MP 9th Sanskrit

MP Board Class 9th Sanskrit अपठित गद्यांश:

MP Board Class 9th Sanskrit अपठित गद्यांश:

MP Board Class 9th Sanskrit अपठित गद्यांश:

प्रश्न 1.  40 से 50 शब्दों में एक सरल गद्यांश लिखिए। 1. सर्वे जनाः संसारे सुखमिच्छन्ति । सुखम् च उद्यमेन एव प्राप्तुं शक्यते । यः पुरुषः उद्यमी स सुखी । यः उद्यमं न करोति सः सदा मानसिकपीडां अनुभवति । उद्यमेन एव निर्धनः अपि धनवान् जायते । उद्यमी एव अत्र पूज्यः न तु निरुद्यमी । यदि किञ्चित् प्राप्तुं इच्छसि तर्हि उद्यमी भव ।

I. एकपदेन उत्तरत –

(1) सुखम् कथं प्राप्तुम् शक्यते?
(2) के सुखम् इच्छन्ति?
II.पूर्णवाक्येन उत्तरत –
उद्यमस्य के लाभा: ?
III. निर्देशानुसारम् उत्तरत-
(1) अस्मात् गद्यांशात् ‘तुमुन्’ प्रत्ययस्य एकम् उदाहरणं चित्वा लिखत।
(2) ‘उद्यमी’ पदस्य विपरीतार्थकः लिखत ।
उत्तर- I. एक पद में उत्तर दें- (1) उद्यमेन (2) सर्वे ।
II. उद्यमेन एव निर्धनः अपि धनवान् जायते, पूज्य: भवति, सुखी च भवति ।
III. (1) प्राप्तुं (2) निरुद्यमी ।
2. एकदा कौरवपाण्डवानां शस्त्रकौशल परीक्षा अभवत् । वृक्षशाखायां लक्ष्यरूपेण एकः कृत्रिमखगः स्थापितः आसीत्। आचार्य-द्रोणेन क्रमानुसारेण सर्वे शिष्याः आहूताः । किन्तु कोऽपि शिष्यः आचार्यस्य प्रश्नस्य उत्तरम् दाने समर्थः नाभवत्। अन्ते अर्जुनः आगतः । यदा आचार्येण उचितं उत्तरम् प्राप्तं तदा सः अर्जुनाय लक्ष्यवेधाय अकथयत् ।
(1) वृक्षशाखायां कः स्थापितः आसीत् ?
(2) केषां शस्त्रकौशल परीक्षा अभवत् ?
II. पूर्णवाक्येन उत्तरत –
उचितम् उत्तरम् प्राप्य द्रोण: किमकरोत् ?
III. निर्देशानुसारम् उत्तरत
(1) ‘कोऽपि’ पदस्य सन्धिविच्छेदं कुरुत।
(2) कोऽपि प्रश्नस्य ……… उत्तरम् दाने समर्थ:
न अभवत् | (उचितपदेन पूरयत)
उत्तर- I (1) कृत्रिमखगः (2) कौरवपाण्डवानां ।
II. उचितम् उत्तरम् प्राप्य द्रोण: अर्जुनाय लक्ष्यवेधाय अकथयत् ।
III. (1) कः + अपि। (2) उचितम् ।
3. प्रतियोगिताप्रधानम् इदं युगम्। जीवने विकासाय प्रतियोगितानां महती उपादेयता यतो हि मानवः प्रतिस्पर्धया एव उन्नतिपथम् आरोहति । प्रायशः ये गुणाः बालकेषु सुप्तरूपेण विद्यन्ते, तेषां विकासाय प्रतियोगिताः अनिवार्याः एव । यदा बालाः छात्रजीवने अनेकासु प्रतियोगितासु भागं गृह्णन्ति, यथा भाषण-निबंधलेखनचित्ररचना-वाद-विवाद-क्रीडादीनां प्रतियोगिताः तदा एताभिः तेषां क्षमतानां विकासः भवति। अतः जीवने सर्वाङ्गीणविकासाय प्रतियोगितासु भागः ग्रहीतव्यः ।
I. एकपदेन उत्तरत –
(1) मानवः कया उन्नतिपथम् आरोहति ?
