HR 9 Sanskrit

Haryana Board 9th Class Sanskrit रचना लघु निबंध-लेखनम्

Haryana Board 9th Class Sanskrit रचना लघु निबंध-लेखनम्

HBSE 9th Class Sanskrit रचना लघु निबंध-लेखनम्

(ख) लघु निबन्ध लेखनम्
1. परोपकारः
1. परेषां हित साधनम् एव परोपकारः कथ्यते।
2. संसारे परोपकारस्य भावना सर्वत्र दृश्यते।
3. संसारस्य प्रत्येक पदार्थः परोपकारे संलग्नः अस्ति।
4. वृक्षाः परोपकाराय एव फलन्ति।
5. नद्यः परोपकाराय एव प्रवहन्ति।
6. भारतवर्षे अनेकाः परोपकारिणः पुरुषाः अभवन्।
7. स्वामी दयानन्दः स्वजीवनम् परोपकाराय त्यक्तवान्।
8. सत्यं कथितम् परोपकाराय सतां विभूतयः।

2. दीपावली
1. दीपावली भारतवर्षस्य प्राचीनतमं पर्वः अस्ति।
2. दीपानाम् अवलिः इति दीपावली कथ्यते।
3. अस्मिन् दिने सर्वत्र पवित्रता विराजते।
4. जनाः स्वगृहाणि विद्युत प्रकाशैः। दीपानां प्रकाशैः सुसज्जयन्ति।
5. अस्य पर्वस्य ऐतिहासिक महत्त्वम् अपि अस्ति।
6. अस्मिन् एवं दिने श्रीरामचन्द्रः रावणं हत्या अयोध्यायाम् आगतवान् ।
7. अतः वयम् आनन्देन दीपावलीम् मानयेन।

3. सदाचारः
1. सज्जनानाम् आचारः सदाचारः कथ्यते।
2. जीवने सदाचारस्य स्थानं महत्त्वपूर्णम् अस्ति।
3. आचारवान् पुरुषः सर्वत्र पूज्यते।
4. सदाचारात् एव मनुष्यः दीर्घमायुः वैभवं च प्राप्नोति।
5. आचारहीनाः जनाः अपवित्राः भवन्ति।
6. उक्तं च-“आचारहीनं न पुनन्ति वेदाः।”
7. . अतः एव सदाचरणं सर्वेषां कृते अत्यावश्यकम् अस्ति।

4. अनुशासनम्
1. नियम-पालनं आज्ञापालनं वा अनुशासनं भवति।
2. अनुशासनं जीवने परमम् आवश्यकम् अस्ति।
3. परिवारे, विद्यालये, समाजे, राष्ट्रे सर्वत्र अस्य आवश्यकता वर्तते।
4. अनुशासनस्य पालनेन उन्नतिः भवति।
5. नियम पालनस्य अभावे जीवनं दुष्करं भवेत्।
6. अद्य छात्रेषु अनुशासनस्य अभावः अस्ति।
7. छात्राः गुरोः आज्ञां न पालयन्ति न च पित्रोः आदेशं स्वीकुर्वन्ति।

5. विद्यायाः महत्त्वम्
1. विद्या धनं सर्व धनेषु प्रधानम् अस्ति।
2. अस्याः कोशः अनुपमः अस्ति।
3. विद्या मानवानां विनयं ददाति।
4. अस्याः प्रभावेण नरः उन्नतिं प्राप्नोति।
5. विद्यया एव नरः ज्ञान-विज्ञानादीनां सम्यक् ज्ञानम् आप्नोति।
6. विद्याभ्यासः ज्ञाने उन्नतिं करोति।
7. विद्याविहीनः नरः पशुतुल्यः अस्ति।

अभ्यासार्थ प्रश्नाः

1. अधोलिखित-विषयेषु लघु-निबन्धं लिखत.
संस्कृतस्य महत्त्वम्, मम विद्यालयः, सत्संगति।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *