RBSE Class 9 Sanskrit परिशिष्ट अपठितावबोधनम्
RBSE Class 9 Sanskrit परिशिष्ट अपठितावबोधनम्
Rajasthan Board RBSE Class 9 Sanskrit परिशिष्ट अपठितावबोधनम्
निर्देशः–अधोलिखितान् अनुच्छेदान् पठित्वा अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि स्व-उत्तरपुस्तिकायां लिखत
1. एकत्वभावनाया यत् कार्यं विधीयते तद् एकता इति कथ्यते। एकतया मानवः बलवान् भवति। एकतयैव देशः समाजः लोकश्च उन्नतिपथमधिरोहति। अद्यत्वे संसारे एकताया अतीवावश्यकता वर्तते। यस्मिन् देशे एकताया अभावः भवति सः देश निजस्वातन्त्र्यं रक्षितुं नैव प्रभवति। यस्मिन् देशे समाजे वो एकताऽस्ति स एव देशः सकल देशाग्रणी भवति। यत्रैकता भवति तत्र सुखशान्तिसमृद्धयः जायन्ते, यत्र नैकता तत्र न समृद्धिः। संसारे प्राचीनकालात एव एकतायाः माहात्म्यं गीतम्। श्रुतौ स्मृतौ च एकतायाः महिमा वर्णितो वर्तते। ऋग्वेदेऽपि एकतायाः महत्त्वं प्रतिपादितमस्ति। सर्वे जनाः एकत्वभावनया प्रेरिताः भवेयुः। तेषां विचाराः गमनं भाषणं मनांसि संकल्पाश्चैकत्वभावनया युक्ताः स्युः। एवं संसारे सुखं शान्तिश्च भवितुमर्हति।।
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. एकतायाः महिमा कुत्र वर्णितः अस्ति?
3. एकतायाः के लाभा: सन्ति?
4. संसारे कस्याः आवश्यकता अस्ति?
5. गद्यांशात् अन्विष्य ‘शक्तिमान् इति पदस्य पर्यायवाचिनं पदं लिखत।
6. अनेकता’ इति पदस्य गद्यांशात् अन्विष्य विलोमपदं लिखत।।
7. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तर:
1. एकतायाः महत्वम्।
2. एकतायाः महिमा श्रुतौ स्मृतौ च वर्णिता वर्तते।
3. एकताया मानवः बलवान् भवति, देशः समाजः लोकश्च उन्नति-पथम् आरोहति।
4. संसारे अद्यत्वे एकतायाः महती आवश्यकता अस्ति।
5. बलवान्।
6. ‘एकता’ इति अनेकताया: विलोम पदम्।
7. एकतायाः मानवः देशश्च शक्तिं, उन्नति, समृद्धिं, सुखं शान्तिं, रक्षणसामर्थ्य, अग्रगण्यतां च लभते। एकतायाः माहात्म्यं वेदेषु, स्मृतिसु च वर्णितम्।
2. सतां संगतिः सत्संगतिः कथ्यते। सतां संगत्या जनः सज्जनः विनम्रः शिष्टश्च भवति असतां च संगत्या स एवं दुर्जनो जायते। मनुष्यः यादृशैः जनैः संगतिं करोति, यादृशैः जनैः सह उपविशति निवसति खादति पिबति च स तादृश एव संपद्यते। अत एवोच्यते-संसर्गजा दोषगुणाः भवन्ति। सत्संगत्या मनुष्यः उन्नतिपथं प्रयाति। संगत्याः प्रबलः प्रभावो भवति। बालकस्य मस्तिष्कम् अपरिपक्वं मनः कोमलं च भवति। स यादृशैः बालकैः सह वसति, तादृश एव जायते। असज्जनानां संगत्या बहूनि कष्टानि आगच्छन्ति यशो विनश्यति, सर्वत्रानादरः जायते। अतः सर्वैरपि असतां संगः हेयः सत्संगतिश्च सततं संसेव्या। सद्धिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्। सद्भिर्विवादं मैत्री च नासद्भिः किञ्चिदाचरेत्॥
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. सतां सङ्गतिः किं कथ्यते?
