UK Board 9th Class Sanskrit – Chapter 6 भ्रान्तो बालः
UK Board 9th Class Sanskrit – Chapter 6 भ्रान्तो बालः
UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 6 भ्रान्तो बालः
भ्रान्तो बालः (भ्रमित बालक)
[पाठ – परिचय – प्रस्तुत पाठ आधुनिक साहित्य के प्रसिद्ध ग्रन्थ ‘संस्कृत प्रौढपाठावलिः’ से सम्पादित करके ग्रहण किया गया है। इस ग्रन्थ के रचयिता वाई० महालिङ्ग शास्त्री हैं। यह ग्रन्थ ‘काव्य’, ‘नाटक’ तथा ‘कथा’ विधाओं की विभिन्न रचनाओं का संग्रह है । ]
समस्त पाठ का हिन्दी अनुवाद
कोई भ्रमित बालक विद्यालय जाने के समय खेलने के लिए निकल गया, किन्तु तब उसके साथ खेल द्वारा समय बिताने के लिए मित्रों में कोई भी उपलब्ध न था; क्योंकि वे सभी पहले दिन के पाठों को याद करके विद्यालय जाने के लिए शीघ्रता कर रहे थे। आलसी बालक लज्जा ( शर्म) से उनकी दृष्टि ( निगाह ) से बचता हुआ एकान्त में किसी बगीचे में प्रविष्ट हुआ।
उसने सोचा—रोके जाते हुए ये बेचारे पुस्तकों के दास हैं। मैं फिर अपना मनोरञ्जन करूँगा । निश्चय ही फिर क्रुद्ध गुरु के मुख को देखूँगा । वृक्ष की कोटरों में रहनेवाले ये प्राणी ही मेरे मित्र हों।
इसके बाद उसने फूलों के बगीचे में घूमते हुए, भौंरे को देखकर उसे खेलने के लिए आमन्त्रित किया। उस (भौर) ने उसके दो-तीन (बार के) आमन्त्रण को भी नहीं माना। तब बार-बार हठ करते बालक के लिए उसने गाया – हम सब निश्चय ही मधु- संग्रह में व्यस्त हैं।
तब उस बालक ने ‘ये कीट मिथ्या (झूठे) गर्ववाले हैं’ (इन कीड़ों द्वारा झूठा अभिमान किया गया है, यह मानकर ) दूसरी ओर दृष्टि घुमाई (और) एक चिड़िया को चोंच में घास (तिनके) के टुकड़े आदि को लाते हुए देखा। और उससे बोला- “ अरे चिड़िया के बच्चे ! मुझ मनुष्य के मित्र होगे (बनोगे ) । आओ हम दोनों खेलें। इस सूखे तिनके को छोड़ो, मैं तुम्हें स्वादिष्ट खाद्य पदार्थों के ग्रास दूँगा।” वह तो ‘ (मुझे) वृक्ष की शाखा पर घोंसला बनाना है, तो मैं कार्य से जा रहा हूँ’, यह कहकर अपने कार्य में व्यस्त हो गया।
तब खिन्न बालक´ ‘ये पक्षी मनुष्यों के पास नहीं आते हैं’ मनुष्य के अनुकूल मनोरंजन करनेवाले अन्य (प्राणी) को ढूँढता हूँ। ( ऐसा सोचकर) घूमकर (उसने) दौड़े जाते हुए किसी कुत्ते को देखा । प्रसन्न बालक ने उसको इस प्रकार सम्बोधित किया – ” अरे मनुष्यों के मित्र! इस गर्मी के दिन में क्यों घूम रहे हो? पेड़ की जड़ में (नीचे) शीतल छाया का आश्रय लो। मैं भी तुमको साथ खेलनेवाले (सहयोगी) के रूप में देखता हूँ।” कुत्ते ने उससे कहा-
” जो मुझको पुत्र के प्रेम ( पुत्र की भाँति प्रेम) से पालता है ( भोजन देता है) उसके घर की रक्षा करने के कार्य से मुझे थोड़ा-सा भी नहीं हटना चाहिए।” ( अत: मैं तुम्हारे साथ नहीं खेल सकता । )
सभी के द्वारा इस प्रकार मना किया हुआ, मन की इच्छा में बाधा डाला गया वह बालक ‘कैसे इस संसार में प्रत्येक अपने-अपने कार्य में तल्लीन रहता है, मेरी तरह कोई भी व्यर्थ समय नहीं गँवाता। इन सबको नमन है, जिनके द्वारा मेरी आलस्यता में अरुचि उत्पन्न कर दी गई है। अतः मैं भी अपने योग्य ( कार्य ) करता हूँ,’ ऐसा सोचकर शीघ्र विद्यालय चला गया।
तब से लेकर वह विद्याभ्यासी होकर महान् विद्वत्ता और सम्पत्ति को प्राप्त हुआ। अर्थात् उसने विद्या का अभ्यास करके अपार सम्पत्ति को प्राप्त किया।
पाठाधारित अवबोधन-कार्य
(1) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम । किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत् । यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः । तन्द्रालुर्बालों लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र भ्रान्तः कः ?