(2) प्रतियोगिताभिः कासां विकासः भवति?
II. पूर्णवाक्येन उत्तरत –
(1) सर्वाङ्गीणविकासाय कासु भाग: ग्रहीतव्यः ?
(2) आधुनिके युगे कस्याः प्राधान्यम् अस्ति?
III. निर्देशानुसार उत्तरत –
(1) ‘प्रतियोगितासु’ इति पदस्य किं विशेषणम् ?
(2) ‘प्रायश: ये गुणा: बालकेषु सुप्तरूपेण विद्यन्ते तेषां विकासाय प्रतियोगिताः
अनिवार्याः एव’ अस्मिन् वाक्ये ‘तेषाम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तर- I. (1) प्रतिस्पर्धया (2) क्षमतानां ।
II. (1) सर्वाङ्गीणविकासाय प्रतियोगितासु भाग: ग्रहीतव्यः । (2) आधुनिके युगे प्रतियोगितायाः प्राधान्यम् अस्ति।
III. (1) अनेकासु (2) गुणेभ्यः ।
4. महर्षेः दयानन्दस्य जन्मनाम मूलशंकरः आसीत् । अयं महात्मा गुजरात प्रान्तस्य मौर्वीराज्ये टंकरा ग्रामे औदीच्य – ब्राह्मणकुले जन्म अलभत्। अस्य पितुः नाम अम्बाशंकरः आसीत्। अस्मिन् कुले शिव-पूजा महत्या भक्त्या भवति स्म। अम्बाशंकरः स्वपुत्रम् अपि शिवभक्तं द्रष्टुम् ऐच्छत् परं अस्य मूर्तिपूजां प्रति श्रद्धा न आसीत्। एकदा मूलशङ्करः ईश्वरम् अन्वेष्टम् गृहं परित्यज्य प्रस्थितः ।
I.  एकपदेन उत्तरत –
(1) महर्षेः दयानन्दस्य जन्मनाम किम् आसीत् ?
(2) महर्षेः कम् प्रति श्रद्धा न आसीत् ?
II. पूर्णवाक्येन उत्तरत
(1) मूलशङ्कर: किमर्थम् गृहम् अत्यजत् ?
(2) अस्य कुले किम् भवति अत्यजत् ?
III. (1) ‘भक्त्या’ इति पदे का विभक्तिः प्रयुक्ता?
(2) ‘भक्त्या’ पदस्य विशेषण पदं अनुच्छेदात् चित्वा लिखत।
उत्तर- I (1) मूलशंकर (2) मूर्तिपूजां ।
II. (1) मूलशङ्कर: ईश्वरं अन्वेष्टुम् गृहम् अत्यजत् ।
(2) अस्य कुले शिवपुजा महत्या भक्त्या भवति स्म ।
III. (1) तृतीया (2) शिव-पूजा ।
5. भारतस्य उत्तरस्यां दिशि महोन्नतः पर्वतराज: हिमालयः वर्तते यः उत्तर दिशायाः प्रहरी इव भारत रक्षति । हिमालय: भारतदेशस्य समृद्धः भूभागः अस्ति, यतः अस्मात् पर्वतात् अनेकाः नद्यः निस्सरन्ति, देशस्य विशालं भूभागं सिञ्चन्ति च ।
I. एकपदेन उत्तरत –
(1) कः भारतं रक्षति ?
(2) कस्यां दिशि हिमालयः ?
II. पूर्णवाक्येन उत्तरत
हिमालयः कथम् समृद्ध: भूभाग: ?
III. निर्देशानुसारम् उत्तरत –
(1) ‘नद्यः’ पदम् कस्मिन् वचने ?