3. सत्सङ्गत्या जनः कीदृशः भवति?
4. मनुष्यः कथं उन्नतिपथं प्रयाति?
5. असज्जनानां सङ्गत्या का हानि:?
6. सङ्गत्याः कः प्रभावः भवति?
7. सज्जनः’ इति पदस्य गद्यांशात् अन्विष्य विलोमपदं लिखत।
8. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तर:
1. सत्सङ्गति:/संसर्गजा दोष-गुणाः भवन्ति।
2. सत्सङ्गति:/सतांसङ्गतिः सत्सङ्गतिः कथ्यते।
3. सत्सङ्गत्या जन:विनम्रः शिष्टः सज्जनः च भवति।
4. सत्सङ्गत्या मनुष्यः उन्नति पथं प्रयाति।
5. असज्जनानां संगत्या मनुष्यः दुर्जनः भवति।
6. सङ्गत्याः प्रबलः प्रभावो भवति। यः यादृशैः सहतिष्ठति सः तादृशः एव भवति।
7. दुर्जनः
8. सत्सङ्गत्या मनुष्यः सज्जनः विनम्रः शिष्टः च भवति। असज्जनानां संगत्या दुर्जनः भवति। यतः संसर्गजा एव दोष-गुणाः भवन्ति। सत्सङ्गत्या मनुष्यः उन्नतिं प्राप्नोति। बालकस्य कोमलं मन:अपरिपक्वं मस्तिष्क च शीघ्रमेव प्रभावितं करोति। अतः असज्जनानां संगति: सर्वदा त्याज्या।
3. अस्माकं देशे षड् ऋतवः नवचेतनासञ्चारणाय समायान्ति। वसन्तः ऋतूनां राजा कथ्यते। चैत्रवैशाखोपेतः ऋतुराजो वसन्तः समशीतोष्णः सुखदश्च भवति। वसन्ते न तु भीषणशिशिरस्य शैत्यं नापि प्रचण्डस्य ग्रीष्मस्य तीव्रतापोऽनुभूयतेकालोऽयमति सुखकरः प्रतिभाति। वसन्ते सर्वत्र सौन्दर्यस्याभिनवं साम्राज्यं राराजते। सर्वे प्राणिनः सुखमनुभवन्ति। उद्यानेषु कुसुमानां शोभा, फलानां समृद्धिः, क्षेत्रेषु च सस्यसम्पत्तिः दृश्यते। विमलासु चैत्रक्षपासु प्रोज्ज्वलः प्रकाशः रमणीयतामातनोति। सरोवराणां सरितां च सुषमा दर्शनीया। सर्वत्र सलिलं प्रसन्नम् कमलानि च विकसितानि भवन्ति। यत्र यत्र विहगानां सुमनोहरः कलरवः श्रूयते। मन्दं मन्दं नुदति पवनश्चानुकूलः। वृक्षेषु नवपत्रांणि दृश्यन्ते कोकिलाश्च मधुरं कूजन्ति। एवं प्रकारेण सर्वं मधुरमिवाभाति वसन्ते।।
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. अस्माकं देशे कति ऋतवः भवन्ति?
3. ऋतुराजा कः कथ्यते?
4. वसन्ते केषां कलरवः श्रूयते?
5. वसन्तकालः कीदृशः भवति?
6. चैत्र मासस्य दृश्यं कीदृशं भवति?