(ख) बालः किं कर्तुम् निर्जगाम ?
(ग) बालः कीदृशः आसीत् ?
(घ) कुत्र प्रविवेश बाल: ?
उत्तरम् — (क) बालः ।
(ख) क्रीडितुम् ।
(ग) तन्द्रालुः ।
(घ) उद्यानम् ।
2. पूर्णवाक्येन उत्तरत-
(क) बालः कदा क्रीडितुं निर्जगाम ?
(ख) बालेन सह किं कर्तुं कोऽपि न उपलभ्यमान आसीत् ?
(ग) बालस्य मित्राणि किं कृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः ?
(घ) मित्राणां दृष्टिपथं परिहरन् बालः किम् अकरोत् ?
उत्तरम् — (क) बाल: पाठशालागमनवेलायां क्रीडितुं निर्जगाम ?
(ख) बालेन सह केलिभिः कालं क्षेप्तुं कोऽपि न उपलभ्यमान आसीत्।
(ग) बालस्य मित्राणि पूर्वदिपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः ।
(घ) मित्राणां दृष्टिपथं परिहरन् बाल: एकाकी किमप्युद्यानं प्रविवेश ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कश्चन’ इति अव्ययपदं कस्मै १ प्रयुक्तम् ?
(ख) ‘क्रीडाभि:’ इति स्थाने किं पदम् अत्र प्रयुक्तम् ?
(ग) ‘क्रीडितुम् ‘ इति पदे प्रयुक्तः प्रत्ययः कः ?
(घ) ‘भ्रान्त:’ अस्य पदस्य विशेष्यपदं किम् ?
उत्तरम् — (क) बालैः ।
(ख) केलिभिः ।
(ग) तुमुन्।
(घ) बालः ।
(2) स चिन्तयामास – विरमन्त्वेते वराकाः पुस्तकदासाः । अहं पुनरात्मानं विनोदयिष्यामि । ननु भूयो द्रक्ष्यामि क्रुद्धस्य उपाध्यायस्य मुखम्। सन्त्वेते निष्कुटवासिन एव प्राणिनो मम वयस्या इति ।
अथ स पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोराह्वयत् । स द्विस्त्रिरस्याह्वानमेव न मानयामास । ततो भूयो भूयः हठमाचरति बाले सोऽगायत् – वयं हि मधुसंग्रहव्यग्रा इति ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) बालः पुनः किं करिष्यति ?
(ख) कस्य मुखं द्रष्टुम् न इच्छति बाल: ?
(ग) कं दृष्ट्वा बालः तं क्रीडाहेतोराह्वयत् ?
(घ) हठमाचरति बाले कः अगायत् ?
उत्तरम् – (क) विनोदयिष्यति ।
(ख) उपाध्यायस्य ।
(ग) मधुकरम् ।
(घ) मधुकरः ।
2. पूर्णवाक्येन उत्तरत-
(क) बालस्य मते तस्य, सहपाठिनः कीदृशाः ?
(ख) मधुकर: कम् अव्रजत् ?
(ग) बाल: मधुकरं किमर्थम् आह्वयत् ?
(घ) मधुकरः किम् अगायत् ?
उत्तरम् — (क) बालस्य मते तस्य सहपाठिनः वराका: पुस्तकदासाः ।
(ख) मधुकरः पुष्पोद्यानम् अव्रजत् ।
(ग) बाल: मधुकरं क्रीडाहेतो आह्वयत् ।
(घ) मधुकरः अगायत् – वयं हि मधुसंग्रहव्यग्रा ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘पुन:’ इति स्थाने किं पदम् अत्र प्रयुक्तम् ?
