
(ख) खलानां मैत्री कीदृशी भवति ?
(ग) खलसज्जनानां मैत्री किमिव भवति ?
उत्तरम् — (क) सज्जनानां मैत्री पुरा लघ्वी पश्चात् च वृद्धिमती भवति ।
(ख) खलानां मैत्री आरम्भगुर्वी पश्चात् च क्रमेण क्षयिणी भवति ।
(ग) खलसज्जनानां मैत्री दिनस्य पूर्वार्द्धपरार्द्ध भिन्ना छाया इव भवति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘आरम्भ’ इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत ।
(ख) ‘छायेव’ इति पदस्य सन्धिच्छेदं कुरुत ।
(ग) ‘खल’ शब्द: अत्र कस्यां विभक्तौ प्रयुक्तः ?
उत्तरम् — (क) पश्चात् ।
(ख) छायेव = छाया + इव।
(ग) षष्ठी।
(7) यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय ।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः ॥
– भामिनीविलासः
अन्वय – हंसा: महीमण्डलमण्डनाय यत्र अपि कुत्र अपि गताः भवेयुः ( तथा भूते) हानि: तु तेषां सरोवराणां हि (भवति) येषां मरालैः सह (तेषां विप्रयोग: ( भवति ) ।
प्रश्ना: – 1. एकपदेन उत्तरत—
(क) महीमण्डलमण्डनाय के कुत्रापि गताः भवेयुः ?
(ख) हंसाः गतेषु केषां हानिः भवति ?
(ग) मरालैः सह केषां विप्रयोगः भवति ?
उत्तरम् — (क) हंसाः ।
(ख) सरोवराणाम् ।
(ग) सरोवराणाम् ।
2. पूर्णवाक्येन उत्तरत-
(क) अत्र महीमण्डलमण्डनोपकरणाः के कथ्यते ?
(ख) अत्र कैः सह सरोवराणां विप्रयोगः कथ्यते ?
(ग) सरोवराणां हानिः कथं भवति ?
उत्तरम् — (क) अत्र महीमण्डलमण्डनोपकरणा: हंसाः कथ्यते ।
(ख) अत्र मरालैः सह सरोवराणां विप्रयोगः कथ्यते।
(ग) सरोवराणां हानिः भवति, यतः तेषां मरालैः सह विप्रयोगः भवति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘हंसा:’ इति पदस्य पर्यायपदं लिखत ।
(ख) ‘भवेयुः’ इति क्रियापदस्य कर्त्ता क: ?
(ग) ‘गता’ अत्र प्रयुक्तः प्रत्ययः कः ?
(घ) ‘विप्रयोगः’ अत्र कः उपसर्ग: प्रयुक्त: ?
उत्तरम् — (क) मरालाः ।
(ख) हंसा: ।
(ग) क्त।
(घ) वि, प्र।
(8) गुणा गुणज्ञेषु गुणा भवन्ति,
‘ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ॥
– हितोपदेशः
अन्वयः – गुणाः गुणज्ञेषु (एव) गुणाः भवन्ति, ते ( गुणाः ) निर्गुणं प्राप्य दोषाः भवन्ति । (यथा) नद्यः आस्वाद्यतोया: ( सति) प्रवहन्ति ( किन्तु ) ( ताः एव) समुद्रम् आसाद्य अपेयाः भवन्ति ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) गुणा: गुणज्ञेषु के भवन्ति ?
(ख) निर्गुणं प्राप्य गुणाः के भवन्ति ?
(ग) आस्वाद्यतोया: का : प्रवहन्ति ?
(घ) तोयाः समुद्रम् आसाद्य कीदृशाः भवन्ति ?
उत्तरम् – (क) गुणा: ।
(ख) दोषा: ।
(ग) नद्यः ।
(घ ) अपेया: ।
2. पूर्णवाक्येन उत्तरत-
(क) गुणा: कदा गुणाः भवन्ति ?
(ख) गुणा: कदा दोषाः भवन्ति ?
(ग) आस्वाद्यतोयाः कदा अपेयाः भवन्ति ?
उत्तरम् — (क) गुणाः यदा गुणेषु निवसन्ति तदा गुणाः भवन्ति ।
(ख) गुणा: निर्गुणं प्राप्य दोषाः भवन्ति ।
(ग) आस्वाद्यतोया: समुद्रम् आसाद्य अपेयाः भवन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘गुणाः’ अस्य विलोमपदं किम् ?
(ख) अत्र ‘ते’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(ग) ‘आसाद्य’ इति पदस्य प्रकृतिप्रत्ययः कः ?
(घ) ‘प्रवहन्ति’ अस्य क्रियापदस्य कर्त्ता क: ?
उत्तरम्— (क) दोषाः ।
(ख) दोषेभ्यः ।
(ग) आ + सद् + ल्यप्।
(घ) आस्वाद्यतोयाः ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा ?
उत्तरम् – यत्नेन वृत्तं रक्षेत् ।
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम् ?
उत्तरम् – अस्माभिः आत्मनः प्रतिकूलानि आचरणानि परेषां न कर्त्तव्यम् ।
(ग) जन्तवः केन विधिना तुष्यन्ति ?