7. गद्यांशात् ‘शनैः शनैः’ इति पदस्य पर्यायवाचिनं अन्विष्य लिखत।
8. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तर:
1. ऋतुराज वसन्तः।
2. अस्माकं देशे षड्ऋतवः भवन्ति।
3. वसन्तः ऋतुराजः कथ्यते।
4. वसन्ते यत्र-तत्र खगानां सुमनोहरः कलरवः श्रूयते।
5. ऋतुराज: वसन्तः समशीतोष्णः सुखदश्च भवति।
6. चैत्रमासे विमलासु रात्रिसु प्रोज्ज्वल: प्रकाशः रमणीयतामातनोति।
7.मन्दं मन्दम्।
8. भारते षड् ऋतवः भवन्ति। वसन्तः तेषु सुखदः समशीतोष्णश्च। पुष्पाणां फलानां नवपल्लवानां च समृद्धिः दृश्यते। रात्रौ प्रकाशः रमणीयः सलिलं प्रसन्नं, प्रकाशः उज्ज्वलः, कमलानि च विकसितानि भवन्ति। खगाः कूजन्ति, पवनः अनुकूलः नुदति पिकाः च मधुरं गायन्ति।
4. ज्ञानार्थकविद्-धातोः विद्याशब्दः निष्पन्नः भवति। कस्यचिदपि पदार्थस्य सम्यक् ज्ञानं विद्येति कथ्यते। वयं विद्यया स्वकर्त्तव्यं जानीमः। कर्त्तव्याकर्त्तव्ययोः ज्ञानमपि विद्यया एव भवति। विद्यया एव मानवः सर्वत्र प्रतिष्ठां प्राप्नोति। विद्या मानवस्य सदा बन्धुवत् सहायतां करोति।
मातेव रक्षति पितेव हितकार्ये नियोजयति।
विद्या मानवस्य दिक्षु कीर्ति विस्तारयति।।
चतुवर्गफलप्राप्तिरपि विद्यया एव संभवति। विद्याधनमेव संसारे श्रेष्ठं धनं वर्तते। विद्याधनस्येदं वैशिष्ट्यं वर्तते यत् अन्यत् सर्वं धनं व्ययतो क्षयं गच्छति, परं विद्याधनं व्ययात् वृद्धि गच्छति, सञ्चयात् च नाशं प्राप्नोति। अत एवोक्तं केनचित् कविना
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. विद्या किं-किं करोति।।
3. विद्याधनस्य किं वैशिष्ट्यमस्ति?
4. कर्तव्याकर्त्तव्यस्य ज्ञानं केन एव भवति?
5. कस्याः कोश: अपूर्वः वर्तते?
6. विद्याशब्द: कस्मात् धातो: निष्पन्नः भवति?
7. चतुर्वर्गफलप्राप्तिरपि विद्यया एवं संभवति’ इत्यस्मिन् वाक्ये कर्तृपदम् किम्?
8. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तर:
1. विद्या।
2. विद्या मातेव रक्षति, पितेव हितकार्ये नियोजति मानवस्य कीर्तिं च दिक्षु विस्तारयति।
3. विद्याधनं व्ययात् वृद्धिं याति सञ्चयात् च नाशं प्राप्नोति।
4. कर्तव्याकर्त्तव्यस्य ज्ञानं विद्यया एव भवति।
5. विद्यायाः (भारत्याः) कोशः अपूर्वः वर्तते।
6. विद्या शब्द: ज्ञानार्थकं विद् ‘धातोः निष्पन्नः भवति।
7. अत्र चतुर्वर्गफलप्राप्ति’ इति पदमेव कर्तृपदम्। (यहाँ ‘चतुर्वर्गफलप्राप्ति’ पद ही कर्तृ पद है।)
8. पदार्थस्य सम्यक् ज्ञानं एवं विद्या भवति। विद्यया मनुष्य विवेकशीलः भवति, प्रतिष्ठां प्राप्नोति च। विद्या मातेव रक्षति. पितेव हिते नियोजयति, कीर्ति तनोति, व्ययतो अपि वर्धते। संचयात् च क्षयम् याति।