(2) हिमालयः …….. अस्ति । ( उचितपदेन पूरयत)।
उत्तर- I (1) हिमालयः  (2) उत्तरस्यां
II. हिमालयात् अनेका: नद्यः निस्सरन्ति, देशस्य विशालं भूभागं सिञ्चति इति समृद्धः भूभागः ।
III. (1) बहुवचने (2) पर्वतराजः ।
प्रश्न 2. लगभग 80 से 100 शब्दों में कोई घटना, कहानी या विचारपरक गद्यांश लिखिए।
1. अथ निरन्तरं वर्धमानेन प्रदूषणेन मानवजाति: विविधैः रोगै: आक्रान्ता दृश्यते । वैज्ञानिकाः अस्याः प्रदूषणसमस्यायाः समाधाने दिवानिशं प्रयतन्ते किन्तु यावद् देशस्य जनतापर्यावरणस्यरक्षणे कृतसंकल्पा न भविष्यति, तावद् इयं समस्या तथैव स्थास्यति । जनैः सम्यग् ज्ञातव्यं यत् पर्यावरणस्य रक्षणे अस्माकं रक्षणं भविष्यति। एतदर्थं स्थाने स्थाने वृक्षाः रोपणीयाः । वनानां छेदनं रोद्धव्यम् । पवन: शुद्धः भवेत् तदर्थं प्रयत्नः करणीयः ।
I. एकपदेन उत्तरत –
(1) वर्धमानेन प्रदूषणेऩ मानवजाति: कैः आक्रान्ता दृश्यते?
(2) वैज्ञानिकाः कस्याः समाधाने प्रयतन्ते?
(3) कस्य रक्षणे अस्माकं रक्षणं?
(4) स्थाने – स्थाने किम् रोपणीया:?
II. पूर्णवाक्येन उत्तरत –
(1) जनैः पर्यावरणस्य रक्षणार्थं किं किं कर्तव्यम् ?
(2) किमर्थं प्रयत्नः करणीयः ?
III. निर्देशानुसारम् उत्तरत
( 1 ) ‘आक्रान्ता’ अस्याः क्रियायाः कर्ता पदं किम् ?
(2) ‘समस्याया: पदे का विभक्तिः ?
(3) यावद् देशस्य जनता ……. रक्षणे कृतसंकल्पा न भविष्यति तावद् इयं ………. तथैव स्थास्यति । (वाक्यं पूरयत)
IV. गद्यांशस्य समुचितं शीषकं लिखत।
उत्तर- I. (1) रोगै: (2) प्रदूषणसमस्यायाः (3) पर्यावरणस्य (4) वृक्षाः ।
II. (1) जनैः पर्यावरणस्य रक्षाणणार्थं वृक्षाः रोपणीयाः वनानां छेदनं रोद्धव्यम् च।
(2) पवन: शुद्ध: भवेत्ततदर्थं प्रयत्नः करणीयः ।
III. (1) मानव जाति: (2) षष्ठी (3) पर्यावरण/समस्या । IV. पर्यावरणरक्षा।
2. आतंकवादः आधुनिक विश्वस्य गुरुतमा समस्या अस्ति। संसारस्य प्रत्येक देश: आतंकवादेन येन केन प्रकारेण पीडितः अस्ति। आतंकवादः विनाशस्य सा लीला या विश्वम् ग्रसितुम् तत्परा अस्ति। आतंकवादेन विश्वस्य अनेकानि क्षेत्राणि रक्तविलिप्तानि सन्ति। अनेन अनेके निर्दोषाः जनाः प्राणान् अत्यजन् । महिला: विधवाः जाताः, बालाश्च अनाथा अभवन्। (सर्वशक्तिमान् अमेरिका देशोऽपि अनेन संतप्तः अस्ति। भारतं तु आतंकवादेन अनेकैः वर्षैः पीडितः वर्तते। आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्ते : वातावरणम् ष्टुम् कामयन्ते शान्तीच्छुकैः देशैः आतंकवादस्य राक्षसस्य विनाशाय मिलित्वा एव प्रयत्नाः समाधेयाः अन्यथा एषा समस्या सुरसामुखम् इव प्रतिदिनं वृद्धि यास्यति ।
I.एकपदेन उत्तरत
 (1) आतंकवादः कस्य लीला?
(2) कीदृशैः देशै: मिलित्वा आतंकवादस्य विनाशाय प्रयत्नाः समाधेयाः ?
(3) कः आतंकवादेन अनेकैः वर्षैः पीडित: ?
(4) एषा समस्या किम् इव वृद्धिम् यास्यति?
II. पूर्णवाक्येन उत्तरत
(1) आतंकवादे कीदृशाः जनाः सम्मिलिता:?
(2) आतंकवादेन महिलानां बालानां च का दशा अभवत् ?