उत्तरम् — जन्तत्रः प्रियवाक्यप्रदानेन तुष्यन्ति ।
(घ) पुरुषैः किमर्थं प्रयत्नः कर्त्तव्यः ?
उत्तरम् – पुरुषै: गुणेषु एव प्रयत्नः कर्त्तव्यः ।
(ङ) सज्जनानां मैत्री कीदृशी भवति ?
उत्तरम् – सज्जनानां मैत्री दिनस्य परार्द्ध इव पुरा लघ्वी पश्चात् च वृद्धिमती भवति ।
(च) सरोवराणां हानिः कदा भवति ?
उत्तरम् – यदा मरालैः सह सरोवराणां विप्रयोगः भवति, तदा तेषां हानिः भवति ।
(छ) नद्याः जलं कदा अपेयं भवति ?
उत्तरम् – नद्याः जलं समुद्रमासाद्य अपेयं भवति ।
2. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि तानि यथोचितं योजयत-
‘क’ स्तम्भः ‘ख’ स्तम्भः
(क) आस्वाद्यतोया: (1) खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना (3) नद्य:
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः ।
उत्तरम् –
‘क’ स्तम्भः ‘ख’ स्तम्भः
(क) आस्वाद्यतोया: (3) नद्य:
(ख) गुणयुक्तः (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना (1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना (2) सज्जनानां मैत्री
3. अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥
उत्तरम् – हिन्दी – आशय दुष्टों और सज्जनों की मित्रता दिन की छाया के समान होती है। जिस प्रकार मध्याह्न से पूर्व की छाया आरम्भ में बड़ी होती है और बाद में क्रमशः कम अर्थात् छोटी होती हुई मध्याह्न में समाप्त हो जाती है, उसी प्रकार दुष्टों की मित्रता आरम्भ में अत्यन्त प्रगाढ़ और फिर धीरे-धीरे कम होकर समाप्त हो जाती है। मध्याह्न के समय छाया सबसे कम अर्थात् नहीं के बराबर होती है, इसके पश्चात् वह क्रमशः बढ़ती जाती है और सायंकाल को उसकी लम्बाई अनन्त होती है। इसी प्रकार सज्जनों की मित्रता मध्याह्न से बाद की छाया के समान आरम्भ में कम और बाद में क्रमशः प्रगाढ़ होती जाती है। उनकी यह मित्रता अनन्त अर्थात् कभी न समाप्त होनेवाली होती है।
(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥
उत्तरम् – हिन्दी – आशय : इस संसार में जितने भी प्राणी हैं, चाहे वे पशु-पक्षी हों अथवा मानव, सभी मधुर वचनों को सुनकर अत्यन्त प्रसन्न और सन्तुष्ट होते हैं; अतः व्यक्ति को सदैव ही प्रिय अर्थात् मधुर वचनों का प्रयोग करना चाहिए। भला वैसे वचन बोलने में भी क्या कंजूसी, जिससे सारा संसार सन्तुष्ट होता है। अर्थात् व्यक्ति को कटु वचनों के स्थान पर सदैव मधुर वचनों का प्रयोग ही करना चाहिए; क्योंकि मधुर वचनों का प्रयोग करने से उसके मान-सम्मान और यश में वृद्धि ही होती है, हानि किसी प्रकार की नहीं होती, फिर ऐसे वचन बोलने में कंजूसी करना तो मूर्खता की ही निशानी है।
4. अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
(क) वक्तव्यम्, कर्त्तव्यम्, सर्वस्वम्, हन्तव्यम्।
(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।
(घ) जन्तव:, नद्यः, विभूतयः, परितः ।
उत्तरम्— (क) सर्वस्वम् ।
(ख) वचने।
(ग) धनवताम्।
(घ) परितः।
5. स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत-
(क) वृत्ततः क्षीण: हतः भवति ।
उत्तरम् – कस्मात् क्षीणः हतः भवति ?
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम् ।
उत्तरम्— कं श्रुत्वा अवधार्यताम् ?
(ग) वृक्षाः फलं न खादन्ति ।
उत्तरम् — के फलं न खादन्ति ?
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति ।
उत्तरम् – केषाम् मैत्री आरम्भगुर्वी भवति ?
6. अघोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
यथा— सः पाठं पठति । — सः पाठं पठतु।
(क) नद्य: आस्वाद्यतोयाः सन्ति । — ………………
(ख) सः सदैव प्रियवाक्यं वदति । — ………………
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि । — ………………
(घ) ते वृत्तं यत्नेन संरक्षन्ति । — ………………
(ङ) अहम् परोपकाराय कार्यं करोमि । — ………………
उत्तरम्— (क) नद्यः आस्वाद्यतोयाः सन्तु ।
(ख) सः सदैव प्रियवाक्यं वदतु ।
(ग) त्वं परेषां प्रतिकूलानि न समाचर ।
(घ) ते वृत्तं यत्नेन संरक्षन्तु ।
(ङ) अहं परोपकाराय कार्यं करवाणि ।