5. परेषामुपकारः परोपकारः कथ्यते। अन्य प्राणिनां हिताय यत्किञ्चित् क्रियते सहायता वा दीयते तत सर्वं परोपकारपदेन व्यवह्रियते। शास्त्रेषु परोकारस्य बहु महत्त्वं प्रतिपादितमस्ति। परोपकारेण संसारस्य कल्याणं जायते मानवानां सुखं शान्तिश्च वर्धते। यः खलु परोपकारं करोति तस्य मानसं पवित्रं विनयसम्पन्नं सदयं सरसं च भवति। परोपकारिणः अन्येषां कष्टं स्वकीयं कष्टं मत्त्वा तन्नाशाय प्रयत्नं कुर्वन्ति। न केवलं मनुष्ये एव पशुपक्षिवृक्षादिषु अपि परोपकारभावना विद्यते। स्वार्थरहितः पवनः रात्रिन्दिवं वाति। स्वार्थहीनः भास्करः सततं प्रकाशते। गावः परोपकाराय अमृतोपमं दुग्धं ददति। परोपकारपराः वृक्षाः ओषधयश्च प्रतिदिनं छायाप्रदानेन रोगापनयनेन स्वापकारिणमपि उपकुर्वन्ति। परोपकारः सर्वेषामुपदेशानां सारभूतः। अतोऽस्माभिः सर्वदा परोपकारः करणीयः।
अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्॥
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. पुराणा: कति सन्ति?
3. परोपकारिणः किं कुर्वन्ति?
4. वृक्षाः ओषधयश्च किं कुर्वन्ति?
5. “परोपकारः पुण्याय पापाय परपीडनम्’ इति कस्य वचनमस्ति?
6. गद्यांशात् ‘धेनवः’ इति पदस्य पर्यायवाचिनं चित्वा लिखत।
7. परोपकार इति पदेन किं-किं व्यवह्रियते?
8. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।।
उत्तर:
1. परोपकारः।
2. पुराणाः अष्टादश सन्ति।
3. परोपकारिणः अन्येषां कष्टं स्वकीयं कष्टं मत्वा तन्निवारणाय प्रयत्नं कुर्वन्ति।
4. परोपकारपरा: वृक्षाः ओषधयश्च प्रतिदिनं छायाप्रदानेन रोगापनयनेन स्वापकारिणमपि उपकुर्वन्ति।
5. परोपकारः पुण्याय पापाय परपीडनम्’ इति व्यासस्य वचनम् अस्ति।
6. ‘धेनवः’ पदस्य पर्यायवाचिपदम ‘गाव:’ (गो) इति पदम्।
7. अन्य प्राणिनां हिताय यत्किञ्चित् क्रियते सहायता वा दीयते तत् सर्वं परोपकारपदेन व्ययहियते। 8. परेषां हिताय यत् क्रियते तत् परोपकारः। परोपकारेण संसारस्य कल्याणं जायते, मानवानां सुख शान्तिं च भवति। प्रकृतिः एषा परोपकार रताः वर्तते। पवनः, सूर्यः, वृक्षाः, औषधयः, गावः इत्यादयः सर्वे नि:स्वार्थरूपेण परोपकारनिरताः सन्ति। परोपकारात् पुण्य: भवति।
6. गौरेकः परमः सात्विकः प्राणी। मानवजीवनस्य नास्ति कोऽपि भागः यत्र गोभिरुपकारो न विधीयते। यथा माता पुत्रं पालयति पोषयति तथैव गौरपि पालयति पोषयति स्वदुग्धादिना मनुजान्। तृणानि चरित्वाऽमृतमयं दुग्धं ददाति मानवेभ्यः। अस्या वत्साः बलीवर्दा भूत्वा हलेषु शकटीषु शकटेषु च युज्यन्ते विविधकृषिकर्मसु चोपयुज्यन्ते। कृषिप्रधानस्य भारतवर्षस्य तु सर्वस्वं गाव एव वैज्ञानिकैः परीक्ष्येदं निर्णीतं यद् गोदुग्धे तानि सर्वाण्यपि तत्त्वानि सन्ति यानि मानवजीवनाय परमोपयोगीनि यानि च मानवस्य भोजने अपेक्ष्यन्ते। आयुर्वेदशास्त्रे तु गोदुग्धस्य सर्वदुग्धेभ्यः उत्तमता औषधिस्वरूपता चगव्यं दधि नवनीतं घृतं चापि प्रशस्यतरं मन्यते। गव्यं घृतं बलं ददाति, अग्निमान्द्यं हरति, त्रिदोशं नाशयति, मेधां लावण्यं कान्तिं तेज ओज च वर्धयतिं, आयुष्करं परमरसायनं चास्ति। गवां पयो-दधि-घृत-मूत्रगोमयं पञ्चगव्यं विविधशारीरिकरोगाणां परमं शोधकं निवारकञ्चौषधमस्ति।
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. गौः कीदृशः प्राणी वर्तते?