(ख) ‘सन्त्वेते’ अत्र ‘एते’ इति सर्वनामपदं केभ्यः प्रयुक्तम् ?
(ग) ‘व्रजन्तम्’ इति पदं कस्य विशेषणम् ?
(घ) ‘मानयामास’ इति क्रियापदस्य कर्त्ता क: ?
उत्तरम्— (क) भूयः ।
(ख) निष्कुटवासिभिः प्राणिभिः ।
(ग) मधुरकम्।
(घ) मधुकरः ।
(3) तदा स बालः ‘कृतमनेन मिथ्यागर्वितेन कीटेन’ इत्यन्यतो दत्तदृष्टिश्चटकमेकं चञ्च्वा तृणशलाकादिकमाददानमपश्यत्। उवाच च – ” अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः । त्यज शुष्कमेतत् तृणम् स्वादूनि भक्ष्यकवलानि ते दास्यामि ” इति । स तु ‘नीड: कार्यो वटगुशाखायां तद्यामि कार्येण’ इत्युक्त्वा स्वकर्मव्यग्रो बभूव ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र मिथ्यागर्वितः अस्ति ?
(ख) बालः कं क्रीडितुम् आह्वयति ?
(ग) बालः चटकं कानि दास्यति ?
(घ) चटक: कुत्र नीडं करोति ?
उत्तरम् — (क) कीटः ।
(ख) चटकम्।
(ग) भक्ष्यकवलानि ।
(घ) वटद्रुशाखायाम् ।
2. पूर्णवाक्येन उत्तरत-
(क) बालः कीदृशं चटकम् अपश्यत् ?
(ख) मानुषस्य मित्रं कः भविष्यति ?
(ग) बालः चटकं किं त्यक्तुं कथयति ?
(घ) चटक: किमुक्त्वा स्वकर्मव्यग्रः बभूव ?
उत्तरम् — (क) बालः चञ्च्वा तृणशलाकादिकमाददानम् चटकम् अपश्यत्।
(ख) मानुषस्य मित्रं चटकः भविष्यति ।
(ग) बालः चटकं शुष्कं तृणं त्यक्तुं कथयति ।
(घ) चटक: ‘नीडः कार्यों वटगुशाखायां तद्यामि कार्येण इति उक्त्वा स्वकर्मव्यग्रः बभूव।
3. निर्देशानुसारम् उत्तरत-
(क) ‘दत्तदृष्टिः’ इति कस्य पदस्य विशेषणम् ?
(ख) ‘अभक्ष्य’ इत्यस्य किं विलोमपदमत्र प्रयुक्तम् ?
(ग) ‘इत्युक्त्वा’ अस्य पदस्य सन्धिच्छेदं कुरुत ?
(घ) ‘एहि’ इति क्रियापदस्य कर्त्ता क: ?
उत्तरम् — (क) बाल: ।
(ख) भक्ष्य।
(ग) इति + उक्त्वा ।
(घ) चटंकपोतः ।
(4) तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति । तदन्वेषयाम्यपरं मानुषोचितं विनोदयितारमिति परिक्रम्य पलायमानं कमपि श्वानमवालोकयत् । प्रीतो बालस्तमित्थं सम्बोधयामास – रे मानुषाणां मित्र ! किं पर्यटसि अस्मिन् निदाघदिवसे? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम् । अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति । कुक्कुरः प्रत्याह-
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य ।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि ॥ इति ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) पक्षिणः केषु नोपगच्छन्ति ?
(ख) अत्र पलायमानः कः ?
(ग) बाल: कैः शब्दः श्वानं सम्बोधयति ?
(घ) गृहस्वामिनः श्वानं कथा पोषयति ?
उत्तरम् — (क) मानुषेषु ।
(ख) श्वानः ।
(ग) मानुषाणां मित्र !
(घ) पुत्रप्रीत्या ।
2. पूर्णवाक्येन उत्तरत-
(क) बालः परिक्रम्य कम् आलोकयत् ?
(ख) श्वानः कस्मिन् दिवसे पर्यटति ?
(ग) बालः क्रीडासहायम् अनुरूपं के पश्यति?
(घ) गृहस्वामिनः कं कया पोषयति ?