III. निर्देशानुसारम् उत्तरत –
(1) ‘देशोऽपि’ पदस्य सन्धिच्छेदं कुरुत ।
(2) शान्तेः इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(3) ‘अनेकैः वर्षैः’ अत्र विशेष्य पदं लिखत्।
(4) ‘द्रुष्टुम्’ इति पदे कः प्रत्ययः ?
IV. अस्य अनुच्छेस्य कृते उचितं शीर्षकं यच्छत?
उत्तर- I. (1) विनाशस्य (2) शान्तीच्छुकै: (3) भारतं (4) सुरसामुखम्।
II. (1) ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्तेः वातावरणम् द्रष्टुम् कामयन्ते ते एव आतंकवादे सम्मिलिताः ।
(2) आतंकवादेन महिला: विधवा: बालश्च अनाथा: अभवन्।
III. (1) देश: + अपि (2) अशान्ते: (3) पीडित: (4) तुमुन्।
IV. विश्वस्य गुरुतमा समस्या- आतंकवादः ।
3. एकदा राजकुमार: सिद्धार्थः विहारार्थम् उपवनं गतः। सहसा क्रन्दनध्वनिं श्रुत्वा सः इतस्ततः अपश्यत् । बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत्। एतत् दृष्टवा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम्। सः धावित्वा हसंस्य शरीरात् बाणं निष्कास्य तम् अङ्के अधारयत्। अत्रांतरे देवदत्तः धावन् तत्र प्राप्तः । सिद्धार्थस्य हस्ते हंसं दृष्ट्वा सः उच्चैः अवदत्- “सिद्धार्थ! एषः मम हंसः । मया बाणेन निपादितः। अतः मह्यं देहि।” सिद्धार्थः दृढतया अवदत्’अहं न दास्यामि, अहम् अस्य रक्षकः अस्मि। ” तदा तौ विवादं कुर्वन्तौ राजसभां गतौ। राजा सर्वं वृत्तान्तम् आकर्ण्य आदिशत्- ‘यस्य पार्श्वे हंस: आगमिष्यति तस्यैव भविष्यति।’ हंसः सिद्धार्थस्य समीपं गतवान्। सत्यमिदम्भक्षकात् रक्षकः श्रेयान् ।
।. एकपदेन उत्तरत –
(1) कः भूमौ पतितः आसीत् ?
(2) हंसः कस्य समीपं गतवान् ?
(3) सिद्धार्थ : विहारार्थं कुत्र गतः ?
(4) सिद्धार्थस्य चित्तं कदा व्याकुलं जातम् ?
II. पूर्णवाक्येन उत्तरत –
( 1 ) सिद्धार्थः किं कृत्वा हंसम् अङ्गके अधारयत्?
(2) सिद्धार्थस्य हस्ते हंसं दृष्ट्वा देवदत्तः किम् अवदत्त ?
III. निर्देशानुसारम् उत्तरत –
(1) अस्मिन् अनुच्छेदे ‘आकर्ण्य’ पदस्य समानार्थकं पदं चित्वा लिखत ।
(2) अस्मिन् अनुच्छेदे ‘रक्षक’ पदस्य किं विलोमपदं प्रयुक्तम् ?
(3) ‘राजकुमार सिद्धार्थः’ अत्र किं विशेषणपदम् ?
(4) मया बाणेन निपातितः अतः मह्यं देहि’ अत्र मह्यं पदं कस्मै प्रयुक्तम् ?
IV. अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखतउत्तर- I (1) हंस: (2) सिद्धार्थस्य (3) उपवनं (4) क्रन्दनध्वनिं श्रुत्वा ।
II. (1) सिद्धार्थ: बाणं निष्कास्य हंसम् अङ्के अधारयत् । (2) सिद्धार्थस्य हस्ते हंसं दृष्ट्वा देवदत्तः अवदत् एषः मम बाणेन विद्धः हंसः अतः मह्यं देहि ।
III. (1) श्रुत्वा (2) भक्षक: (3) राजकुमार (4) देवतत्ताय ।
IV. रक्षक: भक्षकात् श्रेयान् ।
4. जननी नवमासेभ्यः निजगर्भे संतानं धृत्वा प्राक् तत्रत्यं सततं पोषयति । स्वयं सर्वविधं कष्टं सहते, गर्भस्थम् च सर्वथा रक्षति । ततः प्रसवादूर्ध्वं जननी निजम् बालं दिवारात्रम् एकमनसा रक्षति । तस्य दुःखानि अपहरति सुखानाश्चसंचारं करोति। स्वयं तदर्थं सर्वविधानि कष्टानि सहते | दिवाऽपि रात्रौ अपि स्नेहेन तं पोषयति । तस्य दुःखे दुःखं, सुखे च आत्मनः सुखम् मन्यते ।
I. एकपदेन उत्तरत –
( 1 ) जननी संतानं कुत्र धारयति ?