3. गोवत्सा: केषु कार्येषु प्रयुज्यंते?
4. गोदुग्धस्य किं वैशिष्ट्यमस्ति?
5. गोघृतस्य के लाभाः सन्ति?।
6. पञ्चगव्यं किं भवति?
7. विविधशारीरिक रोगाणां शोधकं निवारकं च औषधं किमस्ति?
8. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।।
उत्तर:
1. गौः।
2. गौः सात्विकः प्राणी वर्तते।
3. गोवत्साः बलीवर्दाः भूत्वा हलेषु शकटीषु शकटेषु च युज्यन्ते विविध कृषि कर्मषु चोपयुज्यन्ते।
4. गोदुग्धे तानि सर्वाणि अपि तत्त्वानि सन्ति यानि च मानवस्य भोजने अपेक्ष्यन्ते।
5. गव्यं घृतं बलं ददाति, अग्निमान्द्यं हरति, त्रिदोषं नाशयति, मेधां, लावण्यं कान्तिं, तेज, ओजश्च वर्धयति, आयुष्करे परम रसायनं चास्ति।
6. गवां पयः, दधि, घृतं, मूत्रं गोमयं च पञ्चगव्यं कथ्यते।
7. विविध शारीरिक रोगाणां शोधकं निवारकं औषध पञ्चगव्यं भवति। 8. गौः सात्विक: प्राणी। मानवान्। वत्सान् इव पालयति। कृषिकर्मणि अस्य महदुपयोगः। वैज्ञानिक दृष्ट्या अस्याः दुग्धे सर्वोण्यपेक्षितानि तत्वानि सन्ति। अस्य दुग्धं, दधि, घृतं, मूत्र, गोमयं चापि औषधीयानि हितकरानि च। सर्वाणि गव्यानि मानवस्य रोगानि हृत्वा, त्रिदोषं च हत्वा तस्य बलं, जठराग्नि, मेधां, लावण्यं कान्तिं, तेज ओजं: च वर्धयन्ति।
7. मानवजीवनस्य साफल्यं त्यागेनैव भवितुमर्हति, न तु भोगेन। पाश्चात्त्या संस्कृतिर्हि सर्वथा उपभोगसंस्कृतिः सर्वान् भोगमेव शिक्षयति। भारतीया संस्कृतिस्तु सर्वथा आध्यात्मिकी, भोगस्थाने योगमेव शिक्षयति। पाश्चात्त्या सभ्यता खलु परेषां भागमपहर्तुमपि संकोचं न अनुभवति। भारतीयसभ्यता पुनः परेषाम् उपकाराय निजस्वार्थान् त्यक्तुं प्रेरयति। त्यागो हि अस्या एको महामन्त्रः येन विश्वकल्याणं भवितुमर्हति। भारतीया हि संस्कृतिः परेषां कल्याणं मनुते, परेषां कार्यसिद्धये स्वकीयस्वार्थत्यागः करणीय इति उपदिशति इयमेव त्यागभावना गीतायामपि प्रकटिता। वैदिकमहर्षिभिस्तु बहुकालं पूर्वमेव त्यागस्य महिमा उद्घोषित:-तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्।।
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. भारतीया संस्कृतिः किं शिक्षयंति?