उत्तरम् — (क) बालः परिक्रम्य पलायमानं श्वानम् आलोकयत् ।
(ख) श्वान: निदाघदिवसे पर्यटति ।
(ग) बाल: क्रीडासहायम् अनुरूपं श्वानं पश्यति ।
(घ) गृहस्वामिनः श्वानं पुत्रपीत्या पोषयति ।
3. निर्देशानुसारम् उत्तर-
(क) ‘त्वामेवानुरूपम्’ इत्यत्र ‘त्वाम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ख) ‘खगाः’ इति स्थाने किं पदमत्र प्रयुक्तम् ?
(ग) ‘अन्वेषयामि अपरम्’ अस्य सन्धियुक्तं किं रूपम् ?
(घ) ‘भ्रष्टव्यम्’ इति पदे प्रयुक्तः प्रत्ययः कः ?
उत्तरम् – (क) कुक्कुराय ।
(ख) पक्षिणः ।
(ग) अन्वेषयाम्यपरम् ।
(घ) तव्यत् ।
(5) सर्वैरेवं निषिद्धः स बालो विघ्नितमनोरथः सन्’कथमस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नो भवति । न कोऽप्यहमिव वृथा कालक्षेपं सहते । नम एतेभ्यः यैर्मे तन्द्रालुतायां कुत्सा समापादिता । अथ स्वोचितमप करोमि ‘ इति विचार्य त्वरितं पाठशालामुपजगाम ।
ततः प्रभृति स विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च लेभे ।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) ‘विघ्नितमनोरथः ‘ कः कथ्यते ?
(ख) जगति प्रत्येकं कस्मिन् निमग्नः ?
(ग) बाल: कम् उपाजगाम ?
(घ) किं लेभे बाल: ?
उत्तरम् — (क) बालः ।
(ख) स्वकृत्ये ।
(ग) पाठशालाम् ।
(घ) सम्पदम्।
2. पूर्णवाक्येन उत्तरत-
(क) कोऽपि किं न सहते ?
(ख) किं विचार्य बालः पाठशालाम् उपजगाम ?
(ग) ततः प्रभृति सः बालः किम् अभवत्?
(घ) बालः कदा महतीं वैदुषीं प्रथा सम्पदं च लेभे ?
उत्तरम् — (क) कोऽपि वृथा कालक्षेपं न सहते ।
(ख) ‘स्वोचितमहमपि करोमि इति विचार्य बाल: पाठशालामुपजगाम ।
(ग) ततः प्रभृति सः बालः विद्याव्यसनी अभवत् ।
(घ) विद्याव्यसनी भूत्वा बालः महतीं वैदुषीं प्रथां सम्पदं च भे
3. निर्देशानुसारम् उत्तरत-
(क) ‘निषिद्ध:’ इति पदं कस्य विशेषणम् ?
(ख) ‘घृणा’ इति स्थाने किं पदं प्रयुक्तम् ?
(ग) ‘यैमें तन्द्रालुतायां कुत्सा सम्पादिता’ अत्र ‘में’ इति सर्वनामपदं कस्य स्थाने प्रयुक्तम् ?
(घ) ‘अनुचितम्’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
उत्तरम् — (क) बालः ।
(ख) कुत्सा |
(ग) बालस्यस्थाने ।
(घ) उचितम् ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) बालः कदा क्रीडितुं निर्जगाम ?
उत्तरम् – बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम ।
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः ?
उत्तरम् – बालस्य मित्राणि विद्यालयगमनाय त्वरमाणा बभूवुः ।
(ग) मधुकरः बालकस्य आह्वानं केन कारणेन न अमन्यत् ?
उत्तरम् — मधुकरः मधुसंचये व्यस्तः आसीत् अनेन कारणेन सः बालकस्य आह्वानं न अमन्यत् ।
(घ) बालकः कीदृशं चटकम् अपश्यत् ?
उत्तरम् — बालकः चञ्च्वा तृणशलाकादिकम् आददानं चटकम् अपश्यत् ।
(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
उत्तरम् — बालक: चटकाय क्रीडनार्थं भक्ष्यकवलानि लोभं दत्तवान्।
(च) खिन्नः बालकः श्वानं किम् अकथयत् ?
उत्तरम् – खिन्नः बालकः श्वानम् अकथयत् – रे मानुषाणां मित्र ! किं पर्यटसि अस्मिन् निदाघदिवसे? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम् । अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति ।
(छ) विघ्नितमनोरथः बालः किम् अचिन्तयत् ?