(2) का कष्टं सहते?
(3) कस्य दुःखे मातुः दुःखम् ?
(4) जननी कतिमास पर्यन्तम् बालम् गर्भे धारयति ?
II. पूर्णवाक्येन उत्तरत –
(1) प्रसवादूर्ध्वं जननी किम्-किम करोति?
(2) माता किम् मन्यते?
III. निर्देशानुसार उत्तरत-
( 1 ) ‘जननी निजं बालं .. ….  रक्षति’ अस्मिनकर्ता क्रिया च पदे, लिख्येताम्।
(2) जननी निजं बालं ……… रक्षति। अत्र ‘बालं’ पदस्य विशेषण पदं किम् ?
IV. गद्यांशस्य समुचितं शीर्षकं लिखत ।
उत्तर- I. (1) निजगर्भे (2) जननी (3) बालस्य (4) नवमासपर्यन्तम्
II. (1) प्रसवादूर्ध्वं जननी निजम् बालं दिवारात्रम् एक मनसा रक्षति, दुःखानि अपहरति, सुखानां च संचारं करोति ।
(2) माता बालस्य दुःखे दुःखं, सुखे च आत्मनः सुखम् मन्यते।
III. (1) जननी कर्ता / रक्षति – क्रिया । (2) निजं ।
IV. जनन्या: ऋणानि।
5. एकदा गोविन्दः आपणे कान्दविकात् मोदका क्रेतुमगच्छत् । सः कान्दविकः महावञ्चकः आसीत्। सः सदा न्यूनमेवातोलयत् । तदानीमपि सः गोविन्दस्य यथोचितमानादल्पमेवायच्छत् तदा गोविन्दः अवदत् – किं भोः मह्यं पूर्णं परिमाणं न प्रयच्छसीति ? तत् श्रुत्वा कान्दविकः प्रत्यवदत् – का हानि: ? यावदल्पं ते ददामि तावत्ते भारः सुवहो भविष्यति ? गोविन्दोऽपि तस्य शाठ्यं प्रतिकर्तुमेकेन रुप्यकेन हीनं मूल्यमददात्। ततः स सरोषमाह – किं मेऽल्पमेव मूल्यं ददासि ।’ आम् यथा ते गणनायां नायासो भवेदिति” उक्त्वा गोविन्दः गृहम्प्रत्यागच्छत ।
I. एकपदेन उत्तरत –
(1) सः कान्दविकः कीदृशः आसीत् ?
(2) गोविन्दः आपणे किम् क्रेतुम् अगच्छत्?
(3) गोविन्दः कति रुप्यकेन हीनं मूल्यमददात्?
(4) कः आपणे अगच्छत् ?
II. पूर्णवाक्येन उत्तरत –
(1) यदा स न्यूनमतोलयत् तदा गोविन्दः किमवदत् ?
(2) गोविन्दः तस्य शाठ्यं प्रतिकर्तुं किमकरोत्?
III. निर्देशानुसार उत्तरत-
(1) महावञ्चकः कः आसीत् ?
(2) गोविन्दः कीदृशं मूल्यमद्दात ?
IV. गद्यांशस्य समुचितम् शीर्षकं लिखत ।
उत्तर – I (1) महावञ्चक: (2) मोदकान् (3) एकेन (4) गोविन्दः
II. (1) किं भोः मह्यं पूर्णं परिमाणं न प्रयच्छसीति?
(2) एकेन रुप्यकेन हीनं मूल्यमददात् ?