3. मानवजीवनस्य साफल्यं केन भवति?
4. भारतीयसभ्यता किं कर्तुं प्रेरयति?
5. भारतीयसंस्कृतिः किम् उपदिशति?
6. ‘तेन त्यक्तेन भुञ्जीथाः’ इति वचनं कुत्र लिखितमस्ति?
7. गीतायां का भावना प्रकटिता?
8. उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तर:
1. भारतीया संस्कृतिः।
2. भारतीया संस्कृतिः सर्वथा आध्यात्मिकी, भोगस्थाने योग शिक्षयति।
3. मानवजीवनस्य साफल्यं त्यागेन एव भवति।
4. भारतीय सभ्यता परोपकाराय स्वार्थ-त्यागाय च प्रेरयति।
5. भारतीय-संस्कृतिः परेषां कल्याणं मनुते, परेषां कार्यसिद्धये ‘स्वार्थत्याग: करणीयः’ इति उपदिशति।
6. ‘तेन त्यक्तेन भुञ्जीथाः’ इति वाक्यं ईशोपनिषदि लिखितम्।
7. गीतायां त्यागस्य भावना प्रकटिता।
8. भारतीय-संस्कृति: आध्यात्मिकी, भोगस्थाने योगं शिक्षयति। भारतीय संस्कृतिः परोपकारं श्रेष्ठ मनुते अत: त्याग भावनोपता अस्ति।
8. सताम् आचारः सदाचारः कथ्यते। सत्पुरुषाः
स्वानीन्द्रियाणि वशीकृत्य परस्परं व्यवहरन्ति। ते सत्यं वदन्ति, गुरुजनान् वृद्धांश्च अभिवादयन्ति, तेषामाज्ञां पालयन्ति, सत्कर्मणि एव प्रवर्तन्ते। सदाचरणेन
सदाचारिणः विनीताः बुद्धिमन्तश्च जायन्ते सदाचरणेन अन्त:करणं शुद्धं जायते। सदाचरणेन सांसारिकी व्यवस्था, मनुष्यस्य वैयक्तिकं जीवनं च सर्वोत्कृष्टं भवितुमर्हति। मनुष्यः सामाजिक प्राणी वर्तते। तस्य जीवनं समाजाश्रितमस्ति। सदाचारेणैव मानवाः ब्रह्मचारिणः भवन्ति, सदाचरणेन तेषां बुद्धिः शुध्यति, स मनसापि पापानि न चिन्तयति। स सदैव समाजस्य देशस्य वा हिताय कार्यं करोति। सदाचारिणः सर्वत्रैव आदरं प्राप्नुवन्ति।
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. सदाचारः कः उच्यते?
3. मनुष्यः कीदृशः प्राणी वर्तते?
4. सदाचारिणः किं कुर्वन्ति?
5. सदाचारेण मानवः कीदृशः भवति?”
6. के सर्वत्र आदरं प्राप्नुवन्ति?