उत्तरम् – विघ्नितमनोरथः बालः अचिन्तयत् — ‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नो भवति । न कोऽप्यहमिव वृथा कालक्षेपं सहते । नम एतेभ्यः यैर्मे तन्द्रालुतायां कुत्सा समापादिता । अथ स्वोचितमहमपि करोमि इति ।
2. निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य ।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि ॥
उत्तरम् – हिन्दी- भावार्थ : कुत्ता बालक से कहता है कि जो गृहस्वामी मुझे पुत्र – जैसा प्रेम देकर मेरा पोषण करता है, उसके घर की रक्षा करने के कार्य में मैं थोड़ा भी भ्रष्ट नहीं हो सकता अर्थात् मैं अपने स्वामी के घर को छोड़कर तुम्हारे साथ इस पेड़ की छाया में बैठकर नहीं खेल सकता।
3. ” भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङ्ग्लभाषया वा लिखत ।
उत्तरम् – कथा-सारांश
किसी बालक का मन पढ़ने में नहीं लगता था; अतः वह विद्यालय जाते समय अपने साथियों की दृष्टि से बचकर किसी बगीचे में पहुँच जाता था। वहाँ वह अपने साथियों के विषय में सोचता कि ये तो पुस्तकों के दास (गुलाम) हैं। वहाँ विद्यालय में अध्यापकों का क्रोधित मुँह देखना पड़ेगा; अतः मैं यहाँ पक्षियों को अपना मित्र बनाकर उनके साथ खेलूँगा । बगीचे में उसने भौर से अपने साथ खेलने के लिए कहा तो उसने यह कहकर खेलने से मना कर दिया कि मैं अपने मधु- संग्रह के कार्य में व्यस्त हूँ। फिर उसने घोंसला बनाने के लिए चोंच में तिनका लेकर जाती चिड़िया से अपने साथ खेलने के लिए कहा, किन्तु उसने भी अपने घोंसला बनाने के कार्य को छोड़कर खेलने से मना कर दिया।
इसके बाद बालक ने तेजी से भागे जाते कुत्ते को स्वादिष्ट खाद्य-पदार्थों का लालच देकर अपने साथ खेलने के लिए आमन्त्रित किया, किन्तु कुत्ते ने यह कहकर खेलने से मना कर दिया कि मैं अपने स्वामी के घर की रखवाली में कोई लापरवाही नहीं कर सकता।
इस प्रकार बालक ने जब देखा कि संसार का प्रत्येक प्राणी अपने-अपने कार्य में संलग्न है, केवल एक मैं ही अपना समय व्यर्थ गँवा रहा हूँ; अतः मुझे भी अपना आलस्य त्यागकर अपने कार्य में लग जाना चाहिए। यह बात मन में आते ही बालक तेजी से विद्यालय पहुँच गया। अभ्यासपूर्वक पढ़कर बालक ने महती विद्वत्ता और सम्पत्ति प्राप्त की ।
4. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि ।
उत्तरम् – कीदृशानि भक्ष्यकवलानि ते दास्यामि ?
(ख) चटक: स्वकर्मणि व्यग्रः आसीत् ।
उत्तरम्— चटकः कस्मिन् व्यग्रः आसीत्?
(ग) कुक्कुर : मानुषाणां मित्रम् अस्ति ।
उत्तरम् — कुक्कुरः केषां मित्रम् अस्ति ?
(घ) स महतीं वैदुषीं लब्धवान् ।
उत्तरम् – स कां लब्धवान् ?
(ङ) रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति ।
उत्तरम् — कस्मात् मया न भ्रष्टव्यम् इति।
5. “ एतेभ्यः नमः” – इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत ।
उत्तरम् – (क) देवेभ्यः नमः ।
(ख) ये जना: देशसेवां कुर्वन्ति, तेभ्यः नमः ।
(ग) देशस्य वीरबालकेभ्यः नमः ।
(घ) विद्याया: देवी सरस्वत्यै नमः ।
(ङ) सर्वेभ्यः सज्जनेभ्यः नमः ।
6. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत-
‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) दृष्टिपथम् (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासा: (2) विद्यायाः व्यसनी
(ग) विद्याव्यसनी (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् (4) पुस्तकानां दासाः
उत्तरम् —
‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) दृष्टिपथम् (3) दृष्टेः पन्थाः
(ख) पुस्तकदासा: (4) पुस्तकानां दासाः
(ग) विद्याव्यसनी (2) विद्यायाः व्यसनी
(घ) पुष्पोद्यानम् (1) पुष्पाणाम् उद्यानम्