III. (1) कान्दविक: (2) हीनं ।
IV. शठे शाठ्यं समाचरेत् । अथवा गोविन्दस्य चातुर्यम्।
6. कस्मिंश्चिदेशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म अथ कदाचित्पापबुद्धिना चिन्तितम् अहं तावसूख दरिद्रश्च। तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्य आश्रयेण अर्थोपार्जन कृत्वा एनपि बञ्चयित्वा सुखी भवामीति। अथान्यस्मिन्नहनि पापबुद्धिधर्मबुद्धि प्राह भो मित्र! शास्त्रेष्ठ वणितं यद् येन देशान्तरेषु बहुविधभाषावेषादि न ज्ञातं तस्य जन्म धरणीपीठे निरर्थकम् । अतः आवां देशान्तरं गच्छावः इति ।
I. एकपदेन उत्तरत –
(1) धर्मबुद्धेः मित्रस्य नाम किम् आसीत् ?
(2) मूर्खः दरिद्रः च कः आसीत् ?
(3) केन चिन्तितम् ?
(4) तौ कुत्र गन्तुम् इच्छतः ?
II. पूर्णवाक्येन उत्तरत –
(1) पापबुद्धिः धर्मबुद्धिम् किम् प्राह ?
(2) धरणीपीठे कस्य जन्म निरर्थकम् ?
III. निर्देशानुसारम् उत्तरत –
(1) ‘वञ्चयित्वा’ पदे कः प्रत्ययः ?
(2) ‘चिन्तितम्’ क्रिया पदस्य कर्ता पदम् अत्र किम् प्रयुक्तम् ?
IV. गद्यांशस्य समुचितं शीर्षकं लिखत ।
उत्तर- I. (1) पापबुद्धिः (2) पापबुद्धि: (3) पापबुद्धिना, (4) देशान्तरम्।
II. (1) भोमित्र! आवां देशान्तरम् गच्छावः इति । (2) येन देशान्तरेषु बहुविध भाषाबेषादिन ज्ञातं तस्य जन्म धरणी पीठे निरर्थकम् ।
III. (1) क्त्वा (2) पापबुद्धिः ।
IV. यात्रायाः लाभः ।
7. पञ्चविंशतिः शतानि वर्षाणि व्यतीतानि यदा गौतमकुलोत्पन्नः सिद्धार्थः इमां भारतभुवम् अलञ्चकार स्वजन्मना। भागीरथ्या: उत्तरे तीरे कपिलवस्तु नाम महनीयं नगरमेकमासीत्। शक्यवंशोत्पन्नः शुद्धोदनस्तत्र राज्यमकरोत् । तस्य मायादेवी नाम सती भार्या अभवत् । तस्याश्च सिद्धार्थो नाम सुतर्जन्म लेभे । स शैशवादेव सुवृत्तो विवेकी चाभूत् । .
I. एकपदेन उत्तरत –
(1) कः भारतभुवम् स्वजन्मना अलंकृतवान् ?
(2) कस्याः उत्तरे तीरे कपिलवस्तु नाम नगरम् ?
(3) कपिलवस्तु कीदृशं नगरं आसीत् ?
(4) सिद्धार्थ: कम् अलंकृतवान् ?
II. पूर्णवाक्येन उत्तरत –
(1) सिद्धार्थस्य मातुः पितुः च नामनी लिखत ।
(2) सिद्धार्थ : शैशवात् कीदृशः आसीत् ?
III. निर्देशानुसारम् उत्तरत-
(1) ‘पुत्र:’ पदस्य कः पर्याय: अत्र प्रयुक्तः ?
(2) ‘अविवेकी’ पदस्य किं विपर्ययः अत्र प्रयुक्तः ?
IV. गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर- I. (1) सिद्धार्थ: (2) भागीरथ्या: (3) महानीयं (4) भारत भुवम्।
II. (1) सिद्धार्थस्य मातुः नाम मायादेवी पितुः च नाम शुद्धोदन: आस्ताम् ।
(2) सिद्धार्थ : शैशवात् सुवृत्तो विवेकी चाभूत।
III. (1) सुत: (2) विवेकी । IV. सिद्धार्थस्य बाल्यकालः ।

Leave a Reply

Your email address will not be published. Required fields are marked *