7. ‘दुराचारः’ इति पदस्य गद्यांशात् अन्विष्य विलोमपदं लिखत।
8. गद्यांशात् ‘मति’ इति पदस्य पर्यायवाचिनं पदं चित्वा लिखत।
9. उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।।
उत्तर:
1. सदाचारः।
2. सताम् आचारः सदाचार: उच्यते।
3. मनुष्यः सामाजिक प्राणी वर्तते।
4. सदाचारिणः विनीताः, बुद्धिमन्तः, च जायन्ते सदाचारेण अन्त:करणं शुद्धं जायते।
5. सदाचारेण एव मानवा ब्रह्मचारिणः भवन्ति सदाचारणेन तेषां बुद्धिः शुध्यति, स मनसापि पापानि न चिन्तयति।
6. सदाचारिणः सर्वत्रैव आदरं प्राप्नुवन्ति।
7. सदाचारः।
8. बुद्धिः।
9. सदाचारी मनुष्यः इन्द्रियाणि वशीकृत्य परस्परं व्यवहरति, सत्यं वदति, विनम्र: बुद्धिमान् च भवति, अन्त:करणं शुद्धं भवति सदाचारणेन सांसारिकी व्यवस्था, व्यक्तिगत जीवनम् च उत्कृष्टं भवति। अनेन एव मानवः ब्रह्मचारी भवति, बुद्धिः शुध्यति सः देशस्य समाजस्य हिताय कार्यं करोति।
9. जीवने शिक्षायाः महत्त्वं सुविदितमेव। अतः स्त्रीणां कृते अपि शिक्षायाः परमावश्यकता वर्तते। सा तदैव सुगृहिणी भवितुमर्हति यदा सुशिक्षिता स्यात्। सुशिक्षया एव सा। परिवारस्य समाजस्य राष्ट्रस्य च हितं विधातुं समर्था। भवति। यद्यपि लोकतन्त्रात्मके शासने स्त्रीणां कृतेऽपि शिक्षायाः समानाधिकारोऽस्ति तथापि सर्वाः स्त्रियः शिक्षा न प्राप्नुवन्ति इति कष्टकरम्। स्त्रीशिक्षाविषये बालकानामिव बालिकानां शिक्षणे अभिभावकानां जागरणं नास्ति। अनेन कारणेन बहवः जनाः अद्यापि स्त्रीशिक्षां न स्वीकुर्वन्ति, ते शिक्षणार्थं स्वबालिकाः विद्यालयेषु नैव प्रवेशयन्ति। अतः स्त्रीशिक्षाविषये अद्यापि समाजे जनजागरणमावश्यकम्। गृहस्य सुशिक्षिता बालिका कुलद्वयमुपकरोति। सा सुशिक्षिता सद्-गृहिणी गृहस्वामिनी वा भवति, सैव मातृभूता सदवंशं सन्नागरिकं च निर्मातुं प्रभवति। सुशिक्षिता स्त्री एव समाजे संस्काराणां सद्गुणानां च संस्थापनां कर्तुं शक्नोति। अतः समाजे राष्ट्रेच स्त्रीणां गौरववर्धनाय स्त्रीशिक्षा अवश्यमेव दातव्या।।
प्रश्न
1. अस्य गद्यांशस्य समुचित शीर्षकं लिखत।।
2. कस्मिन् विषये अद्यापि जनजागरणम् आवश्यकम्।
3. स्त्री सुगृहिणी कदा भवितुमर्हति?
4. अत्र किं कष्टकरमुक्तम्?
5. सुशिक्षिया किं भवति?
6. का सन्नागरिकं निर्मातुं प्रभवति?
7. गद्यांशात् ‘सक्षमा’ इति पदस्य पर्यायवाचिनं चित्वा लिखत।
8. उपर्युक्त गद्यांशस्य संक्षिप्तीकरणं कुरुत।
उत्तर:
1. स्त्री-शिक्षायाः महत्वम्।
2. स्त्री-शिक्षा-विषये अद्यापि समाजे जनजागरणम् आवश्यकम्।
3. सा तदैव सुगृहिणी भवितुम् अर्हति यदा सुशिक्षिता स्यात्।
4. स्त्रीणां कृते शिक्षायाः समानाधिकारोऽस्ति तथापि सर्वाः स्त्रियः शिक्षां न प्राप्नुवन्ति इति कष्टकरणम्।
5. सुशिक्षया एव स्त्री परिवारस्य समाजस्य राष्ट्रस्य च हितं विधातुं समर्था भवति। 6. बालिका मातृभूता सदवंश सन्नागरिकं च निर्मातुं प्रभवति।
7. समर्था।
8. स्त्रीशिक्षायाः परमावश्यकता वर्तते। सुशिक्षिता स्त्री एवं सुगृहिणी, सन्माता च भवितुं शक्नोति। समानाधिकारे सति अपि स्त्रियः न पठन्ति न च अभिभावको: बालिका विद्यालयं प्रेषयन्ति इति कष्टकरः। अत: अस्मिन् विषये जनजागरणं परमावश्यकम् अस्ति। शिक्षिता स्त्री एव सवंशं, सन्नागरिकं सद्राष्टुं सत्समाजं च निर्मातुं शक्तुवन्ति। तं गौरवं वर्धनाय ताः पठनाय प्रेषणीयाः।।
10. राजस्थाने अजयमेरुनगरसमीपे प्रसिद्ध पुष्करतीर्थस्थलं वर्तते। पुराणेषु पुष्करतीर्थस्य बहुमहत्त्वं वर्णितमस्ति। अत्र भगवतः ब्रह्मणः विश्वप्रसिद्धमन्दिरमस्ति। विश्वे पुष्करनगरे एव पुरातनं ब्रह्मणः मन्दिरं वर्तते। प्राचीनवराहमन्दिरम् अपि पुष्करे अस्ति। अत्र बहूनि अन्यानि मन्दिराणि अपि सन्ति। पुष्पनगरं परितः पर्वताः सन्ति, मध्ये च विस्तृतं पवित्रं पुष्करसरोवरं वर्तते। सरोवरस्य तटे एवं नगरमवस्थितमस्ति। अत्र प्रतिवर्ष कार्तिकमासस्य पूर्णिमायां तिथौ मेला भवति। अत्र बहवः पर्यटकाः आगच्छन्ति। पर्यटनदृष्टया, धार्मिकदृष्ट्या, सांस्कृतिकदृष्ट्या च पुष्करस्य बहुमहत्त्वमस्ति। पुष्करक्षेत्रे पुरा अनेके ऋषयः तपः आचरितवन्तः, तेषु प्रमुखाः सन्ति-विश्वामित्रः अगस्त्यः मार्कण्डेयः वामदेवः जमदग्निः गौतमश्च। अतएव जनाः पुष्करतीर्थस्य दर्शनमभिलषन्ति।
प्रश्न
1. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
2. पुष्करतीर्थस्थलं कुत्रे वर्तते?।
3. पुष्करनगरे मेला कदा भवति?
4. पुष्करक्षेत्रे के तपः आचरितवन्तः?
5. भगवतः ब्रह्मण: मन्दिरं कुत्र वर्तते?
6. पुराणेषु कस्य तीर्थस्य महत्त्वं वर्णितमस्ति?
7. गद्यांशात् ‘तडागः’ इति पदस्य पर्यायवाचिनं चित्वा लिखत।
8. उपर्युक्तगद्यांशस्य संक्षिप्तीकरणं कुरुत।।
उत्तर:
1. तीर्थराज पुष्करः।
2. पुष्करतीर्थस्थलं राजस्थाने अजयमेरु नगरस्य समीपे वर्तते।
3. पुष्करनगरे प्रतिवर्ष कार्तिक मासस्य पूर्णिमायां तिथौ मेला भवति।
4. पुष्कर मेले पुरा अनेके ऋषय: तपः आचरन्ति स्म।
5. भगवत: ब्रह्मणः मन्दिरं पुष्करतीर्थे अस्ति।
6. पुराणेषु पुष्करतीर्थस्य बहुमहत्वं वर्णितमस्ति।
7. सरोवरः।
8. पुष्करतीर्थस्थले भगवतः ब्रह्मणः विश्वविश्रुतं मन्दिरम् अस्ति। वराहादीनि अन्यानि मन्दिराणि अपि सन्ति। पर्वत श्रृंखलामध्ये पवित्रं पुष्कर सरोवरस्य तटे च नगरमास्ति। अत्र मेला अपि भवति। अत्र अनेके ऋषय: तपः आचरितवन्तः।